मातृकाभेदतन्त्रMātṛkābhedatantra

MBhT, 7

7 of 14 · 149 verses

Select a line for its word-by-word analysis.

1.1१.१

श्रीशिव उवाच । (१।१)

śrīśiva uvāca

1.2१.२

अथातः सम्प्रवक्ष्यामि त्रिपुरामन्त्रम् उत्तमम् । (१।२)

athātaḥ sampravakṣyāmi tripurāmantram uttamam |

1.3१.३

यस्य विज्ञानमात्रेण पुनर्जन्म न विद्यते ॥ (१।३)

yasya vijñānamātreṇa punarjanma na vidyate ||

2.1२.१

त्रिपुरा त्रिविधा देवि बाला प्रोक्ता पुरा शिवे । (२।१)

tripurā trividhā devi bālā proktā purā śive |

2.2२.२

तथैव भैरवी देवी नित्यातन्त्रे मयोदिता । (२।२)

tathaiva bhairavī devī nityātantre mayoditā |

2.3२.३

इदानीं सुन्दरीं देवीं शृणु पार्वति सादरम् ॥ (२।३)

idānīṃ sundarīṃ devīṃ śṛṇu pārvati sādaram ||

3.1३.१

श्रीदेव्य् उवाच । (३।१)

śrīdevy uvāca

3.2३.२

महामन्त्रं श्रुतं नाथ वामकेश्वरयामले । (३।२)

mahāmantraṃ śrutaṃ nātha vāmakeśvarayāmale |

3.3३.३

प्रातःकृत्यादि देवेश आराधनक्रमं वद ॥ (३।३)

prātaḥkṛtyādi deveśa ārādhanakramaṃ vada ||

4.1४.१

श्रीशिव उवाच । (४।१)

śrīśiva uvāca

4.2४.२

प्रातर् उत्थाय मन्त्रज्ञः सहस्रारे निजं गुरुम् । (४।२)

prātar utthāya mantrajñaḥ sahasrāre nijaṃ gurum |

4.3४.३

पूर्वोक्तध्यानम् उच्चार्य पूजयेद् बहुयत्नतः ॥ (४।३)

pūrvoktadhyānam uccārya pūjayed bahuyatnataḥ ||

5.1५.१

तथा च श्रीगुरोर् ध्यानं गुप्तसाधनतन्त्रके । (५।१)

tathā ca śrīguror dhyānaṃ guptasādhanatantrake |

5.2५.२

कथितं च मया पूर्वं मन्त्रं शृणु वरानने ॥ (५।२)

kathitaṃ ca mayā pūrvaṃ mantraṃ śṛṇu varānane ||

6.1६.१

वाग्बीजं च महामायां विष्णुशक्तिं समुच्चरेत् । (६।१)

vāgbījaṃ ca mahāmāyāṃ viṣṇuśaktiṃ samuccaret |

6.2६.२

हसखफ्रें तथानन्दभैरवस्य मनुं ततः ॥ (६।२)

hasakhaphreṃ tathānandabhairavasya manuṃ tataḥ ||

7.1७.१

तस्य शक्तेर् मनुं पश्चात् ततश् चैवं हसौः स्मृतः । (७।१)

tasya śakter manuṃ paścāt tataś caivaṃ hasauḥ smṛtaḥ |

7.2७.२

श्रीगुरोश् च तथा शक्तेर् मन्त्रम् एतत् सुरेश्वरि ॥ (७।२)

śrīguroś ca tathā śakter mantram etat sureśvari ||

8.1८.१

श्रीगुरोर् आनन्दनाथान्ते अथातः शक्तिर् ईरिता । (८।१)

śrīguror ānandanāthānte athātaḥ śaktir īritā |

8.2८.२

वाग्बीजादीन् समुच्चार्य अमुकानन्दनाथ च ॥ (८।२)

vāgbījādīn samuccārya amukānandanātha ca ||

9.1९.१

श्रीपादुकां समुच्चार्य पूजयामि नमस् ततः । (९।१)

śrīpādukāṃ samuccārya pūjayāmi namas tataḥ |

9.2९.२

वाग्बीजं च शम्भुपत्नीं तदुत्तरे हरिप्रियाम् ॥ (९।२)

vāgbījaṃ ca śambhupatnīṃ taduttare haripriyām ||

10.1१०.१

भूतबीजं समुच्चार्य प्रवदेच् च तदात्मकम् । (१०।१)

bhūtabījaṃ samuccārya pravadec ca tadātmakam |

10.2१०.२

समर्पयामि देवेशि पूजाविधिर् इति प्रिये ॥ (१०।२)

samarpayāmi deveśi pūjāvidhir iti priye ||

11.1११.१

ततश् चाष्टाक्षरं मन्त्रम् अष्टोत्तरशतं जपेत् । (११।१)

tataś cāṣṭākṣaraṃ mantram aṣṭottaraśataṃ japet |

11.2११.२

जपं समर्पयित्वा तु नमेद् अञ्जलिना प्रिये ॥ (११।२)

japaṃ samarpayitvā tu named añjalinā priye ||

12.1१२.१

श्रीदेव्य् उवाच । (१२।१)

śrīdevy uvāca

12.2१२.२

स्तुतिं च कवचं नाथ श्रोतुम् इच्छामि साम्प्रतम् । (१२।२)

stutiṃ ca kavacaṃ nātha śrotum icchāmi sāmpratam |

12.3१२.३

श्रीगुरोः कवचं स्तोत्रं त्वया प्रोक्तं पुरा प्रभो ॥ (१२।३)

śrīguroḥ kavacaṃ stotraṃ tvayā proktaṃ purā prabho ||

13.1१३.१

इदानीं स्त्रीगुरोः स्तोत्रं कवचं मयि कथ्यताम् । (१३।१)

idānīṃ strīguroḥ stotraṃ kavacaṃ mayi kathyatām |

13.2१३.२

यस्य विज्ञानमात्रेण पुनर्जन्म न विद्यते ॥ (१३।२)

yasya vijñānamātreṇa punarjanma na vidyate ||

14.1१४.१

श्रीशिव उवाच । (१४।१)

śrīśiva uvāca

14.2१४.२

शृणु देवि प्रवक्ष्यामि स्तोत्रं परमगोपनम् । (१४।२)

śṛṇu devi pravakṣyāmi stotraṃ paramagopanam |

14.3१४.३

यस्य श्रवणमात्रेण संसारान् मुच्यते नरः ॥ (१४।३)

yasya śravaṇamātreṇa saṃsārān mucyate naraḥ ||

15.1१५.१

नमस् ते देवदेवेशि नमस् ते हरपूजिते । (१५।१)

namas te devadeveśi namas te harapūjite |

15.2१५.२

ब्रह्मविद्यास्वरूपायै तस्यै नित्यं नमो नमः ॥ (१५।२)

brahmavidyāsvarūpāyai tasyai nityaṃ namo namaḥ ||

16.1१६.१

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । (१६।१)

ajñānatimirāndhasya jñānāñjanaśalākayā |

16.2१६.२

यया चक्षुर् उन्मीलितं तस्यै नित्यं नमो नमः ॥ (१६।२)

yayā cakṣur unmīlitaṃ tasyai nityaṃ namo namaḥ ||

17.1१७.१

भवबन्धनपारस्य तारिणी जननी परा । (१७।१)

bhavabandhanapārasya tāriṇī jananī parā |

17.2१७.२

ज्ञानदा मोक्षदा नित्या तस्यै नित्यं नमो नमः ॥ (१७।२)

jñānadā mokṣadā nityā tasyai nityaṃ namo namaḥ ||

18.1१८.१

श्रीनाथवामभागस्था सदा या सुरपूजिता । (१८।१)

śrīnāthavāmabhāgasthā sadā yā surapūjitā |

18.2१८.२

सदा विज्ञानदात्री च तस्यै नित्यं नमो नमः ॥ (१८।२)

sadā vijñānadātrī ca tasyai nityaṃ namo namaḥ ||

19.1१९.१

सहस्रारे महापद्मे सदानन्दस्वरूपिणी । (१९।१)

sahasrāre mahāpadme sadānandasvarūpiṇī |

19.2१९.२

महामोक्षप्रदा देवी तस्यै नित्यं नमो नमः ॥ (१९।२)

mahāmokṣapradā devī tasyai nityaṃ namo namaḥ ||

20.1२०.१

ब्रह्मविष्णुस्वरूपा च महारुद्रस्वरूपिणी । (२०।१)

brahmaviṣṇusvarūpā ca mahārudrasvarūpiṇī |

20.2२०.२

त्रिगुणात्मस्वरूपा च तस्यै नित्यं नमो नमः ॥ (२०।२)

triguṇātmasvarūpā ca tasyai nityaṃ namo namaḥ ||

21.1२१.१

चन्द्रसूर्याग्निरूपा च सदाघूर्णितलोचना । (२१।१)

candrasūryāgnirūpā ca sadāghūrṇitalocanā |

21.2२१.२

स्वनाथं च समालिङ्ग्य तस्यै नित्यं नमो नमः ॥ (२१।२)

svanāthaṃ ca samāliṅgya tasyai nityaṃ namo namaḥ ||

22.1२२.१

ब्रह्मविष्णुशिवत्वादिजीवन्मुक्तिप्रदायिनी । (२२।१)

brahmaviṣṇuśivatvādijīvanmuktipradāyinī |

22.2२२.२

ज्ञानविज्ञानदात्री च तस्यै नित्यं नमो नमः ॥ (२२।२)

jñānavijñānadātrī ca tasyai nityaṃ namo namaḥ ||

23.1२३.१

इदं स्तोत्रं महेशानि यः पठेद् भक्तिसंयुतः । (२३।१)

idaṃ stotraṃ maheśāni yaḥ paṭhed bhaktisaṃyutaḥ |

23.2२३.२

स सिद्धिं लभते नित्यं सत्यं सत्यं न संशयः ॥ (२३।२)

sa siddhiṃ labhate nityaṃ satyaṃ satyaṃ na saṃśayaḥ ||

24.1२४.१

प्रातःकाले पठेद् यस् तु गुरुपूजापुरःसरम् । (२४।१)

prātaḥkāle paṭhed yas tu gurupūjāpuraḥsaram |

24.2२४.२

स एव धन्यो लोके ऽस्मिन् देवीपुत्र इव क्षितौ ॥ (२४।२)

sa eva dhanyo loke 'smin devīputra iva kṣitau ||

25.1२५.१

श्रीशङ्कर उवाच । (२५।१)

śrīśaṅkara uvāca

25.2२५.२

स्तोत्रं समाप्तं देवेशि कवचं शृणु सादरम् । (२५।२)

stotraṃ samāptaṃ deveśi kavacaṃ śṛṇu sādaram |

25.3२५.३

यस्य श्रवणमात्रेण वागीशसमतां व्रजेत् ॥ (२५।३)

yasya śravaṇamātreṇa vāgīśasamatāṃ vrajet ||

26.1२६.१

स्त्रीगुरोः कवचस्यास्य सदाशिव ऋषिः स्मृतः । (२६।१)

strīguroḥ kavacasyāsya sadāśiva ṛṣiḥ smṛtaḥ |

26.2२६.२

तदाख्या देवता प्रोक्ता चतुर्वर्गफलप्रदा ॥ (२६।२)

tadākhyā devatā proktā caturvargaphalapradā ||

27.1२७.१

क्लीं बीजं मे शिरः पातु तद् आख्यातं ललाटकम् । (२७।१)

klīṃ bījaṃ me śiraḥ pātu tad ākhyātaṃ lalāṭakam |

27.2२७.२

क्लीं बीजं चक्षुषोः पातु सर्वाङ्गं मे सदावतु ॥ (२७।२)

klīṃ bījaṃ cakṣuṣoḥ pātu sarvāṅgaṃ me sadāvatu ||

28.1२८.१

ऐं बीजं मे मुखं पातु ह्रीं जङ्घां परिरक्षतु । (२८।१)

aiṃ bījaṃ me mukhaṃ pātu hrīṃ jaṅghāṃ parirakṣatu |

28.2२८.२

श्रीं बीजं स्कन्धदेशं मे वाग्भवं मे भुजद्वयम् ॥ (२८।२)

śrīṃ bījaṃ skandhadeśaṃ me vāgbhavaṃ me bhujadvayam ||

29.1२९.१

हकारं मे दक्षभुजं क्षकारं वामहस्तकम् । (२९।१)

hakāraṃ me dakṣabhujaṃ kṣakāraṃ vāmahastakam |

29.2२९.२

क्षमणौ तदधः पातु लकारं हृदयं मम ॥ (२९।२)

kṣamaṇau tadadhaḥ pātu lakāraṃ hṛdayaṃ mama ||

30.1३०.१

रकारं पृष्ठदेशं च रकारं दक्षपार्श्वकम् । (३०।१)

rakāraṃ pṛṣṭhadeśaṃ ca rakāraṃ dakṣapārśvakam |

30.2३०.२

जूंकारं वामपार्श्वे तु सकारं मेरुम् एव तु ॥ (३०।२)

jūṃkāraṃ vāmapārśve tu sakāraṃ merum eva tu ||

31.1३१.१

मकारं चाङ्गुलीः पातु लकारं मे नखोपरि । (३१।१)

makāraṃ cāṅgulīḥ pātu lakāraṃ me nakhopari |

31.2३१.२

वकारं मे नितम्बं च रकारं जानुयुग्मकम् ॥ (३१।२)

vakāraṃ me nitambaṃ ca rakāraṃ jānuyugmakam ||

32.1३२.१

यीःकारं पादयुगलं हसौः सर्वाङ्गम् एव तु । (३२।१)

yīḥkāraṃ pādayugalaṃ hasauḥ sarvāṅgam eva tu |

32.2३२.२

हसौर् लिङ्गं च लोमं च केशं च परिरक्षतु ॥ (३२।२)

hasaur liṅgaṃ ca lomaṃ ca keśaṃ ca parirakṣatu ||

33.1३३.१

ऐं बीजं पातु पूर्वे तु ह्रीं बीजं दक्षिणे ऽवतु । (३३।१)

aiṃ bījaṃ pātu pūrve tu hrīṃ bījaṃ dakṣiṇe 'vatu |

33.2३३.२

श्रीं बीजं पश्चिमे पातु उत्तरे भूतसम्भवम् ॥ (३३।२)

śrīṃ bījaṃ paścime pātu uttare bhūtasambhavam ||

34.1३४.१

श्रीं पातु चाग्निकोणे च तदाख्यां नैरृते ऽवतु । (३४।१)

śrīṃ pātu cāgnikoṇe ca tadākhyāṃ nairṛte 'vatu |

34.2३४.२

देव्य् अम्बा पातु वायव्यां शम्भोः श्रीपादुकां तथा ॥ (३४।२)

devy ambā pātu vāyavyāṃ śambhoḥ śrīpādukāṃ tathā ||

35.1३५.१

पूजयामि तथा चोर्ध्वं नमश् चाधः सदावतु । (३५।१)

pūjayāmi tathā cordhvaṃ namaś cādhaḥ sadāvatu |

35.2३५.२

इति ते कथितं कान्ते कवचं परमाद्भुतम् ॥ (३५।२)

iti te kathitaṃ kānte kavacaṃ paramādbhutam ||

36.1३६.१

गुरुमन्त्रं जपित्वा तु कवचं प्रपठेद् यदि । (३६।१)

gurumantraṃ japitvā tu kavacaṃ prapaṭhed yadi |

36.2३६.२

स सिद्धः सगणः सो ऽपि शिवः साक्षान् न संशयः ॥ (३६।२)

sa siddhaḥ sagaṇaḥ so 'pi śivaḥ sākṣān na saṃśayaḥ ||

37.1३७.१

पूजाकाले पठेद् यस् तु कवचं मन्त्रविग्रहम् । (३७।१)

pūjākāle paṭhed yas tu kavacaṃ mantravigraham |

37.2३७.२

पूजाफलं भवेत् तस्य सत्यं सत्यं सुरेश्वरि ॥ (३७।२)

pūjāphalaṃ bhavet tasya satyaṃ satyaṃ sureśvari ||

38.1३८.१

त्रिसंध्यं यः पठेद् देवि स सिद्धो नात्र संशयः ॥ (३८।१)

trisaṃdhyaṃ yaḥ paṭhed devi sa siddho nātra saṃśayaḥ ||

39.1३९.१

भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारयेद् यदि । (३९।१)

bhūrje vilikhya guṭikāṃ svarṇasthāṃ dhārayed yadi |

39.2३९.२

तस्य दर्शनमात्रेण वादिनो निष्प्रभां गताः ॥ (३९।२)

tasya darśanamātreṇa vādino niṣprabhāṃ gatāḥ ||

40.1४०.१

विवादे जयम् आप्नोति रणे च निरृतिर् इव । (४०।१)

vivāde jayam āpnoti raṇe ca nirṛtir iva |

40.2४०.२

सभायां जयम् आप्नोति मम तुल्यो न संशयः ॥ (४०।२)

sabhāyāṃ jayam āpnoti mama tulyo na saṃśayaḥ ||

41.1४१.१

सहस्रारे भावयंस्तां त्रिसंध्यं प्रपठेद् यदि । (४१।१)

sahasrāre bhāvayaṃstāṃ trisaṃdhyaṃ prapaṭhed yadi |

41.2४१.२

स एव सिद्धो लोकेशो निर्वाणपदम् ईहते ॥ (४१।२)

sa eva siddho lokeśo nirvāṇapadam īhate ||

42.1४२.१

समस्तमङ्गलं नाम कवचं परमाद्भुतम् । (४२।१)

samastamaṅgalaṃ nāma kavacaṃ paramādbhutam |

42.2४२.२

यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ॥ (४२।२)

yasmai kasmai na dātavyaṃ na prakāśyaṃ kadācana ||

43.1४३.१

देयं शिष्याय शान्ताय चान्यथा पतनं भवेत् । (४३।१)

deyaṃ śiṣyāya śāntāya cānyathā patanaṃ bhavet |

43.2४३.२

अभक्तेभ्यो ऽपि देवेशि पुत्रेभ्यो ऽपि न दर्शयेत् ॥ (४३।२)

abhaktebhyo 'pi deveśi putrebhyo 'pi na darśayet ||

44.1४४.१

इदं कवचम् अज्ञात्वा दशविद्यां च यो जपेत् । (४४।१)

idaṃ kavacam ajñātvā daśavidyāṃ ca yo japet |

44.2४४.२

स नाप्नोति फलं तस्य परे च नरकं व्रजेत् ॥ (४४।२)

sa nāpnoti phalaṃ tasya pare ca narakaṃ vrajet ||

45.1४५.१

समाप्तं कवचं देवि किम् अन्यच् छ्रोतुम् इच्छसि । (४५।१)

samāptaṃ kavacaṃ devi kim anyac chrotum icchasi |

45.2४५.२

तव स्नेहानुबन्धेन किं मया न प्रकाशितम् ॥ (४५।२)

tava snehānubandhena kiṃ mayā na prakāśitam ||

46.1४६.१

कूर्चबीजं समुच्चार्य प्राणमन्त्रं ततः प्रिये । (४६।१)

kūrcabījaṃ samuccārya prāṇamantraṃ tataḥ priye |

46.2४६.२

अनेन वायुयोगेन कुण्डलीचक्रं संचरेत् ॥ (४६।२)

anena vāyuyogena kuṇḍalīcakraṃ saṃcaret ||

47.1४७.१

अष्टोत्तरशतं मूलमन्त्रं जप्त्वा नमेत् सुधीः । (४७।१)

aṣṭottaraśataṃ mūlamantraṃ japtvā namet sudhīḥ |

47.2४७.२

स्नानकर्म ततः कृत्वा संध्यां कुर्यात् पुरोदिताम् ॥ (४७।२)

snānakarma tataḥ kṛtvā saṃdhyāṃ kuryāt puroditām ||

48.1४८.१

श्रीदेव्य् उवाच । (४८।१)

śrīdevy uvāca

48.2४८.२

संध्यायाः कीदृशं ध्यानं वद मे परमेश्वर । (४८।२)

saṃdhyāyāḥ kīdṛśaṃ dhyānaṃ vada me parameśvara |

48.3४८.३

श्रीविद्याविषये नाथ विशेषो मयि कथ्यताम् ॥ (४८।३)

śrīvidyāviṣaye nātha viśeṣo mayi kathyatām ||

49.1४९.१

श्रीशिव उवाच । (४९।१)

śrīśiva uvāca

49.2४९.२

ध्यायेच् च सुन्दरीं देवीं त्रिविधां बीजरूपिणीम् । (४९।२)

dhyāyec ca sundarīṃ devīṃ trividhāṃ bījarūpiṇīm |

49.3४९.३

प्रभाते वाग्भवां देवीं मध्याह्ने मदनात्मिकाम् ॥ (४९।३)

prabhāte vāgbhavāṃ devīṃ madhyāhne madanātmikām ||

50.1५०.१

सायाह्ने शक्तिरूपां च त्रिविधां बिन्दुरूपिणीम् । (५०।१)

sāyāhne śaktirūpāṃ ca trividhāṃ bindurūpiṇīm |

50.2५०.२

पूजाकाले महादेवीं ध्यानानुरूपिणीं शिवाम् ॥ (५०।२)

pūjākāle mahādevīṃ dhyānānurūpiṇīṃ śivām ||

51.1५१.१

वाग्भवेनेन्दुसदृशां शुक्लवर्णां विचिन्तयेत् । (५१।१)

vāgbhavenendusadṛśāṃ śuklavarṇāṃ vicintayet |

51.2५१.२

शक्तिबीजं स्वर्णवर्णं रक्तवर्णां विभावयेत् ॥ (५१।२)

śaktibījaṃ svarṇavarṇaṃ raktavarṇāṃ vibhāvayet ||

52.1५२.१

प्रभाते शुक्लवर्णाभां मध्याह्ने नीलसंनिभाम् । (५२।१)

prabhāte śuklavarṇābhāṃ madhyāhne nīlasaṃnibhām |

52.2५२.२

सायाह्ने रक्तवर्णाभां भावयेत् साधकोत्तमः ॥ (५२।२)

sāyāhne raktavarṇābhāṃ bhāvayet sādhakottamaḥ ||

53.1५३.१

एवं ध्यात्वा महेशानि संध्यां कुर्याद् विचक्षणः । (५३।१)

evaṃ dhyātvā maheśāni saṃdhyāṃ kuryād vicakṣaṇaḥ |

53.2५३.२

शिवपूजां ततः कृत्वा पूजयेत् परदेवताम् ॥ (५३।२)

śivapūjāṃ tataḥ kṛtvā pūjayet paradevatām ||

54.1५४.१

ततस् तु पूजयेद् देवीं त्रिपुरां मोक्षदायिनीम् । (५४।१)

tatas tu pūjayed devīṃ tripurāṃ mokṣadāyinīm |

54.2५४.२

त्रिपुरा परमा विद्या महाविद्या पतिव्रता ॥ (५४।२)

tripurā paramā vidyā mahāvidyā pativratā ||

55.1५५.१

पतिपूजां विना पूजां न गृह्णाति कदाचन । (५५।१)

patipūjāṃ vinā pūjāṃ na gṛhṇāti kadācana |

55.2५५.२

अत एव महेशानि आदौ लिङ्गं प्रपूजयेत् ॥ (५५।२)

ata eva maheśāni ādau liṅgaṃ prapūjayet ||

56.1५६.१

पञ्चाक्षरं पञ्चवक्त्रं पूजयेद् बहुयत्नतः । (५६।१)

pañcākṣaraṃ pañcavaktraṃ pūjayed bahuyatnataḥ |

56.2५६.२

ततस् तु पूजयेद् देवीं त्रिपुरां मोक्षदायिनीम् ॥ (५६।२)

tatas tu pūjayed devīṃ tripurāṃ mokṣadāyinīm ||

57.1५७.१

श्रीदेव्य् उवाच । (५७।१)

śrīdevy uvāca

57.2५७.२

किमाधारे यजेच् छम्भुं कृपया वद शंकर । (५७।२)

kimādhāre yajec chambhuṃ kṛpayā vada śaṃkara |

57.3५७.३

आधारभेदे देवेश साधकः फलभाग् भवेत् ॥ (५७।३)

ādhārabhede deveśa sādhakaḥ phalabhāg bhavet ||

58.1५८.१

श्रीशंकर उवाच । (५८।१)

śrīśaṃkara uvāca

58.2५८.२

पूजयेत् पार्थिवे लिङ्गे पाषाणे लिङ्गके तथा । (५८।२)

pūjayet pārthive liṅge pāṣāṇe liṅgake tathā |

58.3५८.३

स्वर्णलिङ्गे ऽथवा देवि रौप्ये ताम्रे च कांस्यके ॥ (५८।३)

svarṇaliṅge 'thavā devi raupye tāmre ca kāṃsyake ||

59.1५९.१

पारदे वाथ गङ्गायां स्फाटिके मारकते ऽपि वा । (५९।१)

pārade vātha gaṅgāyāṃ sphāṭike mārakate 'pi vā |

59.2५९.२

कार्यभेदे लौहलिङ्गे भस्मनिर्माणलिङ्गके ॥ (५९।२)

kāryabhede lauhaliṅge bhasmanirmāṇaliṅgake ||

60.1६०.१

वालुकानिर्मिते लिङ्गे गोमये वाथ पूजयेत् । (६०।१)

vālukānirmite liṅge gomaye vātha pūjayet |

60.2६०.२

पार्थिवे पूजनं देवि तोडलाख्ये मयोदितम् ॥ (६०।२)

pārthive pūjanaṃ devi toḍalākhye mayoditam ||

61.1६१.१

संस्कारेण विना देवि पाषाणादौ न पूजयेत् । (६१।१)

saṃskāreṇa vinā devi pāṣāṇādau na pūjayet |

61.2६१.२

संस्कारं च प्रवक्ष्यामि विशेष इह यद् भवेत् ॥ (६१।२)

saṃskāraṃ ca pravakṣyāmi viśeṣa iha yad bhavet ||

62.1६२.१

रौप्यं च स्वर्णलिङ्गं च स्वर्णपात्रे निधाय च । (६२।१)

raupyaṃ ca svarṇaliṅgaṃ ca svarṇapātre nidhāya ca |

62.2६२.२

तस्माद् उत्तोल्य तं लिङ्गं दुग्धमध्ये दिनत्रयम् ॥ (६२।२)

tasmād uttolya taṃ liṅgaṃ dugdhamadhye dinatrayam ||

63.1६३.१

त्र्यम्बकेण स्थापयित्वा कालरुद्रं प्रपूजयेत् । (६३।१)

tryambakeṇa sthāpayitvā kālarudraṃ prapūjayet |

63.2६३.२

षोडशेनोपचारेण वेद्यां तु पार्वतीं यजेत् ॥ (६३।२)

ṣoḍaśenopacāreṇa vedyāṃ tu pārvatīṃ yajet ||

64.1६४.१

तस्माद् उत्तोल्य तं लिङ्गं गङ्गातोये दिनत्रयम् । (६४।१)

tasmād uttolya taṃ liṅgaṃ gaṅgātoye dinatrayam |

64.2६४.२

ततो वेदोक्तविधिना संस्कारम् आचरेत् सुधीः ॥ (६४।२)

tato vedoktavidhinā saṃskāram ācaret sudhīḥ ||

65.1६५.१

श्रीचण्डिकोवाच । (६५।१)

śrīcaṇḍikovāca |

65.2६५.२

लिङ्गप्रमाणं देवेश कथयस्व मयि प्रभो । (६५।२)

liṅgapramāṇaṃ deveśa kathayasva mayi prabho |

65.3६५.३

पार्थिवे च शिलादौ च विशेषो यदि वा भवेत् ॥ (६५।३)

pārthive ca śilādau ca viśeṣo yadi vā bhavet ||

66.1६६.१

श्रीशिव उवाच । (६६।१)

śrīśiva uvāca

66.2६६.२

मृत्तिकातोलकं ग्राह्यम् अथवा तोलकद्वयम् । (६६।२)

mṛttikātolakaṃ grāhyam athavā tolakadvayam |

66.3६६.३

एतदन्यं न कर्तव्यं कदाचिद् अपि पार्वति ॥ (६६।३)

etadanyaṃ na kartavyaṃ kadācid api pārvati ||

67.1६७.१

शिलादौ परमेशानि स्थूलं च फलदायकम् । (६७।१)

śilādau parameśāni sthūlaṃ ca phaladāyakam |

67.2६७.२

अङ्गुष्ठमानं देवेशि यद् वा हेमाद्रिमानकम् ॥ (६७।२)

aṅguṣṭhamānaṃ deveśi yad vā hemādrimānakam ||

68.1६८.१

एवं क्रमेण देवेशि फलं बहुविधं लभेत् । (६८।१)

evaṃ krameṇa deveśi phalaṃ bahuvidhaṃ labhet |

68.2६८.२

स्थूलात् स्थूलतरं लिङ्गं रुद्राक्षं परमेश्वरि ॥ (६८।२)

sthūlāt sthūlataraṃ liṅgaṃ rudrākṣaṃ parameśvari ||

69.1६९.१

पूजनाद् धारणाद् देवि फलं बहुविधं स्मृतम् ॥ (६९।१)

pūjanād dhāraṇād devi phalaṃ bahuvidhaṃ smṛtam ||

Data courtesy of The Digital Corpus of Sanskrit.

MBhT, 7

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit