BCar, 14
Select a line for its word-by-word analysis.
परमार्थं विजिज्ञासुः स दध्यौ ध्यानकोविदः ॥ (१।२)
paramārthaṃ vijijñāsuḥ sa dadhyau dhyānakovidaḥ ||
सर्वेषु ध्यानविधिषु प्राप्य चैश्वर्यमुत्तमम् । (२।१)
sarveṣu dhyānavidhiṣu prāpya caiśvaryamuttamam |
स्मृत्वा जन्म च मृत्युं च तासु तासूपपत्तिषु । (४।१)
smṛtvā janma ca mṛtyuṃ ca tāsu tāsūpapattiṣu |
कृत्वेह स्वजनोत्सर्गं पुनरन्यत्र च क्रियाः । (५।१)
kṛtveha svajanotsargaṃ punaranyatra ca kriyāḥ |
अत्राणः खलु लोको ऽयं परिभ्रमति चक्रवत् ॥ (५।२)
atrāṇaḥ khalu loko 'yaṃ paribhramati cakravat ||
दिव्यं लेभे परं चक्षुः सर्वचक्षुष्मतां वरः ॥ (७।२)
divyaṃ lebhe paraṃ cakṣuḥ sarvacakṣuṣmatāṃ varaḥ ||
सत्त्वानां पश्यतस्तस्य निकृष्टोत्कृष्टकर्मणाम् । (९।१)
sattvānāṃ paśyatastasya nikṛṣṭotkṛṣṭakarmaṇām |
इमे दुष्कृतकर्माणः प्राणिनो यान्ति दुर्गतिम् । (१०।१)
ime duṣkṛtakarmāṇaḥ prāṇino yānti durgatim |
इमे ऽन्ये शुभकर्माणः प्रतिष्ठन्ते त्रिपिष्टपे ॥ (१०।२)
ime 'nye śubhakarmāṇaḥ pratiṣṭhante tripiṣṭape ||
अमी दुःखैर्बहुविधैः पीड्यन्ते कृपणं बत ॥ (११।२)
amī duḥkhairbahuvidhaiḥ pīḍyante kṛpaṇaṃ bata ||
पाय्यन्ते क्वथितं केचिद् अग्निवर्णम् अयोरसम् । (१२।१)
pāyyante kvathitaṃ kecid agnivarṇam ayorasam |
आरोप्यन्ते रुवन्तो ऽन्ये निष्टप्तस्तम्भमायसम् ॥ (१२।२)
āropyante ruvanto 'nye niṣṭaptastambhamāyasam ||
पच्यन्ते पिष्टवत्केचिदयस्कुम्भीष्ववाङ्मुखाः । (१३।१)
pacyante piṣṭavatkecidayaskumbhīṣvavāṅmukhāḥ |
दह्यन्ते करुणं केचिद्दीप्तेष्वङ्गारराशिषु ॥ (१३।२)
dahyante karuṇaṃ keciddīpteṣvaṅgārarāśiṣu ||
केचित्तीक्ष्णैर् अयोदंष्ट्रैर् भक्ष्यन्ते दारुणैः श्वभिः । (१४।१)
kecittīkṣṇair ayodaṃṣṭrair bhakṣyante dāruṇaiḥ śvabhiḥ |
केचिद्धृष्टैर् अयस्तुण्डैर् वायसैर् आयसैरिव ॥ (१४।२)
keciddhṛṣṭair ayastuṇḍair vāyasair āyasairiva ||
केचिद्दाहपरिश्रान्ताः शीतच्छायाभिकाङ्क्षिणः । (१५।१)
keciddāhapariśrāntāḥ śītacchāyābhikāṅkṣiṇaḥ |
पाट्यन्ते दारुवत्केचित्कुठारैर्बद्धबाहवः । (१६।१)
pāṭyante dāruvatkecitkuṭhārairbaddhabāhavaḥ |
दुःखे ऽपि न विपच्यन्ते कर्मभिर्धारितासवः ॥ (१६।२)
duḥkhe 'pi na vipacyante karmabhirdhāritāsavaḥ ||
सुखं स्यादिति यत्कर्म कृतं दुःखनिवृत्तये । (१७।१)
sukhaṃ syāditi yatkarma kṛtaṃ duḥkhanivṛttaye |
सुखार्थमशुभं कृत्वा य एते भृशदुःखिताः । (१८।१)
sukhārthamaśubhaṃ kṛtvā ya ete bhṛśaduḥkhitāḥ |
हसद्भिर्यत्कृतं कर्म कलुषं कलुषात्मभिः । (१९।१)
hasadbhiryatkṛtaṃ karma kaluṣaṃ kaluṣātmabhiḥ |
यद्येवं पापकर्माणः पश्येयुः कर्मणां फलम् । (२०।१)
yadyevaṃ pāpakarmāṇaḥ paśyeyuḥ karmaṇāṃ phalam |
इमे ऽन्ये कर्मभिश्चित्रैश् चित्तविस्पन्दसंभवैः । (२१।१)
ime 'nye karmabhiścitraiś cittavispandasaṃbhavaiḥ |
तिर्यग्योनौ विचित्रायाम् उपपन्नास्तपस्विनः ॥ (२१।२)
tiryagyonau vicitrāyām upapannāstapasvinaḥ ||
हन्यन्ते कृपणं यत्र बन्धूनां पश्यतामपि ॥ (२२।२)
hanyante kṛpaṇaṃ yatra bandhūnāṃ paśyatāmapi ||
अशक्नुवन्तो ऽप्यवशाः क्षुत्तर्षश्रमपीडिताः । (२३।१)
aśaknuvanto 'pyavaśāḥ kṣuttarṣaśramapīḍitāḥ |
गोऽश्वभूताश्च वाह्यन्ते प्रतोदक्षतमूर्तयः ॥ (२३।२)
go'śvabhūtāśca vāhyante pratodakṣatamūrtayaḥ ||
वाह्यन्ते गजभूताश्च बलीयांसो ऽपि दुर्बलैः । (२४।१)
vāhyante gajabhūtāśca balīyāṃso 'pi durbalaiḥ |
अङ्कुशक्लिष्टमूर्धानस्ताडिताः पादपार्ष्णिभिः ॥ (२४।२)
aṅkuśakliṣṭamūrdhānastāḍitāḥ pādapārṣṇibhiḥ ||
सत्स्वप्यन्येषु दुःखेषु दुःखं यत्र विशेषतः । (२५।१)
satsvapyanyeṣu duḥkheṣu duḥkhaṃ yatra viśeṣataḥ |
खस्थाः खस्थैर्हि बाध्यन्ते जलस्था जलचारिभिः । (२६।१)
khasthāḥ khasthairhi bādhyante jalasthā jalacāribhiḥ |
स्थलस्थाः स्थलसंस्थैश्च प्राप्य चैवेतरेतरैः ॥ (२६।२)
sthalasthāḥ sthalasaṃsthaiśca prāpya caivetaretaraiḥ ||
क्षुत्तर्षजनितैर् दुःखैः पीड्यन्ते दुःखभागिनः ॥ (२८।२)
kṣuttarṣajanitair duḥkhaiḥ pīḍyante duḥkhabhāginaḥ ||
आशया समतिक्रान्ता धार्यमाणाः स्वकर्मभिः । (२९।१)
āśayā samatikrāntā dhāryamāṇāḥ svakarmabhiḥ |
लभन्ते न ह्यमी भोक्तुं प्रविद्धान्यशुचीन्यपि ॥ (२९।२)
labhante na hyamī bhoktuṃ praviddhānyaśucīnyapi ||
इमे ऽन्ये नरकप्रख्ये गर्भसंज्ञे ऽशुचिह्रदे । (३१।१)
ime 'nye narakaprakhye garbhasaṃjñe 'śucihrade |
उपपन्ना मनुष्येषु दुःखमर्छन्ति जन्तवः ॥ (३१।२)
upapannā manuṣyeṣu duḥkhamarchanti jantavaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.