मातृकाभेदतन्त्रMātṛkābhedatantra

MBhT, 8

8 of 14 · 76 verses

Select a line for its word-by-word analysis.

1.1१.१

श्रीदेव्य् उवाच । (१।१)

śrīdevy uvāca

1.2१.२

शृणु नाथ परानन्द परापरकुलात्मक । (१।२)

śṛṇu nātha parānanda parāparakulātmaka |

1.3१.३

त्वां विना त्राणकर्ता च मम ज्ञाने न वर्तते ॥ (१।३)

tvāṃ vinā trāṇakartā ca mama jñāne na vartate ||

2.1२.१

पूर्णलिङ्गं महेशान शिवबीजं न चान्यथा । (२।१)

pūrṇaliṅgaṃ maheśāna śivabījaṃ na cānyathā |

2.2२.२

शिलामध्ये तथा चक्रं लक्ष्मीनारायणं परम् ॥ (२।२)

śilāmadhye tathā cakraṃ lakṣmīnārāyaṇaṃ param ||

3.1३.१

पारदस्य शतांशैकं मम ज्ञाने न वर्तते । (३।१)

pāradasya śatāṃśaikaṃ mama jñāne na vartate |

3.2३.२

शिवबीजं महादेव शिवरूपं न चान्यथा । (३।२)

śivabījaṃ mahādeva śivarūpaṃ na cānyathā |

3.3३.३

लिङ्गरूपं कथं देव तद् वदस्व मयि प्रभो ॥ (३।३)

liṅgarūpaṃ kathaṃ deva tad vadasva mayi prabho ||

4.1४.१

श्रीशिव उवाच । (४।१)

śrīśiva uvāca

4.2४.२

यथा ज्योतिर्मयं लिङ्गं कैलासशिखरे मम । (४।२)

yathā jyotirmayaṃ liṅgaṃ kailāsaśikhare mama |

4.3४.३

तस्यैव षोडशांशैकः काश्यां विश्वेश्वरः स्थितः ॥ (४।३)

tasyaiva ṣoḍaśāṃśaikaḥ kāśyāṃ viśveśvaraḥ sthitaḥ ||

5.1५.१

पूर्णलिङ्गं महेशानि शिवबीजं न चान्यथा । (५।१)

pūrṇaliṅgaṃ maheśāni śivabījaṃ na cānyathā |

5.2५.२

शिलामध्ये तथा चक्रं लक्ष्मीनारायणं परम् ॥ (५।२)

śilāmadhye tathā cakraṃ lakṣmīnārāyaṇaṃ param ||

6.1६.१

पारदस्य शतांशैकं लक्ष्मीनारायणं न हि । (६।१)

pāradasya śatāṃśaikaṃ lakṣmīnārāyaṇaṃ na hi |

6.2६.२

पकारं विष्णुरूपं च आकारं कालिका तथा ॥ (६।२)

pakāraṃ viṣṇurūpaṃ ca ākāraṃ kālikā tathā ||

7.1७.१

रेफं शिवं दकारं च ब्रह्मरूपं न चान्यथा । (७।१)

rephaṃ śivaṃ dakāraṃ ca brahmarūpaṃ na cānyathā |

7.2७.२

पारदं परमेशानि ब्रह्मविष्णुशिवात्मकम् ॥ (७।२)

pāradaṃ parameśāni brahmaviṣṇuśivātmakam ||

8.1८.१

यो यजेत् पारदं लिङ्गं स एव शम्भुर् अव्ययः । (८।१)

yo yajet pāradaṃ liṅgaṃ sa eva śambhur avyayaḥ |

8.2८.२

स एव धन्यो देवेशि स ज्ञानी स तु तत्त्ववित् ॥ (८।२)

sa eva dhanyo deveśi sa jñānī sa tu tattvavit ||

9.1९.१

स ब्रह्मवेत्ता स धनी स राजा भुवि पूजितः । (९।१)

sa brahmavettā sa dhanī sa rājā bhuvi pūjitaḥ |

9.2९.२

अणिमादिविभूतीनाम् ईश्वरः साधकोत्तमः ॥ (९।२)

aṇimādivibhūtīnām īśvaraḥ sādhakottamaḥ ||

10.1१०.१

स्त्रियः स्वभावचपला गोपितुं न हि शक्यते । (१०।१)

striyaḥ svabhāvacapalā gopituṃ na hi śakyate |

10.2१०.२

अत एव हि देवेशि विरता भव पार्वति ॥ (१०।२)

ata eva hi deveśi viratā bhava pārvati ||

11.1११.१

श्रीदेव्य् उवाच । (११।१)

śrīdevy uvāca

11.2११.२

कथयस्व कृपानाथ करुणा यदि वर्तते । (११।२)

kathayasva kṛpānātha karuṇā yadi vartate |

11.3११.३

तव वाक्यं विना देव क्व मुक्तिः क्व च साधुता ॥ (११।३)

tava vākyaṃ vinā deva kva muktiḥ kva ca sādhutā ||

12.1१२.१

श्रीशिव उवाच । (१२।१)

śrīśiva uvāca

12.2१२.२

पारदं शिवबीजं हि ताडनं न हि कारयेत् । (१२।२)

pāradaṃ śivabījaṃ hi tāḍanaṃ na hi kārayet |

12.3१२.३

ताडनाद् वित्तनाशः स्यात् ताडनात् सुतहीनता । (१२।३)

tāḍanād vittanāśaḥ syāt tāḍanāt sutahīnatā |

12.4१२.४

ताडनाद् रोगयुक्तः स्यात् ताडनान् मरणं भवेत् ॥ (१२।४)

tāḍanād rogayuktaḥ syāt tāḍanān maraṇaṃ bhavet ||

13.1१३.१

श्रीदेव्य् उवाच । (१३।१)

śrīdevy uvāca

13.2१३.२

एतद् विघ्नादिकं नाथ सत्यम् एव न संशयः । (१३।२)

etad vighnādikaṃ nātha satyam eva na saṃśayaḥ |

13.3१३.३

विघ्नादिरहितं नाथ कथयस्व दयानिधे ॥ (१३।३)

vighnādirahitaṃ nātha kathayasva dayānidhe ||

14.1१४.१

श्रीशिव उवाच । (१४।१)

śrīśiva uvāca

14.2१४.२

पारदे शिवनिर्माणे नानाविघ्नं यतः शिवे । (१४।२)

pārade śivanirmāṇe nānāvighnaṃ yataḥ śive |

14.3१४.३

अत एव हि तत्रादौ शान्तिस्वस्त्ययनं चरेत् ॥ (१४।३)

ata eva hi tatrādau śāntisvastyayanaṃ caret ||

15.1१५.१

द्वादशं पार्थिवं लिङ्गम् उपचारैश् च षोडशैः । (१५।१)

dvādaśaṃ pārthivaṃ liṅgam upacāraiś ca ṣoḍaśaiḥ |

15.2१५.२

पट्टादिसूत्रनिर्माणं रचितं शुक्लम् एव वा ॥ (१५।२)

paṭṭādisūtranirmāṇaṃ racitaṃ śuklam eva vā ||

16.1१६.१

पुरुषस्य यथायोग्यं युग्मवस्त्रं निवेदयेत् । (१६।१)

puruṣasya yathāyogyaṃ yugmavastraṃ nivedayet |

16.2१६.२

भोगयोग्यं प्रदातव्यं मधुपर्कं सुरेश्वरि ॥ (१६।२)

bhogayogyaṃ pradātavyaṃ madhuparkaṃ sureśvari ||

17.1१७.१

अलंकारं यथाशक्ति दद्यात् कल्याणहेतवे । (१७।१)

alaṃkāraṃ yathāśakti dadyāt kalyāṇahetave |

17.2१७.२

पूजयेद् बहुयत्नेन बिल्वपत्त्रेण पार्वति ॥ (१७।२)

pūjayed bahuyatnena bilvapattreṇa pārvati ||

18.1१८.१

तोडलोक्तेन विधिना प्रत्येकेनायुतं जपेत् । (१८।१)

toḍaloktena vidhinā pratyekenāyutaṃ japet |

18.2१८.२

आदौ पञ्चाक्षरं मन्त्रम् अष्टोत्तरशतं जपेत् ॥ (१८।२)

ādau pañcākṣaraṃ mantram aṣṭottaraśataṃ japet ||

19.1१९.१

पूजान्ते प्रजपेत् पश्चात् प्रासादाख्यं महामनुम् । (१९।१)

pūjānte prajapet paścāt prāsādākhyaṃ mahāmanum |

19.2१९.२

दक्षिणान्तं समाचर्य हविष्याशी जितेन्द्रियः ॥ (१९।२)

dakṣiṇāntaṃ samācarya haviṣyāśī jitendriyaḥ ||

20.1२०.१

ताम्बूलं च तथा मत्स्यं वर्जयेन् न कदाचन । (२०।१)

tāmbūlaṃ ca tathā matsyaṃ varjayen na kadācana |

20.2२०.२

अस्मिंस् तन्त्रे हविष्यान्नं ताम्बूलं मीनम् उत्तमम् ॥ (२०।२)

asmiṃs tantre haviṣyānnaṃ tāmbūlaṃ mīnam uttamam ||

21.1२१.१

होमयेत् परमेशानि दशांशं वा शतांशम् । (२१।१)

homayet parameśāni daśāṃśaṃ vā śatāṃśam |

21.2२१.२

होमस्य दक्षिणा कार्या तदा विघ्नैर् न लिप्यते ॥ (२१।२)

homasya dakṣiṇā kāryā tadā vighnair na lipyate ||

22.1२२.१

ततः परस्मिन् दिवसे पारदम् आनयेद् बुधः । (२२।१)

tataḥ parasmin divase pāradam ānayed budhaḥ |

22.2२२.२

तस्योपरि जपेन् मन्त्रं सर्ववन्द्यनवात्मकम् ॥ (२२।२)

tasyopari japen mantraṃ sarvavandyanavātmakam ||

23.1२३.१

व्योमबीजं शिवान्तं च वर्गाद्यं बिन्दुमस्तकम् । (२३।१)

vyomabījaṃ śivāntaṃ ca vargādyaṃ bindumastakam |

23.2२३.२

वायुबीजं च त्रितयं त्रितयं त्र्यम्बकं प्रिये ॥ (२३।२)

vāyubījaṃ ca tritayaṃ tritayaṃ tryambakaṃ priye ||

24.1२४.१

इमं मन्त्रं महेशानि प्रजपेद् औषधोपरि । (२४।१)

imaṃ mantraṃ maheśāni prajaped auṣadhopari |

24.2२४.२

पारदे प्रजपेन् मन्त्रम् अष्टोत्तरशतं यदि ॥ (२४।२)

pārade prajapen mantram aṣṭottaraśataṃ yadi ||

25.1२५.१

तद् एवौषधयोगेन बद्धो भवति नान्यथा ॥ (२५।१)

tad evauṣadhayogena baddho bhavati nānyathā ||

26.1२६.१

ततः परस्मिन् दिवसे शृणु मत्प्राणवल्लभे । (२६।१)

tataḥ parasmin divase śṛṇu matprāṇavallabhe |

26.2२६.२

वरयेत् कर्मकर्तारं यथोक्तविभवावधि ॥ (२६।२)

varayet karmakartāraṃ yathoktavibhavāvadhi ||

27.1२७.१

सुवर्णं चम्पकाकारं कर्णयुग्मे निवेदयेत् । (२७।१)

suvarṇaṃ campakākāraṃ karṇayugme nivedayet |

27.2२७.२

चतुष्कोणयुतं स्वर्णं ग्रीवायां सुमनोहरम् ॥ (२७।२)

catuṣkoṇayutaṃ svarṇaṃ grīvāyāṃ sumanoharam ||

28.1२८.१

हस्तद्वये महेशानि दद्याद् वलययुग्मकम् । (२८।१)

hastadvaye maheśāni dadyād valayayugmakam |

28.2२८.२

वलयं शुक्लवर्णं च अङ्गरीयं तथैव च ॥ (२८।२)

valayaṃ śuklavarṇaṃ ca aṅgarīyaṃ tathaiva ca ||

29.1२९.१

ऊर्मिं दद्यात् पीतवस्त्रं क्षौमवस्त्रयुगं शिवे । (२९।१)

ūrmiṃ dadyāt pītavastraṃ kṣaumavastrayugaṃ śive |

29.2२९.२

एवं कृत्वा महेशानि शिवरूपं विचिन्तयेत् ॥ (२९।२)

evaṃ kṛtvā maheśāni śivarūpaṃ vicintayet ||

30.1३०.१

अथातः सम्प्रवक्ष्यामि विधानं शृणु पार्वति । (३०।१)

athātaḥ sampravakṣyāmi vidhānaṃ śṛṇu pārvati |

30.2३०.२

प्रस्तरे चैव संस्थाप्य झिण्टीपत्त्ररसेन च । (३०।२)

prastare caiva saṃsthāpya jhiṇṭīpattrarasena ca |

30.3३०.३

प्रस्तरेण समालोड्य कुर्यात् कर्दमवत् प्रिये ॥ (३०।३)

prastareṇa samāloḍya kuryāt kardamavat priye ||

31.1३१.१

निर्माणयोग्यं तत्रैव यदि स्यात् सुरसुन्दरि । (३१।१)

nirmāṇayogyaṃ tatraiva yadi syāt surasundari |

31.2३१.२

तदा निर्माय तं लिङ्गं पुनर् दृढतरं चरेत् ॥ (३१।२)

tadā nirmāya taṃ liṅgaṃ punar dṛḍhataraṃ caret ||

32.1३२.१

स्वपुष्पसंयुते वस्त्रे अङ्गारे च करीषके । (३२।१)

svapuṣpasaṃyute vastre aṅgāre ca karīṣake |

32.2३२.२

किंचिद् उष्णं प्रकर्तव्यं यतो दृढतरो भवेत् ॥ (३२।२)

kiṃcid uṣṇaṃ prakartavyaṃ yato dṛḍhataro bhavet ||

33.1३३.१

ततो निर्माय तं लिङ्गं पुनर् दृढतरं चरेत् । (३३।१)

tato nirmāya taṃ liṅgaṃ punar dṛḍhataraṃ caret |

33.2३३.२

स्वपुष्पसंयुते वस्त्रे स्थापयेत् पार्थिवे पुनः ॥ (३३।२)

svapuṣpasaṃyute vastre sthāpayet pārthive punaḥ ||

34.1३४.१

किंचिद् उष्णं प्रकर्तव्यं यावद् दृढतरो भवेत् । (३४।१)

kiṃcid uṣṇaṃ prakartavyaṃ yāvad dṛḍhataro bhavet |

34.2३४.२

विना ह्य् औषधयोगेन भस्म भवति नान्यथा ॥ (३४।२)

vinā hy auṣadhayogena bhasma bhavati nānyathā ||

Data courtesy of The Digital Corpus of Sanskrit.

MBhT, 8

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit