काशिकावृत्तिKāśikāvṛtti

zu Aṣṭādhyāyī, 1, 1, 13.1

12 of 45 · 13 verses

Select a line for its word-by-word analysis.

1.1१.१

शे इत्य् एतत् प्रगृह्यसञ्ज्ञं भवति । (१।१)

śe ity etat pragṛhyasañjñaṃ bhavati |

1.2१.२

किम् इदं शे इति सुपाम् आदेशश् छन्दसि । (१।२)

kim idaṃ śe iti supām ādeśaś chandasi |

1.3१.३

न युष्मे वाजबन्धवः । (१।३)

na yuṣme vājabandhavaḥ |

1.4१.४

अस्मे इन्द्राबृहस्पती । (१।४)

asme indrābṛhaspatī |

1.5१.५

युष्मे इति । (१।५)

yuṣme iti |

1.6१.६

अस्मे इति । (१।६)

asme iti |

1.7१.७

त्वे रायः । (१।७)

tve rāyaḥ |

1.8१.८

मे रायः । (१।८)

me rāyaḥ |

1.9१.९

त्वे इति । (१।९)

tve iti |

1.10१.१०

मे इति । (१।१०)

me iti |

1.11१.११

छान्दसम् एतद् एवैकम् उदाहरणम् अस्मे इन्द्राबृहस्पती इति । (१।११)

chāndasam etad evaikam udāharaṇam asme indrābṛhaspatī iti |

1.12१.१२

तत्र तथा पाठात् । (१।१२)

tatra tathā pāṭhāt |

1.13१.१३

इतरत् तु लौकिकम् अनुकरणम् युष्मे इति अस्मे इति त्वे इति मे इति ॥ (१।१३)

itarat tu laukikam anukaraṇam yuṣme iti asme iti tve iti me iti ||

Data courtesy of The Digital Corpus of Sanskrit.

Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 13.1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit