zu Aṣṭādhyāyī, 1, 1, 11.1
Select a line for its word-by-word analysis.
ईत् ऊत् एत् इत्येवमन्तं द्विवचनं शब्दरूपं प्रगृह्यसञ्ज्ञं भवति । (१।१)
īt ūt et ityevamantaṃ dvivacanaṃ śabdarūpaṃ pragṛhyasañjñaṃ bhavati |
प्रगृह्यप्रदेशाः प्लुतप्रगृह्या अचि नित्यम् इत्य् एवमादयः । (१।११)
pragṛhyapradeśāḥ plutapragṛhyā aci nityam ity evamādayaḥ |
ईदादीनां प्रगृह्यत्वे मणीवादीनां प्रतिषेधो वक्तव्यः । (१।१२)
īdādīnāṃ pragṛhyatve maṇīvādīnāṃ pratiṣedho vaktavyaḥ |
मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम । (१।१३)
maṇīvoṣṭrasya lambete priyau vatsatarau mama |
Data courtesy of The Digital Corpus of Sanskrit.