1.1१.१स्त्रीलिङ्गनिर्देशात् सङ्ख्येति सम्बध्यते । (१।१)
strīliṅganirdeśāt saṅkhyeti sambadhyate |
1.2१.२षकारान्ता नकारान्ता च या सङ्ख्या सा षट्सञ्ज्ञा भवति । (१।२)
ṣakārāntā nakārāntā ca yā saṅkhyā sā ṣaṭsañjñā bhavati |
1.3१.३षकारान्ता तावत्षट् तिष्ठन्ति । (१।३)
ṣakārāntā tāvatṣaṭ tiṣṭhanti |
1.9१.९अन्तग्रहणम् औपदेशिकार्थम् । (१।९)
antagrahaṇam aupadeśikārtham |
1.10१.१०तेनेह न भवति शतानि सहस्राणि । (१।१०)
teneha na bhavati śatāni sahasrāṇi |
1.11१.११अष्टानाम् इत्य् अत्र नुड् भवति । (१।११)
aṣṭānām ity atra nuḍ bhavati |
1.12१.१२षट्प्रदेशाः षड्भ्यो लुक् इत्य् एवमादयः ॥ (१।१२)
ṣaṭpradeśāḥ ṣaḍbhyo luk ity evamādayaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.