रसप्रकाशसुधाकरRasaprakāśasudhākara
RPSudh, 4
Select a line for its word-by-word analysis.
अनुभूतं मया किंचित्किंचित् शास्त्रानुसारतः ॥ (१।२)
anubhūtaṃ mayā kiṃcitkiṃcit śāstrānusārataḥ ||
अष्टधातवःसुवर्णं रजतं चेति शुद्धलोहमुदीरितम् । (२।१)
aṣṭadhātavaḥsuvarṇaṃ rajataṃ ceti śuddhalohamudīritam |
संमिश्रलोहं त्रितयं सौराष्ट्ररीतिवर्तकम् । (३।२)
saṃmiśralohaṃ tritayaṃ saurāṣṭrarītivartakam |
एतेऽष्टौ धातवो ज्ञेया लोहान्येवं भवन्ति हि ॥ (३।३)
ete'ṣṭau dhātavo jñeyā lohānyevaṃ bhavanti hi ||
सुवर्णभेदाःसुवर्णं द्विविधं ज्ञेयं रसजं खनिसंभवम् । (४।१)
suvarṇabhedāḥsuvarṇaṃ dvividhaṃ jñeyaṃ rasajaṃ khanisaṃbhavam |
अन्ये त्रयः सुवर्णस्य प्रकाराः सन्ति नोदिताः ॥ (४।२)
anye trayaḥ suvarṇasya prakārāḥ santi noditāḥ ||
गोल्द्:: रसजरसजं रसवेधेन जायते हेम सुन्दरं । (५।१)
gold:: rasajarasajaṃ rasavedhena jāyate hema sundaraṃ |
खनिज:: ओरिगिन्पर्वते भूमिदेशेषु खन्यमानेषु कुत्रचित् । (६।१)
khanija:: originparvate bhūmideśeṣu khanyamāneṣu kutracit |
दृश्यते खनिजं प्राज्ञैस्तच्चतुर्दशवर्णकम् ॥ (६।२)
dṛśyate khanijaṃ prājñaistaccaturdaśavarṇakam ||
गोल्द्:: शोधनरूप्यादियोगेन यदा मिश्रं स्वर्णं हि जायते । (७।१)
gold:: śodhanarūpyādiyogena yadā miśraṃ svarṇaṃ hi jāyate |
हेमकार्यं न चेत्तेन तदा शोध्यं भिषग्वरैः ॥ (७।२)
hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ ||
हीनवर्णस्य हेम्नश्च पत्राण्येव तु कारयेत् । (८।१)
hīnavarṇasya hemnaśca patrāṇyeva tu kārayet |
आरण्योत्पलकैः कार्या कोष्ठिका नातिविस्तृता ॥ (९।२)
āraṇyotpalakaiḥ kāryā koṣṭhikā nātivistṛtā ||
मध्ये तत्संपुटं मुक्त्वा वह्निं प्रज्वालयेत्ततः । (१०।१)
madhye tatsaṃpuṭaṃ muktvā vahniṃ prajvālayettataḥ |
एवं पुटत्रयं दत्त्वा शुद्धं हेम समुद्धरेत् ॥ (१०।२)
evaṃ puṭatrayaṃ dattvā śuddhaṃ hema samuddharet ||
न तु शुद्धस्य हेम्नश्च शोधनं कारयेद्भिषक् । (११।१)
na tu śuddhasya hemnaśca śodhanaṃ kārayedbhiṣak |
अन्येषामेव लोहानां शोधनं कारयेद् भिषक् ॥ (११।२)
anyeṣāmeva lohānāṃ śodhanaṃ kārayed bhiṣak ||
गोल्द्:: मारण:: निरुत्थततः स्वर्णभवं पत्रं तापितं हि विनिक्षिपेत् । (१२।१)
gold:: māraṇa:: nirutthatataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet |
ज्वालामुखीरसे षष्ठीपुटैर्भस्मीभवत्यलम् ॥ (१२।२)
jvālāmukhīrase ṣaṣṭhīpuṭairbhasmībhavatyalam ||
गुरुणा कथितं सम्यक् निरुत्थं जायते ध्रुवम् । (१३।१)
guruṇā kathitaṃ samyak nirutthaṃ jāyate dhruvam |
रोगान्हिनस्ति सकलान् नात्र कार्या विचारणा ॥ (१३।२)
rogānhinasti sakalān nātra kāryā vicāraṇā ||
गोल्द्:: मारण:: निरुत्थहेम्नः पत्राणि सूक्ष्माणि सूचिवेध्यानि कारयेत् । (१४।१)
gold:: māraṇa:: nirutthahemnaḥ patrāṇi sūkṣmāṇi sūcivedhyāni kārayet |
संपुटे च ततो रुन्ध्यात् पुटयेद्दशभिः पुटैः । (१५।१)
saṃpuṭe ca tato rundhyāt puṭayeddaśabhiḥ puṭaiḥ |
म्रियते नात्र संदेहो निरुत्थं भस्म जायते ॥ (१५।२)
mriyate nātra saṃdeho nirutthaṃ bhasma jāyate ||
गोल्द्:: मारणहेम्नः सूक्ष्मदलानि भूर्जसदृशान्यादाय संलेप्य वै । (१६।१)
gold:: māraṇahemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai |
वज्रीदुग्धकहिङ्गुहिङ्गुलसमैर् एकत्र पिष्टीकृतैः ॥ (१६।२)
vajrīdugdhakahiṅguhiṅgulasamair ekatra piṣṭīkṛtaiḥ ||
सत्यं संपुटके निधाय दशभिश्चैवं पुटैः कुक्कुटैः । (१७।१)
satyaṃ saṃpuṭake nidhāya daśabhiścaivaṃ puṭaiḥ kukkuṭaiḥ |
पाच्यं हेम च रक्तगैरिकसमं संजायते निश्चितम् ॥ (१७।२)
pācyaṃ hema ca raktagairikasamaṃ saṃjāyate niścitam ||
गोल्द्:: मारणलोहपर्पटीकाबद्धं मृतं सूतं समांशकम् । (१८।१)
gold:: māraṇalohaparpaṭīkābaddhaṃ mṛtaṃ sūtaṃ samāṃśakam |
विद्रुते हेम्नि निक्षिप्तं स्वर्णभूतिप्रभं भवेत् । (१८।२)
vidrute hemni nikṣiptaṃ svarṇabhūtiprabhaṃ bhavet |
गोल्द्:: रञ्जनतद्भस्म पुरतोयेन दरदेन समन्वितम् । (१८।३)
gold:: rañjanatadbhasma puratoyena daradena samanvitam |
मर्दयेद् दिनम् एकं तु संपुटे धारयेत्ततः ॥ (१८।४)
mardayed dinam ekaṃ tu saṃpuṭe dhārayettataḥ ||
जायते नात्र संदेहो रंजनं कुरुते ध्रुवम् । (१९।२)
jāyate nātra saṃdeho raṃjanaṃ kurute dhruvam |
गोल्द्:: मृत:: मेदिच्। प्रोपेर्तिएसेतत्स्वर्णभवं करोति च रजः सौन्दर्यतां वै सदा । (२०।१)
gold:: mṛta:: medic. propertiesetatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā |
रोगान्दैवकृतान् निहन्ति सकलान्येवं त्रिदोषोद्भवान् । (२०।२)
rogāndaivakṛtān nihanti sakalānyevaṃ tridoṣodbhavān |
यः सेवेत नरः समान् द्विदशकान् वृद्धश्च नो जायते । (२०।३)
yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate |
दोषाश्चैव गरोद्भवा विषकृता आगन्तुजा नैव हि ॥ (२०।४)
doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi ||
सिल्वेर्:: सुब्त्य्पेस्रूप्यं च त्रिविधं प्रोक्तं खनिजं सहजं तथा । (२१।१)
silver:: subtypesrūpyaṃ ca trividhaṃ proktaṃ khanijaṃ sahajaṃ tathā |
कृत्रिमं च त्रयो भेदाः कथिताः पूर्वसूरिभिः ॥ (२१।२)
kṛtrimaṃ ca trayo bhedāḥ kathitāḥ pūrvasūribhiḥ ||
सिल्वेर्:: खनिजभूधरे कुत्र चेत्प्राप्तं खन्यमाने च खनिजम् । (२२।१)
silver:: khanijabhūdhare kutra cetprāptaṃ khanyamāne ca khanijam |
सिल्वेर्:: सहजकैलासशिखराज्जातं सहजं तदुदीरितम् ॥ (२२।२)
silver:: sahajakailāsaśikharājjātaṃ sahajaṃ tadudīritam ||
सिल्वेर्:: कृत्रिमरसवेधेन यज्जातं वङ्गात्तत्कृत्रिमं मतम् । (२३।१)
silver:: kṛtrimarasavedhena yajjātaṃ vaṅgāttatkṛtrimaṃ matam |
सिल्वेर्:: शुद्ध:: परीक्षायद्रूप्यं वह्निना तप्तम् उज्ज्वलं हि विनिःसरेत् । (२३।२)
silver:: śuddha:: parīkṣāyadrūpyaṃ vahninā taptam ujjvalaṃ hi viniḥsaret |
तच्छुद्धं कलधूतं हि सर्वकार्यकरं परम् ॥ (२३।३)
tacchuddhaṃ kaladhūtaṃ hi sarvakāryakaraṃ param ||
सिल्वेर्:: शोधनताम्रादिसंसर्गभवं त्वशुद्धं रूप्यं हि मिश्रं खलु दोषलं च । (२४।१)
silver:: śodhanatāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca |
तच्छोधयेद्वै भसितस्य मूष्यां सीसेन सार्धं रजतं तु ध्मापयेत् ॥ (२४।२)
tacchodhayedvai bhasitasya mūṣyāṃ sīsena sārdhaṃ rajataṃ tu dhmāpayet ||
ताराच्च षड्गुणं नागं ध्मापयेद्यत्नतः सुधीः । (२५।१)
tārācca ṣaḍguṇaṃ nāgaṃ dhmāpayedyatnataḥ sudhīḥ |
शनैर् विधम्यमानं हि दोषशून्यं प्रजायते ॥ (२५।२)
śanair vidhamyamānaṃ hi doṣaśūnyaṃ prajāyate ||
सर्वकार्ये प्रयोक्तव्यं सर्वसिद्धिविधायकम् ॥ (२६।२)
sarvakārye prayoktavyaṃ sarvasiddhividhāyakam ||
सिल्वेर्:: मारणभागमेकं तु रजतं सूतभागचतुष्टयम् । (२७।१)
silver:: māraṇabhāgamekaṃ tu rajataṃ sūtabhāgacatuṣṭayam |
पेषणाज्जायते पिष्टीर् दिनैकेन तु निश्चितम् । (२८।१)
peṣaṇājjāyate piṣṭīr dinaikena tu niścitam |
मूषामध्ये तु तां मुक्त्वा अधोर्ध्वं गंधकं न्यसेत् ॥ (२८।२)
mūṣāmadhye tu tāṃ muktvā adhordhvaṃ gaṃdhakaṃ nyaset ||
वालुकायंत्रमध्यस्थां दिनैकं तु दृढाग्निना । (२९।१)
vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā |
पाचितां तु प्रयत्नेन स्वांगशीतलतां गताम् ॥ (२९।२)
pācitāṃ tu prayatnena svāṃgaśītalatāṃ gatām ||
अनेन विधिना सम्यक् रजतं म्रियते ध्रुवम् । (३१।१)
anena vidhinā samyak rajataṃ mriyate dhruvam |
सिल्वेर्:: मारणतारमाक्षिकयोश्चूर्णमम्लेन सह मर्दयेत् ॥ (३१।२)
silver:: māraṇatāramākṣikayoścūrṇamamlena saha mardayet ||
विंशत्पुटेन तत्तारं भूतीभवति निश्चितम् । (३२।१)
viṃśatpuṭena tattāraṃ bhūtībhavati niścitam |
सिल्वेर्:: रेपेअतेद् मारणपुटाधिक्यं हि लोहानां सम्यक् स्याद् गुणकारि च । (३२।२)
silver:: repeated māraṇapuṭādhikyaṃ hi lohānāṃ samyak syād guṇakāri ca |
रंजनं कुरुतेऽत्यर्थं रक्तं श्वेतत्वमादिशेत् ॥ (३२।३)
raṃjanaṃ kurute'tyarthaṃ raktaṃ śvetatvamādiśet ||
सिल्वेर्:: मृत:: मेदिच्। प्रोपेर्तिएस्शुद्धं भस्मीकृतं रूप्यं सारघाज्यसमन्वितम् । (३३।१)
silver:: mṛta:: medic. propertiesśuddhaṃ bhasmīkṛtaṃ rūpyaṃ sāraghājyasamanvitam |
पित्तजान् काससम्भूतान् पाण्डुजानुदराणि च । (३४।१)
pittajān kāsasambhūtān pāṇḍujānudarāṇi ca |
चोप्पेर्:: सुब्त्य्पेस्ताम्रं चापि द्विधा प्रोक्तं नेपालं म्लेच्छदेशजम् । (३५।१)
copper:: subtypestāmraṃ cāpi dvidhā proktaṃ nepālaṃ mlecchadeśajam |
नेपालदेशजाद् अन्यन्म्लेच्छं तत्कथितं बुधैः ॥ (३५।२)
nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ ||
चोप्पेर्:: शोधनसीसकेन समं ताम्रं रजतेनैव शोधयेत् । (३६।१)
copper:: śodhanasīsakena samaṃ tāmraṃ rajatenaiva śodhayet |
पश्चान्मारणकं सम्यक् कर्तव्यं रसवादिना ॥ (३६।२)
paścānmāraṇakaṃ samyak kartavyaṃ rasavādinā ||
चोप्पेर्:: मारणम्कृत्वा ताम्रस्य पत्राणि कन्यापत्रे निवेशयेत् । (३७।१)
copper:: māraṇamkṛtvā tāmrasya patrāṇi kanyāpatre niveśayet |
कुक्कुटाख्ये पुटे सम्यक् पुटयेत्तदनंतरम् ॥ (३७।२)
kukkuṭākhye puṭe samyak puṭayettadanaṃtaram ||
विमर्द्य निम्बुतोयेन तानि पत्राणि लेपयेत् ॥ (३८।२)
vimardya nimbutoyena tāni patrāṇi lepayet ||
स्थालीमध्ये निरुन्ध्याथ पचेद्यामचतुष्टयम् । (३९।१)
sthālīmadhye nirundhyātha pacedyāmacatuṣṭayam |
पञ्चदोषविनिर्मुक्तं शुल्बं तेनैव जायते ॥ (३९।२)
pañcadoṣavinirmuktaṃ śulbaṃ tenaiva jāyate ||
चोप्पेर्:: मारणरवितुल्येन बलिना सूतकेन समेन च । (४०।१)
copper:: māraṇaravitulyena balinā sūtakena samena ca |
चूर्णं कज्जलसंकाशं कारयेन्मतिमान् भिषक् ॥ (४१।०)
cūrṇaṃ kajjalasaṃkāśaṃ kārayenmatimān bhiṣak ||
स्वांगशीतं समुत्तार्य खल्वे सूक्ष्मं प्रचूर्णयेत् ॥ (४३।२)
svāṃgaśītaṃ samuttārya khalve sūkṣmaṃ pracūrṇayet ||
लेहयेन्मधुसंयुक्तम् अनुपानैर् यथोचितैः । (४४।१)
lehayenmadhusaṃyuktam anupānair yathocitaiḥ |
चोप्पेर्:: मारण (?)।सोमनाथ (?)शुद्धताम्रस्य पत्राणि कर्तव्यानि प्रयत्नतः ॥ (४४।२)
copper:: māraṇa (?)|somanātha (?)śuddhatāmrasya patrāṇi kartavyāni prayatnataḥ ||
जंबीरस्य द्रवेणाथ चूर्णं चातिद्रवीकृतम् ॥ (४७।२)
jaṃbīrasya draveṇātha cūrṇaṃ cātidravīkṛtam ||
तत्सर्वं हि शिलाभाण्डे विनिधाय प्रयत्नतः । (४८।१)
tatsarvaṃ hi śilābhāṇḍe vinidhāya prayatnataḥ |
चूर्णीकृतं तु मध्वाज्यैः कणाद्वयसमन्वितम् ॥ (४९।२)
cūrṇīkṛtaṃ tu madhvājyaiḥ kaṇādvayasamanvitam ||
चोप्पेर्:: मारणशुद्धं शुल्वं गंधकं वै समांशं पूर्वं स्थाल्यां स्थापयेद्गंधकार्धम् । (५१।१)
copper:: māraṇaśuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham |
मध्ये शुल्बं स्थापनीयं प्रयत्नात्तस्योर्ध्वं वै गंधचूर्णस्य चार्धम् ॥ (५१।२)
madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham ||
स्थालीमुखे चूर्णघटीं निवेश्य लेपं तथा सैन्धवमृत्स्नयापि । (५२।१)
sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi |
चुल्ल्यां च कुर्यादथ वह्निमेव यामत्रयेणैव सुपाचितं भवेत् ॥ (५२।२)
cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet ||
शीतीभूतं दोषहीनं तदेव कृत्वा चूर्णं गालितं वस्त्रखण्डे । (५३।१)
śītībhūtaṃ doṣahīnaṃ tadeva kṛtvā cūrṇaṃ gālitaṃ vastrakhaṇḍe |
सेव्यं सम्यक् चैकवल्लप्रमाणं कासं श्वासं हन्ति गुल्मप्रमेहान् ॥ (५३।२)
sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān ||
चोप्पेर्:: मृत:: मेदिच्। उसेवल्लम् एकं ताम्रभस्म पूर्वाह्णे भिषजाज्ञया । (५४।१)
copper:: mṛta:: medic. usevallam ekaṃ tāmrabhasma pūrvāhṇe bhiṣajājñayā |
उदरं पाण्डुशोफं च गुल्मप्लीहयकृत्क्षयान् । (५४।३)
udaraṃ pāṇḍuśophaṃ ca gulmaplīhayakṛtkṣayān |
अर्शोऽजीर्णज्वरादींश्च निहन्ति च रसायनम् । (५६।१)
arśo'jīrṇajvarādīṃśca nihanti ca rasāyanam |
इरोन्:: सुब्त्य्पेस्यथोत्तरं स्याद् गुणवर्णहीनं प्रकाशितं वैद्यवरेण सम्यक् । (५७।१)
iron:: subtypesyathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak |
कांतं तथा तीक्ष्णवरं हि मुण्डं लोहं भवेद्वै त्रिविधं क्रमेण ॥ (५७।२)
kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ lohaṃ bhavedvai trividhaṃ krameṇa ||
कान्त:: सुब्त्य्पेस्कांतं चतुर्धा किल कथ्यतेऽत्र तद्रोमकं भ्रामकचुम्बके च । (५८।१)
kānta:: subtypeskāṃtaṃ caturdhā kila kathyate'tra tadromakaṃ bhrāmakacumbake ca |
संद्रावकं श्रेष्ठतमं तथा हि संकथ्यते शास्त्रविदै रसज्ञैः ॥ (५८।२)
saṃdrāvakaṃ śreṣṭhatamaṃ tathā hi saṃkathyate śāstravidai rasajñaiḥ ||
रोमकम्खन्यां संखन्यमानायां पाषाणा निःसरन्ति ये । (५९।१)
romakamkhanyāṃ saṃkhanyamānāyāṃ pāṣāṇā niḥsaranti ye |
तेभ्यो यद्द्रावितं लोहं रोमकं तत्प्रचक्षते ॥ (५९।२)
tebhyo yaddrāvitaṃ lohaṃ romakaṃ tatpracakṣate ||
भ्रामकम्यत्र क्वापि गिरौ श्रेष्ठे लभ्यते भ्रामकोपलः । (६०।१)
bhrāmakamyatra kvāpi girau śreṣṭhe labhyate bhrāmakopalaḥ |
तस्माज्जातं तु यल्लौहं भ्रामकं तदिहोच्यते ॥ (६०।२)
tasmājjātaṃ tu yallauhaṃ bhrāmakaṃ tadihocyate ||
चुम्बकम्विंध्याचले भवेदश्मा लोहं चुम्बति चाद्भुतम् । (६१।१)
cumbakamviṃdhyācale bhavedaśmā lohaṃ cumbati cādbhutam |
द्रावकम्हिमाद्रौ लभ्यते दुःखाद् यः स्पृष्टो द्रावयेदयः । (६२।१)
drāvakamhimādrau labhyate duḥkhād yaḥ spṛṣṭo drāvayedayaḥ |
सुवर्णादींश्च तद्वद्धि तत्कांतं द्रावकं भवेत् ॥ (६२।२)
suvarṇādīṃśca tadvaddhi tatkāṃtaṃ drāvakaṃ bhavet ||
कान्त:: परीक्षा:: शुद्धशुद्धे कांतभवे पात्रे शृतं दुग्धं हि नोद्गिरेत् । (६३।१)
kānta:: parīkṣā:: śuddhaśuddhe kāṃtabhave pātre śṛtaṃ dugdhaṃ hi nodgiret |
पानीयं क्वथितं चास्मिन् हिंगुगंधसमं भवेत् ॥ (६३।२)
pānīyaṃ kvathitaṃ cāsmin hiṃgugaṃdhasamaṃ bhavet ||
तैलबिंदुर्जले क्षिप्तो न चातिप्रसृतो भवेत् । (६४।१)
tailabiṃdurjale kṣipto na cātiprasṛto bhavet |
लेपोऽपि नैव जायेत शुद्धकांतस्य लक्षणम् ॥ (६४।२)
lepo'pi naiva jāyeta śuddhakāṃtasya lakṣaṇam ||
मुंडाच्छतगुणं तीक्ष्णं तीक्ष्णात्कांतं महागुणम् । (६५।१)
muṃḍācchataguṇaṃ tīkṣṇaṃ tīkṣṇātkāṃtaṃ mahāguṇam |
कोटिसंख्यागुणं प्रोक्तं चुंबकं द्रावकं तथा ॥ (६५।२)
koṭisaṃkhyāguṇaṃ proktaṃ cuṃbakaṃ drāvakaṃ tathā ||
इरोन्:: शोधनशशरक्तेन लिप्तं हि सप्तवारेण तापितम् । (६६।१)
iron:: śodhanaśaśaraktena liptaṃ hi saptavāreṇa tāpitam |
कांतादिसर्वलोहं हि शुध्यत्येव न संशयः ॥ (६६।२)
kāṃtādisarvalohaṃ hi śudhyatyeva na saṃśayaḥ ||
इरोन्:: शोधनसामुद्रलवणैस्तद्वल्लेपितं त्रिफलाजले । (६७।१)
iron:: śodhanasāmudralavaṇaistadvallepitaṃ triphalājale |
निर्वापितं भवेच्छुद्धं सत्यं गुरुवचो यथा ॥ (६७।२)
nirvāpitaṃ bhavecchuddhaṃ satyaṃ guruvaco yathā ||
इरोन्:: मारण:: वारितरलोहचूर्णं घृताक्तं हि क्षिप्त्वा लोहस्य खर्परे । (६८।१)
iron:: māraṇa:: vāritaralohacūrṇaṃ ghṛtāktaṃ hi kṣiptvā lohasya kharpare |
अग्निवर्णप्रभं यावत्तावद्दर्व्या प्रचालयेत् ॥ (६८।२)
agnivarṇaprabhaṃ yāvattāvaddarvyā pracālayet ||
खल्वे च विपचेत्तद्वत् पञ्चवारम् अतः परम् । (६९।१)
khalve ca vipacettadvat pañcavāram ataḥ param |
वरोदकैः पुटेल्लोहं चतुर्वारम् इदं खलु ॥ (६९।२)
varodakaiḥ puṭellohaṃ caturvāram idaṃ khalu ||
इरोन्:: मारणलोहचूर्णं पलद्वंद्वं गुडगंधौ समांशकौ ॥ (७१।२)
iron:: māraṇalohacūrṇaṃ paladvaṃdvaṃ guḍagaṃdhau samāṃśakau ||
खल्वे विमर्द्य नितरां पुटेद्विंशतिवारकम् । (७२।१)
khalve vimardya nitarāṃ puṭedviṃśativārakam |
पेषणं तु प्रकर्तव्यं पुटः पश्चात्प्रदीयते ॥ (७२।२)
peṣaṇaṃ tu prakartavyaṃ puṭaḥ paścātpradīyate ||
अनेन विधिना सम्यग् भस्मीभवति निश्चितम् । (७३।१)
anena vidhinā samyag bhasmībhavati niścitam |
सर्वरोगान्निहन्त्येव नात्र कार्या विचारणा ॥ (७३।२)
sarvarogānnihantyeva nātra kāryā vicāraṇā ||
पुटास्तत्र प्रदेयाश्च सिन्दूराभं प्रजायते ॥ (७४।२)
puṭāstatra pradeyāśca sindūrābhaṃ prajāyate ||
इरोन्:: मारणअथापरः प्रकारोऽत्र कथ्यते लोहमारणे । (७५।१)
iron:: māraṇaathāparaḥ prakāro'tra kathyate lohamāraṇe |
लोहचूर्णसमं गंधं मर्दयेत्कन्यकाद्रवैः ॥ (७५।२)
lohacūrṇasamaṃ gaṃdhaṃ mardayetkanyakādravaiḥ ||
पिण्डीकृतं लोहपात्रे छायायां स्थापयेच्चिरम् । (७६।१)
piṇḍīkṛtaṃ lohapātre chāyāyāṃ sthāpayecciram |
म्रियते नात्र संदेहो ह्यनुभूतं मयैव हि ॥ (७६।२)
mriyate nātra saṃdeho hyanubhūtaṃ mayaiva hi ||
इरोन्:: भस्मन्:: मेदिच्। उसेनिरुत्थं लोहजं भस्म सेवेतात्र पुमान्सुधीः । (७७।१)
iron:: bhasman:: medic. usenirutthaṃ lohajaṃ bhasma sevetātra pumānsudhīḥ |
जरां च मरणं व्याधिं हन्यात्पुत्रप्रदायकम् । (७८।१)
jarāṃ ca maraṇaṃ vyādhiṃ hanyātputrapradāyakam |
तिन्:: सुब्त्य्पेस्बंगं तु द्विविधं प्रोक्तं खुरं मिश्रं तथैव च । (७९।१)
tin:: subtypesbaṃgaṃ tu dvividhaṃ proktaṃ khuraṃ miśraṃ tathaiva ca |
खुर:: फ्य्स्। प्रोपेर्तिएस्यच्छुद्धं सरलं शुभ्रं खुरं तदभिधीयते ॥ (७९।२)
khura:: phys. propertiesyacchuddhaṃ saralaṃ śubhraṃ khuraṃ tadabhidhīyate ||
खुर:: शोधनभल्लातकभवे तैले खुरं शुध्यति ढालितम् । (८०।१)
khura:: śodhanabhallātakabhave taile khuraṃ śudhyati ḍhālitam |
तिन्:: मिश्रक:: शोधनपुनर्नवासिन्धुचूर्णविषयुक्तं प्रढालितम् । (८०।२)
tin:: miśraka:: śodhanapunarnavāsindhucūrṇaviṣayuktaṃ praḍhālitam |
तक्रमध्ये त्रिवारं हि मिश्रं बंगं विशुध्यति ॥ (८०।३)
takramadhye trivāraṃ hi miśraṃ baṃgaṃ viśudhyati ||
तिन्:: मारणछाणोपरि कृते गर्ते चिंचात्वक्चूर्णकं क्षिपेत् । (८१।१)
tin:: māraṇachāṇopari kṛte garte ciṃcātvakcūrṇakaṃ kṣipet |
कर्षमानां बंगचक्रीं तत्रोपरि निधापयेत् ॥ (८१।२)
karṣamānāṃ baṃgacakrīṃ tatropari nidhāpayet ||
चक्रीं चतुर्गुणेनैव वेष्टितां धारयेत्ततः । (८२।१)
cakrīṃ caturguṇenaiva veṣṭitāṃ dhārayettataḥ |
स्वांगशीतं समुद्धृत्य सर्वकार्येषु योजयेत् । (८३।१)
svāṃgaśītaṃ samuddhṛtya sarvakāryeṣu yojayet |
तिन्:: मारणअथापरः प्रकारो हि वक्ष्यते चाधुना मया । (८४।१)
tin:: māraṇaathāparaḥ prakāro hi vakṣyate cādhunā mayā |
शुद्धबंगस्य पत्राणि समान्येव तु कारयेत् ॥ (८४।२)
śuddhabaṃgasya patrāṇi samānyeva tu kārayet ||
चतुरस्रम् अथो निम्नं गर्तं हस्तप्रमाणकम् ॥ (८५।२)
caturasram atho nimnaṃ gartaṃ hastapramāṇakam ||
कृत्वा छगणकैश्चार्धं पूरयेत्सततं भिषक् । (८६।१)
kṛtvā chagaṇakaiścārdhaṃ pūrayetsatataṃ bhiṣak |
ततः शणभवेनापि वस्त्रेणाच्छाद्य गर्तकम् ॥ (८६।२)
tataḥ śaṇabhavenāpi vastreṇācchādya gartakam ||
पूर्वं प्रकल्पितं चूर्णं तत्रोपरि च विन्यसेत् । (८७।१)
pūrvaṃ prakalpitaṃ cūrṇaṃ tatropari ca vinyaset |
चूर्णेनाच्छाद्य यत्नेन छगणेनाथ पूरयेत् । (८८।१)
cūrṇenācchādya yatnena chagaṇenātha pūrayet |
पुटयेदग्निना सम्यक् स्वांगशीतं समुद्धरेत् ॥ (८८।२)
puṭayedagninā samyak svāṃgaśītaṃ samuddharet ||
मृतं बंगं ततः पश्चान्मर्दयेत्पूरवारिणा । (८९।१)
mṛtaṃ baṃgaṃ tataḥ paścānmardayetpūravāriṇā |
खल्वे दृढतरं पिष्ट्वा काचकूप्यां निवेशयेत् । (९०।१)
khalve dṛḍhataraṃ piṣṭvā kācakūpyāṃ niveśayet |
तिन्:: मृत:: मेदिच्। प्रोपेर्तिएस्बंगं वातकरं रूक्षं तिक्तं मेहप्रणाशनम् । (९१।२)
tin:: mṛta:: medic. propertiesbaṃgaṃ vātakaraṃ rūkṣaṃ tiktaṃ mehapraṇāśanam |
सर्वरोगान् हरत्याशु शक्तिदायि गुणाधिकम् ॥ (९२।०)
sarvarogān haratyāśu śaktidāyi guṇādhikam ||
यथारोगबलं वीक्ष्य दातव्यं वल्लमात्रकम् । (९३।१)
yathārogabalaṃ vīkṣya dātavyaṃ vallamātrakam |
अशीतिर्वातजान् रोगान् तथा मेहांश्च विंशतिः । (९३।२)
aśītirvātajān rogān tathā mehāṃśca viṃśatiḥ |
तिन्:: मृत:: मेदिच्। प्रोपेर्तिएस्बंगं वातकरं रूक्षं प्रोक्तं मेहप्रणाशनम् । (९४।१)
tin:: mṛta:: medic. propertiesbaṃgaṃ vātakaraṃ rūkṣaṃ proktaṃ mehapraṇāśanam |
लेअद्:: परीक्षा:: गोओद् क़ुअलित्य्छेदे कृष्णं गुरु स्निग्धं द्रुतद्रावम् अथोज्ज्वलम् । (९५।१)
lead:: parīkṣā:: good qualitychede kṛṣṇaṃ guru snigdhaṃ drutadrāvam athojjvalam |
कृष्णवर्णं बहिः शुद्धं नागं हितमतोऽन्यथा ॥ (९५।२)
kṛṣṇavarṇaṃ bahiḥ śuddhaṃ nāgaṃ hitamato'nyathā ||
लेअद्:: शोधनदालयेच्च रसे नागं सिन्दुवारहरिद्रयोः । (९६।१)
lead:: śodhanadālayecca rase nāgaṃ sinduvāraharidrayoḥ |
एवं नागो विशुद्धः स्यान्मूर्च्छास्फोटादि नाचरेत् ॥ (९६।२)
evaṃ nāgo viśuddhaḥ syānmūrcchāsphoṭādi nācaret ||
लेअद्:: मारणशुद्धनागस्य पत्राणि सदलान्येव कारयेत् । (९७।१)
lead:: māraṇaśuddhanāgasya patrāṇi sadalānyeva kārayet |
पत्राण्यालेपयेत्तेन ततः संपुटके न्यसेत् । (९८।१)
patrāṇyālepayettena tataḥ saṃpuṭake nyaset |
लेअद्:: मारणअथापरप्रकारेण नागमारणकं भवेत् । (९९।१)
lead:: māraṇaathāparaprakāreṇa nāgamāraṇakaṃ bhavet |
लोहपात्रे द्रुते नागे घर्षणं तु प्रकारयेत् ॥ (९९।२)
lohapātre drute nāge gharṣaṇaṃ tu prakārayet ||
चतुर्यामं प्रयत्नेन मूलैश्चैव पलाशजैः । (१००।१)
caturyāmaṃ prayatnena mūlaiścaiva palāśajaiḥ |
अधस्ताज्ज्वालयेत्सम्यक् हठाग्निं म्रियते ध्रुवम् । (१००।२)
adhastājjvālayetsamyak haṭhāgniṃ mriyate dhruvam |
रक्ताभं जायते चूर्णं सर्वकार्येषु योजयेत् ॥ (१००।३)
raktābhaṃ jāyate cūrṇaṃ sarvakāryeṣu yojayet ||
नागस्य मारणं प्रोक्तं बहुधा बहुभिर्बुधैः ॥ (१०१।२)
nāgasya māraṇaṃ proktaṃ bahudhā bahubhirbudhaiḥ ||
लेअद्:: मृत:: मेदिच्। प्रोपेर्तिएस्प्रमेहान् वातजान् रोगान् धनुर्वातादिकान् गदान् । (१०३।१)
lead:: mṛta:: medic. propertiespramehān vātajān rogān dhanurvātādikān gadān |
विंशतिश्लेष्मजांश्चैव निहन्ति च न संशयः ॥ (१०३।२)
viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ ||
ब्रस्स्:: सुब्त्य्पेस्पित्तलं द्विविधं प्रोक्तं रीतिका काकतुंडिका । (१०४।१)
brass:: subtypespittalaṃ dvividhaṃ proktaṃ rītikā kākatuṃḍikā |
रीतिका:: परीक्षातप्ता तुषजले क्षिप्ता शुक्लवर्णा तु रीतिका ॥ (१०४।२)
rītikā:: parīkṣātaptā tuṣajale kṣiptā śuklavarṇā tu rītikā ||
काकतुण्डी:: परीक्षानिक्षिप्ता कांजिके कृष्णा सा स्मृता काकतुण्डिका ॥ (१०५।०)
kākatuṇḍī:: parīkṣānikṣiptā kāṃjike kṛṣṇā sā smṛtā kākatuṇḍikā ||
ब्रस्स्:: परीक्षा:: गोओद् क़ुअलित्य्पीताभा मृदु चेद्गुर्वी साराङ्गी हेमवर्णिका । (१०६।१)
brass:: parīkṣā:: good qualitypītābhā mṛdu cedgurvī sārāṅgī hemavarṇikā |
मसृणाङ्गी तु सुस्निग्धा शुभा रीतीति कथ्यते ॥ (१०६।२)
masṛṇāṅgī tu susnigdhā śubhā rītīti kathyate ||
ब्रस्स्:: परीक्षा:: बद् क़ुअलित्य्दुर्गन्धा पूतिगन्धा वा खरस्पर्शा च पाण्डुरा । (१०७।१)
brass:: parīkṣā:: bad qualitydurgandhā pūtigandhā vā kharasparśā ca pāṇḍurā |
घनघाताक्षमा रूक्षा रीतिर्नेष्टा रसायने ॥ (१०७।२)
ghanaghātākṣamā rūkṣā rītirneṣṭā rasāyane ||
ब्रस्स्:: शोधनतापिता चैव निर्गुंडीरसे क्षिप्ता प्रयत्नतः । (१०८।१)
brass:: śodhanatāpitā caiva nirguṃḍīrase kṣiptā prayatnataḥ |
पञ्चवाराणि चायाति शुद्धिं रीतिस्तु तत्क्षणात् ॥ (१०८।२)
pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt ||
ब्रस्स्:: मारणशिलागंधकसिन्धूत्थरसैश्चातिप्रमर्दितैः । (१०९।१)
brass:: māraṇaśilāgaṃdhakasindhūttharasaiścātipramarditaiḥ |
रीतिपत्राणि लेप्यानि पुटितान्यष्टधा पुनः । (१०९।२)
rītipatrāṇi lepyāni puṭitānyaṣṭadhā punaḥ |
सद्यो भस्मत्वमायान्ति ततो योज्या रसायने ॥ (१०९।३)
sadyo bhasmatvamāyānti tato yojyā rasāyane ||
ब्रस्स्:: रीतिका:: मृत:: मेदिच्। प्रोपेर्तिएस्रक्तपित्तहरा रूक्षा कृमिघ्नी रीतिका मता । (११०।१)
brass:: rītikā:: mṛta:: medic. propertiesraktapittaharā rūkṣā kṛmighnī rītikā matā |
ब्रस्स्:: काकतुण्डिका:: मृत:: मेदिच्। प्रोपेर्तिएस्काकतुंडा कुष्ठहरा सोष्णवीर्या सरा मता ॥ (११०।२)
brass:: kākatuṇḍikā:: mṛta:: medic. propertieskākatuṃḍā kuṣṭhaharā soṣṇavīryā sarā matā ||
ब्रोन्ज़े:: प्रोदुच्तिओन्चतुर्भागेन रविणा भागैकं त्रपु चोत्तमम् । (१११।१)
bronze:: productioncaturbhāgena raviṇā bhāgaikaṃ trapu cottamam |
जायते प्रवरं कांस्यं तत्सौराष्ट्रभवं शुभम् ॥ (१११।२)
jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham ||
ब्रोन्ज़े:: शोधनतप्तं कांस्यं गवां मूत्रे सप्तवारेण शुध्यति । (११२।१)
bronze:: śodhanataptaṃ kāṃsyaṃ gavāṃ mūtre saptavāreṇa śudhyati |
ब्रोन्ज़े:: मारणहरितालकगंधाभ्यां म्रियते पञ्चभिः पुटैः ॥ (११२।२)
bronze:: māraṇaharitālakagaṃdhābhyāṃ mriyate pañcabhiḥ puṭaiḥ ||
ब्रोन्ज़े:: मृत:: मेदिच्। प्रोपेर्तिएस्मृतं कांस्यं वातहरं प्रमेहाणां च नाशनम् । (११३।१)
bronze:: mṛta:: medic. propertiesmṛtaṃ kāṃsyaṃ vātaharaṃ pramehāṇāṃ ca nāśanam |
शुद्धे कांस्यभवे पात्रे सर्वमेव हि भोजनम् । (११३।२)
śuddhe kāṃsyabhave pātre sarvameva hi bhojanam |
पथ्यं संजायते नाम्लं घृतशाकादिवर्जितम् ॥ (११३।३)
pathyaṃ saṃjāyate nāmlaṃ ghṛtaśākādivarjitam ||
वर्तलोह:: प्रोदुच्तिओन्लोहकांस्यार्करीतिभ्यो जातं तद् वर्तलोहकम् । (११४।१)
vartaloha:: productionlohakāṃsyārkarītibhyo jātaṃ tad vartalohakam |
तदेव विडलोहाख्यं विद्वद्भिः समुदाहृतम् ॥ (११४।२)
tadeva viḍalohākhyaṃ vidvadbhiḥ samudāhṛtam ||
वर्तलोह:: शोधनहयमूत्रे द्रुतं सम्यक् निक्षिप्तं शुद्धिमृच्छति । (११५।१)
vartaloha:: śodhanahayamūtre drutaṃ samyak nikṣiptaṃ śuddhimṛcchati |
वर्तलोह:: मारणगन्धतालेन पुटितं म्रियते वर्तलोहकम् ॥ (११५।२)
vartaloha:: māraṇagandhatālena puṭitaṃ mriyate vartalohakam ||
वर्तलोह:: मृत:: मेदिच्। प्रोपेर्तिएस्श्लेष्मपित्तहरं चाम्लं रुच्यं कृमिहरं तथा । (११६।१)
vartaloha:: mṛta:: medic. propertiesśleṣmapittaharaṃ cāmlaṃ rucyaṃ kṛmiharaṃ tathā |
पथ्यं सर्वं हि तद्भाण्डे सर्वदोषहरं परम् । (११७।१)
pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param |
क्षारेणाम्लेन च विना दीप्तिकृत्पाचनं परम् ॥ (११७।२)
kṣāreṇāmlena ca vinā dīptikṛtpācanaṃ param ||
संशोधनान्येव हि मारणानि गुणागुणान्येव मयोदितानि । (११८।१)
saṃśodhanānyeva hi māraṇāni guṇāguṇānyeva mayoditāni |
अन्यानि शास्त्राणि सुविस्तराणि निरीक्ष्य यत्नात्कृतमेव सम्यक् ॥ (११८।२)
anyāni śāstrāṇi suvistarāṇi nirīkṣya yatnātkṛtameva samyak ||
Data courtesy of The Digital Corpus of Sanskrit.