रसप्रकाशसुधाकरRasaprakāśasudhākara
RPSudh, 7
Select a line for its word-by-word analysis.
नव रत्नानिमाणिक्यं मौक्तिकं चैव विद्रुमं तार्क्ष्यं पुष्पकम् । (१।१)
nava ratnānimāṇikyaṃ mauktikaṃ caiva vidrumaṃ tārkṣyaṃ puṣpakam |
वज्रं नीलं च गोमेदं वैडूर्यं च क्रमेण हि ॥ (१।२)
vajraṃ nīlaṃ ca gomedaṃ vaiḍūryaṃ ca krameṇa hi ||
सुजातिगुणसम्पन्नं रत्नं सर्वार्थसिद्धिदम् । (२।१)
sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam |
रुब्य्:: सुब्त्य्पेस्पद्मरागाभिधं श्रेष्ठं प्रथमं तदुदीरितम् । (३।१)
ruby:: subtypespadmarāgābhidhaṃ śreṣṭhaṃ prathamaṃ tadudīritam |
रुब्य्:: नीलगन्धिद्वितीयं नीलगन्धि स्याद् घनं रक्तं सुशोभनम् ॥ (३।२)
ruby:: nīlagandhidvitīyaṃ nīlagandhi syād ghanaṃ raktaṃ suśobhanam ||
रुब्य्:: परीक्षामहच्च कमलच्छायं स्निग्धं स्वच्छं गुरु स्फुटम् । (४।१)
ruby:: parīkṣāmahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam |
समं वृत्तायतं गात्रे माणिक्यं चोत्तमं मतम् ॥ (४।२)
samaṃ vṛttāyataṃ gātre māṇikyaṃ cottamaṃ matam ||
नीलगन्धि:: फ्य्स्। प्रोपेर्तिएस्गंगोदकसमुद्भूतं नीलगर्भारुणच्छवि । (५।१)
nīlagandhi:: phys. propertiesgaṃgodakasamudbhūtaṃ nīlagarbhāruṇacchavi |
माणिक्यं पूर्ववच्छायं नीलगन्धि तदुच्यते ॥ (५।२)
māṇikyaṃ pūrvavacchāyaṃ nīlagandhi taducyate ||
रुब्य्:: परीक्षा:: बद् क़ुअलित्य्माणिक्यं चाष्टधा नेष्टं सच्छिद्रं मलिनं लघु । (६।१)
ruby:: parīkṣā:: bad qualitymāṇikyaṃ cāṣṭadhā neṣṭaṃ sacchidraṃ malinaṃ laghu |
कर्कशं चिपिटं वक्रं सूक्ष्मं चाविशदं तथा ॥ (६।२)
karkaśaṃ cipiṭaṃ vakraṃ sūkṣmaṃ cāviśadaṃ tathā ||
रुब्य्:: मेदिच्। प्रोपेर्तिएस्संदीपनं वृष्यतमं हि रूक्षं वातापहं कर्मरुजापहं च । (७।१)
ruby:: medic. propertiessaṃdīpanaṃ vṛṣyatamaṃ hi rūkṣaṃ vātāpahaṃ karmarujāpahaṃ ca |
भूतादिदोषत्रयनाशनं परं राज्ञां सदा योग्यतमं प्रशस्तम् ॥ (७।२)
bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam ||
पेअर्ल्:: परीक्षा:: गोओद् क़ुअलित्य्ह्लादि श्वेतं रश्मिमन्निर्मलं च वृत्तं ख्यातं मौक्तिकं तोयभासम् । (८।१)
pearl:: parīkṣā:: good qualityhlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam |
स्निग्धं तौल्ये गौरवं चेन्महत्तल्लिंगैरेतैर् लक्षितं तच्च शुद्धम् ॥ (८।२)
snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham ||
पेअर्ल्:: परीक्षा:: बद् क़ुअलित्य्रूक्षाङ्गं चेन्निष्प्रभं श्यावताम्रं चार्धं शुभ्रं ग्रंथिलं मौक्तिकं च । (९।१)
pearl:: parīkṣā:: bad qualityrūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca |
क्षाराभासं वैकटं युग्मकं च दोषैर्युक्तं सर्वथा त्याज्यमेभिः ॥ (९।२)
kṣārābhāsaṃ vaikaṭaṃ yugmakaṃ ca doṣairyuktaṃ sarvathā tyājyamebhiḥ ||
पेअर्ल्:: मेदिच्। प्रोपेर्तिएस्कासं श्वासं वह्निमांद्यं क्षयं च हन्याद् वृष्यं बृंहणं पित्तहारि । (१०।१)
pearl:: medic. propertieskāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri |
दाहश्लेष्मोन्मादवातादिरोगान् हन्यादेवं सेवितं सर्वकाले ॥ (१०।२)
dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle ||
चोरल्:: परीक्षा:: गोओद् क़ुअलित्य्स्निग्धं स्थूलं पक्वबिम्बीफलाभं वृत्तं दीर्घं निर्व्रणं चाप्यदीर्घम् । (११।१)
coral:: parīkṣā:: good qualitysnigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham |
ख्यातं सद्भिः सप्तधा विद्रुमं च दोषैर्मुक्तं सर्वकार्येषु शस्तम् ॥ (११।२)
khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam ||
चोरल्:: परीक्षा:: बद् क़ुअलित्य्रूक्षं श्वेतं सव्रणं धूसरं च निर्भारं चेच्छुल्बवर्णं प्रवालम् । (१२।१)
coral:: parīkṣā:: bad qualityrūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca nirbhāraṃ cecchulbavarṇaṃ pravālam |
दोषैर्युक्तं कोटरैरावृतं च नेष्टं सद्भिर् भक्षणे धारणे च ॥ (१२।२)
doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca ||
चोरल्:: मेदिच्। प्रोपेर्तिएस्पित्तास्रघ्नं श्वासकासादिरोगान् हन्याद् एवं दुर्निवारं विषं च । (१३।१)
coral:: medic. propertiespittāsraghnaṃ śvāsakāsādirogān hanyād evaṃ durnivāraṃ viṣaṃ ca |
भूतोन्मादान् नेत्ररोगान् निहन्यात् सद्यः कुर्याद्दीपनं पाचनं च ॥ (१३।२)
bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca ||
एमेरल्द्:: परीक्षा:: गोओद् क़ुअलित्य्तार्क्ष्यं स्निग्धं भासुरं शष्पवर्णं गात्रैः शुद्धं भारवद्रश्मियुक्तम् । (१४।१)
emerald:: parīkṣā:: good qualitytārkṣyaṃ snigdhaṃ bhāsuraṃ śaṣpavarṇaṃ gātraiḥ śuddhaṃ bhāravadraśmiyuktam |
एते प्रोक्ता सप्तसंख्या गुणा वै दाने शस्तं भक्षणे धारणे च ॥ (१४।२)
ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca ||
एमेरल्द्:: परीक्षा:: बद् क़ुअलित्य्नीलं श्वेतं कर्कशं श्यावरूक्षं वक्रं कृष्णं चिप्पटं भारहीनम् । (१५।१)
emerald:: parīkṣā:: bad qualitynīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam |
एमेरल्द्:: मेदिच्। प्रोपेर्तिएस्दुष्टं तार्क्ष्यं चौषधेनोपयोज्यं कासं श्वासं सन्निपाताग्निमांद्यम् ॥ (१५।२)
emerald:: medic. propertiesduṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam ||
शोफं शूलं जूर्तिरोगं विषं च दुर्नामानं पाण्डुरोगं निहन्यात् ॥ (१६।०)
śophaṃ śūlaṃ jūrtirogaṃ viṣaṃ ca durnāmānaṃ pāṇḍurogaṃ nihanyāt ||
पुष्पराग:: परीक्षा:: गोओद् क़ुअलित्य्स्वच्छं स्थूलं पुष्परागं गुरु स्यात्स्निग्धं वर्णे कर्णिकारप्रसूनम् । (१७।१)
puṣparāga:: parīkṣā:: good qualitysvacchaṃ sthūlaṃ puṣparāgaṃ guru syātsnigdhaṃ varṇe karṇikāraprasūnam |
तच्चावक्रं मसृणं कोमलं च लिंगैरेतैः शोभनं पुष्परागम् ॥ (१७।२)
taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam ||
पुष्पराग:: परीक्षा:: बद् क़ुअलित्य्रूक्षं पीतं कर्कशं श्यामलं च पाण्डु स्याद्वा कापिलं तोयहीनम् । (१८।१)
puṣparāga:: parīkṣā:: bad qualityrūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam |
दोषैर्युक्तं निष्प्रभं पुष्परागं नो सेव्यं तन्नैव देयं द्विजेभ्यः ॥ (१८।२)
doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ ||
पुष्पराग:: मेदिच्। प्रोपेर्तिएस्कुष्ठं छर्दिं श्लेष्मवातौ निहन्ति मंदाग्नीनामेतदेव प्रशस्तम् । (१९।१)
puṣparāga:: medic. propertieskuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam |
दाहे कृच्छ्रे दीपनं पाचनं च तस्मात्सेव्यं सर्वकालं मनुष्यैः ॥ (१९।२)
dāhe kṛcchre dīpanaṃ pācanaṃ ca tasmātsevyaṃ sarvakālaṃ manuṣyaiḥ ||
वज्र:: सुब्त्य्पेस्:: गेन्देर्सर्वेषु रत्नेषु सदा वरिष्ठं मूल्यैर्गरिष्ठं विविधं हि वज्रम् । (२०।१)
vajra:: subtypes:: gendersarveṣu ratneṣu sadā variṣṭhaṃ mūlyairgariṣṭhaṃ vividhaṃ hi vajram |
नरश्च नारी च तथा तृतीयं तेषां गुणान्वच्मि समासतो हि ॥ (२०।२)
naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi ||
पूर्वं पूर्वं श्रेष्ठमेतत्प्रदिष्टं द्रव्याद् वीर्यात् पाकतश्च प्रभावात् । (२१।१)
pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt |
तेषां वर्णा जातयश्च प्रभेदाः कथ्यन्तेऽष्टौ शास्त्रतश्चापकर्षात् ॥ (२१।२)
teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt ||
श्वेतादिकं वर्णचतुष्टयं हि सर्वेषु रत्नेषु च कथ्यते बुधैः । (२२।१)
śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ |
स्युर्ब्राह्मणक्षत्रियवैश्यशूद्रास्ते जातयो वै क्रमशश्च वर्णाः ॥ (२२।२)
syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ ||
पुंवज्र:: फ्य्स्। प्रोपेर्तिएस्पुंवज्रं यत्प्रोच्यते चाष्टधारं षट्कोणं चेद् इन्द्रचापेन तुल्यम् । (२३।१)
puṃvajra:: phys. propertiespuṃvajraṃ yatprocyate cāṣṭadhāraṃ ṣaṭkoṇaṃ ced indracāpena tulyam |
अष्टौ चेत्स्युः फालका भासुरं वै पूर्वं श्रेष्ठं सर्वदोषापहं स्यात् ॥ (२३।२)
aṣṭau cetsyuḥ phālakā bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt ||
स्त्रीवज्र:: फ्य्स्। प्रोपेर्तिएस्स्त्रीवज्रं चेत्तादृशं वर्तुलं हि किंचिच्चैवं चिप्पटं कर्कशं च । (२४।१)
strīvajra:: phys. propertiesstrīvajraṃ cettādṛśaṃ vartulaṃ hi kiṃciccaivaṃ cippaṭaṃ karkaśaṃ ca |
नपुंसक:: फ्य्स्। प्रोपेर्तिएस्कोणाग्रं वै कुण्ठितं वर्तुलं च किंचिद्धीनं प्रोच्यते तत्तृतीयम् ॥ (२४।२)
napuṃsaka:: phys. propertieskoṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam ||
स्त्री पुमान् नो स्त्री पुमान् यच्च वज्रं योज्यं तच्च स्त्रीषु पुंस्वेव षण्ढे । (२५।१)
strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe |
व्यत्यासाद्वै नैव दत्तं फलं तद्दद्याद् वज्रं वा विना तत्पुमांसम् ॥ (२५।२)
vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam ||
वर्णेऽप्येवं यस्य वर्णस्य वज्रं तत्तद्वर्णे शोभनीयं प्रदिष्टम् । (२६।१)
varṇe'pyevaṃ yasya varṇasya vajraṃ tattadvarṇe śobhanīyaṃ pradiṣṭam |
न्यायश्चायं भैरवेण प्रदिष्टः सर्वेष्वेव रत्नवर्गेषु सम्यक् ॥ (२६।२)
nyāyaścāyaṃ bhairaveṇa pradiṣṭaḥ sarveṣveva ratnavargeṣu samyak ||
वज्र:: शोधनयामावधि स्वेदितमेव वज्रं शुद्धिं प्रयातीह कुलत्थतोये । (२७।१)
vajra:: śodhanayāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye |
सिद्धं तथा कोद्रवजे शृते वा वज्रं विशुध्येद्धि विनिश्चितेन ॥ (२७।२)
siddhaṃ tathā kodravaje śṛte vā vajraṃ viśudhyeddhi viniścitena ||
वज्र:: मारण:: वारितरसुभावितं मत्कुणशोणितेन वज्रं चतुर्वारविशोषितं च । (२८।१)
vajra:: māraṇa:: vāritarasubhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca |
छुच्छुंदरीस्थं हि विपाचितं पुटे पुटेद्वराहेण च त्रिंशदेवम् ॥ (२८।२)
chucchuṃdarīsthaṃ hi vipācitaṃ puṭe puṭedvarāheṇa ca triṃśadevam ||
ध्मातं पुनर्ध्माय शतं हि वारान् क्वाथे कुलत्थस्य हि निक्षिपेच्च । (२९।१)
dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca |
संपेषयेत्तं हि शिलातलेन मनःशिलाभिः सह कारयेद्वटीम् ॥ (२९।२)
saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm ||
क्षिप्त्वा निरुन्ध्यापि च मूषिकायां पुटान्यथाष्टौ च वनोपलैर्ददेत् । (३०।१)
kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet |
वारान् शतं चापि ततो धमेत्तं संमर्दितं शोधितपारदेन ॥ (३०।२)
vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena ||
वज्राणि सर्वाणि मृतीभवन्ति तद्भस्मकं वारितरं भवेच्च । (३१।१)
vajrāṇi sarvāṇi mṛtībhavanti tadbhasmakaṃ vāritaraṃ bhavecca |
श्रीसोमदेवेन च सत्यवाचा वज्रस्य मृत्युः कथितो हि सम्यक् ॥ (३१।२)
śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak ||
वज्र:: मारणकासमर्दरसपूर्णलोहजे मत्कुणस्य रुधिरैर् विलेपितम् । (३२।१)
vajra:: māraṇakāsamardarasapūrṇalohaje matkuṇasya rudhirair vilepitam |
स्वेदितं च भिदुरं हि सप्तभिर्वासरैः परिनिषेच्य मूत्रके ॥ (३२।२)
sveditaṃ ca bhiduraṃ hi saptabhirvāsaraiḥ pariniṣecya mūtrake ||
ध्मापितं हि खलु वज्रसंज्ञकं मारयेदिति वदन्ति तद्विदः । (३३।१)
dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ |
वज्र:: मारणनीलज्वालावीरुधः कन्दकेषु घृष्टं घर्मे शोषितं भस्मभावम् ॥ (३३।२)
vajra:: māraṇanīlajvālāvīrudhaḥ kandakeṣu ghṛṣṭaṃ gharme śoṣitaṃ bhasmabhāvam ||
वज्रं याति स्वैरवह्निप्रदानात् पिष्टैश्चापि क्षोणिनागैः प्रलिप्तम् । (३४।१)
vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam |
विंशद्वारान् संपुटेच्च प्रयत्नादारण्यैर्वा गोमयैस्तद्धठाग्नौ । (३४।२)
viṃśadvārān saṃpuṭecca prayatnādāraṇyairvā gomayaistaddhaṭhāgnau |
वज्रं चैवं भस्मसाद्वीर्ययुक्तं सर्वस्मिन्वै योजनीयं रसादौ ॥ (३४।३)
vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau ||
वज्र:: मृत:: मेदिच्। प्रोपेर्तिएसायुःप्रदं वृष्यतमं प्रदिष्टं दोषत्रयोन्मूलनकं तथैव । (३५।१)
vajra:: mṛta:: medic. propertiesāyuḥpradaṃ vṛṣyatamaṃ pradiṣṭaṃ doṣatrayonmūlanakaṃ tathaiva |
रसेन्द्रकस्यापि हि बंधकृत्सदा सुधासमं चापमृतिं च हन्यात् ॥ (३५।२)
rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt ||
वज्र:: मेदिच्। उसेभूनागसत्वेन समं विमर्द्य वज्रस्य भूतिं च समानहेम्ना । (३६।१)
vajra:: medic. usebhūnāgasatvena samaṃ vimardya vajrasya bhūtiṃ ca samānahemnā |
ध्मातं रसादावपि योजनीयं रसायनं तद्भवतीह सम्यक् ॥ (३६।२)
dhmātaṃ rasādāvapi yojanīyaṃ rasāyanaṃ tadbhavatīha samyak ||
भागास्त्रयश्चैव हि सूतकस्य भागं विमर्द्याथ मृतं हि वज्रम् । (३७।१)
bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram |
वज्रस्य भूतिः किल पोटलीकृता मुखे धृता दार्ढ्यकरी द्विजानाम् ॥ (३७।२)
vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām ||
वज्ररसायनं षाड्गुण्यसिद्धिदम्वज्रभस्म किल भागत्रिंशकं स्वर्णमेव कथितं कलांशकम् । (३८।१)
vajrarasāyanaṃ ṣāḍguṇyasiddhidamvajrabhasma kila bhāgatriṃśakaṃ svarṇameva kathitaṃ kalāṃśakam |
अष्टभागमिह तारकं कुरु सूतमत्र समभागकं सदा ॥ (३८।२)
aṣṭabhāgamiha tārakaṃ kuru sūtamatra samabhāgakaṃ sadā ||
अभ्रसत्वभसितं समांशकं तुर्यभागमिह ताप्यकं भवेत् । (३९।१)
abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet |
वैक्रांतभस्मात्र तथाष्टभागकं षडेव भागा हि बलेर्विधेयाः ॥ (३९।२)
vaikrāṃtabhasmātra tathāṣṭabhāgakaṃ ṣaḍeva bhāgā hi balervidheyāḥ ||
षाड्गुण्यसंसिद्धिम् उपैति सर्वदा सर्वार्थसंसिद्धिमुपैति सेविते ॥ (४०।०)
ṣāḍguṇyasaṃsiddhim upaiti sarvadā sarvārthasaṃsiddhimupaiti sevite ||
सप्फिरे:: सुब्त्य्पेसिंद्रनीलमथ वारिनीलकं श्वैत्यगर्भितमथापि नीलकम् । (४१।१)
sapphire:: subtypesiṃdranīlamatha vārinīlakaṃ śvaityagarbhitamathāpi nīlakam |
कथ्यते हि लघु वारिनीलकं तुच्छमेव कथितं भिषग्वरैः । (४१।२)
kathyate hi laghu vārinīlakaṃ tucchameva kathitaṃ bhiṣagvaraiḥ |
इन्द्रनील:: परीक्षाकान्त्या युक्तं कार्ष्ण्यगर्भं च नीलं तच्चाप्युक्तं शक्रनीलाभिधानम् ॥ (४१।३)
indranīla:: parīkṣākāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam ||
सप्फिरे:: परीक्षा:: गोओद् क़ुअलित्येकच्छायं स्निग्धवर्णं गुरु स्यात्स्वच्छं मध्ये चोल्लसत्कांतियुक्तम् । (४२।१)
sapphire:: parīkṣā:: good qualityekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam |
नीलं प्रोक्तं पिण्डितं सप्तसंज्ञैर् एतैर् लिङ्गैर् लक्षितं चोत्तमं हि ॥ (४२।२)
nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi ||
सप्फिरे:: परीक्षा:: बद् क़ुअलित्य् = जलनीलनिर्भारं चेत्कोमलं चास्रगन्धि रूक्षं वर्णे सूक्ष्मकं चिप्पिटं च । (४३।१)
sapphire:: parīkṣā:: bad quality = jalanīlanirbhāraṃ cetkomalaṃ cāsragandhi rūkṣaṃ varṇe sūkṣmakaṃ cippiṭaṃ ca |
प्रोक्तं वै तद्वारिनीलं भिषग्भिरेतैर्लिंगैः सप्तभिः क्षेपणीयम् ॥ (४३।२)
proktaṃ vai tadvārinīlaṃ bhiṣagbhiretairliṃgaiḥ saptabhiḥ kṣepaṇīyam ||
सप्फिरे:: मेदिच्। प्रोपेर्तिएस्संदीपनं श्वासहरं च वृष्यं दोषत्रयोन्मूलनकं विषघ्नम् । (४४।१)
sapphire:: medic. propertiessaṃdīpanaṃ śvāsaharaṃ ca vṛṣyaṃ doṣatrayonmūlanakaṃ viṣaghnam |
दुर्नामपांडुघ्नमतीव बल्यं जूर्तिं जयेन्नीलमिदं प्रशस्तम् ॥ (४४।२)
durnāmapāṃḍughnamatīva balyaṃ jūrtiṃ jayennīlamidaṃ praśastam ||
गोमेद:: परीक्षा:: गोओद् क़ुअलित्य्गोमेदकं रत्नवरं प्रशस्तं गोमेदवद् रागयुतं प्रचक्षते । (४५।१)
gomeda:: parīkṣā:: good qualitygomedakaṃ ratnavaraṃ praśastaṃ gomedavad rāgayutaṃ pracakṣate |
सुस्वच्छगोमूत्रसमानवर्णं गोमेदकं शुद्धमिहोच्यते खलु ॥ (४५।२)
susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu ||
दीप्तं स्निग्धं निर्दलं मसृणं वै मूत्रच्छायं स्वच्छमेतत्समं च । (४६।१)
dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca |
एभिर् लिङ्गैर्लक्षितं वै गरीयः सर्वास्वेतद्योजनीयं क्रियासु ॥ (४६।२)
ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu ||
गोमेद:: परीक्षा:: बद् क़ुअलित्य्विच्छायं वा चिप्पिटं निष्प्रभं च रूक्षं चाल्पं चावृतं पाटलेन । (४७।१)
gomeda:: parīkṣā:: bad qualityvicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena |
निर्भारं वा पीतकाचाभयुक्तं गोमेदं चेदीदृशं नो वरिष्ठम् ॥ (४७।२)
nirbhāraṃ vā pītakācābhayuktaṃ gomedaṃ cedīdṛśaṃ no variṣṭham ||
गोमेद:: मेदिच्। प्रोपेर्तिएस्गोमेदकं पित्तहरं प्रदिष्टं पाण्डुक्षयघ्नं कफनाशनं च । (४८।१)
gomeda:: medic. propertiesgomedakaṃ pittaharaṃ pradiṣṭaṃ pāṇḍukṣayaghnaṃ kaphanāśanaṃ ca |
संदीपनं पाचनमेव रुच्यम् अत्यंतबुद्धिप्रविबोधनं च ॥ (४८।२)
saṃdīpanaṃ pācanameva rucyam atyaṃtabuddhipravibodhanaṃ ca ||
वैडूर्य:: परीक्षा:: गोओद् क़ुअलित्य्स्वच्छं समं चापि विडूर्यकं हि श्यामाभशुभ्रं च गुरु स्फुटं वा । (४९।१)
vaiḍūrya:: parīkṣā:: good qualitysvacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā |
यज्ञोपवीतोपमशुद्धरेषास् तिस्रश्च संदर्शयतीह शुभ्राः ॥ (४९।२)
yajñopavītopamaśuddhareṣās tisraśca saṃdarśayatīha śubhrāḥ ||
वैडूर्य:: परीक्षा:: बद् क़ुअलित्य्कर्कशं च लघु चिप्पटं सदा श्यामतोयमिव दृश्यते छविः । (५०।१)
vaiḍūrya:: parīkṣā:: bad qualitykarkaśaṃ ca laghu cippaṭaṃ sadā śyāmatoyamiva dṛśyate chaviḥ |
रक्तगर्भसममुत्तरीयकं नैव शोभनमिदं विडूर्यकम् ॥ (५०।२)
raktagarbhasamamuttarīyakaṃ naiva śobhanamidaṃ viḍūryakam ||
वैडूर्य:: मेदिच्। प्रोपेर्तिएस्रक्तपित्तशमनं विडूर्यकं बुद्धिवर्धनकरं च दीपनम् । (५१।१)
vaiḍūrya:: medic. propertiesraktapittaśamanaṃ viḍūryakaṃ buddhivardhanakaraṃ ca dīpanam |
पित्तरोगमलमोचनं सदा धारयेच्च मतिमान् सुखावहम् ॥ (५१।२)
pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham ||
सर्वरत्नेषु दोषाःघर्षश्च बिंदुश्च तथैव रेषा त्रासश्च पानीयकृता सगर्भता । (५२।१)
sarvaratneṣu doṣāḥgharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā |
सर्वेषु रत्नेषु च पञ्चदोषाः साधारणास्ते कथिता मुनीन्द्रैः ॥ (५२।२)
sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ ||
ये क्षेत्रतोयप्रभवाश्च दोषाः सर्वेषु रत्नेषु गलन्ति सम्यक् ॥ (५३।०)
ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak ||
तेषां च शुद्धिं शृणु भैरवोक्तां यथा हि दोषस्य विनाशनं स्यात् । (५४।१)
teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt |
जेwएल्:: शोधनअम्लेन वै शुध्यति माणिक्याख्यं जयन्तिकायाः स्वरसेन मौक्तिकम् ॥ (५४।२)
jewel:: śodhanaamlena vai śudhyati māṇikyākhyaṃ jayantikāyāḥ svarasena mauktikam ||
क्षारेण सर्वेण हि विद्रुमं च गोदुग्धतस् तार्क्ष्यमुपैति शुद्धिम् । (५५।१)
kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim |
धान्यस्याम्लैः पुष्परागस्य शुद्धिं कौलत्थे वै क्वाथ्यमानं हि वज्रम् ॥ (५५।२)
dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram ||
नीलं नीलीपत्रजातै रसैश्च गोमेदं वै रोचनाया रसेन । (५६।१)
nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena |
वैडूर्यं चेदुत्तमाक्वाथयुक्तं यामैकैकं स्वेदितं शुद्धिमेति ॥ (५६।२)
vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti ||
रत्नमारणम्तालगंधकशिलासमन्वितं मर्दयेल्लकुचवारिणा खलु । (५७।१)
ratnamāraṇamtālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu |
वज्रवर्ज्यमपि चाष्टभिः पुटै रत्नभस्म भवतीति निश्चितम् ॥ (५७।२)
vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam ||
जेwएल्:: द्रावणरामठं लवणपंचकं सदा क्षारयुग्ममपि चेत्सुपेषितम् । (५८।१)
jewel:: drāvaṇarāmaṭhaṃ lavaṇapaṃcakaṃ sadā kṣārayugmamapi cetsupeṣitam |
चूलिकालवणमम्लवेतसं पक्वकुम्भिकफलं तथैव च ॥ (५८।२)
cūlikālavaṇamamlavetasaṃ pakvakumbhikaphalaṃ tathaiva ca ||
चित्रमूलकरुदन्तिके शुभा जम्बुकी जलयुता द्रवन्तिका । (५९।१)
citramūlakarudantike śubhā jambukī jalayutā dravantikā |
अर्कदुग्धसमसौधदुग्धकं सर्वमेव मृदितं शिलातले ॥ (५९।२)
arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale ||
गोलमस्य च विधाय निक्षिपेद्रत्नजातिषु वराणि पेषयेत् । (६०।१)
golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet |
भूर्जपत्रमभिवेष्ट्य गोलके गोलकोपरि निवेष्ट्य सूत्रतः ॥ (६०।२)
bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya sūtrataḥ ||
वस्त्रेण संवेष्ट्य ततः प्रयत्नाद् दोलाख्ययंत्रेऽथ निवेश्य गोलकम् । (६१।१)
vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam |
सर्वाम्लयुक्ते तुषवारिपूरिते पात्रं दृढे मृण्मयसंज्ञके हि ॥ (६१।२)
sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi ||
दिनत्रयं स्वेदनकं विधेयमाहृत्य तस्माद्वरगोलकं हि । (६२।१)
dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi |
संक्षालयेच्चाम्लजलेन चापि संजायते रत्नभवा द्रुतिश्च ॥ (६२।२)
saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca ||
द्रुतिलक्षणानिवर्णेन सा रत्ननिभा च कान्त्या लघ्वी भवेद्देहकरी च सम्यक् । (६३।१)
drutilakṣaṇānivarṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak |
लोहस्य वेधं प्रकरोति सम्यक् सूतेन सम्यङ्मिलनं प्रयाति ॥ (६३।२)
lohasya vedhaṃ prakaroti samyak sūtena samyaṅmilanaṃ prayāti ||
तदा भवेयुः खलु सिद्धता यदा हिंग्वादिवर्गेण मिलन्ति सम्यक् । (६४।१)
tadā bhaveyuḥ khalu siddhatā yadā hiṃgvādivargeṇa milanti samyak |
यामद्वयं कांस्यविमर्दिता वै चातिप्रयत्नेन तु वैद्यवर्यैः ॥ (६४।२)
yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ ||
कस्यापि नुः सिध्यति वै द्रुतिश्च यदा प्रसन्नः खलु पार्वतीशः । (६५।१)
kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ |
न स्याद्यावद् भैरवस्य प्रसादस्तावत्सूते बन्धनं दुर्लभं हि । (६५।२)
na syādyāvad bhairavasya prasādastāvatsūte bandhanaṃ durlabhaṃ hi |
तासां मध्ये दुर्लभाभ्रद्रुतिश्च स्वल्पं भाग्यं भूरिदौर्भाग्यभाजाम् ॥ (६५।३)
tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām ||
रत्नानां क्रमतो गुणाश्च कथितास्तच्छोधनं मारणं । (६६।१)
ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ |
तेभ्यश्चैव हि सत्वपातनमथो सम्यग्द्रुतेः पातनम् ॥ (६६।२)
tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam ||
सर्वेषां हि परीक्षणं च द्रुतयः सम्मेलनं वै रसे । (६७।१)
sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase |
अध्यायेऽत्र निदर्शितानि सकलान्येवं हि कर्माणि वै ॥ (६७।२)
adhyāye'tra nidarśitāni sakalānyevaṃ hi karmāṇi vai ||
Data courtesy of The Digital Corpus of Sanskrit.