रसप्रकाशसुधाकरRasaprakāśasudhākara
RPSudh, 6
Select a line for its word-by-word analysis.
उपरसाःतालकं तुवरी गंधं कंकुष्ठं कुनटी तथा । (१।१)
uparasāḥtālakaṃ tuvarī gaṃdhaṃ kaṃkuṣṭhaṃ kunaṭī tathā |
हरिताल:: सुब्त्य्पेस्तालकं द्विविधं प्रोक्तं दलाख्यं चाश्मसंज्ञितम् । (२।१)
haritāla:: subtypestālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam |
पत्त्रतालक:: फ्य्स्। प्रोपेर्तिएस्सूक्ष्मपत्रं हेमवर्णं गुरु स्निग्धं च भासुरम् ॥ (२।२)
pattratālaka:: phys. propertiessūkṣmapatraṃ hemavarṇaṃ guru snigdhaṃ ca bhāsuram ||
अश्मतालक:: फ्य्स्। प्रोपेर्तिएस्निष्पत्रं चाश्मसदृशं किंचित्सत्वं तथागुरु ॥ (३।२)
aśmatālaka:: phys. propertiesniṣpatraṃ cāśmasadṛśaṃ kiṃcitsatvaṃ tathāguru ||
नारीणां पुष्पहृत् तत्तु कुपथ्यं चाश्मतालकम् । (४।१)
nārīṇāṃ puṣpahṛt tattu kupathyaṃ cāśmatālakam |
हरिताल:: शोधनकुष्माण्डतोयसंस्विन्नं ततः क्षारजलेन वा । (४।२)
haritāla:: śodhanakuṣmāṇḍatoyasaṃsvinnaṃ tataḥ kṣārajalena vā |
चूर्णतोयेन वा स्विन्नं दोलायंत्रेण शुध्यति ॥ (४।३)
cūrṇatoyena vā svinnaṃ dolāyaṃtreṇa śudhyati ||
हरिताल:: सत्त्व:: पातनकुलत्थक्वाथसौभाग्यमाहिषाज्यमधुप्लुतम् । (५।१)
haritāla:: sattva:: pātanakulatthakvāthasaubhāgyamāhiṣājyamadhuplutam |
खल्वे क्षिप्त्वा च तत्तालं मर्दयेदेकवासरम् ॥ (५।२)
khalve kṣiptvā ca tattālaṃ mardayedekavāsaram ||
बीजान्येरण्डजान्येव क्षिप्त्वा चैकत्र मर्दयेत् । (७।१)
bījānyeraṇḍajānyeva kṣiptvā caikatra mardayet |
यवाभा गुटिका कार्या शुष्का कुप्यां निधाय च ॥ (७।२)
yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca ||
स्वांगशीतं समुत्तार्य ऊर्ध्वगं सत्वमाहरेत् ॥ (८।२)
svāṃgaśītaṃ samuttārya ūrdhvagaṃ satvamāharet ||
हरिताल:: मेदिच्। प्रोपेर्तिएस्वातश्लेष्महरं रक्तभूतनुत् पुष्पहृत् स्त्रियाः । (१०।१)
haritāla:: medic. propertiesvātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ |
सुस्निग्धमुष्णकटुकं दीपनं कुष्ठहारि तत् ॥ (१०।२)
susnigdhamuṣṇakaṭukaṃ dīpanaṃ kuṣṭhahāri tat ||
सौराष्ट्री:: ओरिगिन्सौराष्ट्रदेशे संजाता खनिजा तुवरी मता । (११।१)
saurāṣṭrī:: originsaurāṣṭradeśe saṃjātā khanijā tuvarī matā |
सौराष्ट्री:: चोलोर्स् ड़ब्रिच्या लेपिता श्वेतवस्त्रे रङ्गबन्धकरी हि सा ॥ (११।२)
saurāṣṭrī:: colors fabricyā lepitā śvetavastre raṅgabandhakarī hi sā ||
सौराष्ट्री:: सुब्त्य्पेस्फुल्लिका खटिका तद्वत् द्विप्रकारा प्रशस्यते । (१२।१)
saurāṣṭrī:: subtypesphullikā khaṭikā tadvat dviprakārā praśasyate |
सौराष्ट्री:: मेदिच्। प्रोपेर्तिएस्कषाया मधुरा कांक्षी कटुका विषनाशिनी ॥ (१३।२)
saurāṣṭrī:: medic. propertieskaṣāyā madhurā kāṃkṣī kaṭukā viṣanāśinī ||
व्रणघ्नी कफहा चैव नेत्रव्याधित्रिदोषहा । (१४।१)
vraṇaghnī kaphahā caiva netravyādhitridoṣahā |
सौराष्ट्री:: शोधनधान्याम्ले तुवरी क्षिप्ता शुध्यति त्रिदिनेन वै । (१५।१)
saurāṣṭrī:: śodhanadhānyāmle tuvarī kṣiptā śudhyati tridinena vai |
सौराष्ट्री:: सत्त्व:: पातनक्षारैरम्लैश्च मृदिता ध्माता सत्वं विमुञ्चति । (१५।२)
saurāṣṭrī:: sattva:: pātanakṣārairamlaiśca mṛditā dhmātā satvaṃ vimuñcati |
सौराष्ट्री:: सत्त्व:: मेदिच्। उसेतत्सत्वं धातुवादार्थे औषधे नोपपद्यते ॥ (१५।३)
saurāṣṭrī:: sattva:: medic. usetatsatvaṃ dhātuvādārthe auṣadhe nopapadyate ||
मनःशिला:: सुब्त्य्पेस्मनःशिला त्रिप्रकारा श्यामा रक्ता च खण्डिका । (१६।१)
manaḥśilā:: subtypesmanaḥśilā triprakārā śyāmā raktā ca khaṇḍikā |
श्यामाश्यामा रक्ता मिश्रवर्णा भाराढ्या श्यामिका भवेत् ॥ (१६।२)
śyāmāśyāmā raktā miśravarṇā bhārāḍhyā śyāmikā bhavet ||
कणवीरकाकणवीरा सुरक्ताङ्गी ताम्राभा सैव शस्यते । (१७।१)
kaṇavīrakākaṇavīrā suraktāṅgī tāmrābhā saiva śasyate |
खण्डिकाचूर्णिता याति रक्ताङ्गी गुरुः स्निग्धा च खण्डिका ॥ (१७।२)
khaṇḍikācūrṇitā yāti raktāṅgī guruḥ snigdhā ca khaṇḍikā ||
सर्वाः कुनट्यः कथिताः पूर्वं पूर्वं गुणोत्तराः । (१८।१)
sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ |
मनःशिला:: शोधनमुनिपत्ररसेनापि शृङ्गवेररसेन वा ॥ (१८।२)
manaḥśilā:: śodhanamunipatrarasenāpi śṛṅgaverarasena vā ||
मनःशिला:: सत्त्व:: पातनसर्पिषा च गुडेनाथ किट्टगुग्गुलुनाथ वा ॥ (१९।२)
manaḥśilā:: sattva:: pātanasarpiṣā ca guḍenātha kiṭṭaguggulunātha vā ||
ध्माता तु कोष्ठिकायन्त्रे मुञ्चेत् सत्त्वं न संशयः ॥ (२०।०)
dhmātā tu koṣṭhikāyantre muñcet sattvaṃ na saṃśayaḥ ||
मनःशिला:: शुद्ध:: मेदिच्। प्रोपेर्तिएस्रसायनवरा सर्वा वातश्लेष्मविनाशिनी । (२१।१)
manaḥśilā:: śuddha:: medic. propertiesrasāyanavarā sarvā vātaśleṣmavināśinī |
अग्निमांद्यं प्रशमयेत् कोष्ठरोगनिबर्हिणी ॥ (२१।३)
agnimāṃdyaṃ praśamayet koṣṭharoganibarhiṇī ||
अञ्जन:: सुब्त्य्पेस्सौवीरं च रसांजनं निगदितं स्रोत्ॐजनं चैव हि । (२२।१)
añjana:: subtypessauvīraṃ ca rasāṃjanaṃ nigaditaṃ srotoṃjanaṃ caiva hi |
तद्वत् पुष्पमथाञ्जनं तदनु चेन्नीलांजनं कथ्यते ॥ (२२।२)
tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate ||
पञ्चानामपि नामवर्णगुणवद्रूपाणि सम्यग्विधौ । (२३।१)
pañcānāmapi nāmavarṇaguṇavadrūpāṇi samyagvidhau |
कथ्यन्तेऽत्र मयापि शोधनम् इदं सत्वं मृतिश्चोच्यते ॥ (२३।२)
kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate ||
सौवीरसौवीराख्यं चांजनं धूमवर्णं पित्तास्रघ्नं छर्दिहिध्माव्रणघ्नम् । (२४।१)
sauvīrasauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam |
नेत्रव्याधौ शोधने रोपणे च श्रेष्ठं प्रोक्तं कर्णरोगप्रशांत्यै ॥ (२४।२)
netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai ||
रसाञ्जनपीताभं विषरक्तदोषशमनं सश्वासहिध्मापहं । (२५।१)
rasāñjanapītābhaṃ viṣaraktadoṣaśamanaṃ saśvāsahidhmāpahaṃ |
वर्ण्यं वातविनाशनं कृमिहरं दार्व्युद्भवं शोभनम् ॥ (२५।२)
varṇyaṃ vātavināśanaṃ kṛmiharaṃ dārvyudbhavaṃ śobhanam ||
स्रोतोञ्जनस्निग्धं स्वादु कषायकं विषवमीपित्तास्रनुल्लेखनं । (२६।१)
srotoñjanasnigdhaṃ svādu kaṣāyakaṃ viṣavamīpittāsranullekhanaṃ |
नेत्र्यं हिध्मरुजापहं निगदितं स्रोत्ॐजनं सर्वदा ॥ (२६।२)
netryaṃ hidhmarujāpahaṃ nigaditaṃ srotoṃjanaṃ sarvadā ||
पुष्पाञ्जनसितं स्निग्धं हिमं चैव नेत्ररोगविषापहम् । (२७।१)
puṣpāñjanasitaṃ snigdhaṃ himaṃ caiva netrarogaviṣāpaham |
ज्वरघ्नम् अतिहिध्माघ्नं पुष्पांजनमिहोदितम् ॥ (२७।२)
jvaraghnam atihidhmāghnaṃ puṣpāṃjanamihoditam ||
नीलाञ्जनरसायनं सुवर्णघ्नं गुरु स्निग्धं त्रिदोषहा । (२८।१)
nīlāñjanarasāyanaṃ suvarṇaghnaṃ guru snigdhaṃ tridoṣahā |
अञ्जन:: शोधनभृंगराजरसेनैव सर्वाण्येवांजनानि हि । (२९।१)
añjana:: śodhanabhṛṃgarājarasenaiva sarvāṇyevāṃjanāni hi |
अञ्जन:: सत्त्व:: पातनशिलायाः सत्ववत् सत्त्वमञ्जनानां च पातयेत् ॥ (२९।३)
añjana:: sattva:: pātanaśilāyāḥ satvavat sattvamañjanānāṃ ca pātayet ||
सुल्ड़ुर्:: सुब्त्य्पेस्:: चोलोउर्गंधकस्य चतुर्भेदा लक्षिताः पूर्वसूरिभिः । (३०।१)
sulfur:: subtypes:: colourgaṃdhakasya caturbhedā lakṣitāḥ pūrvasūribhiḥ |
श्वेतः पीतस्तथा रक्तः कृष्णश्चेति चतुर्विधः ॥ (३०।२)
śvetaḥ pītastathā raktaḥ kṛṣṇaśceti caturvidhaḥ ||
सुल्ड़ुर्:: wहितेश्वेतस्तु खटिकाकारो लेपनाल्लोहमारणम् । (३१।१)
sulfur:: whiteśvetastu khaṭikākāro lepanāllohamāraṇam |
सुल्ड़ुर्:: येल्लोwपीतवर्णो भवेद्यस्तु स चोक्तोऽमलसारकः । (३२।१)
sulfur:: yellowpītavarṇo bhavedyastu sa cokto'malasārakaḥ |
रसे रसायने श्रेष्ठः शुकपिच्छः स कथ्यते ॥ (३२।२)
rase rasāyane śreṣṭhaḥ śukapicchaḥ sa kathyate ||
सुल्ड़ुर्:: रेद्लाक्षारसनिभो रक्तः शुकतुण्डः स कथ्यते । (३३।१)
sulfur:: redlākṣārasanibho raktaḥ śukatuṇḍaḥ sa kathyate |
धातूनां रंजनं कुर्याद्रसबन्धं करोत्यलम् ॥ (३३।२)
dhātūnāṃ raṃjanaṃ kuryādrasabandhaṃ karotyalam ||
सुल्ड़ुर्:: ब्लच्क्यः कृष्णवर्णः स तु दुर्लभोऽस्ति नाशं करोतीह जरापमृत्योः । (३४।१)
sulfur:: blackyaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ |
संसेवनाद्वज्रसमं शरीरं भवेत्सुकान्तं हि निरामयं च ॥ (३४।२)
saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca ||
सुल्ड़ुर्:: शोधनघटीमध्ये पयः क्षिप्त्वा मुखे वस्त्रं प्रबन्धयेत् । (३५।१)
sulfur:: śodhanaghaṭīmadhye payaḥ kṣiptvā mukhe vastraṃ prabandhayet |
वस्त्रोपरि बलेश्चूर्णं मुखं रुद्ध्वा शरावतः ॥ (३५।२)
vastropari baleścūrṇaṃ mukhaṃ ruddhvā śarāvataḥ ||
भूमौ निधाय तत्पात्रं पुटं दद्यात्प्रयत्नतः । (३६।१)
bhūmau nidhāya tatpātraṃ puṭaṃ dadyātprayatnataḥ |
विंशत्युपलकैश्चैव स्वांगशीतं समुद्धरेत् ॥ (३६।२)
viṃśatyupalakaiścaiva svāṃgaśītaṃ samuddharet ||
एवं संशोधितो गन्धः सर्वकार्यकरो भवेत् ॥ (३७।२)
evaṃ saṃśodhito gandhaḥ sarvakāryakaro bhavet ||
सुल्ड़ुर्:: शुद्ध:: मेदिच्। प्रोपेर्तिएस्विपाके मधुरो गन्धपाषाणस्तु रसायनः । (३८।१)
sulfur:: śuddha:: medic. propertiesvipāke madhuro gandhapāṣāṇastu rasāyanaḥ |
सूतस्य वीर्यदः साक्षात्पार्वतीपुष्पसंभवः ॥ (३९।२)
sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ ||
कृमिरोगहरः सम्यक् सूतं मूर्छयति ध्रुवम् । (४०।१)
kṛmirogaharaḥ samyak sūtaṃ mūrchayati dhruvam |
सुल्ड़ुर्:: निरुक्ति ड़ोर् बलिवसासेवितो बलिराज्ञा यः प्रभूतबलहेतवे ॥ (४०।२)
sulfur:: nirukti for balivasāsevito balirājñā yaḥ prabhūtabalahetave ||
सुल्ड़ुर्::मेदिच्। उसेशुकपिच्छस्तु मरिचसमांशेन तु कल्कितः ॥ (४१।२)
sulfur::medic. useśukapicchastu maricasamāṃśena tu kalkitaḥ ||
त्रिफला षड्गुणा कार्या मर्दयेत्कृतमालकैः । (४२।१)
triphalā ṣaḍguṇā kāryā mardayetkṛtamālakaiḥ |
मूलद्रवैस्ततः पीतो हन्ति कुष्ठान्यनेकशः ॥ (४२।२)
mūladravaistataḥ pīto hanti kuṣṭhānyanekaśaḥ ||
कुष्ठान्येव निहन्त्याशु सद्यः प्रत्ययकारकम् ॥ (४३।२)
kuṣṭhānyeva nihantyāśu sadyaḥ pratyayakārakam ||
सुल्ड़ुर्:: मेदिच्। उसेसंशुद्धगंधकं चैव तैलेन सह पेषयेत् । (४४।१)
sulfur:: medic. usesaṃśuddhagaṃdhakaṃ caiva tailena saha peṣayet |
विलिप्य सकलं देहं तिष्ठेत्सूर्यातपेषु च । (४५।१)
vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca |
भोजयेत्तक्रभक्तं च तृतीये प्रहरे खलु ॥ (४५।२)
bhojayettakrabhaktaṃ ca tṛtīye prahare khalu ||
वह्निना स्वेदयेद्रात्रौ प्रातरुत्थाय मर्दयेत् । (४६।१)
vahninā svedayedrātrau prātarutthāya mardayet |
स्नानं कुर्यादुषस्येवं कण्डूः पामा च नश्यति । (४७।१)
snānaṃ kuryāduṣasyevaṃ kaṇḍūḥ pāmā ca naśyati |
दृष्टप्रत्यययोगोऽयं कथितोऽत्र मया खलु । (४७।२)
dṛṣṭapratyayayogo'yaṃ kathito'tra mayā khalu |
नाशयेच्चिरकालोत्थाः कुष्ठपामाविचर्चिकाः ॥ (४७।३)
nāśayeccirakālotthāḥ kuṣṭhapāmāvicarcikāḥ ||
सुल्ड़ुर्:: मेदिच्। उसेकलांशव्योषसंयुक्तं शुद्धगन्धकचूर्णकम् । (४८।१)
sulfur:: medic. usekalāṃśavyoṣasaṃyuktaṃ śuddhagandhakacūrṇakam |
वस्त्रे वितस्तिमात्रे तु गंधचूर्णं सतैलकम् ॥ (४८।२)
vastre vitastimātre tu gaṃdhacūrṇaṃ satailakam ||
विलिप्य वेष्टयित्वा च वर्तिं सूत्रेण वेष्टयेत् । (४९।१)
vilipya veṣṭayitvā ca vartiṃ sūtreṇa veṣṭayet |
धृत्वा संदंशतो वर्तिमध्यं प्रज्वालयेच्च ताम् ॥ (४९।२)
dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tām ||
तां द्रुतिं प्रक्षिपेत्पत्त्रे नागवल्ल्यास्त्रिबिन्दुकाम् ॥ (५०।२)
tāṃ drutiṃ prakṣipetpattre nāgavallyāstribindukām ||
रसं वल्लमितं तत्र दत्त्वाङ्गुल्या विमर्दयेत् । (५१।१)
rasaṃ vallamitaṃ tatra dattvāṅgulyā vimardayet |
तत्सर्वं भक्षयेत्पश्चाद् गोदुग्धं चानु सम्पिबेत् ॥ (५१।२)
tatsarvaṃ bhakṣayetpaścād godugdhaṃ cānu sampibet ||
कामस्य दीप्तिं कुरुते क्षयपाण्डुविनाशनम् । (५२।१)
kāmasya dīptiṃ kurute kṣayapāṇḍuvināśanam |
ग्रहणीं नाशयेद् दुष्टां शूलार्तिश्वासकासकम् ॥ (५२।२)
grahaṇīṃ nāśayed duṣṭāṃ śūlārtiśvāsakāsakam ||
गंधकस्य गुणान्वक्तुं शक्तः कः शंभुना विना ॥ (५३।२)
gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā ||
कङ्कुष्ठ:: ओरिगिन्पर्वते हिमसमीपवर्तिनि जायतेऽतिरुचिरं कङ्कुष्ठकम् । (५४।१)
kaṅkuṣṭha:: originparvate himasamīpavartini jāyate'tiruciraṃ kaṅkuṣṭhakam |
कङ्कुष्ठ:: सुब्त्य्पेसेकमेव नलिकाभिधानकं रेणुकं तदनु चापरं भवेत् ॥ (५४।२)
kaṅkuṣṭha:: subtypesekameva nalikābhidhānakaṃ reṇukaṃ tadanu cāparaṃ bhavet ||
नलिका:: फ्य्स्। प्रोपेर्तिएस्पीतवर्णमसृणं च वै गुरु स्निग्धम् उत्तमतरं प्रवक्ष्यते । (५५।१)
nalikā:: phys. propertiespītavarṇamasṛṇaṃ ca vai guru snigdham uttamataraṃ pravakṣyate |
रेणुक:: फ्य्स्। प्रोपेर्तिएस्श्यामपीतमतिहीनसत्त्वकं रेणुकं हि कथितं द्वितीयकम् ॥ (५५।२)
reṇuka:: phys. propertiesśyāmapītamatihīnasattvakaṃ reṇukaṃ hi kathitaṃ dvitīyakam ||
कङ्कुष्ठ:: थिर्द् त्य्पे ड़्रोम् थे ड़ेचेस् ओड़् अ नेwबोर्न् एलेफन्त्वदन्ति कंकुष्ठमथापरे हि सद्यः प्रसूतस्य च दन्तिनः शकृत् । (५६।१)
kaṅkuṣṭha:: third type from the feces of a newborn elephantvadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt |
तत् कृष्णपीतं भवतीव रेचनं तृतीयमाहुर्विबुधा भिषग्वराः ॥ (५६।२)
tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ ||
कङ्कुष्ठ:: ४। त्य्पे = नाल ओड़् होर्सेस्चतुर्थकङ्कुष्ठमिहैव वाजिनां नालं हि केचित्प्रवदन्ति तज्ज्ञाः । (५७।१)
kaṅkuṣṭha:: 4. type = nāla of horsescaturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ |
यद्धस्तिजं श्वेतमथातिपीतं विरेचनं तत्प्रकरोति शीघ्रम् ॥ (५७।२)
yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram ||
रसायने श्रेष्ठतरं रसे च सत्वेन युक्तं खलु गौरवान्वितम् । (५८।१)
rasāyane śreṣṭhataraṃ rase ca satvena yuktaṃ khalu gauravānvitam |
कङ्कुष्ठ:: शोधनशुंठ्यम्भसा भावितमेव शुद्धिं कंकुष्ठमायाति हि सत्यमुक्तम् ॥ (५८।२)
kaṅkuṣṭha:: śodhanaśuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam ||
कङ्कुष्ठ:: शुद्ध:: मेदिच्। प्रोपेर्तिएस्कङ्कुष्ठकं तिक्तकटूष्णवीर्यं विशेषतो रेचनकं करोति । (५९।१)
kaṅkuṣṭha:: śuddha:: medic. propertieskaṅkuṣṭhakaṃ tiktakaṭūṣṇavīryaṃ viśeṣato recanakaṃ karoti |
गुदार्तिगुल्मव्रणशूलहृत्परं प्रचक्षते शास्त्रविदः पुराणाः ॥ (५९।२)
gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ ||
कङ्कुष्ठ:: सत्त्व:: पातनसत्त्वाकृष्टिर्न च प्रोक्ता यस्मात्सत्वमयं हि तत् । (६०।१)
kaṅkuṣṭha:: sattva:: pātanasattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat |
कङ्कुष्ठ:: मेदिच्। उसेयवमात्रं भजेदेनं विरेकार्थं न संशयः ॥ (६०।२)
kaṅkuṣṭha:: medic. useyavamātraṃ bhajedenaṃ virekārthaṃ na saṃśayaḥ ||
तांबूलेन समं चैवं भक्षितं सारयेद् ध्रुवम् ॥ (६१।२)
tāṃbūlena samaṃ caivaṃ bhakṣitaṃ sārayed dhruvam ||
भूयो भूयः पिबेद्धीमान् विषं कंकुष्ठजं जयेत् ॥ (६२।२)
bhūyo bhūyaḥ pibeddhīmān viṣaṃ kaṃkuṣṭhajaṃ jayet ||
कासीस:: सुब्त्य्पेस्कासीसं प्रथमं हि सैकतमिदं पुष्पाख्यमन्यत्तथा । (६३।१)
kāsīsa:: subtypeskāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā |
वालुकाकासीस:: मेदिच्। प्रोपेर्तिएस्क्षाराम्लं गुरु धूम्रवर्णविषहृत् वीर्योष्णकं रागदम् ॥ (६३।२)
vālukākāsīsa:: medic. propertieskṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam ||
श्वित्रघ्नं मुखकेशरंजनकरं तत्सैकतं पूर्वकं । (६४।१)
śvitraghnaṃ mukhakeśaraṃjanakaraṃ tatsaikataṃ pūrvakaṃ |
पुष्पकासीस:: मेदिच्। प्रोपेर्तिएस्पुष्पाख्यं ह्यपरं गुणैश्च सहितं सेव्यं सदा रोगहृत् ॥ (६४।२)
puṣpakāsīsa:: medic. propertiespuṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt ||
पुष्पाभिधं च कासीसं प्रसिद्धं नेत्ररोगहा । (६५।१)
puṣpābhidhaṃ ca kāsīsaṃ prasiddhaṃ netrarogahā |
सोष्णवीर्यं कषायाम्लं विषघ्नं श्लेष्मनाशनम् । (६५।२)
soṣṇavīryaṃ kaṣāyāmlaṃ viṣaghnaṃ śleṣmanāśanam |
कासीस:: शोधनभृंगराजरसे स्विन्नं निर्मलं हि प्रजायते । (६६।१)
kāsīsa:: śodhanabhṛṃgarājarase svinnaṃ nirmalaṃ hi prajāyate |
कासीस:: सत्त्व:: पातनसौराष्ट्रीसत्ववत् सत्त्वमेतस्यापि समाहरेत् ॥ (६६।२)
kāsīsa:: sattva:: pātanasaurāṣṭrīsatvavat sattvametasyāpi samāharet ||
कासीस:: मेदिच्। उसेकासीसं भस्म कांतस्य चोभयं समभागिकम् । (६७।१)
kāsīsa:: medic. usekāsīsaṃ bhasma kāṃtasya cobhayaṃ samabhāgikam |
वराविडङ्गसंयुक्तं घृतक्षौद्रप्लुतं प्रगे ॥ (६७।२)
varāviḍaṅgasaṃyuktaṃ ghṛtakṣaudraplutaṃ prage ||
भक्षितं हन्ति वेगेन पाण्डुयक्ष्माणमेव च । (६८।१)
bhakṣitaṃ hanti vegena pāṇḍuyakṣmāṇameva ca |
प्लीहं गुल्मं गुदे शूलं मूत्रकृच्छ्राण्यशेषतः ॥ (६८।२)
plīhaṃ gulmaṃ gude śūlaṃ mūtrakṛcchrāṇyaśeṣataḥ ||
आमाजीर्णभवान् रोगान् निहन्त्येव न संशयः ॥ (६९।३)
āmājīrṇabhavān rogān nihantyeva na saṃśayaḥ ||
नवसार:: स्य्नोन्य्म्सुद्दिष्टं नवसाराख्यं लवणं चुल्लिकाभिधम् । (७०।१)
navasāra:: synonymsuddiṣṭaṃ navasārākhyaṃ lavaṇaṃ cullikābhidham |
नवसार:: अल्छेम्।, मेदिच्। प्रोपेर्तिएस्लोहद्रावणकं प्रोक्तं रसजारणकं तथा ॥ (७०।२)
navasāra:: alchem., medic. propertieslohadrāvaṇakaṃ proktaṃ rasajāraṇakaṃ tathā ||
मांसादिजारणं सम्यक् भुक्तपाकं करोति तत् ॥ (७१।२)
māṃsādijāraṇaṃ samyak bhuktapākaṃ karoti tat ||
वराटिका:: परीक्षावराटिका या तु सार्धनिष्कप्रमाणिका । (७२।१)
varāṭikā:: parīkṣāvarāṭikā yā tu sārdhaniṣkapramāṇikā |
श्रेष्ठा सैव बुधैः प्रोक्ता टङ्कभारा हि मध्यमा ॥ (७२।२)
śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā ||
मोनेय् चोwरिए:: मेदिच्। प्रोपेर्तिएस्रसे रसायने प्रोक्ता परिणामादिशूलनुत् । (७४।१)
money cowrie:: medic. propertiesrase rasāyane proktā pariṇāmādiśūlanut |
स्थूला वराटिका प्रोक्ता गुरुश्च श्लेष्मपित्तहा । (७६।१)
sthūlā varāṭikā proktā guruśca śleṣmapittahā |
मोनेय् चोwरिए:: शोधनस्वेदिता ह्यारनालेन यामाच्छुद्धिमवाप्नुयात् ॥ (७६।२)
money cowrie:: śodhanasveditā hyāranālena yāmācchuddhimavāpnuyāt ||
दरद:: सुब्त्य्पेस्दरदः शुकतुण्डाख्यो हंसपाकस्तथापरः । (७७।१)
darada:: subtypesdaradaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ |
शुकतुण्ड:: फ्य्स्। प्रोपेर्तिएस्चर्मारः प्रथमः प्रोक्तो हीनसत्वः स उच्यते ॥ (७७।२)
śukatuṇḍa:: phys. propertiescarmāraḥ prathamaḥ prokto hīnasatvaḥ sa ucyate ||
हंसपाक:: फ्य्स्। प्रोपेर्तिएस्प्रवालाभः शलाकाढ्यः उत्तमो हंसपाककः । (७८।१)
haṃsapāka:: phys. propertiespravālābhaḥ śalākāḍhyaḥ uttamo haṃsapākakaḥ |
दरद:: मेदिच्। प्रोपेर्तिएस्दीपनः सर्वदोषघ्नो हिंगुलोऽतिरसायनः ॥ (७८।२)
darada:: medic. propertiesdīpanaḥ sarvadoṣaghno hiṃgulo'tirasāyanaḥ ||
सर्वरोगहरः साक्षात् द्रावणे संप्रशस्यते । (७९।१)
sarvarogaharaḥ sākṣāt drāvaṇe saṃpraśasyate |
मेर्चुर्य्:: हिङ्गुलाकृष्टयथा षड्गुणगंधेन जारितरसराजकः ॥ (७९।२)
mercury:: hiṅgulākṛṣṭayathā ṣaḍguṇagaṃdhena jāritarasarājakaḥ ||
दरद:: शोधनकुष्माण्डखण्डमध्ये तु स्वेदितो लकुचाम्बुना । (८०।२)
darada:: śodhanakuṣmāṇḍakhaṇḍamadhye tu svedito lakucāmbunā |
सकृत् संजायते शुद्धः सर्वकार्येषु योजयेत् ॥ (८०।३)
sakṛt saṃjāyate śuddhaḥ sarvakāryeṣu yojayet ||
गैरिक:: सुब्त्य्पेस्पाषाणगैरिकं चैकं द्वितीयं स्वर्णगैरिकम् । (८१।१)
gairika:: subtypespāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam |
पाषाणगैरिक:: फ्य्स्। प्रोपेर्तिएस्पाषाणगैरिकं प्रोक्तं कठिनं ताम्रवर्णकम् ॥ (८१।२)
pāṣāṇagairika:: phys. propertiespāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam ||
स्वर्णगैरिक:: फ्य्स्। प्रोपेर्तिएसत्यन्तशोणितं स्निग्धं मसृणं स्वर्णगैरिकम् । (८२।१)
svarṇagairika:: phys. propertiesatyantaśoṇitaṃ snigdhaṃ masṛṇaṃ svarṇagairikam |
स्वर्णगैरिक:: मेदिच्। प्रोपेर्तिएस्स्वादु तिक्तं हिमं नेत्र्यं कषायं रक्तपित्तनुत् ॥ (८२।२)
svarṇagairika:: medic. propertiessvādu tiktaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut ||
हिक्कावमिविषघ्नं च रक्तघ्नं स्वर्णगैरिकम् । (८३।१)
hikkāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam |
पाषाणगैरिक:: मेदिच्। प्रोपेर्तिएस्पाषाणगैरिकं चान्यत् पूर्वस्मादल्पकं गुणैः ॥ (८३।२)
pāṣāṇagairika:: medic. propertiespāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ ||
गैरिक:: शोधनगैरिकं तु गवां दुग्धैर्भावितं शुद्धिमृच्छति । (८४।१)
gairika:: śodhanagairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhimṛcchati |
गैरिक:: सत्त्व:: पातनगैरिकं सत्वरूपं हि नन्दिना परिकीर्तितम् ॥ (८४।२)
gairika:: sattva:: pātanagairikaṃ satvarūpaṃ hi nandinā parikīrtitam ||
अग्निजार:: ओरिगिन्समुद्रेणाग्निनक्रस्य जरायुर् बहिरुज्झितः । (८५।१)
agnijāra:: originsamudreṇāgninakrasya jarāyur bahirujjhitaḥ |
रवितापेन संशुष्कः सोऽग्निजार इति स्मृतः ॥ (८५।२)
ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ ||
अग्निजार:: मेदिच्। प्रोपेर्तिएस्त्रिदोषशमनो ग्राही धनुर्वातहरः परः । (८६।१)
agnijāra:: medic. propertiestridoṣaśamano grāhī dhanurvātaharaḥ paraḥ |
गिरिसिन्दूर:: ओरिगिन्महागिरौ शिलान्तस्थो रक्तवर्णच्युतो रसः । (८७।१)
girisindūra:: originmahāgirau śilāntastho raktavarṇacyuto rasaḥ |
सूर्यातपेन संशुष्को गिरिसिन्दूरसंज्ञितः ॥ (८७।२)
sūryātapena saṃśuṣko girisindūrasaṃjñitaḥ ||
गिरिसिन्दूर:: मेदिच्। प्रोपेर्तिएस्रसबंधकरो भेदी त्रिदोषशमनस्तथा । (८८।१)
girisindūra:: medic. propertiesrasabaṃdhakaro bhedī tridoṣaśamanastathā |
उदारशृङ्ग:: ओरिगिन्भवेद्गुर्जरके देशे सदलं पीतवर्णकम् । (८९।१)
udāraśṛṅga:: originbhavedgurjarake deśe sadalaṃ pītavarṇakam |
अर्बुदस्य गिरेः पार्श्वे नाम्ना वोदारशृङ्गकम् ॥ (८९।२)
arbudasya gireḥ pārśve nāmnā vodāraśṛṅgakam ||
उदारशृङ्ग:: मेदिच्। प्रोपेर्तिएस्नागसत्वं लिंगदोषहरं श्लेष्मविकारनुत् । (९०।१)
udāraśṛṅga:: medic. propertiesnāgasatvaṃ liṃgadoṣaharaṃ śleṣmavikāranut |
रसबन्धकरं सम्यक् श्मश्रुरञ्जनकं परम् ॥ (९०।२)
rasabandhakaraṃ samyak śmaśrurañjanakaṃ param ||
साधारणरस:: शोधनसाधारणरसाः सर्वे बीजपूररसेन वै । (९१।१)
sādhāraṇarasa:: śodhanasādhāraṇarasāḥ sarve bījapūrarasena vai |
त्रिवारं भाविताः शुष्का जायन्ते दोषवर्जिताः ॥ (९१।२)
trivāraṃ bhāvitāḥ śuṣkā jāyante doṣavarjitāḥ ||
विड्लवण:: मेदिच्। प्रोपेर्तिएस्बिडं हि कथ्यते तद्वत्सर्वदोषहरं परम् ॥ (९२।०)
viḍlavaṇa:: medic. propertiesbiḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param ||
Data courtesy of The Digital Corpus of Sanskrit.