सांख्यतत्त्वकौमुदीSāṃkhyatattvakaumudī

STKau zu SāṃKār, 11.2

10 of 14 · 29 verses

Select a line for its word-by-word analysis.

1.1१.१

त्रयो गुणाः सुखदुःखमोहा अस्येति त्रिगुणम् । (१।१)

trayo guṇāḥ sukhaduḥkhamohā asyeti triguṇam |

1.2१.२

तद् अनेन सुखादीनाम् आत्मगुणत्वम् पराभिमतम् अपाकृतम् । (१।२)

tad anena sukhādīnām ātmaguṇatvam parābhimatam apākṛtam |

1.3१.३

अविवेकि । (१।३)

aviveki |

1.4१.४

यथा प्रधानम् स्वतो न विविच्यत एवम् महदादयो ऽपि न प्रधानाद् विविच्यन्ते तदात्मकत्वात् । (१।४)

yathā pradhānam svato na vivicyata evam mahadādayo 'pi na pradhānād vivicyante tadātmakatvāt |

1.5१.५

अथवा सम्भूयकारिताविवेकः । (१।५)

athavā sambhūyakāritāvivekaḥ |

1.6१.६

न हि किंचिद् एकम् पर्याप्तम् कार्ये ऽपि तु सम्भूय । (१।६)

na hi kiṃcid ekam paryāptam kārye 'pi tu sambhūya |

1.7१.७

ये त्वाहुर् विज्ञानम् एव हर्षविषादशब्दाद्याकारम् न पुनर् इतो ऽन्यस्तद्धर्मेति तान् प्रत्याह विषय इति । (१।७)

ye tvāhur vijñānam eva harṣaviṣādaśabdādyākāram na punar ito 'nyastaddharmeti tān pratyāha viṣaya iti |

1.8१.८

विषयो ग्राह्यो विज्ञानाद् बहिर् इति यावत् । (१।८)

viṣayo grāhyo vijñānād bahir iti yāvat |

1.9१.९

सामान्यम् साधारणम् । (१।९)

sāmānyam sādhāraṇam |

1.10१.१०

विज्ञानरूपत्वे त्वसाधारण्याद् विज्ञानानाम् वृत्तिरूपाणाम् ते ऽप्यसाधारणाः स्युः । (१।१०)

vijñānarūpatve tvasādhāraṇyād vijñānānām vṛttirūpāṇām te 'pyasādhāraṇāḥ syuḥ |

1.11१.११

तथा च नर्तकीभ्रूलताभङ्ग एकस्मिन् बहूनाम् प्रतिसंधानम् युक्तम् । (१।११)

tathā ca nartakībhrūlatābhaṅga ekasmin bahūnām pratisaṃdhānam yuktam |

1.12१.१२

अन्यथा तन्न स्याद् इति भावः । (१।१२)

anyathā tanna syād iti bhāvaḥ |

1.13१.१३

अचेतनम् । (१।१३)

acetanam |

1.14१.१४

सर्व एव प्रधानबुद्ध्यादयो ऽचेतना न तु वैनाशिकवच्चैतन्यम् बुद्धेर् इत्यर्थः । (१।१४)

sarva eva pradhānabuddhyādayo 'cetanā na tu vaināśikavaccaitanyam buddher ityarthaḥ |

1.15१.१५

प्रसवधर्मि । (१।१५)

prasavadharmi |

1.16१.१६

प्रसवरूपो धर्मः सो ऽस्यास्ति प्रसवधर्मि । (१।१६)

prasavarūpo dharmaḥ so 'syāsti prasavadharmi |

1.17१.१७

प्रसवधर्मेति वक्तव्ये मत्वर्थीयः प्रसवधर्मस्य नित्ययोगम् आख्यातुम् । (१।१७)

prasavadharmeti vaktavye matvarthīyaḥ prasavadharmasya nityayogam ākhyātum |

1.18१.१८

सरूपविरूपपरिणामाभ्याम् न कदाचिद् अपि वियुज्यत इत्यर्थः । (१।१८)

sarūpavirūpapariṇāmābhyām na kadācid api viyujyata ityarthaḥ |

1.19१.१९

व्यक्तवृत्तम् अव्यक्ते ऽतिदिशति तथा प्रधानम् । (१।१९)

vyaktavṛttam avyakte 'tidiśati tathā pradhānam |

1.20१.२०

आभ्याम् वैधर्म्यम् पुरुषस्याह तद्विपरीतः पुमान् । (१।२०)

ābhyām vaidharmyam puruṣasyāha tadviparītaḥ pumān |

1.21१.२१

स्याद् एतत् । (१।२१)

syād etat |

1.22१.२२

अहेतुमन्नित्यत्वादि प्रधानसाधर्म्यम् अस्ति पुरुषस्य एवम् अनेकत्वम् व्यक्तसाधर्म्यम् । (१।२२)

ahetumannityatvādi pradhānasādharmyam asti puruṣasya evam anekatvam vyaktasādharmyam |

1.23१.२३

तत् कथम् उच्यते तद्विपरीतः पुमान् इति । (१।२३)

tat katham ucyate tadviparītaḥ pumān iti |

1.24१.२४

अत आह तथा च । (१।२४)

ata āha tathā ca |

1.25१.२५

चकारो ऽप्यर्थः । (१।२५)

cakāro 'pyarthaḥ |

1.26१.२६

यद्यप्यहेतुमत्त्वादि साधर्म्यम् तथाप्यत्रैगुण्यादि वैपरीत्यम् इत्यर्थः । (१।२६)

yadyapyahetumattvādi sādharmyam tathāpyatraiguṇyādi vaiparītyam ityarthaḥ |

1.27१.२७

त्रिगुणम् इत्य् उक्तम् । (१।२७)

triguṇam ity uktam |

1.28१.२८

तत्र के ते गुणास् त्रयः किम् च तदुपलक्षितम् इति । (१।२८)

tatra ke te guṇās trayaḥ kim ca tadupalakṣitam iti |

1.29१.२९

अत आह ॥ (१।२९)

ata āha ||

Data courtesy of The Digital Corpus of Sanskrit.

STKau zu SāṃKār, 11.2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit