रसहृदयतन्त्रRasahṛdayatantra

RHT, 18

18 of 19 · 154 verses

Select a line for its word-by-word analysis.

1.1१.१

वेधमहत्त्वअनया खलु सारणया क्रामणेन च विशति योजितो विधिवत् । (१।१)

vedhamahattvaanayā khalu sāraṇayā krāmaṇena ca viśati yojito vidhivat |

1.2१.२

असति वेधविधौ न रसः स्वगुणान्प्रकाशयति ॥ (१।२)

asati vedhavidhau na rasaḥ svaguṇānprakāśayati ||

2.1२.१

हेमकृष्टिरसदरदताप्यगन्धकमनःशिलाराजवर्त्तकं विमलम् । (२।१)

hemakṛṣṭirasadaradatāpyagandhakamanaḥśilārājavarttakaṃ vimalam |

2.2२.२

पुटमृतशुल्बं तारे निर्व्यूढं हेमकृष्टिरियम् ॥ (२।२)

puṭamṛtaśulbaṃ tāre nirvyūḍhaṃ hemakṛṣṭiriyam ||

3.1३.१

शतांशविधि।-वेध (१)अष्टानवतिर्भागास्तारस्त्वेकोऽपि कनकभागः स्यात् । (३।१)

śatāṃśavidhi|-vedha (1)aṣṭānavatirbhāgāstārastveko'pi kanakabhāgaḥ syāt |

3.2३.२

सूतस्यैको भागः शतांशविधिरेष विख्यातः ॥ (३।२)

sūtasyaiko bhāgaḥ śatāṃśavidhireṣa vikhyātaḥ ||

4.1४.१

शतांशविधि (२)एकोनपञ्चाशद्भागास्तारस्येह तथैव शुल्वस्य । (४।१)

śatāṃśavidhi (2)ekonapañcāśadbhāgāstārasyeha tathaiva śulvasya |

4.2४.२

कनकस्यैको भागो वेधश्चैकेन सूतस्य ॥ (४।२)

kanakasyaiko bhāgo vedhaścaikena sūtasya ||

5.1५.१

देड़िनितिओन् सहस्रवेधिन् उन्द् ह्￶हेरेवं सहस्रवेधी नियुज्यते कोटिवेधी च । (५।१)

Definition sahasravedhin und h￶herevaṃ sahasravedhī niyujyate koṭivedhī ca |

5.2५.२

जारणबीजवशेन तु सूतस्य बलाबलं ज्ञात्वा ॥ (५।२)

jāraṇabījavaśena tu sūtasya balābalaṃ jñātvā ||

6.1६.१

कुन्तवेधदत्त्वादौ प्रतिवापं लाक्षामत्स्यादिपित्तभावनया । (६।१)

kuntavedhadattvādau prativāpaṃ lākṣāmatsyādipittabhāvanayā |

6.2६.२

तारे वा शुल्बे वा तारारिष्टे तथा कृष्टौ ॥ (६।२)

tāre vā śulbe vā tārāriṣṭe tathā kṛṣṭau ||

7.1७.१

तदनु क्रामणमृदिते तत्कल्केनापि पिण्डितरसेन । (७।१)

tadanu krāmaṇamṛdite tatkalkenāpi piṇḍitarasena |

7.2७.२

अतिविद्रुते च तस्मिन् वेधोऽसौ कुन्तवेधेन ॥ (७।२)

atividrute ca tasmin vedho'sau kuntavedhena ||

8.1८.१

क्रामण (?)तत्तैलार्द्रपटेन स्थगयेत् पललेन भस्मना वापि । (८।१)

krāmaṇa (?)tattailārdrapaṭena sthagayet palalena bhasmanā vāpi |

8.2८.२

विधिवद्वेध्यं द्रव्यं रसराजक्रामणार्थं हि ॥ (८।२)

vidhivadvedhyaṃ dravyaṃ rasarājakrāmaṇārthaṃ hi ||

9.1९.१

इति सारितस्य कथितं रसस्य वेधादि क्रामणं कर्म । (९।१)

iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma |

9.2९.२

लेपवेध।पत्त्ररञ्जनपादादिजीर्णबीजो युज्यते पत्रलेपेन ॥ (९।२)

lepavedha|pattrarañjanapādādijīrṇabījo yujyate patralepena ||

10.1१०.१

पत्त्ररञ्जन (२) दुर्छ् लेपअम्लाद्युद्वर्तिततारारिष्टादिपत्रम् अतिशुद्धम् । (१०।१)

pattrarañjana (2) durch lepaamlādyudvartitatārāriṣṭādipatram atiśuddham |

10.2१०.२

आलिप्य रसेन ततः क्रामणलिप्ते पुटेषु विश्रान्तम् ॥ (१०।२)

ālipya rasena tataḥ krāmaṇalipte puṭeṣu viśrāntam ||

11.1११.१

Wएइतेर्वेरर्बेइतुन्ग् देस् पत्त्रस्; वर्णपुटअर्धेन मिश्रयित्वा हेम्ना ज्येष्ठेन तद्दलं पुटितम् । (११।१)

Weiterverarbeitung des pattras; varṇapuṭaardhena miśrayitvā hemnā jyeṣṭhena taddalaṃ puṭitam |

11.2११.२

क्षितिखगपटुरक्तमृदा वर्णपुटोऽयं ततो देयः ॥ (११।२)

kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ ||

12.1१२.१

वेध:: wहिते गोल्द् => रेद् गोल्द्भूपतिवर्तकचूर्णं शिरीषपुष्परसभावितं बहुशः । (१२।१)

vedha:: white gold => red goldbhūpativartakacūrṇaṃ śirīṣapuṣparasabhāvitaṃ bahuśaḥ |

12.2१२.२

सद्यः करोति रक्तं सितकनकम् अशीतिभागेन ॥ (१२।२)

sadyaḥ karoti raktaṃ sitakanakam aśītibhāgena ||

13.1१३.१

वेध:: सिल्वेर् => गोल्द्रसदरदविमलताप्यं पटुशिलामाक्षीकनृपाश्चैव । (१३।१)

vedha:: silver => goldrasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva |

13.2१३.२

प्रवालकंकुष्ठटङ्कणगैरिकप्रतिवापितं सितं कनकम् ॥ (१३।२)

pravālakaṃkuṣṭhaṭaṅkaṇagairikaprativāpitaṃ sitaṃ kanakam ||

14.1१४.१

गोल्द्:: रञ्जनतापीभवनृपावर्तबीजपूररसार्दितम् । (१४।१)

gold:: rañjanatāpībhavanṛpāvartabījapūrarasārditam |

14.2१४.२

करोति पुटपाकेन हेम सिन्दूरसन्निभम् ॥ (१४।२)

karoti puṭapākena hema sindūrasannibham ||

15.1१५.१

सिल्वेर्:: इम्प्रोवेमेन्त् ओड़् चोलोउर्वङ्गाभ्रं सितमाक्षीकं शैलं वा वाहयेत्सिते । (१५।१)

silver:: improvement of colourvaṅgābhraṃ sitamākṣīkaṃ śailaṃ vā vāhayetsite |

15.2१५.२

तत्तारं च दशांशेन तारोत्कर्षं करोति हि ॥ (१५।२)

tattāraṃ ca daśāṃśena tārotkarṣaṃ karoti hi ||

16.1१६.१

निर्वाहण ओड़् दिड़्ड़्। सुब्स्तन्चेस् => फ्य्स्। रेसुल्त्स्नागः करोति मृदुतां निर्व्यूढस्तां च रक्ततां च रविः । (१६।१)

nirvāhaṇa of diff. substances => phys. resultsnāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatāṃ ca raviḥ |

16.2१६.२

तां पीततां च तीक्ष्णं काचस्तत्कालिकविनाशं च ॥ (१६।२)

tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca ||

17.1१७.१

गोल्द्:: इम्प्रोवेमेन्त्कनकारुणसममाक्षिककरञ्जतैलाप्लुतो ध्मातः । (१७।१)

gold:: improvementkanakāruṇasamamākṣikakarañjatailāpluto dhmātaḥ |

17.2१७.२

पाते पाते दश दश विन्दति यावद्धि कोटिमपि ॥ (१७।२)

pāte pāte daśa daśa vindati yāvaddhi koṭimapi ||

18.1१८.१

गोल्द्:: बीज ड़ोर् इम्प्रोवेमेन्त् ओड़् चोलोउर्स चायमतिविलीनः कंगुणीतैलसेचितो बहुशः । (१८।१)

gold:: bīja for improvement of coloursa cāyamativilīnaḥ kaṃguṇītailasecito bahuśaḥ |

18.2१८.२

माक्षीकरविनिवापं विध्यति कनकं शतांशेन ॥ (१८।२)

mākṣīkaravinivāpaṃ vidhyati kanakaṃ śatāṃśena ||

19.1१९.१

गोल्द्:: बीज ड़ोर् इम्प्रोवेमेन्त् (?)शुल्बहतं रसगन्धाहतखगपीतं दशांशेन । (१९।१)

gold:: bīja for improvement (?)śulbahataṃ rasagandhāhatakhagapītaṃ daśāṃśena |

19.2१९.२

विध्यति कनकं कुरुते तन्निर्व्यूढं मर्दितं सुदृढम् ॥ (१९।२)

vidhyati kanakaṃ kurute tannirvyūḍhaṃ marditaṃ sudṛḍham ||

20.1२०.१

वेधरसकसमं सुध्मातं कनकं भुक्त्वा ततोऽर्कचन्द्रलेपेन । (२०।१)

vedharasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena |

20.2२०.२

माक्षिकसत्त्वं हेम्ना करोति जीर्णो रसः शतांशेन ॥ (२०।२)

mākṣikasattvaṃ hemnā karoti jīrṇo rasaḥ śatāṃśena ||

21.1२१.१

वेध; सिल्वेर् => गोल्दष्टगुणं मृतशुल्बं कलधौतेन मूकमूषया लिप्तम् । (२१।१)

vedha; silver => goldaṣṭaguṇaṃ mṛtaśulbaṃ kaladhautena mūkamūṣayā liptam |

21.2२१.२

तत्षोडशांशजीर्णं विध्यति तारं शतार्धेन ॥ (२१।२)

tatṣoḍaśāṃśajīrṇaṃ vidhyati tāraṃ śatārdhena ||

22.1२२.१

वेध:: दशांश~; सिल्वेर् => गोल्दावृत्य कनककरिणौ शिलया प्रतिवापितौ ततो भुक्त्वा । (२२।१)

vedha:: daśāṃśa~; silver => goldāvṛtya kanakakariṇau śilayā prativāpitau tato bhuktvā |

22.2२२.२

दोलायन्त्रे गन्धकजीर्णस्तारे दशांशवेधी स्यात् ॥ (२२।२)

dolāyantre gandhakajīrṇastāre daśāṃśavedhī syāt ||

23.1२३.१

वेध:: शतांश; ब्रोन्ज़े => गोल्द्रिपुनिहतलोहषट्कं जीर्णो धान्यस्थितश्चतुर्मासम् । (२३।१)

vedha:: śatāṃśa; bronze => goldripunihatalohaṣaṭkaṃ jīrṇo dhānyasthitaścaturmāsam |

23.2२३.२

सहितः पुरसुराभ्यां विध्यति घोषं शतांशेन ॥ (२३।२)

sahitaḥ purasurābhyāṃ vidhyati ghoṣaṃ śatāṃśena ||

24.1२४.१

वक्ष्ये सम्प्रति सम्यग्यद् बीजं समरसे जीर्णम् । (२४।१)

vakṣye samprati samyagyad bījaṃ samarase jīrṇam |

24.2२४.२

पिष्टिस्तम्भादिविधिं प्रकाश्यमानं बुधाः शृणुत ॥ (२४।२)

piṣṭistambhādividhiṃ prakāśyamānaṃ budhāḥ śṛṇuta ||

25.1२५.१

वेध; घोषाकृष्ट => गोल्द्राजावर्तकविमलपीताभ्रगन्धताप्यरसकैश्च । (२५।१)

vedha; ghoṣākṛṣṭa => goldrājāvartakavimalapītābhragandhatāpyarasakaiśca |

25.2२५.२

कांक्षीकासीसशिलादरदैश्च समन्वितं नागम् ॥ (२५।२)

kāṃkṣīkāsīsaśilādaradaiśca samanvitaṃ nāgam ||

26.1२६.१

अहिमाररसैः पुटितं मारय नागं निरुत्थकं यावत् । (२६।१)

ahimārarasaiḥ puṭitaṃ māraya nāgaṃ nirutthakaṃ yāvat |

26.2२६.२

तदनु च तस्य हि मध्ये शुल्बं गन्धं च लवणकंकुष्ठम् ॥ (२६।२)

tadanu ca tasya hi madhye śulbaṃ gandhaṃ ca lavaṇakaṃkuṣṭham ||

27.1२७.१

तत्सर्वं शतवारान् भावय पक्वार्कपत्रसलिलैश्च । (२७।१)

tatsarvaṃ śatavārān bhāvaya pakvārkapatrasalilaiśca |

27.2२७.२

घोषाकृष्टे शुल्बे चूर्णं निर्वाहयेच्छतशः ॥ (२७।२)

ghoṣākṛṣṭe śulbe cūrṇaṃ nirvāhayecchataśaḥ ||

28.1२८.१

शुल्बेन तेन हि समं रसकपीताभ्रसत्वविमलं च । (२८।१)

śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca |

28.2२८.२

गैरिकमाक्षिकसत्त्वं टङ्कणनागं च तीक्ष्णयुतम् ॥ (२८।२)

gairikamākṣikasattvaṃ ṭaṅkaṇanāgaṃ ca tīkṣṇayutam ||

29.1२९.१

एतैर् द्वन्द्वं कृत्वा माक्षिकवापेन रञ्जयेच्छुल्वम् । (२९।१)

etair dvandvaṃ kṛtvā mākṣikavāpena rañjayecchulvam |

29.2२९.२

वारांश्च विंशतिरपि गलितं सेचयेत्तदनु ॥ (२९।२)

vārāṃśca viṃśatirapi galitaṃ secayettadanu ||

30.1३०.१

निर्गुण्डीकाकमाचीकन्यारसमेलनं कृत्वा । (३०।१)

nirguṇḍīkākamācīkanyārasamelanaṃ kṛtvā |

30.2३०.२

वारान् सप्त च विधिना तदपि च निर्वापयेद्धेम्नि ॥ (३०।२)

vārān sapta ca vidhinā tadapi ca nirvāpayeddhemni ||

31.1३१.१

यावच्चतुर्विंशतिगुणं बीजवरं रञ्जयेत्तच्च । (३१।१)

yāvaccaturviṃśatiguṇaṃ bījavaraṃ rañjayettacca |

31.2३१.२

पक्वं माक्षिकमेव हि तेन च विधिना तदपि चतुर्विंशतिगुणम् ॥ (३१।२)

pakvaṃ mākṣikameva hi tena ca vidhinā tadapi caturviṃśatiguṇam ||

32.1३२.१

तद्बीजं लघुमात्रं रसराजे संस्कृते पूर्वम् । (३२।१)

tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam |

32.2३२.२

मूषायां खलु दत्त्वा दशगुणं च गन्धकं दाह्यम् ॥ (३२।२)

mūṣāyāṃ khalu dattvā daśaguṇaṃ ca gandhakaṃ dāhyam ||

33.1३३.१

अथवा वालुकयन्त्रे सुदृढे चतुर्दशांगुलमूषायाम् । (३३।१)

athavā vālukayantre sudṛḍhe caturdaśāṃgulamūṣāyām |

33.2३३.२

मध्ये सूतं मुक्त्वा लघुतरपुटयोगतः पिहिता ॥ (३३।२)

madhye sūtaṃ muktvā laghutarapuṭayogataḥ pihitā ||

34.1३४.१

तेन समं बीजवरे पिष्टिः पादांशतः कार्या । (३४।१)

tena samaṃ bījavare piṣṭiḥ pādāṃśataḥ kāryā |

34.2३४.२

अंगुलिनवपरिमाणे मूषामध्ये च पिष्टिकां दत्त्वा ॥ (३४।२)

aṃgulinavaparimāṇe mūṣāmadhye ca piṣṭikāṃ dattvā ||

35.1३५.१

निर्गुण्डीकाकमाचीगोजिह्वादुग्धिकारक्ता । (३५।१)

nirguṇḍīkākamācīgojihvādugdhikāraktā |

35.2३५.२

गृहकन्यामधुसैन्धवपिण्डैरपि समन्ततश्छाद्या ॥ (३५।२)

gṛhakanyāmadhusaindhavapiṇḍairapi samantataśchādyā ||

36.1३६.१

तावत्कार्यः पुटयोगो यावद् दृढतां समायाति । (३६।१)

tāvatkāryaḥ puṭayogo yāvad dṛḍhatāṃ samāyāti |

36.2३६.२

षड्गुणगन्धकतालककांक्षीकासीसलवणक्षारम् ॥ (३६।२)

ṣaḍguṇagandhakatālakakāṃkṣīkāsīsalavaṇakṣāram ||

37.1३७.१

ताप्यं तत्सर्वसमं देयं बाह्ये तदौषधिपिण्डम् । (३७।१)

tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam |

37.2३७.२

षड्गुणषड्गुणसहितं पिष्टीं यन्त्रेऽथ कच्छपे दत्त्वा ॥ (३७।२)

ṣaḍguṇaṣaḍguṇasahitaṃ piṣṭīṃ yantre'tha kacchape dattvā ||

38.1३८.१

स्वेद्यं पुटयोगेन तु त्रिदिनं घटिकात्रयं यावत् । (३८।१)

svedyaṃ puṭayogena tu tridinaṃ ghaṭikātrayaṃ yāvat |

38.2३८.२

उद्धृत्य ततो यत्नात् पिष्ट्वा सुचूर्णितां कृत्वा ॥ (३८।२)

uddhṛtya tato yatnāt piṣṭvā sucūrṇitāṃ kṛtvā ||

39.1३९.१

समबीजेन तु सार्यो नागं त्रिगुणं ततः समुत्तार्य । (३९।१)

samabījena tu sāryo nāgaṃ triguṇaṃ tataḥ samuttārya |

39.2३९.२

प्रतिसारणा च कार्या जारितसूतेन बीजयुक्तेन ॥ (३९।२)

pratisāraṇā ca kāryā jāritasūtena bījayuktena ||

40.1४०.१

अनुसारणा च पश्चात्त्रिगुणं बीजं भवेद्यत्र । (४०।१)

anusāraṇā ca paścāttriguṇaṃ bījaṃ bhavedyatra |

40.2४०.२

प्रागुक्तं तस्योपरि मृतनागं शतगुणं वाह्यम् । (४०।२)

prāguktaṃ tasyopari mṛtanāgaṃ śataguṇaṃ vāhyam |

40.3४०.३

तेन च घोषाकृष्टे शुल्बे वेधोऽथ सप्तशतैः ॥ (४०।३)

tena ca ghoṣākṛṣṭe śulbe vedho'tha saptaśataiḥ ||

41.1४१.१

क्षेपवेधक्रामणम् एतत्प्रागपि माक्षिकदरदगन्धकशिलाभिः । (४१।१)

kṣepavedhakrāmaṇam etatprāgapi mākṣikadaradagandhakaśilābhiḥ |

41.2४१.२

राजावर्तकविमलप्रवालकङ्कुष्ठतुत्थविषैः ॥ (४१।२)

rājāvartakavimalapravālakaṅkuṣṭhatutthaviṣaiḥ ||

42.1४२.१

कान्तगैरिकटंकणभूमिलतारुधिरशक्रगोपरसैः । (४२।१)

kāntagairikaṭaṃkaṇabhūmilatārudhiraśakragoparasaiḥ |

42.2४२.२

महिषीणां कर्णमलैर् मृतलोहं वायसस्य विष्ठा च ॥ (४२।२)

mahiṣīṇāṃ karṇamalair mṛtalohaṃ vāyasasya viṣṭhā ca ||

43.1४३.१

पारावतस्य विष्ठा स्त्रीपयः सर्वम् एकतः कृत्वा । (४३।१)

pārāvatasya viṣṭhā strīpayaḥ sarvam ekataḥ kṛtvā |

43.2४३.२

क्रामणकल्कं चैतच्छतवारान् रक्तपीतगणैः ॥ (४३।२)

krāmaṇakalkaṃ caitacchatavārān raktapītagaṇaiḥ ||

44.1४४.१

भाव्यं कंगुणितैले क्रौञ्चीपित्तभावनाः सप्त । (४४।१)

bhāvyaṃ kaṃguṇitaile krauñcīpittabhāvanāḥ sapta |

44.2४४.२

कल्केनानेन पचेत् सारितपिष्टिं च हण्डिकायां हि ॥ (४४।२)

kalkenānena pacet sāritapiṣṭiṃ ca haṇḍikāyāṃ hi ||

45.1४५.१

यावद्रक्ता भवति हि गच्छति नागं समुत्तार्य । (४५।१)

yāvadraktā bhavati hi gacchati nāgaṃ samuttārya |

45.2४५.२

तावत्क्षेपं च क्षिपेत्सर्वस्मिन्सारणादौ च ॥ (४५।२)

tāvatkṣepaṃ ca kṣipetsarvasminsāraṇādau ca ||

46.1४६.१

एवं हि कोटिवेधी रसराजः क्रामितो भूत्वा । (४६।१)

evaṃ hi koṭivedhī rasarājaḥ krāmito bhūtvā |

46.2४६.२

पुंस्त्वादेरुच्छ्रायप्रदो भूत्वा भोगान्दत्ते ॥ (४६।२)

puṃstvāderucchrāyaprado bhūtvā bhogāndatte ||

47.1४७.१

सिल्वेर् => गोल्दभ्रकमाक्षिककनकं नागयुतं मिलितं विधिना । (४७।१)

silver => goldabhrakamākṣikakanakaṃ nāgayutaṃ militaṃ vidhinā |

47.2४७.२

सूते पिष्टिः कार्या दिव्यौषधियोगतः पुटिता ॥ (४७।२)

sūte piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā ||

48.1४८.१

षड्गुणगन्धकदाहः शिलया नागं समुत्तार्य । (४८।१)

ṣaḍguṇagandhakadāhaḥ śilayā nāgaṃ samuttārya |

48.2४८.२

तारे हेमाकृष्टिर्मिलिता स्यात् षोडशांशेन ॥ (४८।२)

tāre hemākṛṣṭirmilitā syāt ṣoḍaśāṃśena ||

49.1४९.१

सिल्वेर् => गोल्द्माक्षिकनिहतं शुल्बं शिलया निहतं च नागतुल्यांशम् । (४९।१)

silver => goldmākṣikanihataṃ śulbaṃ śilayā nihataṃ ca nāgatulyāṃśam |

49.2४९.२

पुटितं जम्बीररसैः सैन्धवसहितं पचेत्स्थाल्याम् ॥ (४९।२)

puṭitaṃ jambīrarasaiḥ saindhavasahitaṃ pacetsthālyām ||

50.1५०.१

तच्चूर्णं घृतमधुकटङ्कणसहितं च गुप्तमूषायाम् । (५०।१)

taccūrṇaṃ ghṛtamadhukaṭaṅkaṇasahitaṃ ca guptamūṣāyām |

50.2५०.२

तारे त्रिगुणं व्यूढं हेमाकृष्टिर्भवेद्दिव्या ॥ (५०।२)

tāre triguṇaṃ vyūḍhaṃ hemākṛṣṭirbhaveddivyā ||

51.1५१.१

चोप्पेर् + सिल्वेर् => गोल्द्शुल्बं बलिना निहतं तीक्ष्णं दरदेन निहतसमभागम् । (५१।१)

copper + silver => goldśulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam |

51.2५१.२

एकीकृत्वा पुटयेत्पचेन् मातारसेनैव ॥ (५१।२)

ekīkṛtvā puṭayetpacen mātārasenaiva ||

52.1५२.१

तारे व्यूढं त्रिगुणं मार्जाराक्षनिभं भवेत्तच्च । (५२।१)

tāre vyūḍhaṃ triguṇaṃ mārjārākṣanibhaṃ bhavettacca |

52.2५२.२

लिप्तं रसेन पुटितं हेमार्धेन मात्रया तुल्यम् ॥ (५२।२)

liptaṃ rasena puṭitaṃ hemārdhena mātrayā tulyam ||

53.1५३.१

लेअद् => गोल्द्लिप्तं तदनु पुटितं नागं हि रसेन पादयुक्तेन । (५३।१)

lead => goldliptaṃ tadanu puṭitaṃ nāgaṃ hi rasena pādayuktena |

53.2५३.२

खर्परकस्थं कृत्वा कार्यं विधिना दृढं ताप्यम् ॥ (५३।२)

kharparakasthaṃ kṛtvā kāryaṃ vidhinā dṛḍhaṃ tāpyam ||

54.1५४.१

निर्गुण्डीरसभावितपुटितं शिलया वर्तितं श्लक्ष्णम् । (५४।१)

nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam |

54.2५४.२

तावन्मृदितपुटितं निरुत्थभावं व्रजेद्यावत् ॥ (५४।२)

tāvanmṛditapuṭitaṃ nirutthabhāvaṃ vrajedyāvat ||

55.1५५.१

तारे तन्निर्व्यूढं यावत्पीतं भवेद्रुचिरम् । (५५।१)

tāre tannirvyūḍhaṃ yāvatpītaṃ bhavedruciram |

55.2५५.२

हेमसमेन च मिलितं मात्रातुल्यं भवेत्कनकम् ॥ (५५।२)

hemasamena ca militaṃ mātrātulyaṃ bhavetkanakam ||

56.1५६.१

स्वर्णमाक्षिक => गोल्द्ताप्यं चांगुलिसंज्ञं चूर्णं कृत्वा तदन्तरे दत्त्वा । (५६।१)

svarṇamākṣika => goldtāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā |

56.2५६.२

शुल्बस्य गुप्तमूषा कार्या पुटिताप्यथ च ध्माता ॥ (५६।२)

śulbasya guptamūṣā kāryā puṭitāpyatha ca dhmātā ||

57.1५७.१

हेम्ना मिलितं विधिना मात्रातुल्यं भवत्येव । (५७।१)

hemnā militaṃ vidhinā mātrātulyaṃ bhavatyeva |

57.2५७.२

गोल्द्:: रञ्जन (??)पादादिजीर्णसूते लिह्यात् पत्राणि हेमकृष्टीनाम् ॥ (५७।२)

gold:: rañjana (??)pādādijīrṇasūte lihyāt patrāṇi hemakṛṣṭīnām ||

58.1५८.१

क्रामणयोगेन ततो विलिप्य विधिना निधाय तुल्याधः । (५८।१)

krāmaṇayogena tato vilipya vidhinā nidhāya tulyādhaḥ |

58.2५८.२

पश्चाद्धेम्ना सहितं ध्मातं मूषोदरे समावर्त्य ॥ (५८।२)

paścāddhemnā sahitaṃ dhmātaṃ mūṣodare samāvartya ||

59.1५९.१

यन्त्रं हण्ड्यां पक्वं पञ्चमृदावाप्य पुटपक्वम् । (५९।१)

yantraṃ haṇḍyāṃ pakvaṃ pañcamṛdāvāpya puṭapakvam |

59.2५९.२

गोल्द्:: प्रोदुच्तिओन् (?)वक्ष्यामि चालेपविधिं क्रमति च सूतो यथा हि पत्रेषु । (५९।२)

gold:: production (?)vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu |

59.3५९.३

रञ्जति येन विधिना समासतः सूतराजस्तु ॥ (५९।३)

rañjati yena vidhinā samāsataḥ sūtarājastu ||

60.1६०.१

कृत्वालक्तकवस्त्रं लिप्तमनुस्नेहमुपरि चूर्णेन । (६०।१)

kṛtvālaktakavastraṃ liptamanusnehamupari cūrṇena |

60.2६०.२

अवचूर्णितं तु कृत्वा गन्धकशिलया विधानेन ॥ (६०।२)

avacūrṇitaṃ tu kṛtvā gandhakaśilayā vidhānena ||

61.1६१.१

तदुपरि शृतं च दत्त्वा गन्धकशिलाचूर्णं च सूतवरे । (६१।१)

tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare |

61.2६१.२

पश्चाद्वर्तिः कार्या पात्रे धृत्वायसे च समे ॥ (६१।२)

paścādvartiḥ kāryā pātre dhṛtvāyase ca same ||

62.1६२.१

दीपं प्रतिबोध्य ततस्तैलं दत्त्वा ततः स्तोकम् । (६२।१)

dīpaṃ pratibodhya tatastailaṃ dattvā tataḥ stokam |

62.2६२.२

पाकं यामस्यार्धं स्वाङ्गे शीतं ततः कार्यम् ॥ (६२।२)

pākaṃ yāmasyārdhaṃ svāṅge śītaṃ tataḥ kāryam ||

63.1६३.१

गृह्णीयादथ सूतकृष्टीं लिप्ता ततस्तेन । (६३।१)

gṛhṇīyādatha sūtakṛṣṭīṃ liptā tatastena |

63.2६३.२

क्रामणयोगैर्लिप्त्वा पुटिता सा हेम्नि निर्ध्माता ॥ (६३।२)

krāmaṇayogairliptvā puṭitā sā hemni nirdhmātā ||

64.1६४.१

गोल्द्:: प्रोदुच्तिओनथवा दरदशिलालैर् गन्धकमाक्षीकपक्वमृतनागैः । (६४।१)

gold:: productionathavā daradaśilālair gandhakamākṣīkapakvamṛtanāgaiḥ |

64.2६४.२

कंकुष्ठप्रवालसहितैः पिष्टैश्च कङ्गुणीतैले ॥ (६४।२)

kaṃkuṣṭhapravālasahitaiḥ piṣṭaiśca kaṅguṇītaile ||

65.1६५.१

मध्ये सूतो युक्तो मृदितः खल्वे तथायसे विधिना । (६५।१)

madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā |

65.2६५.२

संस्वेद्य वंशनलिकां दोलायन्त्रेण स्वेदितं त्रिदिनम् ॥ (६५।२)

saṃsvedya vaṃśanalikāṃ dolāyantreṇa sveditaṃ tridinam ||

66.1६६.१

एतैर्लिप्त्वा कृष्णैः पत्रं पूर्वोक्तविधानेन । (६६।१)

etairliptvā kṛṣṇaiḥ patraṃ pūrvoktavidhānena |

66.2६६.२

नागं दत्त्वा प्रकटं स्तोकं स्तोकं क्रमेणैव ॥ (६६।२)

nāgaṃ dattvā prakaṭaṃ stokaṃ stokaṃ krameṇaiva ||

67.1६७.१

भवति हि कनकं दिव्यमक्षीणं देवयोग्यं च । (६७।१)

bhavati hi kanakaṃ divyamakṣīṇaṃ devayogyaṃ ca |

67.2६७.२

एवं जारितसूते सकलाः खलु हण्डिकाः सर्वाः ॥ (६७।२)

evaṃ jāritasūte sakalāḥ khalu haṇḍikāḥ sarvāḥ ||

68.1६८.१

रेलतिओन् बेत्wएएन् बीज अन्द् गोल्द् (?)निर्बीजं समजीर्णे पादैकेनैव षोडशांशेन । (६८।१)

relation between bīja and gold (?)nirbījaṃ samajīrṇe pādaikenaiva ṣoḍaśāṃśena |

68.2६८.२

अर्धेन पादयोगं पादेनैकेन तुल्यकनकं च ॥ (६८।२)

ardhena pādayogaṃ pādenaikena tulyakanakaṃ ca ||

69.1६९.१

ताराकृष्टिताराकृष्टिं वक्ष्ये मृतवङ्गं तालकेन तुल्यांशम् । (६९।१)

tārākṛṣṭitārākṛṣṭiṃ vakṣye mṛtavaṅgaṃ tālakena tulyāṃśam |

69.2६९.२

लम्बितमथ निर्ध्मातं ताम्रं तारछविं वहति ॥ (६९।२)

lambitamatha nirdhmātaṃ tāmraṃ tārachaviṃ vahati ||

70.1७०.१

पश्चान्नागं देयं प्रकाशमूषासु निर्मलं यावत् । (७०।१)

paścānnāgaṃ deyaṃ prakāśamūṣāsu nirmalaṃ yāvat |

70.2७०.२

तावद् ध्मातं विधिना सुनिर्मलं निस्तरङ्गं तु ॥ (७०।२)

tāvad dhmātaṃ vidhinā sunirmalaṃ nistaraṅgaṃ tu ||

71.1७१.१

??तालशिलासर्जिकाभिः सैन्धवलवणेन नयनहितसहितैः । (७१।१)

??tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ |

71.2७१.२

एकैकं सहितं वा वेधं दत्त्वा पुनः शुल्बे ॥ (७१।२)

ekaikaṃ sahitaṃ vā vedhaṃ dattvā punaḥ śulbe ||

72.1७२.१

छगणं माहिषतक्रं स्नुहीक्षीरेण सर्पिषा क्रमशः । (७२।१)

chagaṇaṃ māhiṣatakraṃ snuhīkṣīreṇa sarpiṣā kramaśaḥ |

72.2७२.२

सगुडदुग्धमधुविमिश्रैः क्रमशो वेधे निषेकश्च ॥ (७२।२)

saguḍadugdhamadhuvimiśraiḥ kramaśo vedhe niṣekaśca ||

73.1७३.१

तारकृष्टी; चोप्पेर् => सिल्वेर्काञ्ची ब्राह्मी कुटिलं तालकं समभागयोजितं ध्मातम् । (७३।१)

tārakṛṣṭī; copper => silverkāñcī brāhmī kuṭilaṃ tālakaṃ samabhāgayojitaṃ dhmātam |

73.2७३.२

शुल्बं विद्धमनेन तु ताराकृष्टिर्भवेद्दिव्या ॥ (७३।२)

śulbaṃ viddhamanena tu tārākṛṣṭirbhaveddivyā ||

74.1७४.१

सिल्वेर्:: ओप्तिमिज़तिओनेवं ताराकृष्टिर्लिप्त्वा विद्धा रसेन सारितेन । (७४।१)

silver:: optimizationevaṃ tārākṛṣṭirliptvā viddhā rasena sāritena |

74.2७४.२

तारं करोति विमलं लेपं वा पादजीर्णादि ॥ (७४।२)

tāraṃ karoti vimalaṃ lepaṃ vā pādajīrṇādi ||

75.1७५.१

इति मिश्रीकृतविद्धं क्रमितं त्वथ मातृकातुल्यम् । (७५।१)

iti miśrīkṛtaviddhaṃ kramitaṃ tvatha mātṛkātulyam |

75.2७५.२

तारदलं भवति छेदनताडननिकषैश्च निर्दोषम् ॥ (७५।२)

tāradalaṃ bhavati chedanatāḍananikaṣaiśca nirdoṣam ||

76.1७६.१

एवं वेधविधानं शास्त्रविधिज्ञेन कर्मकुशलेन । (७६।१)

evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena |

76.2७६.२

ज्ञात्वा गुरूपदेशं कर्तव्यं कर्मनिपुणेन ॥ (७६।२)

jñātvā gurūpadeśaṃ kartavyaṃ karmanipuṇena ||

Data courtesy of The Digital Corpus of Sanskrit.

RHT, 18

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit