काशिकावृत्तिKāśikāvṛtti

zu Aṣṭādhyāyī, 1, 1, 3.1

3 of 45 · 24 verses

Select a line for its word-by-word analysis.

1.1१.१

परिभाषा इयं स्थानिनियमार्था । (१।१)

paribhāṣā iyaṃ sthāniniyamārthā |

1.2१.२

अनियमप्रसङ्गे नियमो विधीयते । (१।२)

aniyamaprasaṅge niyamo vidhīyate |

1.3१.३

वृद्धिगुणौ स्वसंज्ञया शिष्यमाणौ इकः एव स्थाने वेदितव्यौ । (१।३)

vṛddhiguṇau svasaṃjñayā śiṣyamāṇau ikaḥ eva sthāne veditavyau |

1.4१.४

वक्ष्यति सार्वधातुकार्धधातुकयोः अङ्गस्य गुण इति । (१।४)

vakṣyati sārvadhātukārdhadhātukayoḥ aṅgasya guṇa iti |

1.5१.५

स इको एव स्थाने वेदितव्यः । (१।५)

sa iko eva sthāne veditavyaḥ |

1.6१.६

नयति । (१।६)

nayati |

1.7१.७

भवति । (१।७)

bhavati |

1.8१.८

वृद्धिः खल्व् अपि अकार्षीत् । (१।८)

vṛddhiḥ khalv api akārṣīt |

1.9१.९

अहार्षीत् । (१।९)

ahārṣīt |

1.10१.१०

अचैषीत् । (१।१०)

acaiṣīt |

1.11१.११

अनैषीत् । (१।११)

anaiṣīt |

1.12१.१२

अलावीत् । (१।१२)

alāvīt |

1.13१.१३

अस्तावीत् । (१।१३)

astāvīt |

1.14१.१४

गुणवृद्धी स्वसंज्ञया विधीयेते तत्र इकः इति एतदुपस्थितं द्रष्टव्यम् । (१।१४)

guṇavṛddhī svasaṃjñayā vidhīyete tatra ikaḥ iti etadupasthitaṃ draṣṭavyam |

1.15१.१५

किं कृतं भवति द्वितीयया षष्ठी प्रादुर्भाव्यते । (१।१५)

kiṃ kṛtaṃ bhavati dvitīyayā ṣaṣṭhī prādurbhāvyate |

1.16१.१६

मिदिमृजिपुगन्तलघऊपर्धाच्छिदृशिक्षिप्रक्षुद्रेष्व् अङ्गेन इग् विशेष्यते । (१।१६)

midimṛjipugantalaghaūpardhācchidṛśikṣiprakṣudreṣv aṅgena ig viśeṣyate |

1.17१.१७

जुसि सार्वधातुकादिगुणेषु इकाङ्गं विशेष्यते । (१।१७)

jusi sārvadhātukādiguṇeṣu ikāṅgaṃ viśeṣyate |

1.18१.१८

मेद्यते । (१।१८)

medyate |

1.19१.१९

अबिभयुः । (१।१९)

abibhayuḥ |

1.20१.२०

इकः इति किम् आत् सन्ध्यक्षरव्यञ्जनानां मा भूत् । (१।२०)

ikaḥ iti kim āt sandhyakṣaravyañjanānāṃ mā bhūt |

1.21१.२१

यानम् । (१।२१)

yānam |

1.22१.२२

ग्लायति । (१।२२)

glāyati |

1.24१.२४

पुनर् गुणवृद्धिग्रहणं स्वसंज्ञया विधाने नियमार्थम् । (१।२४)

punar guṇavṛddhigrahaṇaṃ svasaṃjñayā vidhāne niyamārtham |

1.25१.२५

इह मा भूत् द्यौः पन्थाः सः इमम् इति ॥ (१।२५)

iha mā bhūt dyauḥ panthāḥ saḥ imam iti ||

Data courtesy of The Digital Corpus of Sanskrit.

Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit