RHT, 5
Select a line for its word-by-word analysis.
यदि घनसत्वं गर्भे न पतति नो वा द्रवन्ति बीजानि । (१।१)
yadi ghanasatvaṃ garbhe na patati no vā dravanti bījāni |
न च बाह्यद्रुतियोगस्तत्कथमिह बध्यते सूतः ॥ (१।२)
na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ ||
गर्भद्रुत्या रहितो ग्रासश्चीर्णोऽपि नैकतां याति । (२।१)
garbhadrutyā rahito grāsaścīrṇo'pi naikatāṃ yāti |
बीजानां संस्कारः कर्तव्यः कोऽपि तादृशः प्रथमम् । (३।१)
bījānāṃ saṃskāraḥ kartavyaḥ ko'pi tādṛśaḥ prathamam |
गर्भद्रुतियोग्यबीज (१)सममाक्षिककृतवापं सममाक्षिकसत्वसंयुतं हेम । (४।१)
garbhadrutiyogyabīja (1)samamākṣikakṛtavāpaṃ samamākṣikasatvasaṃyutaṃ hema |
गर्भे द्रवति च जरति च जरितं बध्नाति नान्यथा सूतम् ॥ (४।२)
garbhe dravati ca jarati ca jaritaṃ badhnāti nānyathā sūtam ||
तारारिष्टमाक्षिकसत्वं हेम्ना पादादिकजारितं द्रुतं सूते । (५।१)
tārāriṣṭamākṣikasatvaṃ hemnā pādādikajāritaṃ drutaṃ sūte |
गर्भद्रुति:: तेस्त् ड़ोर् ~समरसतां यदि यातो वस्त्राद्गलितोऽधिकश्च तुलनायाम् । (६।१)
garbhadruti:: test for ~samarasatāṃ yadi yāto vastrādgalito'dhikaśca tulanāyām |
ग्रासो द्रुतः स गर्भे द्रुत्वासौ जीर्यते क्षिप्रम् ॥ (६।२)
grāso drutaḥ sa garbhe drutvāsau jīryate kṣipram ||
रोल्ले वोन् ताप्यसत्त्वन बिडैर्नापि क्षारैर्न स्नेहैर्द्रवति हेमं तारं वा । (७।१)
Rolle von tāpyasattvana biḍairnāpi kṣārairna snehairdravati hemaṃ tāraṃ vā |
माक्षिकसत्वेन विना त्रिदिनं निहितेन रक्तेन ॥ (७।२)
mākṣikasatvena vinā tridinaṃ nihitena raktena ||
मेर्चुर्य्:: चारण, गर्भद्रुतिलवणं देवीस्वरसप्लुतम् अहिपत्रं विचूर्णितं शिलया । (८।१)
mercury:: cāraṇa, garbhadrutilavaṇaṃ devīsvarasaplutam ahipatraṃ vicūrṇitaṃ śilayā |
एतत् पुटनत्रितयात् सुमृतं संस्थापयेदयःपात्रे ॥ (८।२)
etat puṭanatritayāt sumṛtaṃ saṃsthāpayedayaḥpātre ||
विहितार्धांगुलनिम्ना स्फुटविकटकटोरिका मुखाधारा । (९।१)
vihitārdhāṃgulanimnā sphuṭavikaṭakaṭorikā mukhādhārā |
विहितच्छिद्रत्रितया शस्ता चतुरंगुलोर्ध्वछिद्रेषु । (१०।१)
vihitacchidratritayā śastā caturaṃgulordhvachidreṣu |
संस्थाप्य विधूप्यन्ते यन्त्राधस्तात् प्रदीपयेदग्निम् । (११।१)
saṃsthāpya vidhūpyante yantrādhastāt pradīpayedagnim |
धूमोपलेपमात्राद्भवन्ति कृष्णानि हेमपत्राणि ॥ (११।२)
dhūmopalepamātrādbhavanti kṛṣṇāni hemapatrāṇi ||
तान्यग्नितापितानि च पश्चाद्यन्त्रे मृतानि धूमेन । (१२।१)
tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena |
पाचितहेमविधानाच्चरति रसेन्द्रो द्रवति गर्भे च ॥ (१२।२)
pācitahemavidhānāccarati rasendro dravati garbhe ca ||
सिल्वेर्:: गर्भद्रुति (इन् मेर्चुर्य्)तेनैव तारपत्रं विधिना संस्वेद्य यन्त्रयोगेन । (१३।१)
silver:: garbhadruti (in mercury)tenaiva tārapatraṃ vidhinā saṃsvedya yantrayogena |
जायेत कृष्णवर्णं तत्तारं द्रवति गर्भे च ॥ (१३।२)
jāyeta kṛṣṇavarṇaṃ tattāraṃ dravati garbhe ca ||
गोल्द्, सिल्वेर्:: गर्भद्रुति (~)अथवा बलिना वङ्गं नागाभिधानेन यन्त्रयोगेन । (१४।१)
gold, silver:: garbhadruti (~)athavā balinā vaṅgaṃ nāgābhidhānena yantrayogena |
हेमाह्वं तारं वा द्रवति च गर्भे न सन्देहः ॥ (१४।२)
hemāhvaṃ tāraṃ vā dravati ca garbhe na sandehaḥ ||
रसक:: गर्भद्रुति (~)रसकं बलिना युक्तं पूर्वोक्तविधानयोगेन । (१५।१)
rasaka:: garbhadruti (~)rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena |
पक्वं चूर्णं यावद्भवति भृशं द्रवति गर्भे च ॥ (१५।२)
pakvaṃ cūrṇaṃ yāvadbhavati bhṛśaṃ dravati garbhe ca ||
गोल्द्:: गर्भद्रुतिव्यूढोऽथ गन्धकाश्मा शतगुणसंख्यं तथोत्तमे हेम्नि । (१६।१)
gold:: garbhadrutivyūḍho'tha gandhakāśmā śataguṇasaṃkhyaṃ tathottame hemni |
सूते च भवति पिष्टिर्द्रवति हि गर्भे न विस्मयः कार्यः ॥ (१६।२)
sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ ||
गोल्द्:: बीज ड़ोर् गर्भद्रुतिअथवा शतनिर्व्यूढं रसकवरं शुद्धहेम्नि वरबीजम् । (१७।१)
gold:: bīja for garbhadrutiathavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam |
बीजं जरति रसेन्द्रे द्रवति च गर्भे न सन्देहः ॥ (१७।२)
bījaṃ jarati rasendre dravati ca garbhe na sandehaḥ ||
गोल्द्:: बीज ड़ोर् गर्भद्रुतिअथवा तालकसत्वं शिलया वा तच्च हेम्नि निर्व्यूढम् । (१८।१)
gold:: bīja for garbhadrutiathavā tālakasatvaṃ śilayā vā tacca hemni nirvyūḍham |
शतगुणमथ मूषायां जरति रसेन्द्रो द्रवति गर्भे च ॥ (१८।२)
śataguṇamatha mūṣāyāṃ jarati rasendro dravati garbhe ca ||
लेअद्, तिन्:: चोम्बिनेद् मारणरसदरदाभ्रकताप्यविमलामृतशुल्बलोहपर्पटिका । (१९।१)
lead, tin:: combined māraṇarasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā |
स्नुह्यर्कदुग्धपिष्टं कंकुष्ठशिलायुतं नागम् ॥ (१९।२)
snuhyarkadugdhapiṣṭaṃ kaṃkuṣṭhaśilāyutaṃ nāgam ||
अभ्रकतालकशङ्खरससहितं तत्पुनः पुनः पुटितम् । (२०।१)
abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam |
चिञ्चाक्षारविमिश्रं वङ्गं निर्जीवतां याति ॥ (२०।२)
ciñcākṣāravimiśraṃ vaṅgaṃ nirjīvatāṃ yāti ||
विधिनानेन च पुटितं म्रियते नागं निरुत्थतां च गतम् । (२१।१)
vidhinānena ca puṭitaṃ mriyate nāgaṃ nirutthatāṃ ca gatam |
वङ्गं च सर्वकर्मसु नियुज्यते तदपि गतजीवम् ॥ (२१।२)
vaṅgaṃ ca sarvakarmasu niyujyate tadapi gatajīvam ||
गोल्द्:: बीज ड़ोर् गर्भद्रुतिमृतनागं मृतवङ्गं मृतवरशुल्वं मृतं तथा तीक्ष्णम् । (२२।१)
gold:: bīja for garbhadrutimṛtanāgaṃ mṛtavaṅgaṃ mṛtavaraśulvaṃ mṛtaṃ tathā tīkṣṇam |
एकैकं हेमवरे शतनिर्व्यूढं द्रवति गर्भे च ॥ (२२।२)
ekaikaṃ hemavare śatanirvyūḍhaṃ dravati garbhe ca ||
गोल्द्:: महाबीजसमगर्भे द्रुतिकरणं हेम्नो वक्ष्याम्यहं परं योगम् । (२३।१)
gold:: mahābījasamagarbhe drutikaraṇaṃ hemno vakṣyāmyahaṃ paraṃ yogam |
भ्रामकसस्यकचूर्णं शतनिर्व्यूढं महाबीजम् ॥ (२३।२)
bhrāmakasasyakacūrṇaṃ śatanirvyūḍhaṃ mahābījam ||
गर्भद्रुतिअथवा गन्धकधूमं तालकधूमं शिलाह्वरसकस्य । (२४।१)
garbhadrutiathavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya |
दत्त्वाधोमुखमूषां दीर्घतमां खर्परस्यार्धे ॥ (२४।२)
dattvādhomukhamūṣāṃ dīrghatamāṃ kharparasyārdhe ||
ऊर्ध्वं लग्ना पिष्टी सुदृढा च यथा तथा च कर्तव्या । (२५।१)
ūrdhvaṃ lagnā piṣṭī sudṛḍhā ca yathā tathā ca kartavyā |
दत्त्वा खर्परपृष्ठे दैत्येन्द्रं दाहयेत्तदनु ॥ (२५।२)
dattvā kharparapṛṣṭhe daityendraṃ dāhayettadanu ||
स्तोकं स्तोकं दत्त्वा कर्षाग्नौ ध्मापयेन्मृदा लिप्ताम् । (२६।१)
stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām |
गर्भे द्रवति हि बीजं म्रियते तथाधिके दाहे ॥ (२६।२)
garbhe dravati hi bījaṃ mriyate tathādhike dāhe ||
विड:: प्रोदुच्तिओन्गन्धकतालकशैलाः सौवीरकरसकगैरिकं दरदम् । (२७।१)
viḍa:: productiongandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam |
क्षाराम्ललवणानि विडो माक्षिकवैक्रान्तविमलसमभागैः ॥ (२७।२)
kṣārāmlalavaṇāni viḍo mākṣikavaikrāntavimalasamabhāgaiḥ ||
विड:: ड़ोर् गर्भद्रुतिकृत्वा सुवर्णपिष्टीं मृदितां च सुवेष्टितामनेनैव । (२८।१)
viḍa:: for garbhadrutikṛtvā suvarṇapiṣṭīṃ mṛditāṃ ca suveṣṭitāmanenaiva |
त्रिपुटैस्तप्ते खल्वे मृदिता गर्भे तथा द्रवति ॥ (२८।२)
tripuṭaistapte khalve mṛditā garbhe tathā dravati ||
विड:: ड़ोर् गर्भद्रुतिरक्ते शतनिर्व्यूढं नेत्रहितं भस्म वैक्रान्तकं चाथ । (२९।१)
viḍa:: for garbhadrutirakte śatanirvyūḍhaṃ netrahitaṃ bhasma vaikrāntakaṃ cātha |
विमलं शतनिर्व्यूढं ग्रसति समं द्रवति गर्भे च ॥ (२९।२)
vimalaṃ śatanirvyūḍhaṃ grasati samaṃ dravati garbhe ca ||
विड:: ड़ोर् गर्भद्रुति:: इम्मेर् मित् शतनिर्वाहणये केचिद्विडयोगाः क्षाराम्ललवणानि दीप्तवर्गाश्च । (३०।१)
viḍa:: for garbhadruti:: immer mit śatanirvāhaṇaye kecidviḍayogāḥ kṣārāmlalavaṇāni dīptavargāśca |
सर्वे शतनिर्व्यूढा गर्भद्रुतिकारकाः कथिताः ॥ (३०।२)
sarve śatanirvyūḍhā garbhadrutikārakāḥ kathitāḥ ||
मेन्गे निर्वाहण => ग्रास, देर् अस्सिमिलिएर्त् wइर्द्शतनिर्व्यूढे च समं पादोनं पञ्चसप्ततिव्यूढे । (३१।१)
Menge nirvāhaṇa => grāsa, der assimiliert wirdśatanirvyūḍhe ca samaṃ pādonaṃ pañcasaptativyūḍhe |
पञ्चाशति तदर्धं पादः स्यात्पञ्चविंशतिके ॥ (३१।२)
pañcāśati tadardhaṃ pādaḥ syātpañcaviṃśatike ||
अष्टांशं तु तदर्धे षोडशांशं तदर्धनिर्व्यूढे । (३२।१)
aṣṭāṃśaṃ tu tadardhe ṣoḍaśāṃśaṃ tadardhanirvyūḍhe |
तस्यार्धे द्वात्रिंशच्चतुःषष्ट्यंशं तदर्धनिर्व्यूढे ॥ (३२।२)
tasyārdhe dvātriṃśaccatuḥṣaṣṭyaṃśaṃ tadardhanirvyūḍhe ||
गर्भद्रुतिइति गदितां गर्भद्रुतिमभिषवयोगेन चाम्लवर्गेण । (३३।१)
garbhadrutiiti gaditāṃ garbhadrutimabhiṣavayogena cāmlavargeṇa |
स्वेदनविधिना ज्ञात्वा मृदितां तप्ते तु खल्वतले ॥ (३३।२)
svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale ||
दुर्छ्ड़्ह्रुन्ग् वोन् संस्कार गेम्¦ देन् वेर्wएन्देतेन् बीजस् उस्w।ज्ञात्वा बीजबलाबलमर्दनयोगं कृतं च रसराजे । (३४।१)
Durchfhrung von saṃskāra gem¦ den verwendeten bījas usw.jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje |
स्वेदविधानं च पुटं यन्त्रं वा विहितरसकर्म ॥ (३४।२)
svedavidhānaṃ ca puṭaṃ yantraṃ vā vihitarasakarma ||
सूतवरं लक्षयते बीजं नोपेक्षतां यथा याति । (३५।१)
sūtavaraṃ lakṣayate bījaṃ nopekṣatāṃ yathā yāti |
तद्वत्कार्यं विधिना सुकर्म गुरुपादनिर्दिष्टम् ॥ (३५।२)
tadvatkāryaṃ vidhinā sukarma gurupādanirdiṣṭam ||
बाह्यद्रुतिबाह्यद्रुतिरति विमला स्फुरति हि केषांचिदेव सिद्धानाम् । (३६।१)
bāhyadrutibāhyadrutirati vimalā sphurati hi keṣāṃcideva siddhānām |
तेभ्यः सम्यक् ज्ञात्वा कलनाः कार्यास्तथा द्रुतयः ॥ (३६।२)
tebhyaḥ samyak jñātvā kalanāḥ kāryāstathā drutayaḥ ||
जारण ओड़् लेअद्वरनागं रसराजं बीजवरं सारितं तथा त्रितयम् । (३७।१)
jāraṇa of leadvaranāgaṃ rasarājaṃ bījavaraṃ sāritaṃ tathā tritayam |
गन्धकशिलालसहितं निर्नागं दीपवर्तितो भवति ॥ (३७।२)
gandhakaśilālasahitaṃ nirnāgaṃ dīpavartito bhavati ||
बद्ध्वा सुदृढे वस्त्रे पोटलिकायां शिखीकृतो दीपः । (३८।१)
baddhvā sudṛḍhe vastre poṭalikāyāṃ śikhīkṛto dīpaḥ |
तैले मग्नं कृत्वा निर्नागं जायते क्षिप्रम् ॥ (३८।२)
taile magnaṃ kṛtvā nirnāgaṃ jāyate kṣipram ||
जारण ओड़् लेअद्कृत्वात्र दीर्घमूषां सुदृढां ध्मातं तु भस्मगर्तायाम् । (३९।१)
jāraṇa of leadkṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām |
क्षिप्त्वा शिलालचूर्णं पश्चात्सूतं ततः शिलाचूर्णं ॥ (३९।२)
kṣiptvā śilālacūrṇaṃ paścātsūtaṃ tataḥ śilācūrṇaṃ ||
संस्थाप्य भस्मनातो ध्मातं स्यात्स्वांगशीतलं यावत् । (४०।१)
saṃsthāpya bhasmanāto dhmātaṃ syātsvāṃgaśītalaṃ yāvat |
आकृष्य तत्र सूतं ज्ञात्वा नागं सुभक्षितं सकलम् ॥ (४०।२)
ākṛṣya tatra sūtaṃ jñātvā nāgaṃ subhakṣitaṃ sakalam ||
बीज ओड़् नागजीर्णपारदज्ञात्वा नागं त्रुटितं पुनरपि दद्याद्यथा भवेत्त्रिगुणम् । (४१।१)
bīja of nāgajīrṇapāradajñātvā nāgaṃ truṭitaṃ punarapi dadyādyathā bhavettriguṇam |
पश्चाच्छुद्धं कृत्वा बीजवरं योजयेत्तदनु ॥ (४१।२)
paścācchuddhaṃ kṛtvā bījavaraṃ yojayettadanu ||
मेर्चुर्य्:: जारण ओड़् तिनथवा तारं वङ्गं सूतं संसार्य वङ्गपरिहीनम् । (४२।१)
mercury:: jāraṇa of tinathavā tāraṃ vaṅgaṃ sūtaṃ saṃsārya vaṅgaparihīnam |
मेर्चुर्य्:: जारण ओड़् तिनथवा वस्त्रनिबद्धं गिरिजतुसहितं सुवेष्टितं माषैः । (४३।१)
mercury:: jāraṇa of tinathavā vastranibaddhaṃ girijatusahitaṃ suveṣṭitaṃ māṣaiḥ |
पक्वं तैले वटकं निर्वङ्गं जायते नूनम् ॥ (४३।२)
pakvaṃ taile vaṭakaṃ nirvaṅgaṃ jāyate nūnam ||
बीज:: ड़ोर् गर्भद्रुतिपिष्टीस्तम्भं कृत्वा बीजवरेणैव सारितं तदनु । (४४।१)
bīja:: for garbhadrutipiṣṭīstambhaṃ kṛtvā bījavareṇaiva sāritaṃ tadanu |
बीज:: ड़ोर् गर्भद्रुतिअथवा बद्धरसेन तु सहितं बीजं सुरञ्जितं कृत्वा ॥ (४४।२)
bīja:: for garbhadrutiathavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā ||
गन्धकनिहितं सूतं निहितानिहितं च शृङ्खलायां तत् । (४५।१)
gandhakanihitaṃ sūtaṃ nihitānihitaṃ ca śṛṅkhalāyāṃ tat |
योजितनिर्व्यूढरसे गर्भद्रुतिकारकं नूनम् ॥ (४५।२)
yojitanirvyūḍharase garbhadrutikārakaṃ nūnam ||
सूतकभस्मवरेण तु बीजं कृत्वा रसेन्द्रके गर्भे । (४६।१)
sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe |
मृदिता पिष्टी विधिना ह्यभिषवयोगाद्द्रवति गर्भे च ॥ (४६।२)
mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca ||
बीज:: ड़ोर् गर्भद्रुतिपत्राभ्रकं च सत्वं कांक्षी वा कान्तमाक्षिकं पुटितम् । (४७।१)
bīja:: for garbhadrutipatrābhrakaṃ ca satvaṃ kāṃkṣī vā kāntamākṣikaṃ puṭitam |
निर्गुण्डी गृहकन्या चाङ्गेरी पलाशशाकैश्च ॥ (४७।२)
nirguṇḍī gṛhakanyā cāṅgerī palāśaśākaiśca ||
तावत्पुटितं कृत्वा यावत्सिन्दूरसप्रभं भवति । (४८।१)
tāvatpuṭitaṃ kṛtvā yāvatsindūrasaprabhaṃ bhavati |
तत्पादशेषलवणं हण्डिकपाकेन पाचितं सुदृढम् ॥ (४८।२)
tatpādaśeṣalavaṇaṃ haṇḍikapākena pācitaṃ sudṛḍham ||
एकैकं शतव्यूढं बीजवरं जारयेद्रसेन्द्रस्य । (४९।१)
ekaikaṃ śatavyūḍhaṃ bījavaraṃ jārayedrasendrasya |
गर्भे द्रवति च क्षिप्रं ह्यभिषवयोगेन मृदितमङ्गुल्या ॥ (४९।२)
garbhe dravati ca kṣipraṃ hyabhiṣavayogena mṛditamaṅgulyā ||
गोल्द्:: बीज wइथ् लेअदावृत्तेऽप्यावर्त्यं हेमवरे क्षेप्यमुज्ज्वले नागम् । (५०।१)
gold:: bīja with leadāvṛtte'pyāvartyaṃ hemavare kṣepyamujjvale nāgam |
त्रिगुणशिलाप्रतिवापं ह्यहिबीजं तत्समुद्दिष्टम् ॥ (५०।२)
triguṇaśilāprativāpaṃ hyahibījaṃ tatsamuddiṣṭam ||
गोल्द्, सिल्वेर्:: बीज wइथ् तिन्वङ्गं तु तेन विधिना हेमवरे क्षेप्य तालवापेन । (५१।१)
gold, silver:: bīja with tinvaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena |
तारे वा निर्व्यूढं बीजवरं त्रुटितसंयोगात् ॥ (५१।२)
tāre vā nirvyūḍhaṃ bījavaraṃ truṭitasaṃyogāt ||
रसाङ्कुशयो निःसृतो भुजङ्गाद् रसकेशरीवज्रपञ्जरः स पुनः । (५२।१)
rasāṅkuśayo niḥsṛto bhujaṅgād rasakeśarīvajrapañjaraḥ sa punaḥ |
फणिहेमगुणात्कुटिलो रसाङ्कुशो नाम विख्यातः ॥ (५२।२)
phaṇihemaguṇātkuṭilo rasāṅkuśo nāma vikhyātaḥ ||
जारण wइथोउत् प्रेचेदिन्ग् गर्भद्रुति; बाह्यद्रुति??एवं पक्वं विधिना बीजवरं सूतराट् तथाम्लेन । (५३।१)
jāraṇa without preceding garbhadruti; bāhyadruti??evaṃ pakvaṃ vidhinā bījavaraṃ sūtarāṭ tathāmlena |
कर्तव्यः संस्वेद्यो यावत्पिष्टी भवेच्छ्लक्ष्णा ॥ (५३।२)
kartavyaḥ saṃsvedyo yāvatpiṣṭī bhavecchlakṣṇā ||
तैलेन तेन विधिना स्विन्ना पिष्टी भवेदखिलम् । (५४।१)
tailena tena vidhinā svinnā piṣṭī bhavedakhilam |
अथवा श्लक्ष्णं शिलया निघृष्टबीजं भवेत्पिण्डी ॥ (५४।२)
athavā ślakṣṇaṃ śilayā nighṛṣṭabījaṃ bhavetpiṇḍī ||
क्रामणपिण्डे क्षिप्त्वा माषैश्च स्यात् सुदृढपिण्डत्वम् ॥ (५५।२)
krāmaṇapiṇḍe kṣiptvā māṣaiśca syāt sudṛḍhapiṇḍatvam ||
मृद्वग्निना सुपक्वं दग्धं यावन्न भवेत्पिण्डम् । (५६।१)
mṛdvagninā supakvaṃ dagdhaṃ yāvanna bhavetpiṇḍam |
आकृष्य चाथ सूतं पिण्डे शेषं तथा पुनः पाच्यम् ॥ (५६।२)
ākṛṣya cātha sūtaṃ piṇḍe śeṣaṃ tathā punaḥ pācyam ||
अथवाप्यौषधपिण्डे दोलातप्ते खर्परे विधिना । (५७।१)
athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā |
पुनरपि पिण्डे क्षेप्यं गर्भे यावद्द्रुतिर्भवति ॥ (५७।२)
punarapi piṇḍe kṣepyaṃ garbhe yāvaddrutirbhavati ||
एवं द्रुतं हि गर्भे बीजवरं जरति रसराजे । (५८।१)
evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje |
गर्भद्रुत्या रहितं बिडयोगैर्जरति गर्भे च ॥ (५८।२)
garbhadrutyā rahitaṃ biḍayogairjarati garbhe ca ||
Data courtesy of The Digital Corpus of Sanskrit.