सांख्यतत्त्वकौमुदीSāṃkhyatattvakaumudī

STKau zu SāṃKār, 12.2

11 of 14 · 49 verses

Select a line for its word-by-word analysis.

1.1१.१

गुण इति परार्थाः । (१।१)

guṇa iti parārthāḥ |

1.2१.२

सत्त्वं लघु प्रकाशकम् इत्यत्र च सत्त्वादयः क्रमेण निर्देक्ष्यन्ते । (१।२)

sattvaṃ laghu prakāśakam ityatra ca sattvādayaḥ krameṇa nirdekṣyante |

1.3१.३

तद् अनागतावेक्षणेन तन्त्रयुक्त्या प्रीत्यादीनां यथासंख्यं वेदितव्यम् । (१।३)

tad anāgatāvekṣaṇena tantrayuktyā prītyādīnāṃ yathāsaṃkhyaṃ veditavyam |

1.4१.४

एतद् उक्तं भवति । (१।४)

etad uktaṃ bhavati |

1.5१.५

प्रीतिः सुखं प्रीत्यात्मकः सत्त्वगुणः । (१।५)

prītiḥ sukhaṃ prītyātmakaḥ sattvaguṇaḥ |

1.6१.६

अप्रीतिर् दुःखम् अप्रीत्यात्मको रजोगुणः । (१।६)

aprītir duḥkham aprītyātmako rajoguṇaḥ |

1.7१.७

विषादो मोहो विषादात्मकस्तमोगुण इति । (१।७)

viṣādo moho viṣādātmakastamoguṇa iti |

1.8१.८

ये तु मन्यन्ते प्रीतिर् न दुःखाभावाद् अतिरिच्यत एवं दुःखम् अपि न प्रीत्यभावाद् अन्यद् इति तान् प्रत्य् आत्मग्रहणम् । (१।८)

ye tu manyante prītir na duḥkhābhāvād atiricyata evaṃ duḥkham api na prītyabhāvād anyad iti tān praty ātmagrahaṇam |

1.9१.९

नेतरेतराभावाः सुखादयो ऽपि तु भावाः । (१।९)

netaretarābhāvāḥ sukhādayo 'pi tu bhāvāḥ |

1.10१.१०

आत्मशब्दस्य भाववाचकत्वात् । (१।१०)

ātmaśabdasya bhāvavācakatvāt |

1.11१.११

प्रीतिर् आत्मा भावो येषां ते प्रीत्यात्मानः । (१।११)

prītir ātmā bhāvo yeṣāṃ te prītyātmānaḥ |

1.12१.१२

एवम् अन्यद् अपि व्याख्येयम् । (१।१२)

evam anyad api vyākhyeyam |

1.13१.१३

भावरूपता चैषाम् अनुभवसिद्धा । (१।१३)

bhāvarūpatā caiṣām anubhavasiddhā |

1.14१.१४

परस्परभावात्मकत्वे तु परस्पराश्रयापत्तेर् एकस्याप्यसिद्धेर् उभयसिद्धिर् इति भावः । (१।१४)

parasparabhāvātmakatve tu parasparāśrayāpatter ekasyāpyasiddher ubhayasiddhir iti bhāvaḥ |

1.15१.१५

स्वरूपम् एषाम् उक्त्वा प्रयोजनम् आह प्रकाशप्रवृत्तिनियमार्थाः । (१।१५)

svarūpam eṣām uktvā prayojanam āha prakāśapravṛttiniyamārthāḥ |

1.16१.१६

अत्रापि यथासंख्यम् एव । (१।१६)

atrāpi yathāsaṃkhyam eva |

1.17१.१७

रजः प्रवर्तकत्वात् सर्वत्र लघु सत्त्वं प्रवर्तयेद् यदि तमसा गुरुणा नियम्येत । (१।१७)

rajaḥ pravartakatvāt sarvatra laghu sattvaṃ pravartayed yadi tamasā guruṇā niyamyeta |

1.18१.१८

तमोनियतं तु क्वचिद् एव प्रवर्तयतीति तमो नियमार्थम् । (१।१८)

tamoniyataṃ tu kvacid eva pravartayatīti tamo niyamārtham |

1.19१.१९

प्रयोजनम् उक्त्वा क्रियाम् आह अन्योन्याभिभवाश्रयजननमिथुनवृत्तयः । (१।१९)

prayojanam uktvā kriyām āha anyonyābhibhavāśrayajananamithunavṛttayaḥ |

1.20१.२०

वृत्तिः क्रिया । (१।२०)

vṛttiḥ kriyā |

1.21१.२१

सा च प्रत्येकम् अभिसंबध्यते । (१।२१)

sā ca pratyekam abhisaṃbadhyate |

1.22१.२२

अन्योन्याभिभववृत्तयः । (१।२२)

anyonyābhibhavavṛttayaḥ |

1.23१.२३

एषाम् अन्यतमेनार्थवशाद् उद्भूतेनान्यतमम् अभिभूयते । (१।२३)

eṣām anyatamenārthavaśād udbhūtenānyatamam abhibhūyate |

1.24१.२४

तथा हि सत्त्वं रजस्तमसी अभिभूय शान्ताम् आत्मनो वृत्तिं लभते । (१।२४)

tathā hi sattvaṃ rajastamasī abhibhūya śāntām ātmano vṛttiṃ labhate |

1.25१.२५

एवं रजः सत्त्वतमसी अभिभूय घोराम् । (१।२५)

evaṃ rajaḥ sattvatamasī abhibhūya ghorām |

1.26१.२६

एवं तमः सत्त्वरजसी अभिभूय मूढाम् इति । (१।२६)

evaṃ tamaḥ sattvarajasī abhibhūya mūḍhām iti |

1.27१.२७

अन्योन्याश्रयवृत्तयः । (१।२७)

anyonyāśrayavṛttayaḥ |

1.28१.२८

यद्यप्याधाराधेयभावो नाश्रयार्थस्तथापि यदपेक्षया यस्य क्रिया स तस्याश्रयः । (१।२८)

yadyapyādhārādheyabhāvo nāśrayārthastathāpi yadapekṣayā yasya kriyā sa tasyāśrayaḥ |

1.29१.२९

तथा हि सत्त्वं प्रवृत्तिनियमावाश्रित्य रजस्तमसोः प्रकाशेनोपकरोति । (१।२९)

tathā hi sattvaṃ pravṛttiniyamāvāśritya rajastamasoḥ prakāśenopakaroti |

1.30१.३०

रजः प्रकाशनियमावाश्रित्य प्रवृत्त्येतरयोः । (१।३०)

rajaḥ prakāśaniyamāvāśritya pravṛttyetarayoḥ |

1.31१.३१

तमः प्रकाशप्रवृत्ती आश्रित्य नियमेनेतरयोर् इति । (१।३१)

tamaḥ prakāśapravṛttī āśritya niyamenetarayor iti |

1.32१.३२

अन्योन्यजननवृत्तयः । (१।३२)

anyonyajananavṛttayaḥ |

1.33१.३३

अन्यतमो ऽन्यतमं जनयति । (१।३३)

anyatamo 'nyatamaṃ janayati |

1.34१.३४

जननं च परिणामः । (१।३४)

jananaṃ ca pariṇāmaḥ |

1.35१.३५

स च गुणानां सदृशरूपः । (१।३५)

sa ca guṇānāṃ sadṛśarūpaḥ |

1.36१.३६

अत एव न हेतुमत्त्वं तत्त्वान्तरस्य हेतोर् अभावात् । (१।३६)

ata eva na hetumattvaṃ tattvāntarasya hetor abhāvāt |

1.37१.३७

नाप्यनित्यत्वं तत्त्वान्तरे लयाभावात् । (१।३७)

nāpyanityatvaṃ tattvāntare layābhāvāt |

1.38१.३८

अन्योन्यमिथुनवृत्तयः । (१।३८)

anyonyamithunavṛttayaḥ |

1.39१.३९

अन्योन्यसहचरा अविनिर्भागवर्तिन इति यावत् । (१।३९)

anyonyasahacarā avinirbhāgavartina iti yāvat |

1.40१.४०

चः समुच्चये । (१।४०)

caḥ samuccaye |

1.41१.४१

भवति चात्रागमः अन्योन्यमिथुनाः सर्वे सर्वे सर्वत्रगामिनः । (१।४१)

bhavati cātrāgamaḥ anyonyamithunāḥ sarve sarve sarvatragāminaḥ |

1.42१.४२

रजसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः । (१।४२)

rajaso mithunaṃ sattvaṃ sattvasya mithunaṃ rajaḥ |

1.43१.४३

तमसश् चापि मिथुने ते सत्त्वरजसी उभे । (१।४३)

tamasaś cāpi mithune te sattvarajasī ubhe |

1.44१.४४

उभयोः सत्त्वरजसोर् मिथुनं तम उच्यते । (१।४४)

ubhayoḥ sattvarajasor mithunaṃ tama ucyate |

1.45१.४५

नैषाम् आदिः संप्रयोगो वियोगो वोपलभ्यते । (१।४५)

naiṣām ādiḥ saṃprayogo viyogo vopalabhyate |

1.46१.४६

इति । (१।४६)

iti |

1.47१.४७

प्रकाशप्रवृत्तिनियमार्था इत्युक्तम् । (१।४७)

prakāśapravṛttiniyamārthā ityuktam |

1.48१.४८

तत्र के त इत्थंभूताः कुतश्चेति । (१।४८)

tatra ke ta itthaṃbhūtāḥ kutaśceti |

1.49१.४९

अत आह ॥ (१।४९)

ata āha ||

Data courtesy of The Digital Corpus of Sanskrit.

STKau zu SāṃKār, 12.2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit