zu Aṣṭādhyāyī, 1, 1, 23.1
Select a line for its word-by-word analysis.
बहु गण वतु इत्य् एते सङ्ख्यासञ्ज्ञा भवन्ति । (१।१)
bahu gaṇa vatu ity ete saṅkhyāsañjñā bhavanti |
बहुगणशब्दयोर् वैपुल्ये सङ्घे च वर्तमानयोर् इह ग्रहणं नास्ति सङ्ख्यावाचिनोर् एव । (१।१८)
bahugaṇaśabdayor vaipulye saṅghe ca vartamānayor iha grahaṇaṃ nāsti saṅkhyāvācinor eva |
भूर्यादीनां निवृत्त्यर्थं सङ्ख्यासञ्ज्ञा विधीयते । (१।१९)
bhūryādīnāṃ nivṛttyarthaṃ saṅkhyāsañjñā vidhīyate |
अर्धपूर्वपदश्च पूरणप्रत्ययान्तः सङ्ख्यासञ्ज्ञो भवति इति वक्तव्यं समासकन्विध्यर्थम् । (१।२०)
ardhapūrvapadaśca pūraṇapratyayāntaḥ saṅkhyāsañjño bhavati iti vaktavyaṃ samāsakanvidhyartham |
अर्धं पञ्चमं येषाम् इति बहुव्रीहौ कृते अर्धपञ्चमैः शूर्पैः क्रीतः । (१।२२)
ardhaṃ pañcamaṃ yeṣām iti bahuvrīhau kṛte ardhapañcamaiḥ śūrpaiḥ krītaḥ |
तत्र दिक्सङ्ख्ये सञ्ज्ञायाम् इत्य् अनुवृत्तेस् ततः सङ्ख्यापूर्वस्य द्विगुसञ्ज्ञायां शूर्पाद् अञ् अन्यतरस्याम् इति अञ् ठञ् च । (१।२४)
tatra diksaṅkhye sañjñāyām ity anuvṛttes tataḥ saṅkhyāpūrvasya dvigusañjñāyāṃ śūrpād añ anyatarasyām iti añ ṭhañ ca |
अध्यर्धपूर्वद्विगोर् लुगसञ्ज्ञायाम् इति लुक् । (१।२५)
adhyardhapūrvadvigor lugasañjñāyām iti luk |
सङ्ख्याप्रदेशाः सङ्ख्या वंश्येन इत्य् एवमादयः ॥ (१।२७)
saṅkhyāpradeśāḥ saṅkhyā vaṃśyena ity evamādayaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.