काशिकावृत्तिKāśikāvṛtti

zu Aṣṭādhyāyī, 1, 1, 39.1

38 of 45 · 14 verses

Select a line for its word-by-word analysis.

1.1१.१

कृद् यो मकारान्तः एजन्तश् च तदन्तं शब्दरूपम् अव्ययसञ्ज्ञं भवति । (१।१)

kṛd yo makārāntaḥ ejantaś ca tadantaṃ śabdarūpam avyayasañjñaṃ bhavati |

1.2१.२

स्वादुङ्कारं भुङ्क्ते । (१।२)

svāduṅkāraṃ bhuṅkte |

1.3१.३

संपन्नंकारं भुङ्क्ते । (१।३)

saṃpannaṃkāraṃ bhuṅkte |

1.4१.४

लवणंकारं भुङ्क्ते । (१।४)

lavaṇaṃkāraṃ bhuṅkte |

1.5१.५

एजन्तः वक्षे रायः । (१।५)

ejantaḥ vakṣe rāyaḥ |

1.6१.६

ता वाम् एषे रथानाम् । (१।६)

tā vām eṣe rathānām |

1.7१.७

क्रत्वे दक्षाय जीवसे । (१।७)

kratve dakṣāya jīvase |

1.8१.८

ज्योक् च सूर्यं दृशे । (१।८)

jyok ca sūryaṃ dṛśe |

1.9१.९

वक्षे इति वचेः तुमर्थे सेसेनसे इति सेप्रत्यये कुत्वे षत्वे च कृते रूपम् । (१।९)

vakṣe iti vaceḥ tumarthe sesenase iti sepratyaye kutve ṣatve ca kṛte rūpam |

1.10१.१०

एषे इति इणः सेप्रत्यये गुणे षत्वे च कृते रूपम् । (१।१०)

eṣe iti iṇaḥ sepratyaye guṇe ṣatve ca kṛte rūpam |

1.11१.११

जीवसे इति जीवेः असे प्रत्यये रूपम् । (१।११)

jīvase iti jīveḥ ase pratyaye rūpam |

1.12१.१२

दृशे इति दृशेः केन्प्रत्ययो निपात्यते दृशे विख्ये च इति । (१।१२)

dṛśe iti dṛśeḥ kenpratyayo nipātyate dṛśe vikhye ca iti |

1.13१.१३

अन्तग्रहणम् औपदेशिकप्रतिपत्त्यर्थम् । (१।१३)

antagrahaṇam aupadeśikapratipattyartham |

1.14१.१४

इह मा भूत् आधये चिकीर्षवे कुम्भकारेभ्यः इति ॥ (१।१४)

iha mā bhūt ādhaye cikīrṣave kumbhakārebhyaḥ iti ||

Data courtesy of The Digital Corpus of Sanskrit.

Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 39.1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit