रसेन्द्रचूडामणिRasendracūḍāmaṇi
RCūM, 12
Select a line for its word-by-word analysis.
जेwएल्स्माणिक्यमुक्ताफलविद्रुमाणि तार्क्ष्यं च पुष्पं भिदुरं च नीलम् । (१।१)
jewelsmāṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam |
गोमेदकं चाथ विदूरकं च क्रमेण रत्नानि नवग्रहाणाम् ॥ (१।२)
gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām ||
ग्रहानुमैत्र्या कुरुविन्दपुष्पप्रवालमुक्ताफलतार्क्ष्यवज्रम् । (२।१)
grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram |
नीलाख्यगोमेदविदूरकं च क्रमेण मुद्राधृतमिष्टसिद्ध्यै ॥ (२।२)
nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai ||
सुलक्ष्माणि सुजातीनि रत्नान्युक्तानि सिद्धये ॥ (३।२)
sulakṣmāṇi sujātīni ratnānyuktāni siddhaye ||
रुब्य्:: सुब्त्य्पेस्माणिक्यं पद्मरागाख्यं द्वितीयं नीलगन्धि च । (४।१)
ruby:: subtypesmāṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca |
रुब्य्:: परीक्षा:: गोओद् क़ुअलित्य्शीतं कुशेशयच्छायं स्वच्छं स्निग्धं गुरु स्फुटम् ॥ (४।२)
ruby:: parīkṣā:: good qualityśītaṃ kuśeśayacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam ||
वृत्तायत्तं समगात्रं माणिक्यं श्रेष्ठमुच्यते । (५।१)
vṛttāyattaṃ samagātraṃ māṇikyaṃ śreṣṭhamucyate |
नीलगन्धि:: परीक्षानीलं गङ्गाम्बुसम्भूतं नीलगर्भारुणच्छवि । (५।२)
nīlagandhi:: parīkṣānīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi |
पूर्वमाणिक्यवच्छ्रेष्ठं माणिक्यं नीलगन्धि तत् ॥ (५।३)
pūrvamāṇikyavacchreṣṭhaṃ māṇikyaṃ nīlagandhi tat ||
रुब्य्:: परीक्षा:: बद् क़ुअलित्य्रन्ध्रकार्कश्यमालिन्यरौक्ष्यवैशद्यसंयुतम् । (६।१)
ruby:: parīkṣā:: bad qualityrandhrakārkaśyamālinyaraukṣyavaiśadyasaṃyutam |
चिपिटं लघु वक्रं च माणिक्यं दुष्टम् अष्टधा ॥ (६।२)
cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭam aṣṭadhā ||
रुब्य्:: मेदिच्। प्रोपेर्तिएस्माणिक्यं दीपनं वृष्यं कफवातक्षयार्तिहृत् । (७।१)
ruby:: medic. propertiesmāṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt |
मौक्तिक:: परीक्षा:: गोओद् क़ुअलित्य्ह्लादि श्वेतं लघु स्निग्धं रश्मिवन्निर्मलं महत् । (८।१)
mauktika:: parīkṣā:: good qualityhlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat |
ख्यातं तोयप्रभं वृत्तं मौक्तिकं नवधा शुभम् ॥ (८।२)
khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham ||
मौक्तिक:: परीक्षा:: बद् क़ुअलित्य्रूक्षाङ्गं निर्जलं श्यामं ताम्राभं लवणोपमम् । (९।१)
mauktika:: parīkṣā:: bad qualityrūkṣāṅgaṃ nirjalaṃ śyāmaṃ tāmrābhaṃ lavaṇopamam |
अर्धशुभ्रं च विकटं ग्रन्थिलं मौक्तिकं त्यजेत् ॥ (९।२)
ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet ||
पेअर्ल्:: मेदिच्। प्रोपेर्तिएस्कफपित्तक्षयध्वंसि कासश्वासाग्निमान्द्यनुत् । (१०।१)
pearl:: medic. propertieskaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut |
पुष्टिदं वृष्यमायुष्यं दाहघ्नं मौक्तिकं मतम् ॥ (१०।२)
puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam ||
चोरल्:: परीक्षा:: गोओद् क़ुअलित्य्पक्वबिम्बफलच्छायं वृत्तायत्तम् अवक्रकम् । (११।१)
coral:: parīkṣā:: good qualitypakvabimbaphalacchāyaṃ vṛttāyattam avakrakam |
स्निग्धम् अव्रणकं स्थूलं प्रवालं सप्तधा मतम् ॥ (११।२)
snigdham avraṇakaṃ sthūlaṃ pravālaṃ saptadhā matam ||
चोरल्:: परीक्षा:: बद् क़ुअलित्य्पाण्डुरं धूसरं रूक्षं सव्रणं कोटरान्वितम् । (१२।१)
coral:: parīkṣā:: bad qualitypāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ koṭarānvitam |
निर्भारं शुभ्रवर्णं च प्रवालं नेष्यतेऽष्टधा ॥ (१२।२)
nirbhāraṃ śubhravarṇaṃ ca pravālaṃ neṣyate'ṣṭadhā ||
चोरल्:: मेदिच्। प्रोपेर्तिएस्क्षयपित्तास्रकासघ्नं दीपनं पाचनं लघु । (१३।१)
coral:: medic. propertieskṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu |
एमेरल्द्:: परीक्षा:: गोओद् क़ुअलित्य्हरिद्वर्णं गुरु स्निग्धं स्फुरद्रश्मिचयं शुभम् । (१४।१)
emerald:: parīkṣā:: good qualityharidvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham |
मसृणं भासुरं तार्क्ष्यं गात्रं सप्तगुणं मतम् ॥ (१४।२)
masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam ||
एमेरल्द्:: परीक्षा:: बद् क़ुअलित्य्कपिशं कर्कशं नीलं पाण्डु कृष्णं सलाघवम् । (१५।१)
emerald:: parīkṣā:: bad qualitykapiśaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ salāghavam |
चिपिटं विकटं कृष्णं रूक्षं तार्क्ष्यं न शस्यते ॥ (१५।२)
cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate ||
एमेरल्द्:: मेदिच्। प्रोपेर्तिएस्ज्वरछर्दिविषश्वाससन्निपाताग्निमान्द्यनुत् । (१६।१)
emerald:: medic. propertiesjvarachardiviṣaśvāsasannipātāgnimāndyanut |
दुर्नामपाण्डुशोफघ्नं तार्क्ष्यमोजोविवर्धनम् ॥ (१६।२)
durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam ||
पुष्पराग:: परीक्षा:: गोओद् क़ुअलित्य्पुष्परागं गुरु स्निग्धं स्वच्छं स्थूलं समं मृदु । (१७।१)
puṣparāga:: parīkṣā:: good qualitypuṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu |
पुष्पराग:: परीक्षा:: बद् क़ुअलित्य्निष्प्रभं कर्कशं रूक्षं पीतं श्यामं नतोन्नतम् । (१८।१)
puṣparāga:: parīkṣā:: bad qualityniṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam |
कपिलं कपिशं पाण्डु पुष्परागं परित्यजेत् ॥ (१८।२)
kapilaṃ kapiśaṃ pāṇḍu puṣparāgaṃ parityajet ||
पुष्पराग:: मेदिच्। प्रोपेर्तिएस्पुष्परागं विषछर्दिकफवाताग्निमान्द्यनुत् । (१९।१)
puṣparāga:: medic. propertiespuṣparāgaṃ viṣachardikaphavātāgnimāndyanut |
वज्र:: सुब्त्य्पेस्:: गेन्देर्वज्रं च त्रिविधं प्रोक्तं नरो नारी नपुंसकम् । (२०।१)
vajra:: subtypes:: gendervajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam |
पूर्वं पूर्वं महाश्रेष्ठं रसवीर्यविपाकतः ॥ (२०।२)
pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ ||
वज्र:: पुंवज्रअष्टास्रं चाष्टफलकं षट्कोणम् अतिभासुरम् । (२१।१)
vajra:: puṃvajraaṣṭāsraṃ cāṣṭaphalakaṃ ṣaṭkoṇam atibhāsuram |
अम्बुदेन्द्रधनुर्वारि नरं पुंवज्रमुच्यते ॥ (२१।२)
ambudendradhanurvāri naraṃ puṃvajramucyate ||
स्त्रीवज्रतदेव चिपिटाकारं स्त्रीवज्रं वर्त्तुलायतम् । (२२।१)
strīvajratadeva cipiṭākāraṃ strīvajraṃ varttulāyatam |
नपुंसकवर्त्तुलं कुण्ठकोणाग्रं किंचिद्गुरु नपुंसकम् ॥ (२२।२)
napuṃsakavarttulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam ||
स्त्रीपुंनपुंसकं वज्रं योज्यं स्त्रीपुंनपुंसके । (२३।१)
strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake |
व्यत्यासान्नैव फलदं पुंवज्रेण विना क्वचित् ॥ (२३।२)
vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit ||
वज्र:: सुब्त्य्पेस्:: चोलोउर्श्वेतादिवर्णभेदेन तदेकैकं चतुर्विधम् । (२४।१)
vajra:: subtypes:: colourśvetādivarṇabhedena tadekaikaṃ caturvidham |
ब्रह्मक्षत्रियविट्शूद्रं स्वस्ववर्णफलप्रदम् ॥ (२४।२)
brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam ||
न्यायोऽयं भैरवेणोक्तं पदार्थेष्वखिलेष्वपि ॥ (२५।२)
nyāyo'yaṃ bhairaveṇoktaṃ padārtheṣvakhileṣvapi ||
वज्र:: मेदिच्। प्रोपेर्तिएसायुष्प्रदं झटिति सद्गुणदं च वृष्यं दोषत्रयप्रशमनं सकलामयघ्नम् । (२६।१)
vajra:: medic. propertiesāyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam |
सूतेन्द्रबन्धवधसद्गुणकृत् प्रदीपि मृत्युं जयेद् अमृतोपमयेव वज्रम् ॥ (२६।२)
sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram ||
जेwएल्स्:: पञ्चदोषग्रासस्त्रासश्च बिन्दुश्च रेखा च जलगर्भता । (२७।१)
jewels:: pañcadoṣagrāsastrāsaśca binduśca rekhā ca jalagarbhatā |
सर्वरत्नेष्वमी पञ्च दोषाः साधारणा मताः ॥ (२७।२)
sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ ||
भैरवस्तु पुनः प्राह दोषो दोषेऽस्ति सर्वथा ॥ (२८।२)
bhairavastu punaḥ prāha doṣo doṣe'sti sarvathā ||
वज्र:: शोधनकुलत्थक्वाथके स्विन्नं कोद्रवक्वथितेन वा । (२९।१)
vajra:: śodhanakulatthakvāthake svinnaṃ kodravakvathitena vā |
एकयामावधि स्विन्नं वज्रं शुध्यति निश्चितम् ॥ (२९।२)
ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam ||
वज्र:: मारणवज्रं मत्कुणरक्तेण चतुर्वारं विभावितम् । (३०।१)
vajra:: māraṇavajraṃ matkuṇarakteṇa caturvāraṃ vibhāvitam |
सुगन्धमूषिकामांसैर् वर्तितैः परिवेष्ट्य च ॥ (३०।२)
sugandhamūṣikāmāṃsair vartitaiḥ pariveṣṭya ca ||
पुटेत् पुटैर्वराहाख्यैस्त्रिंशद्वारं ततः परम् । (३१।१)
puṭet puṭairvarāhākhyaistriṃśadvāraṃ tataḥ param |
ध्मात्वा ध्मात्वा शतं वारान् कुलत्थक्वाथके क्षिपेत् ॥ (३१।२)
dhmātvā dhmātvā śataṃ vārān kulatthakvāthake kṣipet ||
अन्यैरुक्तं शतं वारान् कर्तव्योऽयं विधिक्रमः । (३२।१)
anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ |
वज्र:: मारण:: वारितरकुलत्थक्वाथसंयुक्तलकुचद्रवपिष्टया ॥ (३२।२)
vajra:: māraṇa:: vāritarakulatthakvāthasaṃyuktalakucadravapiṣṭayā ||
शिलया लिप्तमूषायां वज्रं क्षिप्त्वा निरुध्य च । (३३।१)
śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca |
अष्टवारं पुटेत् सम्यग्विशुष्कैर् वनकोत्पलैः ॥ (३३।२)
aṣṭavāraṃ puṭet samyagviśuṣkair vanakotpalaiḥ ||
शतवारं ततो ध्मात्वा निक्षिप्तं शुद्धपारदे । (३४।१)
śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade |
निश्चितं म्रियते वज्रं भस्म वारितरं भवेत् ॥ (३४।२)
niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet ||
वज्र:: मारणविलिप्तं मत्कुणस्यास्रैः सप्तवारं विशोषितम् । (३६।१)
vajra:: māraṇaviliptaṃ matkuṇasyāsraiḥ saptavāraṃ viśoṣitam |
सप्तवारं परिध्मातं वज्रभस्म भवेत् खलु । (३७।१)
saptavāraṃ paridhmātaṃ vajrabhasma bhavet khalu |
ब्रह्मज्योतिर्मुनीन्द्रेण क्रमोऽयं परिकीर्तितः ॥ (३७।२)
brahmajyotirmunīndreṇa kramo'yaṃ parikīrtitaḥ ||
वज्र:: मारणनीलज्योतिर्लताकन्दे घृष्टं घर्मे विशोषितम् । (३८।१)
vajra:: māraṇanīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam |
वज्रं भस्मत्वमायाति कर्मवज्ज्ञानवह्निना ॥ (३८।२)
vajraṃ bhasmatvamāyāti karmavajjñānavahninā ||
वज्र:: मारणमदनस्य फलोद्भूतरसेन क्षोणिनागकैः । (३९।१)
vajra:: māraṇamadanasya phalodbhūtarasena kṣoṇināgakaiḥ |
तद्वज्रं चूर्णयित्वाथ किंचिट् टङ्कणसंयुतम् ॥ (४०।०)
tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam ||
खरभूनागसत्त्वेन विंशेनावर्तयेद् ध्रुवम् । (४१।१)
kharabhūnāgasattvena viṃśenāvartayed dhruvam |
तुल्यस्वर्णेन तद्ध्मातं योजनीयं रसादिषु ॥ (४१।२)
tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu ||
वज्र:: मृत:: मेदिच्। उसेत्रिंशद्भागमितं हि वज्रभसितं स्वर्णं कलाभागिकं तारं चाष्टगुणं शिवामृतवरं रुद्रांशकं चाभ्रकम् । (४३।१)
vajra:: mṛta:: medic. usetriṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam |
पादांशं खलु ताप्यकं वसुगुणं वैक्रान्तकं षड्गुणं भागोऽप्युक्तरसाद्रसोऽयमुदितः षाड्गुण्यसंसिद्धये ॥ (४३।२)
pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye ||
सप्फिरे:: सुब्त्प्येस्जलनीलेन्द्रनीलं च शक्रनीलं तयोर्वरम् । (४४।१)
sapphire:: subtpyesjalanīlendranīlaṃ ca śakranīlaṃ tayorvaram |
जलनील:: परीक्षाश्वैत्यगर्भितनीलाभं लघु तज्जलनीलकम् । (४४।२)
jalanīla:: parīkṣāśvaityagarbhitanīlābhaṃ laghu tajjalanīlakam |
इन्द्रनील:: परीक्षाकार्ष्ण्यगर्भितनीलाभं सभारं शक्रनीलकम् ॥ (४४।३)
indranīla:: parīkṣākārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam ||
सप्फिरे:: परीक्षा:: गोओद् क़ुअलित्येकच्छायं गुरु स्निग्धं स्वच्छं पिण्डितविग्रहम् । (४५।१)
sapphire:: parīkṣā:: good qualityekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham |
मृदु मध्योल्लसज्ज्योतिः सप्तधा नीलमुत्तमम् ॥ (४५।२)
mṛdu madhyollasajjyotiḥ saptadhā nīlamuttamam ||
जलनील:: परीक्षाकोमलं विहितं वर्णं निर्भारं रक्तगन्धि च । (४६।१)
jalanīla:: parīkṣākomalaṃ vihitaṃ varṇaṃ nirbhāraṃ raktagandhi ca |
सप्फिरे:: मेदिच्। प्रोपेर्तिएस्कासश्वासहरं वृष्यं त्रिदोषघ्नं सुदीपनम् । (४७।१)
sapphire:: medic. propertieskāsaśvāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam |
गोमेद:: निरुक्तिगोमेदःसमरागत्वाद् गोमेदं रत्नमुच्यते । (४८।१)
gomeda:: niruktigomedaḥsamarāgatvād gomedaṃ ratnamucyate |
गोमेद:: परीक्षा:: गोओद् क़ुअलित्य्सुस्वच्छगोजलच्छायं स्वच्छं स्निग्धं समं गुरु । (४८।२)
gomeda:: parīkṣā:: good qualitysusvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru |
निर्दलं मसृणं दीप्तं शस्तं गोमेदमष्टधा ॥ (४८।३)
nirdalaṃ masṛṇaṃ dīptaṃ śastaṃ gomedamaṣṭadhā ||
गोमेद:: परीक्षा:: बद् क़ुअलित्य्विच्छायं लघु रूक्षाङ्गं चिपिटं पटलान्वितम् । (४९।१)
gomeda:: parīkṣā:: bad qualityvicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam |
निष्प्रभं पीतकाचाभं गोमेदं न शुभावहम् ॥ (४९।२)
niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham ||
गोमेद:: मेदिच्। प्रोपेर्तिएस्गोमेदं कफपित्तघ्नं क्षयपाण्डुक्षयंकरम् । (५०।१)
gomeda:: medic. propertiesgomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram |
दीपनं पाचनं रुच्यं त्वच्यं बुद्धिप्रबोधनम् ॥ (५०।२)
dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam ||
वैडूर्य:: परीक्षा:: गोओद् क़ुअलित्य्वैडूर्यं श्यामशुभ्राभं समं स्वच्छं गुरु स्फुटम् । (५१।१)
vaiḍūrya:: parīkṣā:: good qualityvaiḍūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam |
भ्रमच्छुभ्रोत्तरीयेण गर्भितं शुभमीरितम् ॥ (५१।२)
bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam ||
वैडूर्य:: परीक्षा:: बद् क़ुअलित्य्श्यामं तोयसमच्छायं चिपिटं लघु कर्कशम् । (५२।१)
vaiḍūrya:: parīkṣā:: bad qualityśyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam |
रक्तगर्भोत्तरीयं च वैडूर्यं नैव शस्यते ॥ (५२।२)
raktagarbhottarīyaṃ ca vaiḍūryaṃ naiva śasyate ||
वैडूर्य:: मेदिच्। प्रोपेर्तिएस्वैडूर्यं रक्तपित्तघ्नं प्रज्ञायुर्बलवर्धनम् । (५३।१)
vaiḍūrya:: medic. propertiesvaiḍūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam |
जेwएल्स्:: शोधनशुध्यत्यम्लेन माणिक्यं जयन्त्या मौक्तिकं तथा । (५४।१)
jewels:: śodhanaśudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā |
विद्रुमं क्षारवर्गेण तार्क्ष्यं गोदुग्धतस्तथा ॥ (५४।२)
vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā ||
पुष्परागं च धान्याम्लैः कुलत्थक्वाथसंयुतैः । (५५।१)
puṣparāgaṃ ca dhānyāmlaiḥ kulatthakvāthasaṃyutaiḥ |
रोचनाभिश्च गोमेदं वैडूर्यं त्रिफलाजलैः ॥ (५५।३)
rocanābhiśca gomedaṃ vaiḍūryaṃ triphalājalaiḥ ||
जेwएल्स्:: मारणलकुचद्रावसम्पिष्टैः शिलागन्धकतालकैः । (५६।१)
jewels:: māraṇalakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ |
वज्रं विनान्यरत्नानि म्रियन्तेऽष्टपुटैः खलु ॥ (५६।२)
vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu ||
जेwएल्स्:: द्रुतिरामठं पञ्चलवणं क्षाराणां त्रितयं तथा । (५७।१)
jewels:: drutirāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā |
स्थलकुम्भीफलं पक्वं तथा ज्वालामुखी शुभा । (५८।१)
sthalakumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā |
द्रवन्ती च रुदन्ती च पयस्या चित्रमूलकम् ॥ (५८।२)
dravantī ca rudantī ca payasyā citramūlakam ||
दुग्धं स्नुह्यास्तथार्कस्य सर्वं संमर्द्यं यत्नतः । (५९।१)
dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardyaṃ yatnataḥ |
गोलं विधाय तन्मध्ये प्रक्षिपेत्तदनन्तरम् ॥ (५९।२)
golaṃ vidhāya tanmadhye prakṣipettadanantaram ||
भूर्जे तं गोलकं कृत्वा सूत्रेणावेष्ट्य यत्नतः ॥ (६०।२)
bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ ||
पुनर्वस्त्रेण संवेष्ट्य दोलायन्त्रे निधाय च । (६१।१)
punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca |
तस्मादाहृत्य संक्षाल्य रत्नजां द्रुतिमाहरेत् ॥ (६२।२)
tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet ||
सुप्रसन्ने महादेवे द्रुतिः कस्य न सिध्यति ॥ (६४।२)
suprasanne mahādeve drutiḥ kasya na sidhyati ||
दुर्लभा वैष्णवी भक्तिर्दुर्लभं रसबन्धनम् । (६५।१)
durlabhā vaiṣṇavī bhaktirdurlabhaṃ rasabandhanam |
दुर्लभात्र द्रुतिर्लोके स्वल्पभाग्यवतां नृणाम् ॥ (६५।२)
durlabhātra drutirloke svalpabhāgyavatāṃ nṛṇām ||
सूर्यादिग्रहनिग्रहापहरणं दीर्घायुरारोग्यदं सौभाग्योदयभाग्यवश्यविभवोत्साहप्रदं धैर्यकृत् । (६६।१)
sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt |
दुःछायांचलधूलिसङ्गतिभवालक्ष्मीहरं सर्वदा रत्नानां परिधारणं निगदितं भूतादिनिर्णाशनम् ॥ (६६।२)
duḥchāyāṃcaladhūlisaṅgatibhavālakṣmīharaṃ sarvadā ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirṇāśanam ||
रत्नानाम् गुणग्रामं समग्रं चाग्रणीः सताम् । (६७।१)
ratnānām guṇagrāmaṃ samagraṃ cāgraṇīḥ satām |
सुरत्नमब्रवीत् सोमो नेति यद्गुणितं गुणी ॥ (६७।२)
suratnamabravīt somo neti yadguṇitaṃ guṇī ||
Data courtesy of The Digital Corpus of Sanskrit.