मातृकाभेदतन्त्रMātṛkābhedatantra

MBhT, 12

12 of 14 · 147 verses

Select a line for its word-by-word analysis.

1.1१.१

श्रीशंकर उवाच । (१।१)

śrīśaṃkara uvāca

1.2१.२

अथातः सम्प्रवक्ष्यामि पूजाधारं सुदुर्लभम् ॥ (१।२)

athātaḥ sampravakṣyāmi pūjādhāraṃ sudurlabham ||

1.3१.३

शालग्रामे मणौ यन्त्रे प्रतिमायां घटे जले । (१।३)

śālagrāme maṇau yantre pratimāyāṃ ghaṭe jale |

2.1२.१

पुस्तिकायां च गङ्गायां शिवलिङ्गे प्रसूनके । (२।१)

pustikāyāṃ ca gaṅgāyāṃ śivaliṅge prasūnake |

2.2२.२

शालग्रामे शतगुणं मणौ तद्वत् फलं लभेत् ॥ (२।२)

śālagrāme śataguṇaṃ maṇau tadvat phalaṃ labhet ||

3.1३.१

यन्त्रे लक्षगुणं पुण्यं मूर्तौ लक्षं सुलोचने । (३।१)

yantre lakṣaguṇaṃ puṇyaṃ mūrtau lakṣaṃ sulocane |

3.2३.२

घटे चैकगुणं पुण्यं जले चैकगुणं प्रिये ॥ (३।२)

ghaṭe caikaguṇaṃ puṇyaṃ jale caikaguṇaṃ priye ||

4.1४.१

पुस्तिकायां सहस्रं तु गङ्गायां तत्समं फलम् । (४।१)

pustikāyāṃ sahasraṃ tu gaṅgāyāṃ tatsamaṃ phalam |

4.2४.२

शिवलिङ्गे ह्य् अनन्तं हि विना पार्थिवलिङ्गके ॥ (४।२)

śivaliṅge hy anantaṃ hi vinā pārthivaliṅgake ||

5.1५.१

पुष्पयन्त्रे महेशानि पूजनात् सर्वसिद्धिभाक् । (५।१)

puṣpayantre maheśāni pūjanāt sarvasiddhibhāk |

5.2५.२

शालग्रामे च पूजायां न लिखेद् यन्त्रम् उत्तमम् ॥ (५।२)

śālagrāme ca pūjāyāṃ na likhed yantram uttamam ||

6.1६.१

मणौ स्थिते महेशानि न लिखेद् यन्त्रम् उत्तमम् । (६।१)

maṇau sthite maheśāni na likhed yantram uttamam |

6.2६.२

प्रतिमायां च पूजायां न लिखेद् यन्त्रम् उत्तमम् ॥ (६।२)

pratimāyāṃ ca pūjāyāṃ na likhed yantram uttamam ||

7.1७.१

प्रतिमायाश् च पुरतो घटं संस्थाप्य यत्नतः । (७।१)

pratimāyāś ca purato ghaṭaṃ saṃsthāpya yatnataḥ |

7.2७.२

परिवारान् यजेत् तत्र घटे तु परमेश्वरि ॥ (७।२)

parivārān yajet tatra ghaṭe tu parameśvari ||

8.1८.१

यन्त्राधिष्ठातृदेवांश् च घटे यन्त्रे प्रपूजयेत् । (८।१)

yantrādhiṣṭhātṛdevāṃś ca ghaṭe yantre prapūjayet |

8.2८.२

समस्तदेवतारूपं घटं तु परिचिन्तयेत् । (८।२)

samastadevatārūpaṃ ghaṭaṃ tu paricintayet |

8.3८.३

सुरद्रुमस्वरूपो ऽयं घटो हि परमेश्वरि ॥ (८।३)

suradrumasvarūpo 'yaṃ ghaṭo hi parameśvari ||

9.1९.१

जन्मस्थानं महायन्त्रं यदि कुर्यात् तु साधकः । (९।१)

janmasthānaṃ mahāyantraṃ yadi kuryāt tu sādhakaḥ |

9.2९.२

तत्र मूर्तिं न कुर्यात् तु कदाचिद् अपि मोहतः ॥ (९।२)

tatra mūrtiṃ na kuryāt tu kadācid api mohataḥ ||

10.1१०.१

यदि मूर्तिं प्रकुर्यात् तु तत्र यन्त्रं न कारयेत् । (१०।१)

yadi mūrtiṃ prakuryāt tu tatra yantraṃ na kārayet |

10.2१०.२

यदि कुर्यात् तु मोहेन यजेद् वारद्वयं प्रिये ॥ (१०।२)

yadi kuryāt tu mohena yajed vāradvayaṃ priye ||

11.1११.१

द्विगुणं पूजनं तत्र द्विगुणं बलिदानकम् । (११।१)

dviguṇaṃ pūjanaṃ tatra dviguṇaṃ balidānakam |

11.2११.२

द्विगुणं प्रजपेन् मन्त्रं द्विगुणं होमयेत् सुधीः ॥ (११।२)

dviguṇaṃ prajapen mantraṃ dviguṇaṃ homayet sudhīḥ ||

12.1१२.१

अन्यथा विफला पूजा विफलं बलिदानकम् । (१२।१)

anyathā viphalā pūjā viphalaṃ balidānakam |

12.2१२.२

सर्वं हि विफलं यस्मात् तस्माद् यन्त्रं न कारयेत् ॥ (१२।२)

sarvaṃ hi viphalaṃ yasmāt tasmād yantraṃ na kārayet ||

13.1१३.१

इति ते कथितं कान्ते पूजाधारं सुदुर्लभम् ॥ (१३।१)

iti te kathitaṃ kānte pūjādhāraṃ sudurlabham ||

14.1१४.१

अथातः सम्प्रवक्ष्यामि शिवलिङ्गस्य लक्षणम् । (१४।१)

athātaḥ sampravakṣyāmi śivaliṅgasya lakṣaṇam |

14.2१४.२

पार्थिवे शिवपूजायां सर्वसिद्धियुतो भवेत् ॥ (१४।२)

pārthive śivapūjāyāṃ sarvasiddhiyuto bhavet ||

15.1१५.१

पाषाणे शिवपूजायां द्विगुणं फलम् ईरितम् । (१५।१)

pāṣāṇe śivapūjāyāṃ dviguṇaṃ phalam īritam |

15.2१५.२

स्वर्णलिङ्गे च पूजायां शत्रूणां नाशनं मतम् ॥ (१५।२)

svarṇaliṅge ca pūjāyāṃ śatrūṇāṃ nāśanaṃ matam ||

16.1१६.१

सर्वसिद्धीश्वरो रौप्ये फलं तस्माच् चतुर्गुणम् । (१६।१)

sarvasiddhīśvaro raupye phalaṃ tasmāc caturguṇam |

16.2१६.२

ताम्रे पुष्टिं विजानीयात् कांस्ये च धनसंचयम् ॥ (१६।२)

tāmre puṣṭiṃ vijānīyāt kāṃsye ca dhanasaṃcayam ||

17.1१७.१

पारदस्य च माहात्म्यं पुरैव कथितं मया । (१७।१)

pāradasya ca māhātmyaṃ puraiva kathitaṃ mayā |

17.2१७.२

गङ्गायां च लक्षगुणं लाक्षायां रोगवान् भवेत् ॥ (१७।२)

gaṅgāyāṃ ca lakṣaguṇaṃ lākṣāyāṃ rogavān bhavet ||

18.1१८.१

स्फाटिके सर्वसिद्धिः स्यात् तथा मारकते प्रिये । (१८।१)

sphāṭike sarvasiddhiḥ syāt tathā mārakate priye |

18.2१८.२

लौहलिङ्गे रिपोर् नाशं कामदं भस्मलिङ्गके ॥ (१८।२)

lauhaliṅge ripor nāśaṃ kāmadaṃ bhasmaliṅgake ||

19.1१९.१

वालुकायां काम्यसिद्धिर् गोमये रिपुहिंसनम् । (१९।१)

vālukāyāṃ kāmyasiddhir gomaye ripuhiṃsanam |

19.2१९.२

सर्वलिङ्गस्य माहात्म्यं धर्मार्थकाममोक्षदम् ॥ (१९।२)

sarvaliṅgasya māhātmyaṃ dharmārthakāmamokṣadam ||

20.1२०.१

आधारभेदे यत् पुण्यं चाधिकं कथितं तु ते । (२०।१)

ādhārabhede yat puṇyaṃ cādhikaṃ kathitaṃ tu te |

20.2२०.२

अतिरिक्तफलान्य् एतदाधारस्य सुलोचने ॥ (२०।२)

atiriktaphalāny etadādhārasya sulocane ||

21.1२१.१

शिवस्य पूजनाद् देवि चतुर्वर्गाधिपो भवेत् । (२१।१)

śivasya pūjanād devi caturvargādhipo bhavet |

21.2२१.२

अष्टैश्वर्ययुतो मर्त्यः शम्भुनाथस्य पूजनात् ॥ (२१।२)

aṣṭaiśvaryayuto martyaḥ śambhunāthasya pūjanāt ||

22.1२२.१

स्वयं नारायणः प्रोक्तो यदि शम्भुं प्रपूजयेत् । (२२।१)

svayaṃ nārāyaṇaḥ prokto yadi śambhuṃ prapūjayet |

22.2२२.२

स्वर्गे मर्त्ये च पाताले ये देवाः संस्थिताः सदा । (२२।२)

svarge martye ca pātāle ye devāḥ saṃsthitāḥ sadā |

22.3२२.३

तेषां पूजा भवेद् देवि शम्भुनाथस्य पूजनात् ॥ (२२।३)

teṣāṃ pūjā bhaved devi śambhunāthasya pūjanāt ||

23.1२३.१

स्वर्णपुष्पसहस्रेण यत् फलं लभते नरः । (२३।१)

svarṇapuṣpasahasreṇa yat phalaṃ labhate naraḥ |

23.2२३.२

तस्माल् लक्षगुणं पुण्यं भग्नैकबिल्वपत्त्रके ॥ (२३।२)

tasmāl lakṣaguṇaṃ puṇyaṃ bhagnaikabilvapattrake ||

24.1२४.१

भग्नैकबिल्वपत्त्रस्य सहस्रकेन भागतः । (२४।१)

bhagnaikabilvapattrasya sahasrakena bhāgataḥ |

24.2२४.२

मेरुतुल्यसुवर्णेन तत्फलं न हि लभ्यते ॥ (२४।२)

merutulyasuvarṇena tatphalaṃ na hi labhyate ||

25.1२५.१

शुद्धाशुद्धविचारो ऽपि नास्ति तच्छिवपूजने । (२५।१)

śuddhāśuddhavicāro 'pi nāsti tacchivapūjane |

25.2२५.२

येन तेन प्रकारेण बिल्वपत्त्रैः प्रपूजनात् । (२५।२)

yena tena prakāreṇa bilvapattraiḥ prapūjanāt |

25.3२५.३

सर्वसिद्धियुतो भूत्वा स नरः सिद्ध एव हि ॥ (२५।३)

sarvasiddhiyuto bhūtvā sa naraḥ siddha eva hi ||

26.1२६.१

ब्रह्माण्डमध्ये ये देवास् तद्बाह्ये याश् च देवताः । (२६।१)

brahmāṇḍamadhye ye devās tadbāhye yāś ca devatāḥ |

26.2२६.२

ते सर्वे तृप्तिम् आयान्ति केवलं शिवपूजनात् ॥ (२६।२)

te sarve tṛptim āyānti kevalaṃ śivapūjanāt ||

27.1२७.१

पुष्पं गन्धं जलं द्रव्यं लिङ्गोपरि नियोजयेत् । (२७।१)

puṣpaṃ gandhaṃ jalaṃ dravyaṃ liṅgopari niyojayet |

27.2२७.२

लिङ्गमध्ये महावह्निः सैव रुद्रः प्रकीर्तितः ॥ (२७।२)

liṅgamadhye mahāvahniḥ saiva rudraḥ prakīrtitaḥ ||

28.1२८.१

रुद्रोपरि क्षिपेद् यत् तु तद् एव भस्मतां गतः ॥ (२८।१)

rudropari kṣiped yat tu tad eva bhasmatāṃ gataḥ ||

29.1२९.१

साक्षाद्धोमो महेशानि शिवस्य पूजनाद् भवेत् । (२९।१)

sākṣāddhomo maheśāni śivasya pūjanād bhavet |

29.2२९.२

महायज्ञेश्वरो मर्त्यः शिवस्य पूजनाद् भवेत् ॥ (२९।२)

mahāyajñeśvaro martyaḥ śivasya pūjanād bhavet ||

30.1३०.१

कुशाग्रमानं यत् तोयं तत्तोयेन यजेद् यदि । (३०।१)

kuśāgramānaṃ yat toyaṃ tattoyena yajed yadi |

30.2३०.२

सत्यं सत्यं हि गिरिजे तज् जलं सागरोपमम् ॥ (३०।२)

satyaṃ satyaṃ hi girije taj jalaṃ sāgaropamam ||

31.1३१.१

पुष्पं च मेरुसदृशं लिङ्गोपरि नियोजनात् । (३१।१)

puṣpaṃ ca merusadṛśaṃ liṅgopari niyojanāt |

31.2३१.२

लिङ्गस्य मस्तके देवि यद् अन्नं परितिष्ठति ॥ (३१।२)

liṅgasya mastake devi yad annaṃ paritiṣṭhati ||

32.1३२.१

तदन्नस्य च दानेन क्षितिदानफलं लभेत् ॥ (३२।१)

tadannasya ca dānena kṣitidānaphalaṃ labhet ||

33.1३३.१

एकेन तण्डुलेनैव यदि लिङ्गं प्रपूजयेत् । (३३।१)

ekena taṇḍulenaiva yadi liṅgaṃ prapūjayet |

33.2३३.२

ब्रह्माण्डपात्रसम्पूर्णम् अन्नदानफलं लभेत् ॥ (३३।२)

brahmāṇḍapātrasampūrṇam annadānaphalaṃ labhet ||

34.1३४.१

एकया दूर्वया वापि यो ऽर्चयेच् छिवलिङ्गकम् । (३४।१)

ekayā dūrvayā vāpi yo 'rcayec chivaliṅgakam |

34.2३४.२

सर्वदेवस्य शीर्षे तु चार्धदानफलं लभेत् ॥ (३४।२)

sarvadevasya śīrṣe tu cārdhadānaphalaṃ labhet ||

35.1३५.१

सामान्यतोयम् आनीय यदि स्नायान् महेश्वरम् । (३५।१)

sāmānyatoyam ānīya yadi snāyān maheśvaram |

35.2३५.२

सार्धत्रिकोटितीर्थस्य स्नानस्य फलभाग् भवेत् ॥ (३५।२)

sārdhatrikoṭitīrthasya snānasya phalabhāg bhavet ||

36.1३६.१

श्रीचण्डिकोवाच । (३६।१)

śrīcaṇḍikovāca |

36.2३६.२

तारिणी ब्रह्मणः शक्तिस् त्रिपुरा वैष्णवी परा । (३६।२)

tāriṇī brahmaṇaḥ śaktis tripurā vaiṣṇavī parā |

36.3३६.३

कथं शाकम्भरी तारा त्रिपुरा शाम्भवी कथम् ॥ (३६।३)

kathaṃ śākambharī tārā tripurā śāmbhavī katham ||

37.1३७.१

श्रीशंकर उवाच । (३७।१)

śrīśaṃkara uvāca

37.2३७.२

काली देहाद् यदा जाता सावित्री वेदमातृका । (३७।२)

kālī dehād yadā jātā sāvitrī vedamātṛkā |

37.3३७.३

त्रिवर्गदात्री सा देवी ब्रह्मणः शक्तिर् एव च ॥ (३७।३)

trivargadātrī sā devī brahmaṇaḥ śaktir eva ca ||

38.1३८.१

गुप्तरूपा महाविद्या शैवी सैकजटा परा । (३८।१)

guptarūpā mahāvidyā śaivī saikajaṭā parā |

38.2३८.२

तस्माल् लक्ष्मीर् वैष्णवी या त्रिवर्गदायिनी शिवा ॥ (३८।२)

tasmāl lakṣmīr vaiṣṇavī yā trivargadāyinī śivā ||

39.1३९.१

गुप्तरूपा महाविद्या श्रीमत्त्रिपुरसुन्दरी । (३९।१)

guptarūpā mahāvidyā śrīmattripurasundarī |

39.2३९.२

शाम्भवी परमा माया त्रिपुरा मोक्षदायिनी ॥ (३९।२)

śāmbhavī paramā māyā tripurā mokṣadāyinī ||

40.1४०.१

एकैव हि महाविद्या नाममात्रं पृथक् पृथक् । (४०।१)

ekaiva hi mahāvidyā nāmamātraṃ pṛthak pṛthak |

40.2४०.२

तथैव पुरुषश् चैको नाममात्रविभेदकः ॥ (४०।२)

tathaiva puruṣaś caiko nāmamātravibhedakaḥ ||

41.1४१.१

श्रीचण्डिकोवाच । (४१।१)

śrīcaṇḍikovāca |

41.2४१.२

मन्त्रधारणमात्रेण तदात्मा तन्मयो भवेत् । (४१।२)

mantradhāraṇamātreṇa tadātmā tanmayo bhavet |

41.3४१.३

कथं वा वातुलः सो ऽपि कथं वा रोगवान् भवेत् ॥ (४१।३)

kathaṃ vā vātulaḥ so 'pi kathaṃ vā rogavān bhavet ||

42.1४२.१

श्रीशंकर उवाच । (४२।१)

śrīśaṃkara uvāca

42.2४२.२

मन्त्रच्छन्नाद् वातुलत्वं रोगो देहे न जायते । (४२।२)

mantracchannād vātulatvaṃ rogo dehe na jāyate |

42.3४२.३

मन्त्रच्छन्नं प्रवक्ष्यामि शृणु देवि समाहिता ॥ (४२।३)

mantracchannaṃ pravakṣyāmi śṛṇu devi samāhitā ||

43.1४३.१

अभक्तिश् चाक्षरे भ्रान्तिर् लुप्तिश् छन्नस् तथैव च । (४३।१)

abhaktiś cākṣare bhrāntir luptiś channas tathaiva ca |

43.2४३.२

ह्रस्वो दीर्घश् च कथनं स्वप्ने तु चाष्टधा स्मृतः ॥ (४३।२)

hrasvo dīrghaś ca kathanaṃ svapne tu cāṣṭadhā smṛtaḥ ||

44.1४४.१

अभक्त्या नैव सिद्धिः स्यात् कल्पकोटिशतैर् अपि । (४४।१)

abhaktyā naiva siddhiḥ syāt kalpakoṭiśatair api |

44.2४४.२

एवं मन्त्रश् चान्यथा वा चेति भ्रान्त्या च वातुलः ॥ (४४।२)

evaṃ mantraś cānyathā vā ceti bhrāntyā ca vātulaḥ ||

45.1४५.१

लुप्तवर्णे बुद्धिनाशश् छिन्ने नाशो भवेत् किल । (४५।१)

luptavarṇe buddhināśaś chinne nāśo bhavet kila |

45.2४५.२

ह्रस्वोच्चारे व्याधियुक्तो दीर्घजापे वसुक्षयः ॥ (४५।२)

hrasvoccāre vyādhiyukto dīrghajāpe vasukṣayaḥ ||

46.1४६.१

कथने मृत्युम् आप्नोति स्वप्ने ऽपि शृणु शैलजे । (४६।१)

kathane mṛtyum āpnoti svapne 'pi śṛṇu śailaje |

46.2४६.२

कालिकायाश् च ताराया मन्त्रो ऽपि ज्वलदग्निवत् ॥ (४६।२)

kālikāyāś ca tārāyā mantro 'pi jvaladagnivat ||

47.1४७.१

विप्ररूपेण देवेन प्रेमभावेन चेतसा । (४७।१)

viprarūpeṇa devena premabhāvena cetasā |

47.2४७.२

यदि मन्त्रं हरेद् देवि शृणु साधकलक्षणम् ॥ (४७।२)

yadi mantraṃ hared devi śṛṇu sādhakalakṣaṇam ||

48.1४८.१

सर्वाङ्गे वै भवेज् ज्वाला देहमध्ये विशेषतः । (४८।१)

sarvāṅge vai bhavej jvālā dehamadhye viśeṣataḥ |

48.2४८.२

तोये शैत्यं न जायेत तथैवौषधसेवने ॥ (४८।२)

toye śaityaṃ na jāyeta tathaivauṣadhasevane ||

49.1४९.१

सदा वातुलवत् सर्वं प्रत्यक्षे स्वप्नवद् भवेत् । (४९।१)

sadā vātulavat sarvaṃ pratyakṣe svapnavad bhavet |

49.2४९.२

वर्षमध्ये त्रिवर्षे वा मृत्युस् तस्य न संशयः ॥ (४९।२)

varṣamadhye trivarṣe vā mṛtyus tasya na saṃśayaḥ ||

50.1५०.१

श्रीचण्डिकोवाच । (५०।१)

śrīcaṇḍikovāca |

50.2५०.२

मन्त्रच्छन्नं चाष्टविधं तव वक्त्राच् छ्रुतं मया । (५०।२)

mantracchannaṃ cāṣṭavidhaṃ tava vaktrāc chrutaṃ mayā |

50.3५०.३

यदि दैवाद् भवेद् देव तस्योपायं वदस्व मे ॥ (५०।३)

yadi daivād bhaved deva tasyopāyaṃ vadasva me ||

51.1५१.१

श्रीशंकर उवाच । (५१।१)

śrīśaṃkara uvāca

51.2५१.२

बहुजापात् तथा होमात् कायक्लेशादिविस्तरात् । (५१।२)

bahujāpāt tathā homāt kāyakleśādivistarāt |

51.3५१.३

यदि भक्तिर् भवेद् देवि तस्य सिद्धिर् अदूरतः ॥ (५१।३)

yadi bhaktir bhaved devi tasya siddhir adūrataḥ ||

52.1५२.१

गुरुणा तत्सुतेनैव साधकेन वरानने । (५२।१)

guruṇā tatsutenaiva sādhakena varānane |

52.2५२.२

अक्षरे दूषणं हित्वा पुनर् मन्त्रं प्रकाशयेत् ॥ (५२।२)

akṣare dūṣaṇaṃ hitvā punar mantraṃ prakāśayet ||

53.1५३.१

गुरुणा तत्सुतेनैव साधकेन समाहितः । (५३।१)

guruṇā tatsutenaiva sādhakena samāhitaḥ |

53.2५३.२

लुप्तवर्णं समुत्थाप्य पुनर् मन्त्रं प्रकाशयेत् ॥ (५३।२)

luptavarṇaṃ samutthāpya punar mantraṃ prakāśayet ||

54.1५४.१

चक्रभेदेन षट्कोणं तथैव योनिमुद्रया । (५४।१)

cakrabhedena ṣaṭkoṇaṃ tathaiva yonimudrayā |

54.2५४.२

एकोच्चारे जपेन् मन्त्रं लक्षम् एकं वरानने । (५४।२)

ekoccāre japen mantraṃ lakṣam ekaṃ varānane |

54.3५४.३

गुर्वादिना महेशानि छिन्नदोषनिकृन्तनम् ॥ (५४।३)

gurvādinā maheśāni chinnadoṣanikṛntanam ||

55.1५५.१

गुरुणा लक्षजापेन तन् मन्त्रं श्रावयेत् त्रिधा । (५५।१)

guruṇā lakṣajāpena tan mantraṃ śrāvayet tridhā |

55.2५५.२

दूषणं ह्रस्वदीर्घस्य शान्तिश् चात्र न संशयः ॥ (५५।२)

dūṣaṇaṃ hrasvadīrghasya śāntiś cātra na saṃśayaḥ ||

56.1५६.१

गुरुणा तत्सुतेनैव साधकेनैव शैलजे । (५६।१)

guruṇā tatsutenaiva sādhakenaiva śailaje |

56.2५६.२

उक्तमार्गेण देवेशि जपेल् लक्षचतुष्टयम् ॥ (५६।२)

uktamārgeṇa deveśi japel lakṣacatuṣṭayam ||

57.1५७.१

तद्दशांशं हुनेत् पश्चात् तर्पणादि समाचरेत् ॥ (५७।१)

taddaśāṃśaṃ hunet paścāt tarpaṇādi samācaret ||

58.1५८.१

ततो ऽपि यदि नैवाभूत् साधकः स्थिरमानसः । (५८।१)

tato 'pi yadi naivābhūt sādhakaḥ sthiramānasaḥ |

58.2५८.२

चतुर्गुणं हि कर्तव्यं शिष्यस्य मुक्तिहेतवे ॥ (५८।२)

caturguṇaṃ hi kartavyaṃ śiṣyasya muktihetave ||

59.1५९.१

यदि मृत्युर् भवेत् तस्य तथापि मुक्तिभाग् भवेत् । (५९।१)

yadi mṛtyur bhavet tasya tathāpi muktibhāg bhavet |

59.2५९.२

कथनस्य दोषशान्तिर् भवत्य् एव न संशयः ॥ (५९।२)

kathanasya doṣaśāntir bhavaty eva na saṃśayaḥ ||

60.1६०.१

स्वप्ने ऽपि मन्त्रकथने श्मशाने चैव शैलजे । (६०।१)

svapne 'pi mantrakathane śmaśāne caiva śailaje |

60.2६०.२

उक्तमार्गेण देवेशि जपेल् लक्षं चतुष्टयम् ॥ (६०।२)

uktamārgeṇa deveśi japel lakṣaṃ catuṣṭayam ||

61.1६१.१

तद्दशांशं हुनेत् पश्चात् तर्पणादि समाचरेत् । (६१।१)

taddaśāṃśaṃ hunet paścāt tarpaṇādi samācaret |

61.2६१.२

ततो ऽपि यदि नैवाभूत् साधकः स्थिरमानसः ॥ (६१।२)

tato 'pi yadi naivābhūt sādhakaḥ sthiramānasaḥ ||

62.1६२.१

चतुर्गुणं हि कर्तव्यं पूर्वोक्तं पूजनं चरेत् । (६२।१)

caturguṇaṃ hi kartavyaṃ pūrvoktaṃ pūjanaṃ caret |

62.2६२.२

कुजे वा शनिवारे वा प्रथमे गमनं चरेत् । (६२।२)

kuje vā śanivāre vā prathame gamanaṃ caret |

62.3६२.३

सप्ताहं वा यजेद् देवीं तुरीयं वादिनं यजेत् ॥ (६२।३)

saptāhaṃ vā yajed devīṃ turīyaṃ vādinaṃ yajet ||

63.1६३.१

श्मशानसाधनं वक्ष्ये शृणु चैकाग्रचेतसा । (६३।१)

śmaśānasādhanaṃ vakṣye śṛṇu caikāgracetasā |

63.2६३.२

स्वर्णं रौप्यं तथा वस्त्रं दत्त्वा वरणम् आचरेत् ॥ (६३।२)

svarṇaṃ raupyaṃ tathā vastraṃ dattvā varaṇam ācaret ||

64.1६४.१

स्वर्णपीठं प्रदातव्यं चतुरङ्गुलिविस्तृतम् । (६४।१)

svarṇapīṭhaṃ pradātavyaṃ caturaṅgulivistṛtam |

64.2६४.२

भोगयोग्यं प्रदातव्यं मधुपर्कं यथोदितम् ॥ (६४।२)

bhogayogyaṃ pradātavyaṃ madhuparkaṃ yathoditam ||

65.1६५.१

राजपत्नी येन तुष्टा तोषयेत् तेन वाससा । (६५।१)

rājapatnī yena tuṣṭā toṣayet tena vāsasā |

65.2६५.२

अलंकारं यथायोग्यं तत्र तत्र नियोजयेत् ॥ (६५।२)

alaṃkāraṃ yathāyogyaṃ tatra tatra niyojayet ||

66.1६६.१

नैवेद्यं विविधं रम्यं नानाद्रव्यसमन्वितम् । (६६।१)

naivedyaṃ vividhaṃ ramyaṃ nānādravyasamanvitam |

66.2६६.२

सामिषान्नं गुडं छागं सुरापिष्टकपायसम् ॥ (६६।२)

sāmiṣānnaṃ guḍaṃ chāgaṃ surāpiṣṭakapāyasam ||

67.1६७.१

भोग्यद्रव्यं जले दद्याद् यदि भोक्ता न तिष्ठति । (६७।१)

bhogyadravyaṃ jale dadyād yadi bhoktā na tiṣṭhati |

67.2६७.२

एवं पूजां समाप्यादौ शिवपूजां समाचरेत् ॥ (६७।२)

evaṃ pūjāṃ samāpyādau śivapūjāṃ samācaret ||

68.1६८.१

षोडशैर् उपचारैश् च लिङ्गानां चैकविंशतिम् । (६८।१)

ṣoḍaśair upacāraiś ca liṅgānāṃ caikaviṃśatim |

68.2६८.२

अष्टोत्तरशतेनैव बिल्वपत्त्रैः सचन्दनैः ॥ (६८।२)

aṣṭottaraśatenaiva bilvapattraiḥ sacandanaiḥ ||

69.1६९.१

प्रत्येकं पूजयेन् मन्त्रं गजान्तकसहस्रकम् । (६९।१)

pratyekaṃ pūjayen mantraṃ gajāntakasahasrakam |

69.2६९.२

सहस्रं होमयेत् पश्चाद् बिल्वपत्त्रैर् वरानने ॥ (६९।२)

sahasraṃ homayet paścād bilvapattrair varānane ||

70.1७०.१

एवं कृते लभेच् छान्तिं दीर्घायुर् नात्र संशयः ॥ (७०।१)

evaṃ kṛte labhec chāntiṃ dīrghāyur nātra saṃśayaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

MBhT, 12

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit