काशिकावृत्तिKāśikāvṛtti

zu Aṣṭādhyāyī, 1, 1, 27.1

26 of 45 · 44 verses

Select a line for its word-by-word analysis.

1.1१.१

सर्वशब्दः आदिर् येषां तानीमानि सर्वादीनि सर्वनामसंज्ञानि भवन्ति । (१।१)

sarvaśabdaḥ ādir yeṣāṃ tānīmāni sarvādīni sarvanāmasaṃjñāni bhavanti |

1.2१.२

सर्वः सर्वौ सर्वे । (१।२)

sarvaḥ sarvau sarve |

1.3१.३

सर्वस्मै । (१।३)

sarvasmai |

1.4१.४

सर्वस्मात् । (१।४)

sarvasmāt |

1.5१.५

सर्वेषाम् । (१।५)

sarveṣām |

1.6१.६

सर्वस्मिन् । (१।६)

sarvasmin |

1.7१.७

सर्वकः । (१।७)

sarvakaḥ |

1.8१.८

विश्वः विश्वौ विश्वे । (१।८)

viśvaḥ viśvau viśve |

1.9१.९

विश्वस्मै । (१।९)

viśvasmai |

1.10१.१०

विश्वस्मात् । (१।१०)

viśvasmāt |

1.11१.११

विश्वेषाम् । (१।११)

viśveṣām |

1.12१.१२

विश्वस्मिन् । (१।१२)

viśvasmin |

1.13१.१३

विश्वकः । (१।१३)

viśvakaḥ |

1.14१.१४

उभ । (१।१४)

ubha |

1.15१.१५

उभय । (१।१५)

ubhaya |

1.16१.१६

उभशब्दस्य सर्वनामत्वे प्रयोजनम् सर्वनाम्नस् तृतीया च इति । (१।१६)

ubhaśabdasya sarvanāmatve prayojanam sarvanāmnas tṛtīyā ca iti |

1.17१.१७

उभाभ्यां हेतुभ्यां वसति उभयोः हेत्वोः वसति । (१।१७)

ubhābhyāṃ hetubhyāṃ vasati ubhayoḥ hetvoḥ vasati |

1.18१.१८

उभये । (१।१८)

ubhaye |

1.19१.१९

उभयस्मै । (१।१९)

ubhayasmai |

1.20१.२०

उभयस्मात् । (१।२०)

ubhayasmāt |

1.21१.२१

उभयेषाम् । (१।२१)

ubhayeṣām |

1.22१.२२

उभयस्मिन् । (१।२२)

ubhayasmin |

1.23१.२३

डतर डतम । (१।२३)

ḍatara ḍatama |

1.25१.२५

कतरस्मै कतमस्मै । (१।२५)

katarasmai katamasmai |

1.29१.२९

इतरस्मै । (१।२९)

itarasmai |

1.30१.३०

अन्यस्मै । (१।३०)

anyasmai |

1.32१.३२

त्वशब्दो ऽन्यवाची स्वरभेदाद् द्विः पठितः । (१।३२)

tvaśabdo 'nyavācī svarabhedād dviḥ paṭhitaḥ |

1.33१.३३

एकः उदात्तः । (१।३३)

ekaḥ udāttaḥ |

1.34१.३४

द्वितीयो ऽनुदात्तः । (१।३४)

dvitīyo 'nudāttaḥ |

1.35१.३५

केचित् तकारान्तम् एकं पठन्ति । (१।३५)

kecit takārāntam ekaṃ paṭhanti |

1.36१.३६

त्व त्वत् इति द्वाव् अपि च अनुदात्तौ इति स्मरन्ति । (१।३६)

tva tvat iti dvāv api ca anudāttau iti smaranti |

1.37१.३७

नेम नेमस्मै । (१।३७)

nema nemasmai |

1.38१.३८

वक्ष्यमाणेन जसि विभाषा भवति । (१।३८)

vakṣyamāṇena jasi vibhāṣā bhavati |

1.39१.३९

नेमे नेमाः इति । (१।३९)

neme nemāḥ iti |

1.40१.४०

सम समस्मै । (१।४०)

sama samasmai |

1.41१.४१

कथं यथासङ्ख्यम् अनुदेशः समानाम् समे देशे यजेत इति । (१।४१)

kathaṃ yathāsaṅkhyam anudeśaḥ samānām same deśe yajeta iti |

1.42१.४२

समस्य सर्वशब्दपर्यायस्य सर्वनामसंज्ञेष्यते न सर्वत्र । (१।४२)

samasya sarvaśabdaparyāyasya sarvanāmasaṃjñeṣyate na sarvatra |

1.44१.४४

पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम् असंज्ञायाम् । (१।४४)

pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyām asaṃjñāyām |

1.45१.४५

स्वम् अज्ञातिधनाख्यायाम् । (१।४५)

svam ajñātidhanākhyāyām |

1.46१.४६

अन्तरं बहिर्योगोपसंव्यानयोः । (१।४६)

antaraṃ bahiryogopasaṃvyānayoḥ |

1.47१.४७

त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् । (१।४७)

tyad tad yad etad idam adas eka dvi yuṣmad |

1.48१.४८

अस्मद् भवतु किम् । (१।४८)

asmad bhavatu kim |

1.49१.४९

सर्वादिः । (१।४९)

sarvādiḥ |

1.50१.५०

सर्वनामप्रदेशाः सर्वनाम्नः स्मै इत्य् एवमादयः ॥ (१।५०)

sarvanāmapradeśāḥ sarvanāmnaḥ smai ity evamādayaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit