काशिकावृत्तिKāśikāvṛtti

zu Aṣṭādhyāyī, 1, 1, 5.1

5 of 45 · 19 verses

Select a line for its word-by-word analysis.

1.1१.१

निमित्तसप्तम्य् एषा । (१।१)

nimittasaptamy eṣā |

1.2१.२

क्ङिन्निमित्ते ये गुणवृद्धी प्राप्नुतः ते न भवतः । (१।२)

kṅinnimitte ye guṇavṛddhī prāpnutaḥ te na bhavataḥ |

1.3१.३

चितः चितवान् । (१।३)

citaḥ citavān |

1.4१.४

स्तुतः स्तुतवान् । (१।४)

stutaḥ stutavān |

1.5१.५

भिन्नः भिन्नवान् । (१।५)

bhinnaḥ bhinnavān |

1.6१.६

मृष्टः मृष्टवान् । (१।६)

mṛṣṭaḥ mṛṣṭavān |

1.7१.७

तेxत्ङिति खल्व् अपि चिनुतः चिन्वन्ति । (१।७)

Textṅiti khalv api cinutaḥ cinvanti |

1.8१.८

मृष्टः मृजन्ति । (१।८)

mṛṣṭaḥ mṛjanti |

1.9१.९

गकारो ऽपि अत्र चर्त्वभूतो निर्दिश्यते । (१।९)

gakāro 'pi atra cartvabhūto nirdiśyate |

1.10१.१०

ग्लाजिस्थश् च क्स्नुः जिष्णुः । (१।१०)

glājisthaś ca ksnuḥ jiṣṇuḥ |

1.11१.११

भूष्णुः । (१।११)

bhūṣṇuḥ |

1.12१.१२

इकः इत्येव । (१।१२)

ikaḥ ityeva |

1.13१.१३

कामयते लैगवायनः । (१।१३)

kāmayate laigavāyanaḥ |

1.14१.१४

मृजेर् अजादौ संक्रमे विभाषा वृद्धिर् इष्यते । (१।१४)

mṛjer ajādau saṃkrame vibhāṣā vṛddhir iṣyate |

1.15१.१५

संक्रमो नाम गुणवृद्धिप्रतिषेधविषयः । (१।१५)

saṃkramo nāma guṇavṛddhipratiṣedhaviṣayaḥ |

1.16१.१६

परिमृजन्ति परिमार्जन्ति । (१।१६)

parimṛjanti parimārjanti |

1.17१.१७

परिमृजन्तु परिमार्जन्तु । (१।१७)

parimṛjantu parimārjantu |

1.18१.१८

लघूपधगुणस्य अप्यत्र प्रतिषेधः । (१।१८)

laghūpadhaguṇasya apyatra pratiṣedhaḥ |

1.19१.१९

अचिनवम् असुनवम् इत्य् आदौ लकारस्य सत्य् अपि ङित्त्वे यासुटो ङिद्वचनं ज्ञापकम् ङिति यत् कार्यं तल्लकारे ङिति न भवति इति ॥ (१।१९)

acinavam asunavam ity ādau lakārasya saty api ṅittve yāsuṭo ṅidvacanaṃ jñāpakam ṅiti yat kāryaṃ tallakāre ṅiti na bhavati iti ||

Data courtesy of The Digital Corpus of Sanskrit.

Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit