वाराहगृह्यसूत्रVārāhagṛhyasūtra

VārGṛSū, 10

10 of 17 · 29 verses

Select a line for its word-by-word analysis.

1.0१.०

विनीतक्रोधः सहर्षः सहर्षीं भार्यां विन्देतानन्यपूर्वां यवीयसीम् ॥ (१।०)

vinītakrodhaḥ saharṣaḥ saharṣīṃ bhāryāṃ vindetānanyapūrvāṃ yavīyasīm ||

2.1२.१

असमानप्रवरैर् विवाहः । (२।१)

asamānapravarair vivāhaḥ |

2.2२.२

ऊर्ध्वं सप्तमात् पितृबन्धुभ्यः पञ्चमान् मातृबन्धुभ्यो बीजिनश्च ॥ (२।२)

ūrdhvaṃ saptamāt pitṛbandhubhyaḥ pañcamān mātṛbandhubhyo bījinaśca ||

3.0३.०

कृत्तिकास्वातिपूर्वैर् इति वरयेत् ॥ (३।०)

kṛttikāsvātipūrvair iti varayet ||

4.0४.०

मृगशिरःश्रविष्ठोत्तराणीत्य् उपयमेत् ॥ (४।०)

mṛgaśiraḥśraviṣṭhottarāṇīty upayamet ||

5.0५.०

पञ्च विवाहकारकाणि भवन्ति वित्तं रूपं विद्या प्रज्ञा बान्धवमिति ॥ (५।०)

pañca vivāhakārakāṇi bhavanti vittaṃ rūpaṃ vidyā prajñā bāndhavamiti ||

6.1६.१

एकालाभे वित्तं विसृजेत् । (६।१)

ekālābhe vittaṃ visṛjet |

6.2६.२

द्वितीयालाभे रूपम् । (६।२)

dvitīyālābhe rūpam |

6.3६.३

तृतीयालाभे विद्याम् । (६।३)

tṛtīyālābhe vidyām |

6.4६.४

प्रज्ञायां तु बान्धवे च विवदन्ते ॥ (६।४)

prajñāyāṃ tu bāndhave ca vivadante ||

7.1७.१

अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्तु नो वरेयम् । (७।१)

anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yantu no vareyam |

7.2७.२

समर्यमा सं भगो नो ऽनुनीयात् सं जास्पत्यं सुयममस्तु देवाः । (७।२)

samaryamā saṃ bhago no 'nunīyāt saṃ jāspatyaṃ suyamamastu devāḥ |

7.3७.३

इति वरकान् व्रजतो ऽनुमन्त्रयते ॥ (७।३)

iti varakān vrajato 'numantrayate ||

8.0८.०

बन्धुमतीं कन्याम् अस्पृष्टमैथुनाम् उपयच्छेतानग्निकां श्रेष्ठाम् ॥ (८।०)

bandhumatīṃ kanyām aspṛṣṭamaithunām upayacchetānagnikāṃ śreṣṭhām ||

9.1९.१

विज्ञानमस्यै कुर्यात् । (९।१)

vijñānamasyai kuryāt |

9.2९.२

चतुरो लोष्टान् आहरेत् सीतालोष्टं वेदिलोष्टं गोमयलोष्टं श्मशानलोष्टं च ॥ (९।२)

caturo loṣṭān āharet sītāloṣṭaṃ vediloṣṭaṃ gomayaloṣṭaṃ śmaśānaloṣṭaṃ ca ||

10.1१०.१

तेषामेकं गृह्णीष्वेति ब्रूयात् । (१०।१)

teṣāmekaṃ gṛhṇīṣveti brūyāt |

10.2१०.२

श्मशानलोष्टं चेद् गृह्णीयान् नोपयच्छेत ॥ (१०।२)

śmaśānaloṣṭaṃ ced gṛhṇīyān nopayaccheta ||

11.0११.०

असंस्पृष्टां धर्मेणोपयच्छेत ब्राह्मेण शौल्केन वा ॥ (११।०)

asaṃspṛṣṭāṃ dharmeṇopayaccheta brāhmeṇa śaulkena vā ||

12.0१२.०

शतमितिरथं दद्याद् गोमिथुनं वा ॥ (१२।०)

śatamitirathaṃ dadyād gomithunaṃ vā ||

13.1१३.१

उभयांस् तेजनीष्व् आसेज् जन्यान् कौमारिकांश् च । (१३।१)

ubhayāṃs tejanīṣv āsej janyān kaumārikāṃś ca |

13.2१३.२

पूर्वे जन्याः स्युर् अपरे कौमारिकाः ॥ (१३।२)

pūrve janyāḥ syur apare kaumārikāḥ ||

14.0१४.०

चतुरो गोमयपिण्डान् कृत्वा द्वाव् अन्येभ्यस् तथान्येभ्य इति प्रयच्छेत् ॥ (१४।०)

caturo gomayapiṇḍān kṛtvā dvāv anyebhyas tathānyebhya iti prayacchet ||

15.1१५.१

धनं न इति ब्रूयुः । (१५।१)

dhanaṃ na iti brūyuḥ |

15.2१५.२

पुत्रपशवो न इति जन्याः ॥ (१५।२)

putrapaśavo na iti janyāḥ ||

16.1१६.१

ददानि । (१६।१)

dadāni |

16.2१६.२

प्रतिगृह्णानीति त्रिर् ब्रह्मदेयाम् ॥ (१६।२)

pratigṛhṇānīti trir brahmadeyām ||

17.0१७.०

कृतेनांसेन विसंकसेयुः ॥ (१७।०)

kṛtenāṃsena visaṃkaseyuḥ ||

18.0१८.०

त्रिर् आनन्दं मागधो ह्वयेत् ॥ (१८।०)

trir ānandaṃ māgadho hvayet ||

Data courtesy of The Digital Corpus of Sanskrit.

VārGṛSū, 10

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit