रसरत्नसमुच्चयRasaratnasamuccaya

RRS, 13

13 of 18 · 188 verses

Select a line for its word-by-word analysis.

1.1१.१

कट्वम्लतीक्ष्णलवणोष्णविदाहिरूक्षैः पित्तं प्रदुष्टम् अशनैर् अतिसेवितैस् तैः । (१।१)

kaṭvamlatīkṣṇalavaṇoṣṇavidāhirūkṣaiḥ pittaṃ praduṣṭam aśanair atisevitais taiḥ |

1.2१.२

संदूष्य रक्तम् अमुनोभयमार्गवर्ति निर्यात्यसृक्स्थलयकृत्प्लिहतो ऽतिमात्रम् ॥ (१।२)

saṃdūṣya raktam amunobhayamārgavarti niryātyasṛksthalayakṛtplihato 'timātram ||

2.1२.१

पारदं हिङ्गुलुकं च ऊर्ध्वयन्त्रेण मेलयेत् । (२।१)

pāradaṃ hiṅgulukaṃ ca ūrdhvayantreṇa melayet |

2.2२.२

कुक्कुटाण्डरसं भागं टङ्कणक्षारम् एव च ॥ (२।२)

kukkuṭāṇḍarasaṃ bhāgaṃ ṭaṅkaṇakṣāram eva ca ||

3.1३.१

गन्धकस्य तथा भागं घृतेन परिमर्दयेत् । (३।१)

gandhakasya tathā bhāgaṃ ghṛtena parimardayet |

3.2३.२

सिद्धं रसं समादाय जीरतोयेन दापयेत् ॥ (३।२)

siddhaṃ rasaṃ samādāya jīratoyena dāpayet ||

4.1४.१

दिनानि त्रीणि माषं च ग्रहणीरक्तदोषजित् । (४।१)

dināni trīṇi māṣaṃ ca grahaṇīraktadoṣajit |

4.2४.२

ज्वरदाहविनाशं च रक्तपित्तविनाशनम् ॥ (४।२)

jvaradāhavināśaṃ ca raktapittavināśanam ||

5.1५.१

प्रत्येकं तोलमानेन सूतकं ताम्रभस्मकम् । (५।१)

pratyekaṃ tolamānena sūtakaṃ tāmrabhasmakam |

5.2५.२

दिनानि त्रीणि गुटिकां कृत्वा चाग्नौ विनिक्षिपेत् ॥ (५।२)

dināni trīṇi guṭikāṃ kṛtvā cāgnau vinikṣipet ||

6.1६.१

ततः शुष्कं समादाय पुनरेव च मर्दयेत् । (६।१)

tataḥ śuṣkaṃ samādāya punareva ca mardayet |

6.2६.२

समस्तैः समगन्धैश्च कृत्वा कज्जलिकां च तैः ॥ (६।२)

samastaiḥ samagandhaiśca kṛtvā kajjalikāṃ ca taiḥ ||

7.1७.१

मुस्तादाडिमदूर्वाभिः केतकीस्तनवारिभिः । (७।१)

mustādāḍimadūrvābhiḥ ketakīstanavāribhiḥ |

7.2७.२

सहदेव्याः कुमार्याश्च पर्पटस्यापि वारिणा ॥ (७।२)

sahadevyāḥ kumāryāśca parpaṭasyāpi vāriṇā ||

8.1८.१

रामशीतलिकातोयैः शतावर्या रसेन च । (८।१)

rāmaśītalikātoyaiḥ śatāvaryā rasena ca |

8.2८.२

भावयित्वा प्रयत्नेन दिवसे दिवसे पृथक् ॥ (८।२)

bhāvayitvā prayatnena divase divase pṛthak ||

9.1९.१

तिक्तं गुडूचिकासत्त्वं पर्पटीशीरमागधीः । (९।१)

tiktaṃ guḍūcikāsattvaṃ parpaṭīśīramāgadhīḥ |

9.2९.२

शृङ्गाटं सारिवा चैषां समानं सूक्ष्मचूर्णकम् ॥ (९।२)

śṛṅgāṭaṃ sārivā caiṣāṃ samānaṃ sūkṣmacūrṇakam ||

10.1१०.१

द्राक्षादिककषायेण सप्तधा परिभावयेत् । (१०।१)

drākṣādikakaṣāyeṇa saptadhā paribhāvayet |

10.2१०.२

ततः पोताश्रयं क्षिप्त्वा वट्यः कार्याश्चणोपमाः ॥ (१०।२)

tataḥ potāśrayaṃ kṣiptvā vaṭyaḥ kāryāścaṇopamāḥ ||

11.1११.१

अयं चन्द्रकलानामा रसेन्द्रः परिकीर्तितः । (११।१)

ayaṃ candrakalānāmā rasendraḥ parikīrtitaḥ |

11.2११.२

सर्वपित्तगदध्वंसी वातपित्तगदापहः ॥ (११।२)

sarvapittagadadhvaṃsī vātapittagadāpahaḥ ||

12.1१२.१

अन्तर्बाह्यमहादाहविध्वंसनमहाक्षमः । (१२।१)

antarbāhyamahādāhavidhvaṃsanamahākṣamaḥ |

12.2१२.२

ग्रीष्मकाले शरत्काले विशेषेण प्रशस्यते ॥ (१२।२)

grīṣmakāle śaratkāle viśeṣeṇa praśasyate ||

13.1१३.१

कुरुते नाग्निमान्द्यं च महातापज्वरं हरेत् । (१३।१)

kurute nāgnimāndyaṃ ca mahātāpajvaraṃ haret |

13.2१३.२

श्रमं मूर्छां हरत्याशु स्त्रीणां रक्तमहास्रवम् ॥ (१३।२)

śramaṃ mūrchāṃ haratyāśu strīṇāṃ raktamahāsravam ||

14.1१४.१

ऊर्ध्वाधो रक्तपित्तं च रक्तवान्तिं विशेषतः । (१४।१)

ūrdhvādho raktapittaṃ ca raktavāntiṃ viśeṣataḥ |

14.2१४.२

मूत्रकृच्छ्राणि सर्वाणि नाशयेन्नात्र संशयः ॥ (१४।२)

mūtrakṛcchrāṇi sarvāṇi nāśayennātra saṃśayaḥ ||

15.1१५.१

पटोलमायसं चूर्णं सूतेन्द्रं समचारितम् । (१५।१)

paṭolamāyasaṃ cūrṇaṃ sūtendraṃ samacāritam |

15.2१५.२

लोहारिवर्गसंघृष्टं रक्तपित्तहरं परम् ॥ (१५।२)

lohārivargasaṃghṛṣṭaṃ raktapittaharaṃ param ||

16.1१६.१

वृषादलानां स्वरसस्य कर्षं रसेन्द्रगुञ्जामधुशर्करायुतम् । (१६।१)

vṛṣādalānāṃ svarasasya karṣaṃ rasendraguñjāmadhuśarkarāyutam |

16.2१६.२

लिहन्प्रभाते मनुजो निहन्याद् दुःखाकरं दारुणरक्तपित्तम् ॥ (१६।२)

lihanprabhāte manujo nihanyād duḥkhākaraṃ dāruṇaraktapittam ||

17.0१७.०

सपटोलकहिङ्गूलः सक्षौद्रो रक्तपित्तनुत् ॥ (१७।०)

sapaṭolakahiṅgūlaḥ sakṣaudro raktapittanut ||

18.0१८.०

नवनीतं सिता लाजा द्राक्षया सह भक्षयेत् ॥ (१८।०)

navanītaṃ sitā lājā drākṣayā saha bhakṣayet ||

19.0१९.०

मस्तके च घृतं दद्याद्रक्तपित्तहरं परम् ॥ (१९।०)

mastake ca ghṛtaṃ dadyādraktapittaharaṃ param ||

20.0२०.०

द्राक्षावासायुतं क्वाथं शर्कराभावितं पिबेत् ॥ (२०।०)

drākṣāvāsāyutaṃ kvāthaṃ śarkarābhāvitaṃ pibet ||

21.1२१.१

वासारसं सिताक्षौद्रैर्लाजान्वा शर्करासमान् । (२१।१)

vāsārasaṃ sitākṣaudrairlājānvā śarkarāsamān |

21.2२१.२

भक्षयन् रक्तपित्तार्तस् तृष्णादाहज्वरं जयेत् ॥ (२१।२)

bhakṣayan raktapittārtas tṛṣṇādāhajvaraṃ jayet ||

22.0२२.०

धात्रीचूर्णं सितायुक्तं भक्षयेद्रक्तपित्तनुत् ॥ (२२।०)

dhātrīcūrṇaṃ sitāyuktaṃ bhakṣayedraktapittanut ||

23.1२३.१

दोषाः शोषमनोऽभितापकुपिताः कुर्वन्ति कासं ततः पीतं पूतिकफं प्रतीपनयनः पूयोपमं ष्ठीवति । (२३।१)

doṣāḥ śoṣamano'bhitāpakupitāḥ kurvanti kāsaṃ tataḥ pītaṃ pūtikaphaṃ pratīpanayanaḥ pūyopamaṃ ṣṭhīvati |

23.2२३.२

शीतोष्णेच्छुर् अकारणेन बहुभुक् स्निग्धप्रसन्नाननः पार्श्वार्त्यल्पबलक्षयाकृतिर् अपि प्रादुर्भवत्यन्यथा ॥ (२३।२)

śītoṣṇecchur akāraṇena bahubhuk snigdhaprasannānanaḥ pārśvārtyalpabalakṣayākṛtir api prādurbhavatyanyathā ||

24.1२४.१

सार्कतीक्ष्णाभ्रको ऽगस्त्यकासमर्दवरारसैः । (२४।१)

sārkatīkṣṇābhrako 'gastyakāsamardavarārasaiḥ |

24.2२४.२

मर्दितो वेतसाम्लेन पिण्डितः कासनाशनः ॥ (२४।२)

mardito vetasāmlena piṇḍitaḥ kāsanāśanaḥ ||

25.1२५.१

तारे पिष्टशिलां क्षिप्त्वा हरितालाच्चतुर्गुणाम् । (२५।१)

tāre piṣṭaśilāṃ kṣiptvā haritālāccaturguṇām |

25.2२५.२

वासागोक्षुरसाराभ्यां मर्दयेत् प्रहरद्वयम् ॥ (२५।२)

vāsāgokṣurasārābhyāṃ mardayet praharadvayam ||

26.1२६.१

प्रस्विन्नो वालुकायन्त्रे गुञ्जाद्वितयसंमितः । (२६।१)

prasvinno vālukāyantre guñjādvitayasaṃmitaḥ |

26.2२६.२

कासं त्रिकटुनिर्गुण्डीमूलचूर्णयुतो हरेत् ॥ (२६।२)

kāsaṃ trikaṭunirguṇḍīmūlacūrṇayuto haret ||

27.1२७.१

भूनागाभ्रकयोः सत्त्वं कान्तहेमाभ्ररूप्यकम् । (२७।१)

bhūnāgābhrakayoḥ sattvaṃ kāntahemābhrarūpyakam |

27.2२७.२

मुक्ताफलानि रत्नानि ताप्यं वैक्रान्तमेव च ॥ (२७।२)

muktāphalāni ratnāni tāpyaṃ vaikrāntameva ca ||

28.1२८.१

भस्मीकृतमिदं सर्वं पृथङ् माषमितं मतम् । (२८।१)

bhasmīkṛtamidaṃ sarvaṃ pṛthaṅ māṣamitaṃ matam |

28.2२८.२

निष्कमात्रमितं शुद्धं राजावर्तरजस्तथा ॥ (२८।२)

niṣkamātramitaṃ śuddhaṃ rājāvartarajastathā ||

29.1२९.१

एतत्सर्वं समं योज्यं मर्दयित्वाम्लवेतसैः । (२९।१)

etatsarvaṃ samaṃ yojyaṃ mardayitvāmlavetasaiḥ |

29.2२९.२

रुद्ध्वा मूषोदरे कोष्ठ्यां धमेदाकाशदर्शनम् ॥ (२९।२)

ruddhvā mūṣodare koṣṭhyāṃ dhamedākāśadarśanam ||

30.1३०.१

शतवारं धमेदेवं मर्दयित्वाम्लवेतसैः । (३०।१)

śatavāraṃ dhamedevaṃ mardayitvāmlavetasaiḥ |

30.2३०.२

ततः संचूर्णिते चास्मिन्मुक्ताभस्म द्विशाणकम् ॥ (३०।२)

tataḥ saṃcūrṇite cāsminmuktābhasma dviśāṇakam ||

31.1३१.१

मरिचं पञ्च शाणेयं क्षिप्त्वा संमर्द्य यत्नतः । (३१।१)

maricaṃ pañca śāṇeyaṃ kṣiptvā saṃmardya yatnataḥ |

31.2३१.२

रम्ये करण्डके क्षिप्त्वा स्थापयेत् तदनन्तरम् ॥ (३१।२)

ramye karaṇḍake kṣiptvā sthāpayet tadanantaram ||

32.1३२.१

सो ऽयं रत्नकरण्डको रसवरो मध्वाज्यसंक्रामणो हन्याच्छ्वासगदं ज्वरं ग्रहणिकां कासं च हिध्मामयम् । (३२।१)

so 'yaṃ ratnakaraṇḍako rasavaro madhvājyasaṃkrāmaṇo hanyācchvāsagadaṃ jvaraṃ grahaṇikāṃ kāsaṃ ca hidhmāmayam |

32.2३२.२

शूलं शोषमहोदरं बहुविधं कुष्ठं च हन्याद् गदान् बल्यो वृष्यकरः प्रदीपनतमः स्वस्थोचितो वेगवान् ॥ (३२।२)

śūlaṃ śoṣamahodaraṃ bahuvidhaṃ kuṣṭhaṃ ca hanyād gadān balyo vṛṣyakaraḥ pradīpanatamaḥ svasthocito vegavān ||

33.1३३.१

शुद्धसूतस्य भागैकं भागैकं शुद्धगन्धकम् । (३३।१)

śuddhasūtasya bhāgaikaṃ bhāgaikaṃ śuddhagandhakam |

33.2३३.२

भागत्रयं मृतं ताम्रं मरिचं पञ्चभागिकम् ॥ (३३।२)

bhāgatrayaṃ mṛtaṃ tāmraṃ maricaṃ pañcabhāgikam ||

34.1३४.१

मृताभ्रस्य चतुर्भागं भागमेकं विषं क्षिपेत् । (३४।१)

mṛtābhrasya caturbhāgaṃ bhāgamekaṃ viṣaṃ kṣipet |

34.2३४.२

भूताङ्कुशस्य भागैकं सर्वं चाम्लेन मर्दयेत् ॥ (३४।२)

bhūtāṅkuśasya bhāgaikaṃ sarvaṃ cāmlena mardayet ||

35.1३५.१

यामं भूताङ्कुशो नाम माषैकं वातकासजित् । (३५।१)

yāmaṃ bhūtāṅkuśo nāma māṣaikaṃ vātakāsajit |

35.2३५.२

अनुपानं लिहेत्क्षौद्रैर्विभीतकफलत्वचः । (३५।२)

anupānaṃ lihetkṣaudrairvibhītakaphalatvacaḥ |

35.3३५.३

पित्तकासारुचिश्वासक्षयकासांश्च नाशयेत् ॥ (३५।३)

pittakāsāruciśvāsakṣayakāsāṃśca nāśayet ||

36.1३६.१

रसभस्म विषं तुल्यं गन्धकं द्विगुणं मतम् । (३६।१)

rasabhasma viṣaṃ tulyaṃ gandhakaṃ dviguṇaṃ matam |

36.2३६.२

बोलतालकवाह्लीककर्कोटीमाक्षिकं निशा ॥ (३६।२)

bolatālakavāhlīkakarkoṭīmākṣikaṃ niśā ||

37.1३७.१

कण्टकारी यवक्षारलाङ्गलीक्षारसैन्धवम् । (३७।१)

kaṇṭakārī yavakṣāralāṅgalīkṣārasaindhavam |

37.2३७.२

मधूकसारं संचूर्ण्य सप्ताहं चार्द्रकद्रवैः ॥ (३७।२)

madhūkasāraṃ saṃcūrṇya saptāhaṃ cārdrakadravaiḥ ||

38.1३८.१

गुटिकां बदराकारां श्लेष्मकासापनुत्तये । (३८।१)

guṭikāṃ badarākārāṃ śleṣmakāsāpanuttaye |

38.2३८.२

भक्षयेद् बोलबद्धो ऽयं रसः सश्वासपाण्डुजित् ॥ (३८।२)

bhakṣayed bolabaddho 'yaṃ rasaḥ saśvāsapāṇḍujit ||

39.1३९.१

रसगन्धकपिप्पल्यो हरीतक्यक्षवासकम् । (३९।१)

rasagandhakapippalyo harītakyakṣavāsakam |

39.2३९.२

षडुत्तरगुणं चूर्णं बब्बुलक्वाथभावितम् ॥ (३९।२)

ṣaḍuttaraguṇaṃ cūrṇaṃ babbulakvāthabhāvitam ||

40.1४०.१

एकविंशतिवाराणि शोषयित्वा विचूर्णयेत् । (४०।१)

ekaviṃśativārāṇi śoṣayitvā vicūrṇayet |

40.2४०.२

भक्षयेन्मधुना हन्ति कासम् अग्निरसो ह्य् अयम् ॥ (४०।२)

bhakṣayenmadhunā hanti kāsam agniraso hy ayam ||

41.1४१.१

त्रिकटु त्रिफला चैला जातीफललवंगकम् । (४१।१)

trikaṭu triphalā cailā jātīphalalavaṃgakam |

41.2४१.२

एतेषां समभागानां समः पूर्वरसो भवेत् ॥ (४१।२)

eteṣāṃ samabhāgānāṃ samaḥ pūrvaraso bhavet ||

42.1४२.१

सम्पूर्यालोडयेत् क्षौद्रे भक्ष्यो निष्कद्वयं द्वयम् । (४२।१)

sampūryāloḍayet kṣaudre bhakṣyo niṣkadvayaṃ dvayam |

42.2४२.२

स्वयम् अग्निरसो नाम्ना क्षयकासनिकृन्तनः ॥ (४२।२)

svayam agniraso nāmnā kṣayakāsanikṛntanaḥ ||

43.1४३.१

भृङ्गराजस्य पत्त्राणि मधुना चूर्णितानि हि । (४३।१)

bhṛṅgarājasya pattrāṇi madhunā cūrṇitāni hi |

43.2४३.२

गोलकं धारयेद्वक्त्रे कासविष्टम्भशान्तये ॥ (४३।२)

golakaṃ dhārayedvaktre kāsaviṣṭambhaśāntaye ||

44.0४४.०

अर्कैरण्डस्य पत्त्राणां रसं पीत्वा च कासजित् ॥ (४४।०)

arkairaṇḍasya pattrāṇāṃ rasaṃ pītvā ca kāsajit ||

45.0४५.०

दन्तीमूलस्य धूमं वा निर्गुण्ड्या वा पिबेज्जयेत् ॥ (४५।०)

dantīmūlasya dhūmaṃ vā nirguṇḍyā vā pibejjayet ||

46.1४६.१

इन्द्रवारुणिकामूलं भृङ्गीकृष्णातिलैः सह । (४६।१)

indravāruṇikāmūlaṃ bhṛṅgīkṛṣṇātilaiḥ saha |

46.2४६.२

भक्षयेत् क्षयकासार्तो निष्कमात्रं प्रशान्तये ॥ (४६।२)

bhakṣayet kṣayakāsārto niṣkamātraṃ praśāntaye ||

47.1४७.१

श्लेष्मोपरुद्धमनः पवनो ऽतिदुष्टः संदूषयन्ननु जलान्नवहाश् च नाडीः । (४७।१)

śleṣmoparuddhamanaḥ pavano 'tiduṣṭaḥ saṃdūṣayannanu jalānnavahāś ca nāḍīḥ |

47.2४७.२

आमाशयोद्भवम् इमं विदधात्य् उरस्थः श्वासं च वक्रगमनो हि शरीरभाजाम् ॥ (४७।२)

āmāśayodbhavam imaṃ vidadhāty urasthaḥ śvāsaṃ ca vakragamano hi śarīrabhājām ||

48.1४८.१

इन्द्रवारुणिकामूलं देवदारु कटुत्रयम् । (४८।१)

indravāruṇikāmūlaṃ devadāru kaṭutrayam |

48.2४८.२

शर्करासहितं खादेद् ऊर्ध्वश्वासप्रशान्तये ॥ (४८।२)

śarkarāsahitaṃ khāded ūrdhvaśvāsapraśāntaye ||

49.1४९.१

सूतार्धं गन्धकं मर्द्यं यामैकं कन्यकाद्रवैः । (४९।१)

sūtārdhaṃ gandhakaṃ mardyaṃ yāmaikaṃ kanyakādravaiḥ |

49.2४९.२

द्वयोः समं ताम्रपत्त्रं पूर्वकल्केन मेलयेत् ॥ (४९।२)

dvayoḥ samaṃ tāmrapattraṃ pūrvakalkena melayet ||

50.1५०.१

दिनैकं हण्डिकायन्त्रे पक्वमादाय चूर्णयेत् । (५०।१)

dinaikaṃ haṇḍikāyantre pakvamādāya cūrṇayet |

50.2५०.२

सूर्यावर्तरसो ह्य् एष द्विगुञ्जः श्वासजित् भवेत् ॥ (५०।२)

sūryāvartaraso hy eṣa dviguñjaḥ śvāsajit bhavet ||

51.1५१.१

सूतः षोडश तत्समो दिनकरस्तस्यार्धभागो बलिः सिन्धुस्तस्य समः सुसूक्ष्ममृदितः षट् पिप्पली चूर्णितः । (५१।१)

sūtaḥ ṣoḍaśa tatsamo dinakarastasyārdhabhāgo baliḥ sindhustasya samaḥ susūkṣmamṛditaḥ ṣaṭ pippalī cūrṇitaḥ |

51.2५१.२

जम्बीरस्वरसेन मर्दितम् इदं तप्तं सुपक्वं भवेत् कासश्वाससगुल्मशूलजठरं पाण्डुं लिहन्नाशयेत् ॥ (५१।२)

jambīrasvarasena marditam idaṃ taptaṃ supakvaṃ bhavet kāsaśvāsasagulmaśūlajaṭharaṃ pāṇḍuṃ lihannāśayet ||

52.1५२.१

साधारणं तु वटकं वक्ष्यामि शृणु तत्त्वतः । (५२।१)

sādhāraṇaṃ tu vaṭakaṃ vakṣyāmi śṛṇu tattvataḥ |

52.2५२.२

पारदं गन्धकं चैव पलमेकं पृथक् पृथक् ॥ (५२।२)

pāradaṃ gandhakaṃ caiva palamekaṃ pṛthak pṛthak ||

53.1५३.१

पलत्रयं त्रिकटुकं वङ्गम् एकपलं क्षिपेत् । (५३।१)

palatrayaṃ trikaṭukaṃ vaṅgam ekapalaṃ kṣipet |

53.2५३.२

सर्वम् एकत्र संयोज्य दिनानि त्रीणि मर्दयेत् ॥ (५३।२)

sarvam ekatra saṃyojya dināni trīṇi mardayet ||

54.1५४.१

गोमूत्रेण तथा त्रीणि दिनानि परिमर्दयेत् । (५४।१)

gomūtreṇa tathā trīṇi dināni parimardayet |

54.2५४.२

अक्षप्रमाणवटकं छायाशुष्कं तु कारयेत् ॥ (५४।२)

akṣapramāṇavaṭakaṃ chāyāśuṣkaṃ tu kārayet ||

55.1५५.१

नित्यमेकं तु वटकं दिनानि त्रिंशदेव च । (५५।१)

nityamekaṃ tu vaṭakaṃ dināni triṃśadeva ca |

55.2५५.२

श्वासकासज्वरहरम् अग्निमान्द्यारुचिप्रणुत् ॥ (५५।२)

śvāsakāsajvaraharam agnimāndyārucipraṇut ||

56.1५६.१

रसभागो भवेदेको गन्धको द्विगुणो मतः । (५६।१)

rasabhāgo bhavedeko gandhako dviguṇo mataḥ |

56.2५६.२

त्रिभागा पिप्पली ग्राह्या चतुर्भागा हरीतकी ॥ (५६।२)

tribhāgā pippalī grāhyā caturbhāgā harītakī ||

57.1५७.१

विभीतः पञ्चभागस्तु वासा षड्गुणिता भवेत् । (५७।१)

vibhītaḥ pañcabhāgastu vāsā ṣaḍguṇitā bhavet |

57.2५७.२

भार्ङ्गीसप्तगुणा ग्राह्या सर्वं चूर्णं प्रकल्पयेत् ॥ (५७।२)

bhārṅgīsaptaguṇā grāhyā sarvaṃ cūrṇaṃ prakalpayet ||

58.1५८.१

बब्बुलक्वाथम् आदाय भावयेद् एकविंशतिः । (५८।१)

babbulakvātham ādāya bhāvayed ekaviṃśatiḥ |

58.2५८.२

विभीतकप्रमाणेन मधुना गुटिकां चरेत् ॥ (५८।२)

vibhītakapramāṇena madhunā guṭikāṃ caret ||

59.1५९.१

एकैकां भक्षयेत्प्रातर्वटी सप्तामृताभिधा । (५९।१)

ekaikāṃ bhakṣayetprātarvaṭī saptāmṛtābhidhā |

59.2५९.२

श्वासकासादिकं व्याधिं तत्क्षणान्नाशयेद् इयम् ॥ (५९।२)

śvāsakāsādikaṃ vyādhiṃ tatkṣaṇānnāśayed iyam ||

60.1६०.१

सूतं शुल्बं सुलोहं बलिम् अमृतयुतं त्रित्रिकं रेणुकाब्दं गण्डीरं केसराग्निं द्विगुणगुडयुतं मर्दयित्वा समस्तम् । (६०।१)

sūtaṃ śulbaṃ sulohaṃ balim amṛtayutaṃ tritrikaṃ reṇukābdaṃ gaṇḍīraṃ kesarāgniṃ dviguṇaguḍayutaṃ mardayitvā samastam |

60.2६०.२

कुर्यात् कोलास्थिमात्रान् सुरुचिरवटकान् भक्षयेत् प्राग्दिनादौ पथ्यासीसर्वरोगान् हरति च नितरां नीलकण्ठाभिधानः ॥ (६०।२)

kuryāt kolāsthimātrān suruciravaṭakān bhakṣayet prāgdinādau pathyāsīsarvarogān harati ca nitarāṃ nīlakaṇṭhābhidhānaḥ ||

61.1६१.१

तारताम्ररसपिष्टिका शिला गन्धतालसमभागिकं रसैः । (६१।१)

tāratāmrarasapiṣṭikā śilā gandhatālasamabhāgikaṃ rasaiḥ |

61.2६१.२

आटरूषसुरसार्द्रसम्भवैर् मर्दय प्रकुरु गोलकं ततः ॥ (६१।२)

āṭarūṣasurasārdrasambhavair mardaya prakuru golakaṃ tataḥ ||

62.1६२.१

मृत्स्नया च परिवेष्ट्य गोलकं यामयुग्मम् अथ भूधरे पचेत् । (६२।१)

mṛtsnayā ca pariveṣṭya golakaṃ yāmayugmam atha bhūdhare pacet |

62.2६२.२

गन्धकेन कुरु तत्समं ततश् चाटरूषकटुकैर् विभावयेत् ॥ (६२।२)

gandhakena kuru tatsamaṃ tataś cāṭarūṣakaṭukair vibhāvayet ||

63.0६३.०

श्वासकासकरिकेसरीरसो वल्लयस्य परिसेवयेद् बुधः ॥ (६३।०)

śvāsakāsakarikesarīraso vallayasya parisevayed budhaḥ ||

64.1६४.१

रसगन्धकताम्राभ्रं कणाशुण्ठ्यूषणं समम् । (६४।१)

rasagandhakatāmrābhraṃ kaṇāśuṇṭhyūṣaṇaṃ samam |

64.2६४.२

भूतम् एकं विषं चैकं सूर्यः कासादिनाशनः ॥ (६४।२)

bhūtam ekaṃ viṣaṃ caikaṃ sūryaḥ kāsādināśanaḥ ||

65.1६५.१

गन्धकं मरिचं साज्यं पिबेच्छ्वासकफापहम् । (६५।१)

gandhakaṃ maricaṃ sājyaṃ pibecchvāsakaphāpaham |

65.2६५.२

शिला हिङ्गु विडङ्गं च मरिचं कुष्ठसैन्धवम् । (६५।२)

śilā hiṅgu viḍaṅgaṃ ca maricaṃ kuṣṭhasaindhavam |

65.3६५.३

मध्वाज्याभ्यां लिहेत् कर्षं श्वासकाशकफापहम् ॥ (६५।३)

madhvājyābhyāṃ lihet karṣaṃ śvāsakāśakaphāpaham ||

66.1६६.१

विदाहिगुरुविष्टम्भिरूक्षाभिष्यन्दिभोजनैः । (६६।१)

vidāhiguruviṣṭambhirūkṣābhiṣyandibhojanaiḥ |

66.2६६.२

शीतपानाशनस्थानरजोधूमातपानिलैः । (६६।२)

śītapānāśanasthānarajodhūmātapānilaiḥ |

66.3६६.३

व्यायामकर्मभाराध्ववेगाघातापतर्पणैः । (६६।३)

vyāyāmakarmabhārādhvavegāghātāpatarpaṇaiḥ |

66.4६६.४

हिक्का श्वासश्च कासश्च नृणां समुपजायते । (६६।४)

hikkā śvāsaśca kāsaśca nṛṇāṃ samupajāyate |

66.5६६.५

रसगन्धकधान्याभ्रतालताप्योपलं क्रमात् । (६६।५)

rasagandhakadhānyābhratālatāpyopalaṃ kramāt |

66.6६६.६

भागवृद्धं वचाकुष्ठहरिद्राक्षारचित्रकैः ॥ (६६।६)

bhāgavṛddhaṃ vacākuṣṭhaharidrākṣāracitrakaiḥ ||

67.1६७.१

सपाठा लाङ्गली व्योषसैन्धवाक्षविषैः समम् । (६७।१)

sapāṭhā lāṅgalī vyoṣasaindhavākṣaviṣaiḥ samam |

67.2६७.२

भावितं भृङ्गनीरेण हिक्कावैस्वर्यकासनुत् ॥ (६७।२)

bhāvitaṃ bhṛṅganīreṇa hikkāvaisvaryakāsanut ||

68.0६८.०

पक्वताम्रे रसः पिष्टो बलिना हिध्मिनां हितः ॥ (६८।०)

pakvatāmre rasaḥ piṣṭo balinā hidhmināṃ hitaḥ ||

69.1६९.१

चूर्णं पाठेन्द्रवारुण्योर्भाण्डे दत्त्वाथ कुनटीम् । (६९।१)

cūrṇaṃ pāṭhendravāruṇyorbhāṇḍe dattvātha kunaṭīm |

69.2६९.२

तत्पृष्ठे शुद्धसूतं च कुनट्यंशं प्रदापयेत् ॥ (६९।२)

tatpṛṣṭhe śuddhasūtaṃ ca kunaṭyaṃśaṃ pradāpayet ||

70.1७०.१

सूतार्धं कुनटीचूर्णं तस्यार्धं पूर्वमूलिका । (७०।१)

sūtārdhaṃ kunaṭīcūrṇaṃ tasyārdhaṃ pūrvamūlikā |

70.2७०.२

चूर्णं दत्त्वा पचेच्चुल्ल्या यामाष्ट मृदुवह्निना । (७०।२)

cūrṇaṃ dattvā paceccullyā yāmāṣṭa mṛduvahninā |

70.3७०.३

शिलापूतो रसो नाम हन्ति हिक्कां त्रिगुञ्जकः ॥ (७०।३)

śilāpūto raso nāma hanti hikkāṃ triguñjakaḥ ||

71.1७१.१

मृतसूतं मृतं ताम्रं हिङ्गु पुष्करमूलकम् । (७१।१)

mṛtasūtaṃ mṛtaṃ tāmraṃ hiṅgu puṣkaramūlakam |

71.2७१.२

सैन्धवं गन्धकं तालं कटुकं चूर्णयेत् समान् ॥ (७१।२)

saindhavaṃ gandhakaṃ tālaṃ kaṭukaṃ cūrṇayet samān ||

72.1७२.१

देवदालीपुनर्नवयोर् निर्गुण्डीमेघनादयोः । (७२।१)

devadālīpunarnavayor nirguṇḍīmeghanādayoḥ |

72.2७२.२

तिक्तकोषातकीद्रावैर् दिनैकं मर्दयेद् दृढम् ॥ (७२।२)

tiktakoṣātakīdrāvair dinaikaṃ mardayed dṛḍham ||

73.1७३.१

माषमात्रं लिहेत् क्षौद्रैः रसं मन्थानभैरवम् । (७३।१)

māṣamātraṃ lihet kṣaudraiḥ rasaṃ manthānabhairavam |

73.2७३.२

कफरोगप्रशान्त्यर्थं निम्बक्वाथं पिबेदनु ॥ (७३।२)

kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu ||

74.1७४.१

विश्वादित्रिकनिर्गतद्रवनिशा कीरप्रियोत्थं दलं नीलग्रीवगलालयं सुरपतेस् तार्तीयनेत्राभिधम् । (७४।१)

viśvāditrikanirgatadravaniśā kīrapriyotthaṃ dalaṃ nīlagrīvagalālayaṃ surapates tārtīyanetrābhidham |

74.2७४.२

विद्वत्पुञ्जवती कृमिप्रतिभटं निर्गुण्डिकावारिणा तुल्यांशाश् चणकप्रमाणवटिकाः सश्वासकासघ्निकाः ॥ (७४।२)

vidvatpuñjavatī kṛmipratibhaṭaṃ nirguṇḍikāvāriṇā tulyāṃśāś caṇakapramāṇavaṭikāḥ saśvāsakāsaghnikāḥ ||

75.0७५.०

क्वाथं रास्नाबृहत्यग्निबलादुग्धैश् च पाययेत् ॥ (७५।०)

kvāthaṃ rāsnābṛhatyagnibalādugdhaiś ca pāyayet ||

76.0७६.०

हिक्विनं पाययेद् धूमं पत्त्रैः शिखिनिशोद्भवैः ॥ (७६।०)

hikvinaṃ pāyayed dhūmaṃ pattraiḥ śikhiniśodbhavaiḥ ||

77.1७७.१

कर्षैकं गन्धकं शुद्धं घृतैश् चोष्णोदकैः पिबेत् । (७७।१)

karṣaikaṃ gandhakaṃ śuddhaṃ ghṛtaiś coṣṇodakaiḥ pibet |

77.2७७.२

कफं हन्त्यथ वा क्षौद्रैः पञ्चवक्त्ररसः खलु ॥ (७७।२)

kaphaṃ hantyatha vā kṣaudraiḥ pañcavaktrarasaḥ khalu ||

78.1७८.१

अत्युच्चभाषणविषाध्ययनाभिघातसंदूषणैः प्रकुपिताः पवनादयस् तु । (७८।१)

atyuccabhāṣaṇaviṣādhyayanābhighātasaṃdūṣaṇaiḥ prakupitāḥ pavanādayas tu |

78.2७८.२

स्रोतःसु ते स्वरवहेषु गताः प्रतिष्ठां हन्युः स्वरं भवति चापि हि षड्विधः सः ॥ (७८।२)

srotaḥsu te svaravaheṣu gatāḥ pratiṣṭhāṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ ||

79.1७९.१

पर्पटी:: प्रोदुच्तिओन्रसं द्विगुणगन्धेन मर्दयित्वा सभृङ्गकम् । (७९।१)

parpaṭī:: productionrasaṃ dviguṇagandhena mardayitvā sabhṛṅgakam |

79.2७९.२

लोहपात्रे घृताभ्यक्ते द्रावितं बदराग्निना ॥ (७९।२)

lohapātre ghṛtābhyakte drāvitaṃ badarāgninā ||

80.1८०.१

ऊर्ध्वाधो गोमयं दत्त्वा कदल्याः कोमले दले । (८०।१)

ūrdhvādho gomayaṃ dattvā kadalyāḥ komale dale |

80.2८०.२

स्निग्धया लोहदर्व्या च पर्पटाकारतां नयेत् ॥ (८०।२)

snigdhayā lohadarvyā ca parpaṭākāratāṃ nayet ||

81.1८१.१

लोहपात्रे विनिक्षिप्ता लोहपर्पटिका भवेत् । (८१।१)

lohapātre vinikṣiptā lohaparpaṭikā bhavet |

81.2८१.२

ताम्रपात्रे विनिक्षिप्ता ताम्रपर्पटिका भवेत् ॥ (८१।२)

tāmrapātre vinikṣiptā tāmraparpaṭikā bhavet ||

82.1८२.१

विषपादं च युञ्जीत तत्साध्येष्वामयेषु च । (८२।१)

viṣapādaṃ ca yuñjīta tatsādhyeṣvāmayeṣu ca |

82.2८२.२

सुरसाया जयन्त्याश् च कन्यकाटरूषकयोः ॥ (८२।२)

surasāyā jayantyāś ca kanyakāṭarūṣakayoḥ ||

83.1८३.१

त्रिफलाया मुनेर् भार्ङ्ग्या मुण्ड्यास् त्रिकटुचित्रयोः । (८३।१)

triphalāyā muner bhārṅgyā muṇḍyās trikaṭucitrayoḥ |

83.2८३.२

भृङ्गराजस्य वह्नेश्च प्रत्यहं द्रवभावितम् ॥ (८३।२)

bhṛṅgarājasya vahneśca pratyahaṃ dravabhāvitam ||

84.1८४.१

आर्द्रकस्य रसेनापि सप्तधा भावयेत्पुनः । (८४।१)

ārdrakasya rasenāpi saptadhā bhāvayetpunaḥ |

84.2८४.२

अङ्गारैः स्वेदयेद् ईषत् पर्पटरसम् उत्तमम् ॥ (८४।२)

aṅgāraiḥ svedayed īṣat parpaṭarasam uttamam ||

85.1८५.१

गुञ्जाष्टकं ददीतास्य ताम्बूलीपत्त्रसंयुतम् । (८५।१)

guñjāṣṭakaṃ dadītāsya tāmbūlīpattrasaṃyutam |

85.2८५.२

पिप्पलीदशकैः क्वाथं निर्गुण्ड्याश् चानुपाययेत् । (८५।२)

pippalīdaśakaiḥ kvāthaṃ nirguṇḍyāś cānupāyayet |

85.3८५.३

स्वरभङ्गे कफे श्वासे प्रयोज्यः सर्वदा रसः ॥ (८५।३)

svarabhaṅge kaphe śvāse prayojyaḥ sarvadā rasaḥ ||

86.1८६.१

त्रिकण्टकस्य मूलानि शुण्ठीं संक्षुद्य निक्षिपेत् । (८६।१)

trikaṇṭakasya mūlāni śuṇṭhīṃ saṃkṣudya nikṣipet |

86.2८६.२

अजाक्षीरे सनीरार्धं यावत्क्षीरं विपाचयेत् ॥ (८६।२)

ajākṣīre sanīrārdhaṃ yāvatkṣīraṃ vipācayet ||

87.1८७.१

तत्क्षीरं पाययेद्रात्रौ सकणं भोजने ऽपि च । (८७।१)

tatkṣīraṃ pāyayedrātrau sakaṇaṃ bhojane 'pi ca |

87.2८७.२

कूष्माण्डं वर्जयेच्चिञ्चां वृन्ताकं कर्कटीम् अपि ॥ (८७।२)

kūṣmāṇḍaṃ varjayecciñcāṃ vṛntākaṃ karkaṭīm api ||

88.1८८.१

आरनालं च तैलं च संसर्गं च विवर्जयेत् । (८८।१)

āranālaṃ ca tailaṃ ca saṃsargaṃ ca vivarjayet |

88.2८८.२

मासत्रयं च सेवेत कासश्वासनिवृत्तये ॥ (८८।२)

māsatrayaṃ ca seveta kāsaśvāsanivṛttaye ||

89.1८९.१

सजीरहिङ्गुकव्योषैः शमयेद् ग्रहणीं रसः । (८९।१)

sajīrahiṅgukavyoṣaiḥ śamayed grahaṇīṃ rasaḥ |

89.2८९.२

दशमूलाम्भसा वातज्वरं त्रिकटुना कफम् ॥ (८९।२)

daśamūlāmbhasā vātajvaraṃ trikaṭunā kapham ||

90.1९०.१

ज्वरं मधुकसारेण पञ्चकोलेन सर्वजम् । (९०।१)

jvaraṃ madhukasāreṇa pañcakolena sarvajam |

90.2९०.२

यक्ष्माणं मधुपिप्पल्या गोमूत्रेण गुदाङ्कुरान् ॥ (९०।२)

yakṣmāṇaṃ madhupippalyā gomūtreṇa gudāṅkurān ||

91.1९१.१

शूलम् एरण्डतैलेन पाण्डुशोफं सगुग्गुलुः । (९१।१)

śūlam eraṇḍatailena pāṇḍuśophaṃ sagugguluḥ |

91.2९१.२

कुष्ठानि भृङ्गभल्लातवाकुची पञ्चनिम्बकैः ॥ (९१।२)

kuṣṭhāni bhṛṅgabhallātavākucī pañcanimbakaiḥ ||

92.1९२.१

धत्तूरबीजसंयोगान्मेहोन्मादविनाशिनी । (९२।१)

dhattūrabījasaṃyogānmehonmādavināśinī |

92.2९२.२

अपस्मारं निहन्त्याशु व्योषनिम्बुदलैः सह ॥ (९२।२)

apasmāraṃ nihantyāśu vyoṣanimbudalaiḥ saha ||

93.1९३.१

स्तनंधयशिशूनां तु रसोऽयं नितरां हितः । (९३।१)

stanaṃdhayaśiśūnāṃ tu raso'yaṃ nitarāṃ hitaḥ |

93.2९३.२

पथ्याक्षचूर्णादिवशाद् व्याधींश् चान्यान् सुदुस्तरान् ॥ (९३।२)

pathyākṣacūrṇādivaśād vyādhīṃś cānyān sudustarān ||

94.1९४.१

सजातीफलशीतोदं योजयेत्पर्पटीरसम् । (९४।१)

sajātīphalaśītodaṃ yojayetparpaṭīrasam |

94.2९४.२

पित्ताजीर्णे शिरश् चास्य शीततोयेन सेचयेत् ॥ (९४।२)

pittājīrṇe śiraś cāsya śītatoyena secayet ||

95.1९५.१

नस्यं निष्ठीवनं धूमं तीक्ष्णं वमनरेचनम् । (९५।१)

nasyaṃ niṣṭhīvanaṃ dhūmaṃ tīkṣṇaṃ vamanarecanam |

95.2९५.२

अन्नं रूक्षाल्पतीक्ष्णोष्णं कटुतिक्तकषायकम् । (९५।२)

annaṃ rūkṣālpatīkṣṇoṣṇaṃ kaṭutiktakaṣāyakam |

95.3९५.३

चिरकालस्थितं मद्यं योजयेत्कफरोगिणे ॥ (९५।३)

cirakālasthitaṃ madyaṃ yojayetkapharogiṇe ||

Data courtesy of The Digital Corpus of Sanskrit.

RRS, 13

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit