रसरत्नसमुच्चयRasaratnasamuccaya
RRS, 16
Select a line for its word-by-word analysis.
रूक्षैः कोद्रवजीर्णमुद्गचणकैः क्रुद्धोऽनिलोऽधो वहन् रुद्ध्वा वर्त्म मलं विशोष्य कुरुते विण्मूत्रसंगं ततः । (१।१)
rūkṣaiḥ kodravajīrṇamudgacaṇakaiḥ kruddho'nilo'dho vahan ruddhvā vartma malaṃ viśoṣya kurute viṇmūtrasaṃgaṃ tataḥ |
हृत्पृष्ठोदरवस्तिमस्तकरुजः सश्वासकासं ज्वरं गच्छन्नूर्ध्वमसौ हि नूनम् अनिशं कोपादुदावर्तयेत् ॥ (१।२)
hṛtpṛṣṭhodaravastimastakarujaḥ saśvāsakāsaṃ jvaraṃ gacchannūrdhvamasau hi nūnam aniśaṃ kopādudāvartayet ||
कंकुष्ठहिंगुसिंधूत्थत्रिवृद्दंतीवचाभयाः । (२।१)
kaṃkuṣṭhahiṃgusiṃdhūtthatrivṛddaṃtīvacābhayāḥ |
चित्रकस्य तु मूलं च कल्कीकृत्य पचेद् घृतम् ॥ (२।२)
citrakasya tu mūlaṃ ca kalkīkṛtya paced ghṛtam ||
चतुर्गुणे गवां क्षीरे युक्तं स्नुक्क्षीरमात्रया । (३।१)
caturguṇe gavāṃ kṣīre yuktaṃ snukkṣīramātrayā |
अतिसारःअत्यम्बुपानतिलपिष्टविरूढरूक्षशुष्कामिषाध्यशनबद्धमलग्रहाद्यैः । (४।१)
atisāraḥatyambupānatilapiṣṭavirūḍharūkṣaśuṣkāmiṣādhyaśanabaddhamalagrahādyaiḥ |
क्रुद्धोऽनिलो ऽतिसरणाय च कल्पतेऽग्निं हत्वा मलं शिथिलयन्नपि तोयधातून् ॥ (४।२)
kruddho'nilo 'tisaraṇāya ca kalpate'gniṃ hatvā malaṃ śithilayannapi toyadhātūn ||
दर्दुररसःसुश्लक्ष्णतीक्ष्णचूर्णं तु रसेन्द्रसमभागिकम् । (५।१)
dardurarasaḥsuślakṣṇatīkṣṇacūrṇaṃ tu rasendrasamabhāgikam |
पिष्टः समेन तीक्ष्णेन काञ्चनारांबुमर्दितः । (६।१)
piṣṭaḥ samena tīkṣṇena kāñcanārāṃbumarditaḥ |
पुटपक्वोऽतिसारघ्नः सूतोऽयं दर्दुराह्वयः ॥ (६।२)
puṭapakvo'tisāraghnaḥ sūto'yaṃ dardurāhvayaḥ ||
गुंजैकां वार्धगुञ्जां वा बलं ज्ञात्वा प्रदापयेत् । (८।१)
guṃjaikāṃ vārdhaguñjāṃ vā balaṃ jñātvā pradāpayet |
चूर्णितं कर्षमात्रं तु त्रिदोषोत्थातिसारजित् । (९।१)
cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit |
दध्यन्नं दापयेत्पथ्यं गवाज्यं तक्रमेव वा । (९।२)
dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva vā |
सुधासाररसःपृथक्पलिकगंधाश्मसूतसंजातकज्जलीम् । (१०।१)
sudhāsārarasaḥpṛthakpalikagaṃdhāśmasūtasaṃjātakajjalīm |
प्रद्राव्य निक्षिपेद्व्योम पलैकं गतचन्द्रिकम् ॥ (१०।२)
pradrāvya nikṣipedvyoma palaikaṃ gatacandrikam ||
काष्ठेनालोड्य तत्सर्वं क्षिपेत्कुटजपत्रके । (११।१)
kāṣṭhenāloḍya tatsarvaṃ kṣipetkuṭajapatrake |
पुनः संचूर्ण्य यत्नेन भावयेत् तदनन्तरम् ॥ (११।२)
punaḥ saṃcūrṇya yatnena bhāvayet tadanantaram ||
बालतिन्दुफलद्रावैः क्षीरैरौदुंबरैस् तथा । (१२।१)
bālatinduphaladrāvaiḥ kṣīrairauduṃbarais tathā |
अरलुत्वग्रसैश्चापि दुग्धिनीस्वरसैस्तथा ॥ (१२।२)
aralutvagrasaiścāpi dugdhinīsvarasaistathā ||
पुटपक्वस्य बालस्य दाडिमस्य रसैः शुभैः । (१३।१)
puṭapakvasya bālasya dāḍimasya rasaiḥ śubhaiḥ |
तुल्यांशविश्वगांधारीचूर्णं द्विपलिकं क्षिपेत् । (१४।१)
tulyāṃśaviśvagāṃdhārīcūrṇaṃ dvipalikaṃ kṣipet |
वत्सनाभं च कर्षांशं प्रत्येकं तत्र निक्षिपेत् । (१५।१)
vatsanābhaṃ ca karṣāṃśaṃ pratyekaṃ tatra nikṣipet |
विचूर्ण्य भावयेद्भूयः शुण्ठीक्वाथेन सप्तधा ॥ (१५।२)
vicūrṇya bhāvayedbhūyaḥ śuṇṭhīkvāthena saptadhā ||
इत्थं सिद्धो रसः पिष्टः करण्डे विनिवेशयेत् । (१६।१)
itthaṃ siddho rasaḥ piṣṭaḥ karaṇḍe viniveśayet |
सातिसारां विषूचीं च प्रतिबध्नाति तत्क्षणात् । (१८।२)
sātisārāṃ viṣūcīṃ ca pratibadhnāti tatkṣaṇāt |
रसोत्तमःपिष्टविश्वाब्दकल्केन विधाय खलु चक्रिकाम् । (१९।१)
rasottamaḥpiṣṭaviśvābdakalkena vidhāya khalu cakrikām |
निक्षिपेत् स्वेदनीयन्त्रे पक्त्वार्धघटिकावधि ॥ (१९।२)
nikṣipet svedanīyantre paktvārdhaghaṭikāvadhi ||
आकृष्य तज्जलैरेवं संप्रमर्द्याहरेद् रसम् । (२०।१)
ākṛṣya tajjalairevaṃ saṃpramardyāhared rasam |
सुधासाररसं तत्र क्षिप्त्वा धान्यकसंमितम् ॥ (२०।२)
sudhāsārarasaṃ tatra kṣiptvā dhānyakasaṃmitam ||
गोतक्रेणाथ दध्ना वा पथ्यं देयं हितं मितम् ॥ (२१।२)
gotakreṇātha dadhnā vā pathyaṃ deyaṃ hitaṃ mitam ||
आम्रपेशी च मधुकं वृन्ताकं च प्रशस्यते ॥ (२२।२)
āmrapeśī ca madhukaṃ vṛntākaṃ ca praśasyate ||
सर्वातिसारं ग्रहणीं च हिक्कां मन्दाग्निम् आनाहमरोचकं च । (२३।१)
sarvātisāraṃ grahaṇīṃ ca hikkāṃ mandāgnim ānāhamarocakaṃ ca |
निहन्ति सद्यो विहितामपाके द्वित्रिप्रयोगेण रसोत्तमोऽयम् ॥ (२३।२)
nihanti sadyo vihitāmapāke dvitriprayogeṇa rasottamo'yam ||
सांबुस्थालीमुखाबद्धे वस्त्रे पाक्यं निधाय च । (२४।१)
sāṃbusthālīmukhābaddhe vastre pākyaṃ nidhāya ca |
पिधाय पच्यते यत्र स्वेदनीयन्त्रम् उच्यते ॥ (२४।२)
pidhāya pacyate yatra svedanīyantram ucyate ||
लोकेश्वररसःद्वौ भागौ गंधकस्याष्टौ शंखचूर्णस्य योजयेत् । (२५।१)
lokeśvararasaḥdvau bhāgau gaṃdhakasyāṣṭau śaṃkhacūrṇasya yojayet |
चित्रकस्य द्रवेणैवं शोषयित्वा पुनः पुनः । (२६।१)
citrakasya draveṇaivaṃ śoṣayitvā punaḥ punaḥ |
एकीकृत्य रसेनाथ क्षारं दत्त्वा तदर्धकम् ॥ (२६।२)
ekīkṛtya rasenātha kṣāraṃ dattvā tadardhakam ||
निरुध्य चूर्णलिप्तेऽथ भाण्डे दद्यात्पुटं ततः ॥ (२७।२)
nirudhya cūrṇalipte'tha bhāṇḍe dadyātpuṭaṃ tataḥ ||
ददीत दधिभक्तं च पथ्यं लोकेश्वरे तथा ॥ (२८।३)
dadīta dadhibhaktaṃ ca pathyaṃ lokeśvare tathā ||
लोकनाथरसःमृतपारदभागैकं चत्वारः शुद्धगंधकात् । (२९।१)
lokanātharasaḥmṛtapāradabhāgaikaṃ catvāraḥ śuddhagaṃdhakāt |
यामं च मर्दयेत्खल्ले तेन पूर्वा वराटकाः ॥ (२९।२)
yāmaṃ ca mardayetkhalle tena pūrvā varāṭakāḥ ||
टङ्कणं तु गवां क्षीरैः पिष्ट्वा तेन मुखं लिपेत् । (३०।१)
ṭaṅkaṇaṃ tu gavāṃ kṣīraiḥ piṣṭvā tena mukhaṃ lipet |
वराटानां प्रयत्नेन रुद्ध्वा भाण्डे पुटे पचेत् ॥ (३०।२)
varāṭānāṃ prayatnena ruddhvā bhāṇḍe puṭe pacet ||
स्वाङ्गशीतं समुद्धृत्य ततश्चूर्ण्य वराटकाः । (३१।१)
svāṅgaśītaṃ samuddhṛtya tataścūrṇya varāṭakāḥ |
लोकनाथरसो नाम्ना क्षौद्रैर्गुञ्जाचतुष्टयम् ॥ (३१।२)
lokanātharaso nāmnā kṣaudrairguñjācatuṣṭayam ||
कुर्वीत कज्जलीं श्लक्ष्णां प्रक्षिपेत्तदनन्तरम् ॥ (३३।२)
kurvīta kajjalīṃ ślakṣṇāṃ prakṣipettadanantaram ||
द्विपलोन्मितरालायां द्रुतायां परिमिश्रिताम् । (३४।१)
dvipalonmitarālāyāṃ drutāyāṃ parimiśritām |
भृष्टैर् यक्षाक्षसिंधूत्थवचाव्योषद्विजीरकैः ॥ (३४।२)
bhṛṣṭair yakṣākṣasiṃdhūtthavacāvyoṣadvijīrakaiḥ ||
सपथ्याविजयादीप्यैस् तुल्यांशैर् अवचूर्णितैः । (३५।१)
sapathyāvijayādīpyais tulyāṃśair avacūrṇitaiḥ |
मेलयेत्प्राक्तनं कल्कं भावयेत्तदनन्तरम् ॥ (३५।२)
melayetprāktanaṃ kalkaṃ bhāvayettadanantaram ||
रसैर् नागबलायाश्च गुडूच्याश्च त्रिधा त्रिधा । (३६।२)
rasair nāgabalāyāśca guḍūcyāśca tridhā tridhā |
हन्यादेव हि नागसुन्दररसो वल्लोन्मितः सेवितः । (३७।१)
hanyādeva hi nāgasundararaso vallonmitaḥ sevitaḥ |
नानातीसरणामयं गुदपरिभ्रंशं तथा बिंबिशिम् ॥ (३७।२)
nānātīsaraṇāmayaṃ gudaparibhraṃśaṃ tathā biṃbiśim ||
षण्निष्कतैलम्षण्निष्कं तिलतैलस्य निष्कं जम्बीरजं रसम् । (३८।१)
ṣaṇniṣkatailamṣaṇniṣkaṃ tilatailasya niṣkaṃ jambīrajaṃ rasam |
लवणं पञ्चगुञ्जं च अंगुल्या मर्दयेद् दृढम् । (३८।२)
lavaṇaṃ pañcaguñjaṃ ca aṃgulyā mardayed dṛḍham |
आमवातार्तसारघ्नं लिहेत्पथ्यं च पूर्ववत् ॥ (३८।३)
āmavātārtasāraghnaṃ lihetpathyaṃ ca pūrvavat ||
संग्रहणीमलं संगृह्य संगृह्य कदाचिद् अतिरेचयेत् । (३९।१)
saṃgrahaṇīmalaṃ saṃgṛhya saṃgṛhya kadācid atirecayet |
अरुचिः श्वयथुर् मान्द्यं ग्रहणीरोगलक्षणम् ॥ (३९।२)
aruciḥ śvayathur māndyaṃ grahaṇīrogalakṣaṇam ||
वज्रकपाटरसःमृतसूताभ्रकं गन्धं यवक्षारं सटङ्कणम् । (४०।१)
vajrakapāṭarasaḥmṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam |
वचा जया समं सर्वं जयन्ती भृंगजद्रवैः ॥ (४०।२)
vacā jayā samaṃ sarvaṃ jayantī bhṛṃgajadravaiḥ ||
सजंबीरैस्त्र्यहं मर्द्यं शोषयेत्तं च गोलकम् । (४१।१)
sajaṃbīraistryahaṃ mardyaṃ śoṣayettaṃ ca golakam |
मन्दवह्नौ शनैः स्वेद्यं यामार्धं लौहपात्रके ॥ (४१।२)
mandavahnau śanaiḥ svedyaṃ yāmārdhaṃ lauhapātrake ||
भावयेद्विजयाद्रावैः शोष्यं पेष्यंच सप्तधा । (४२।२)
bhāvayedvijayādrāvaiḥ śoṣyaṃ peṣyaṃca saptadhā |
रसो वज्रकपाटोऽयं निष्कार्धं मधुना लिहेत् ॥ (४२।३)
raso vajrakapāṭo'yaṃ niṣkārdhaṃ madhunā lihet ||
अग्निकुमाररसःदग्धां कपर्दिकां पिष्ट्वा त्र्यूषणं टङ्कणं विषम् । (४३।१)
agnikumārarasaḥdagdhāṃ kapardikāṃ piṣṭvā tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam |
गन्धकं शुद्धसूतं च तुल्यं जम्बीरजैर् द्रवैः ॥ (४३।२)
gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajair dravaiḥ ||
निहन्ति ग्रहणीरोगं पथ्यं तक्रौदनं हितम् ॥ (४४।२)
nihanti grahaṇīrogaṃ pathyaṃ takraudanaṃ hitam ||
हिङ्गुलं मरिचं गन्धं पिप्पली टङ्कणं विषम् । (४५।१)
hiṅgulaṃ maricaṃ gandhaṃ pippalī ṭaṅkaṇaṃ viṣam |
भक्षयेद् ग्रहणीं हन्ति रसः कनकसुन्दरः ॥ (४६।२)
bhakṣayed grahaṇīṃ hanti rasaḥ kanakasundaraḥ ||
अग्निमान्द्यं ज्वरं तीव्रमतिसारं च नाशयेत् । (४७।१)
agnimāndyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet |
दध्यन्नं दापयेत्पथ्यं गव्याजं तक्रमेव वा ॥ (४७।२)
dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva vā ||
ग्रहणीहररसःरसाभ्रगन्धाः क्रमवृद्धभागा जयारसेन त्रिदिनं विमर्द्याः । (४८।१)
grahaṇīhararasaḥrasābhragandhāḥ kramavṛddhabhāgā jayārasena tridinaṃ vimardyāḥ |
गद्याणकार्धं मधुना समेतं ददीत पथ्यं दधिभक्तकं च ॥ (४८।२)
gadyāṇakārdhaṃ madhunā sametaṃ dadīta pathyaṃ dadhibhaktakaṃ ca ||
हिंगुलस्थितमहेश्वरबीजं पातयन्त्रविधिना हरणीयम् । (४९।१)
hiṃgulasthitamaheśvarabījaṃ pātayantravidhinā haraṇīyam |
गंधटंकणमृताभ्रकतुल्यं कोकिलाक्षम् अथ चायसखल्ले ॥ (४९।२)
gaṃdhaṭaṃkaṇamṛtābhrakatulyaṃ kokilākṣam atha cāyasakhalle ||
मर्दनीयम् अभिधारणयुक्ते धूमहीनदहनोपरि संस्थे । (५०।१)
mardanīyam abhidhāraṇayukte dhūmahīnadahanopari saṃsthe |
यावदेष जलशोषणदक्षो जीरकार्द्रकयुतेन स वल्लः ॥ (५०।२)
yāvadeṣa jalaśoṣaṇadakṣo jīrakārdrakayutena sa vallaḥ ||
संग्रहज्वरम् अतिस्रुतिगुल्मान् अर्शसां च विनिहन्ति समूहम् । (५१।१)
saṃgrahajvaram atisrutigulmān arśasāṃ ca vinihanti samūham |
वासुदेवकथितो रसराजश् चण्डसंग्रहगदैककपाटः ॥ (५१।२)
vāsudevakathito rasarājaś caṇḍasaṃgrahagadaikakapāṭaḥ ||
लघुसिद्धाभ्रकरसःसमांशं रसगंधाभ्रदरदं च विशोधितम् । (५२।१)
laghusiddhābhrakarasaḥsamāṃśaṃ rasagaṃdhābhradaradaṃ ca viśodhitam |
लोहखल्ले विनिक्षिप्य गव्याज्येन समन्वितम् ॥ (५२।२)
lohakhalle vinikṣipya gavyājyena samanvitam ||
द्रोणीचुल्ल्यां न्यसेत्खल्लं साङ्गारायां प्रयत्नतः । (५३।१)
droṇīcullyāṃ nyasetkhallaṃ sāṅgārāyāṃ prayatnataḥ |
इति सिद्धो रसेंद्रोऽयं लघुसिद्धाभ्रको मतः । (५४।१)
iti siddho raseṃdro'yaṃ laghusiddhābhrako mataḥ |
सर्वरोगरसःरसं पलमितं तुल्यं शुद्धनागेन संयुतम् । (५७।१)
sarvarogarasaḥrasaṃ palamitaṃ tulyaṃ śuddhanāgena saṃyutam |
द्रावयित्वायसे पात्रे सतैले निक्षिपेत्क्षितौ ॥ (५७।२)
drāvayitvāyase pātre sataile nikṣipetkṣitau ||
ततो द्रुते विनिक्षिप्य गंधके तद् विलोड्य च । (५८।१)
tato drute vinikṣipya gaṃdhake tad viloḍya ca |
पुनरायसपात्रे तत्क्षिप्त्वा प्रद्राव्य निक्षिपेत् ॥ (५८।२)
punarāyasapātre tatkṣiptvā pradrāvya nikṣipet ||
तत्तुल्यं जारयेत्तालं पुनः संचूर्ण्य पूर्ववत् । (५९।१)
tattulyaṃ jārayettālaṃ punaḥ saṃcūrṇya pūrvavat |
तत्तुल्यां जारयेत्सम्यक्कुनटीं परिशोधिताम् ॥ (५९।२)
tattulyāṃ jārayetsamyakkunaṭīṃ pariśodhitām ||
तत्तुल्यं चूर्णिते तस्मिन्क्षिपेन्नागं निरुत्थकम् । (६०।१)
tattulyaṃ cūrṇite tasminkṣipennāgaṃ nirutthakam |
तावदेव मृतं ताप्यं सर्वमन्यच्च तत्समम् ॥ (६०।२)
tāvadeva mṛtaṃ tāpyaṃ sarvamanyacca tatsamam ||
तीक्ष्णायः खर्परं व्योम हिंगुलं च शिलाजतु । (६१।१)
tīkṣṇāyaḥ kharparaṃ vyoma hiṃgulaṃ ca śilājatu |
पृथक्कर्षांशमानेन षट्कोलं कट्फलं मिशीम् ॥ (६१।२)
pṛthakkarṣāṃśamānena ṣaṭkolaṃ kaṭphalaṃ miśīm ||
तुंबरुं भार्ङ्गिकां रास्नां कङ्कोलं चोरपुष्करम् ॥ (६२।२)
tuṃbaruṃ bhārṅgikāṃ rāsnāṃ kaṅkolaṃ corapuṣkaram ||
रिङ्गिणीं चिरतिक्तं च बीजान्युन्मत्तकस्य च । (६३।१)
riṅgiṇīṃ ciratiktaṃ ca bījānyunmattakasya ca |
पलद्वयं च लांगल्याः सर्वेषां द्वादशांशकम् ॥ (६३।२)
paladvayaṃ ca lāṃgalyāḥ sarveṣāṃ dvādaśāṃśakam ||
वत्सनाभं सितं भूरि विनिक्षिप्य ततः परम् । (६४।१)
vatsanābhaṃ sitaṃ bhūri vinikṣipya tataḥ param |
त्रिफलानां दशाङ्घ्रीणां कषायेण ततः परम् ॥ (६४।२)
triphalānāṃ daśāṅghrīṇāṃ kaṣāyeṇa tataḥ param ||
जयन्त्यार्द्रकवासानां मार्कवस्य रसैस्तथा । (६५।१)
jayantyārdrakavāsānāṃ mārkavasya rasaistathā |
एकैका वटिका सेव्या कुर्यात्तीव्रतरां क्षुधाम् । (६६।१)
ekaikā vaṭikā sevyā kuryāttīvratarāṃ kṣudhām |
विषूचीमरतिं हिक्कां सेव्यं स्वादु च शीतलम् ॥ (६६।२)
viṣūcīmaratiṃ hikkāṃ sevyaṃ svādu ca śītalam ||
सामां च ग्रहणीं सदाङ्गतुदनं शोषोत्कटं पाण्डुताम् आर्तिं वातकफत्रिदोषजनितां शूलं च गुल्मामयम् । (६७।१)
sāmāṃ ca grahaṇīṃ sadāṅgatudanaṃ śoṣotkaṭaṃ pāṇḍutām ārtiṃ vātakaphatridoṣajanitāṃ śūlaṃ ca gulmāmayam |
हिक्काध्मानविषूचिकां च कसनं श्वासार्शसां विद्रधिं सर्वारोप्यवटी क्षणाद्विजयते रोगांस्तथान्यानपि ॥ (६७।२)
hikkādhmānaviṣūcikāṃ ca kasanaṃ śvāsārśasāṃ vidradhiṃ sarvāropyavaṭī kṣaṇādvijayate rogāṃstathānyānapi ||
ग्रहणीगजकेसरीरसःरसगंधकयोः कृत्वा कज्जलीं तुल्यभागयोः । (६८।१)
grahaṇīgajakesarīrasaḥrasagaṃdhakayoḥ kṛtvā kajjalīṃ tulyabhāgayoḥ |
द्रावयित्वायसे पात्रे रसतुल्यं विनिक्षिपेत् ॥ (६८।२)
drāvayitvāyase pātre rasatulyaṃ vinikṣipet ||
अक्षमात्रं क्षिपेद्भस्म तत्र माक्षिकसम्भवम् । (७१।१)
akṣamātraṃ kṣipedbhasma tatra mākṣikasambhavam |
सम्यङ्निश्चन्द्रतां नीतं व्योमभस्म पलोन्मितम् ॥ (७१।२)
samyaṅniścandratāṃ nītaṃ vyomabhasma palonmitam ||
विषं विषां च गन्धारीं मोचसारं सजीरकम् । (७२।१)
viṣaṃ viṣāṃ ca gandhārīṃ mocasāraṃ sajīrakam |
सर्वं समांशिकं कृत्वा रसे चार्धांशिकं क्षिपेत् ॥ (७२।२)
sarvaṃ samāṃśikaṃ kṛtvā rase cārdhāṃśikaṃ kṣipet ||
जयंत्या च महाराष्ट्र्या गञ्जाकिन्याश्वगन्धया ॥ (७३।२)
jayaṃtyā ca mahārāṣṭryā gañjākinyāśvagandhayā ||
पञ्चकोलकषायैश्च कुर्याच्चूर्णं ततः परम् । (७४।१)
pañcakolakaṣāyaiśca kuryāccūrṇaṃ tataḥ param |
इत्थं सिद्धो रसः सोऽयं ग्रहणीगजकेसरी ॥ (७४।२)
itthaṃ siddho rasaḥ so'yaṃ grahaṇīgajakesarī ||
नामतो नन्दिना प्रोक्तः कर्मतश्च सुधानिधिः । (७५।१)
nāmato nandinā proktaḥ karmataśca sudhānidhiḥ |
वल्लेन प्रमितश्चायं रसः शुण्ठ्या घृताक्तया ॥ (७५।२)
vallena pramitaścāyaṃ rasaḥ śuṇṭhyā ghṛtāktayā ||
सेवितो ग्रहणीं हन्ति सत्सङ्ग इव विग्रहम् । (७६।१)
sevito grahaṇīṃ hanti satsaṅga iva vigraham |
पथ्यमत्र प्रदातव्यं स्वल्पाज्यं दधितक्रयुक् ॥ (७६।२)
pathyamatra pradātavyaṃ svalpājyaṃ dadhitakrayuk ||
हितं मितं च विशदं लघु ग्राहि रुचिप्रदम् । (७७।१)
hitaṃ mitaṃ ca viśadaṃ laghu grāhi rucipradam |
बध्नन्नपि मलं शीघ्रं नाध्मानं कुरुते नृणाम् ॥ (७८।२)
badhnannapi malaṃ śīghraṃ nādhmānaṃ kurute nṛṇām ||
शीघ्रप्रभावरसःपारदं गन्धकं व्योम तीक्ष्णं तालं मनःशिला । (७९।१)
śīghraprabhāvarasaḥpāradaṃ gandhakaṃ vyoma tīkṣṇaṃ tālaṃ manaḥśilā |
सौवीरमञ्जनं शुद्धं विमलं च समांशकम् ॥ (७९।२)
sauvīramañjanaṃ śuddhaṃ vimalaṃ ca samāṃśakam ||
एभिः कज्जलिकां कृत्वा स्वल्पतैलेन भर्जयेत् । (८०।१)
ebhiḥ kajjalikāṃ kṛtvā svalpatailena bharjayet |
ग्रन्थिकं जीरकं चित्रं दीप्यकं मुस्तकं विषम् ॥ (८०।२)
granthikaṃ jīrakaṃ citraṃ dīpyakaṃ mustakaṃ viṣam ||
विचूर्ण्य पूर्ववत्कल्कं तदर्धेन विनिक्षिपेत् ॥ (८१।२)
vicūrṇya pūrvavatkalkaṃ tadardhena vinikṣipet ||
प्रोक्तेन क्रमयोगेन रसो निष्पद्यते ह्ययम् ॥ (८३।२)
proktena kramayogena raso niṣpadyate hyayam ||
जग्धो विश्वघनाम्बुना स हि रसः शीघ्रप्रभावाभिधो निष्कार्धप्रमितो महाग्रहणिकारोगेऽतिसारामये । (८४।१)
jagdho viśvaghanāmbunā sa hi rasaḥ śīghraprabhāvābhidho niṣkārdhapramito mahāgrahaṇikāroge'tisārāmaye |
आध्माने ग्रहणीभवे रुचिहते वाते च मन्दानले मुक्ते चापि मले पुनश्चलमलाशङ्कासु हिक्कासु च ॥ (८४।२)
ādhmāne grahaṇībhave rucihate vāte ca mandānale mukte cāpi male punaścalamalāśaṅkāsu hikkāsu ca ||
पोटलीरसःकपर्दतुल्यं रसगन्धकल्कं लोहं मृतं टङ्कणकं च तुल्यम् । (८५।१)
poṭalīrasaḥkapardatulyaṃ rasagandhakalkaṃ lohaṃ mṛtaṃ ṭaṅkaṇakaṃ ca tulyam |
जयारसेनैकदिनं विमर्द्य चूर्णेन सम्पिष्य पुटेत्तु भाण्डे ॥ (८५।२)
jayārasenaikadinaṃ vimardya cūrṇena sampiṣya puṭettu bhāṇḍe ||
ददीत तां पोटलिकां च दोषत्रयप्रधानग्रहणीनिवृत्त्यै ॥ (८६।०)
dadīta tāṃ poṭalikāṃ ca doṣatrayapradhānagrahaṇīnivṛttyai ||
वह्निज्वालावटीरसःनष्टपिष्टौ चतुर्माषमेकैकं रसगंधकौ । (८७।१)
vahnijvālāvaṭīrasaḥnaṣṭapiṣṭau caturmāṣamekaikaṃ rasagaṃdhakau |
शोधितं सप्तधा चैव द्विमाषं त्र्यूषणं पृथक् । (८८।१)
śodhitaṃ saptadhā caiva dvimāṣaṃ tryūṣaṇaṃ pṛthak |
त्रिशूली भृंगचाङ्गेरी सातला तीक्ष्णपर्णिका ॥ (८८।२)
triśūlī bhṛṃgacāṅgerī sātalā tīkṣṇaparṇikā ||
श्वेतापराजिता कन्या मत्स्याक्षी ग्रीष्मसुन्दरा । (८९।१)
śvetāparājitā kanyā matsyākṣī grīṣmasundarā |
करिणी कर्णमोटी च रुदंती चित्रकार्द्रकात् ॥ (८९।२)
kariṇī karṇamoṭī ca rudaṃtī citrakārdrakāt ||
धुस्तूरकाकमाचीभ्यां मुसल्याश्च पृथग्रसैः । (९०।१)
dhustūrakākamācībhyāṃ musalyāśca pṛthagrasaiḥ |
मर्दितं द्विपलैः कुर्याद्वटिका माषसंमिता ॥ (९०।२)
marditaṃ dvipalaiḥ kuryādvaṭikā māṣasaṃmitā ||
ग्रहण्यां पर्णखण्डेन व्योषयुक्ता निषेविता । (९१।१)
grahaṇyāṃ parṇakhaṇḍena vyoṣayuktā niṣevitā |
अरुचिं राजयक्ष्माणं मन्दाग्निं सूतिकागदान् । (९१।२)
aruciṃ rājayakṣmāṇaṃ mandāgniṃ sūtikāgadān |
वज्रधररसःरसगंधकताम्राभ्रं क्षारांस्त्रीन्वरुणो वृषम् । (९२।१)
vajradhararasaḥrasagaṃdhakatāmrābhraṃ kṣārāṃstrīnvaruṇo vṛṣam |
अपामार्गस्य च क्षारं लवणं द्विद्विमाषकम् ॥ (९२।२)
apāmārgasya ca kṣāraṃ lavaṇaṃ dvidvimāṣakam ||
चाङ्गेर्या हस्तिशुंड्याश्च रसैः पिष्टं पचेत्पुटे । (९३।१)
cāṅgeryā hastiśuṃḍyāśca rasaiḥ piṣṭaṃ pacetpuṭe |
भक्षयित्वा ततो गुञ्जां ग्रहण्यां कांजिकं पिबेत् ॥ (९३।२)
bhakṣayitvā tato guñjāṃ grahaṇyāṃ kāṃjikaṃ pibet ||
पक्तिशूले च कासे च मन्दाग्नाव् आर्द्रकद्रवम् । (९४।१)
paktiśūle ca kāse ca mandāgnāv ārdrakadravam |
अम्लपित्ते च धारोष्णं क्षीरं वज्रधरो ह्ययम् ॥ (९४।२)
amlapitte ca dhāroṣṇaṃ kṣīraṃ vajradharo hyayam ||
ग्रहणीकपाटरसःरसेंद्रगन्धातिविषाभयाभ्रं क्षारद्वयं मोचरसो वचा च । (९५।१)
grahaṇīkapāṭarasaḥraseṃdragandhātiviṣābhayābhraṃ kṣāradvayaṃ mocaraso vacā ca |
जया च जंबीररसेन पिष्टं पिण्डीकृतं स्याद्ग्रहणीकपाटः ॥ (९५।२)
jayā ca jaṃbīrarasena piṣṭaṃ piṇḍīkṛtaṃ syādgrahaṇīkapāṭaḥ ||
तस्यार्धमाषं मधुना प्रभाते शम्बुकभस्माज्यमधूनि लिह्यात् । (९६।१)
tasyārdhamāṣaṃ madhunā prabhāte śambukabhasmājyamadhūni lihyāt |
सक्षीरिणीजीरकमाणिमन्थतीक्ष्णानि चादौ दधिभोजनं च ॥ (९६।२)
sakṣīriṇījīrakamāṇimanthatīkṣṇāni cādau dadhibhojanaṃ ca ||
सौवर्चलादिचूर्णम्सौवर्चलं जीरकयुग्मधान्यजयायवानी कणनागरं च । (९७।१)
sauvarcalādicūrṇamsauvarcalaṃ jīrakayugmadhānyajayāyavānī kaṇanāgaraṃ ca |
कपित्थसारेण समं प्रगृह्य ददीत चूर्णं निशि तीव्रपित्तैः ॥ (९७।२)
kapitthasāreṇa samaṃ pragṛhya dadīta cūrṇaṃ niśi tīvrapittaiḥ ||
गद्याणमात्रं मधुखण्डयुक्तं तक्रेण युक्तं त्वरुचिप्रशान्त्यै । (९८।१)
gadyāṇamātraṃ madhukhaṇḍayuktaṃ takreṇa yuktaṃ tvarucipraśāntyai |
वातप्रधाने च कफप्रधाने रात्रौ कषायं कुटजस्य दद्यात् ॥ (९८।२)
vātapradhāne ca kaphapradhāne rātrau kaṣāyaṃ kuṭajasya dadyāt ||
मुस्तादिचूर्णम्मुस्तावत्सकपाठाग्निव्योषप्रतिविषाविषम् । (९९।१)
mustādicūrṇammustāvatsakapāṭhāgnivyoṣaprativiṣāviṣam |
वह्निशुंठीबिडं बिल्वं लवणं पेषयेत्समम् । (१००।१)
vahniśuṃṭhībiḍaṃ bilvaṃ lavaṇaṃ peṣayetsamam |
पिबेदुष्णांभसा चानु वातोत्थां ग्रहणीं जयेत् ॥ (१००।२)
pibeduṣṇāṃbhasā cānu vātotthāṃ grahaṇīṃ jayet ||
दग्धशंबूकसिंधूत्थं तुल्यं क्षौद्रेण लेहयेत् । (१०१।१)
dagdhaśaṃbūkasiṃdhūtthaṃ tulyaṃ kṣaudreṇa lehayet |
निष्कैकैकं निहन्त्याशु ग्रहणीरोगम् उत्कटम् ॥ (१०१।२)
niṣkaikaikaṃ nihantyāśu grahaṇīrogam utkaṭam ||
कृशान्वजाजीद्वयमाक्षिकेण कटुत्रयेणापि युतं त्वनुष्णम् । (१०२।१)
kṛśānvajājīdvayamākṣikeṇa kaṭutrayeṇāpi yutaṃ tvanuṣṇam |
चाङ्गेरिकाजीरकयुग्मधान्यं दुग्धेन्दुशाकाय ददीत दध्ना ॥ (१०२।२)
cāṅgerikājīrakayugmadhānyaṃ dugdhenduśākāya dadīta dadhnā ||
अजीर्णम्विरेको जठरे शूलं वमनं च मुहुर्मुहुः । (१०३।१)
ajīrṇamvireko jaṭhare śūlaṃ vamanaṃ ca muhurmuhuḥ |
हस्तपादादिसंकोचः सर्वाजीर्णस्य लक्षणम् ॥ (१०३।२)
hastapādādisaṃkocaḥ sarvājīrṇasya lakṣaṇam ||
अजीर्णकण्टकरसःशुद्धसूतं विषं गन्धं समं सर्वविचूर्णितम् । (१०४।१)
ajīrṇakaṇṭakarasaḥśuddhasūtaṃ viṣaṃ gandhaṃ samaṃ sarvavicūrṇitam |
मरिचं सर्वतुल्यांशं कंटकार्या फलद्रवैः ॥ (१०४।२)
maricaṃ sarvatulyāṃśaṃ kaṃṭakāryā phaladravaiḥ ||
मर्दयेद् भावयेत् सर्वम् एकविंशतिवारकम् । (१०५।१)
mardayed bhāvayet sarvam ekaviṃśativārakam |
वटीं गुञ्जात्रयीं खादेत्सर्वाजीर्णप्रशान्तये ॥ (१०५।२)
vaṭīṃ guñjātrayīṃ khādetsarvājīrṇapraśāntaye ||
अजीर्णकण्टकः सोऽयं रसो हन्ति विषूचिकाम् । (१०६।१)
ajīrṇakaṇṭakaḥ so'yaṃ raso hanti viṣūcikām |
वारिणा तिलपर्ण्युत्थमूलं पिष्ट्वा पिबेदनु ॥ (१०६।२)
vāriṇā tilaparṇyutthamūlaṃ piṣṭvā pibedanu ||
विध्वंसरसःविमर्द्य गन्धोपलटंकणेन संभाव्य वारानथ सप्तजात्याः । (१०७।१)
vidhvaṃsarasaḥvimardya gandhopalaṭaṃkaṇena saṃbhāvya vārānatha saptajātyāḥ |
तोयैः फलानामथ सिद्धसूतो विध्वंसनामा शमनो विषूच्याः ॥ (१०७।२)
toyaiḥ phalānāmatha siddhasūto vidhvaṃsanāmā śamano viṣūcyāḥ ||
अमुष्य गुञ्जा नव दापनीया हन्तुं विषूचीं सितया समेताः । (१०८।१)
amuṣya guñjā nava dāpanīyā hantuṃ viṣūcīṃ sitayā sametāḥ |
तक्रौदनं स्यादिह भोजनाय पथ्यं च शाकं किल वास्तुकस्य ॥ (१०८।२)
takraudanaṃ syādiha bhojanāya pathyaṃ ca śākaṃ kila vāstukasya ||
विषूचीविजयरसःरसगंधटंकभसितं समांशकं परिमर्द्य जातिफलसप्तभावितम् । (१०९।१)
viṣūcīvijayarasaḥrasagaṃdhaṭaṃkabhasitaṃ samāṃśakaṃ parimardya jātiphalasaptabhāvitam |
सितयोपयुज्य नवरक्तिकोन्मितं मथितान्नभुग्विजयते विषूचिकाम् ॥ (१०९।२)
sitayopayujya navaraktikonmitaṃ mathitānnabhugvijayate viṣūcikām ||
अग्निकुमाररसःहंसपादीरसैः सिद्धं रसगंधकयोः पलम् । (११०।१)
agnikumārarasaḥhaṃsapādīrasaiḥ siddhaṃ rasagaṃdhakayoḥ palam |
कोलं च विषचूर्णस्य वालुकायंत्रपाचितम् ॥ (११०।२)
kolaṃ ca viṣacūrṇasya vālukāyaṃtrapācitam ||
शाणं विषस्यार्धपलं मरिचस्य विमिश्रयेत् । (१११।१)
śāṇaṃ viṣasyārdhapalaṃ maricasya vimiśrayet |
दीपनोऽग्निकुमारोऽयं ग्रहण्यां च विशेषतः ॥ (१११।२)
dīpano'gnikumāro'yaṃ grahaṇyāṃ ca viśeṣataḥ ||
सवातश्लेष्मजान्रोगान्क्षणाद् एवापकर्षति । (११२।१)
savātaśleṣmajānrogānkṣaṇād evāpakarṣati |
सन्निपातज्वरश्वासक्षयकासांश्च नाशयेत् ॥ (११२।२)
sannipātajvaraśvāsakṣayakāsāṃśca nāśayet ||
वडबाग्निरसःटंकणं मरिचं तुत्थं पृथक् कर्षत्रयं भवेत् । (११३।१)
vaḍabāgnirasaḥṭaṃkaṇaṃ maricaṃ tutthaṃ pṛthak karṣatrayaṃ bhavet |
सुन्दरं द्वादशं निष्कं त्रिंशन्निष्कम् अयोमलम् ॥ (११३।२)
sundaraṃ dvādaśaṃ niṣkaṃ triṃśanniṣkam ayomalam ||
चूर्णान्येतानि संयोज्य स्थापयेच्छुद्धभाजने । (११४।१)
cūrṇānyetāni saṃyojya sthāpayecchuddhabhājane |
शुद्धदेहो नरस्तस्य पानं यद्भोजनोत्तरम् ॥ (११४।२)
śuddhadeho narastasya pānaṃ yadbhojanottaram ||
अद्यात्पथ्यं ततः स्वल्पं ततस्तांबूलभाग्भवेत् । (११५।१)
adyātpathyaṃ tataḥ svalpaṃ tatastāṃbūlabhāgbhavet |
कान्तं पद्मरसे घृष्टं पुटपक्वं वरारसे । (११६।१)
kāntaṃ padmarase ghṛṣṭaṃ puṭapakvaṃ varārase |
मार्कवस्वरसे घृष्टं सप्तकृत्वस् त्वयोमलम् ॥ (११६।२)
mārkavasvarase ghṛṣṭaṃ saptakṛtvas tvayomalam ||
शुद्धौ सूतबली चराचररजः कर्षांशतः कज्जलीम् कृत्वा गोपयसा विमर्द्य दिवसं रुद्ध्वा च मूषोदरे । (११७।१)
śuddhau sūtabalī carācararajaḥ karṣāṃśataḥ kajjalīm kṛtvā gopayasā vimardya divasaṃ ruddhvā ca mūṣodare |
सिद्धं कुम्भपुटे स्वतश्च शिशिरा पिष्टा करण्डे स्थिता स्याद् वैश्वानरपोटलीति कथिता तीव्राग्निदीप्तिप्रदा ॥ (११७।२)
siddhaṃ kumbhapuṭe svataśca śiśirā piṣṭā karaṇḍe sthitā syād vaiśvānarapoṭalīti kathitā tīvrāgnidīptipradā ||
एकोनविंशतेश्चूर्णैर्मरिचानां घृतान्वितैः । (११८।१)
ekonaviṃśateścūrṇairmaricānāṃ ghṛtānvitaiḥ |
देयेयं वल्लमानेन वयोबलम् अवेक्ष्यताम् ॥ (११८।२)
deyeyaṃ vallamānena vayobalam avekṣyatām ||
गिलेद् गलविशुद्ध्यर्थं दधिभक्तमनुत्तमम् । (११९।१)
giled galaviśuddhyarthaṃ dadhibhaktamanuttamam |
मध्यंदिने ततो भोज्यं घृततक्रोपदंशयुक् । (१२०।१)
madhyaṃdine tato bhojyaṃ ghṛtatakropadaṃśayuk |
रात्रौ च पयसा सार्धं यद्वा रोगानुसारतः ॥ (१२०।२)
rātrau ca payasā sārdhaṃ yadvā rogānusārataḥ ||
बिल्वं च कारवेल्लं च वृंताकं कांजिकं त्यजेत् ॥ (१२१।२)
bilvaṃ ca kāravellaṃ ca vṛṃtākaṃ kāṃjikaṃ tyajet ||
इयं हि पोटली प्रोक्ता सिङ्घणेन महीभृता । (१२२।१)
iyaṃ hi poṭalī proktā siṅghaṇena mahībhṛtā |
सिंघणस्य विनिर्दिष्टा भैरवानंदयोगिना । (१२३।१)
siṃghaṇasya vinirdiṣṭā bhairavānaṃdayoginā |
पोटल्यो दीपनाः स्निग्धा मंदाग्नौ नितरां हिताः ॥ (१२३।३)
poṭalyo dīpanāḥ snigdhā maṃdāgnau nitarāṃ hitāḥ ||
पीतवर्णा गुरुस्निग्धा पृष्ठतो ग्रन्थिलामला । (१२४।१)
pītavarṇā gurusnigdhā pṛṣṭhato granthilāmalā |
चराचरेति सा प्रोक्ता वराटी नंदिना खलु ॥ (१२४।२)
carācareti sā proktā varāṭī naṃdinā khalu ||
सार्धनिष्कमिता श्रेष्ठा मध्यमा निष्कमानिका । (१२५।१)
sārdhaniṣkamitā śreṣṭhā madhyamā niṣkamānikā |
निष्फलाश्च ततो न्यूनाः पुंवराटाश्च पित्तलाः । (१२६।१)
niṣphalāśca tato nyūnāḥ puṃvarāṭāśca pittalāḥ |
दत्त्वा दत्त्वा गुणान्भूयो विकारान्कुर्वते हि ते ॥ (१२६।२)
dattvā dattvā guṇānbhūyo vikārānkurvate hi te ||
वडवामुखी गुटीशुल्बायोघनभस्मवेल्लहलिनीव्योषाम्बुनिम्बच्छदैः संयुक्तैश्च हरिद्रया समलवैः सार्धं सशुभ्रामृतैः । (१२७।१)
vaḍavāmukhī guṭīśulbāyoghanabhasmavellahalinīvyoṣāmbunimbacchadaiḥ saṃyuktaiśca haridrayā samalavaiḥ sārdhaṃ saśubhrāmṛtaiḥ |
भृङ्गाम्भोविषतिन्दुकार्द्रकरसैः सम्पिष्य गुंजामिता संशुष्का वडवामुखीति गुटिका नाम्नोदिता तारया ॥ (१२७।२)
bhṛṅgāmbhoviṣatindukārdrakarasaiḥ sampiṣya guṃjāmitā saṃśuṣkā vaḍavāmukhīti guṭikā nāmnoditā tārayā ||
क्षिप्रं क्षुत्परिबोधिनी खलु मता सर्वामयध्वंसिनी श्लेष्मव्याधिविधूननी कसनहृच्छ्वासापहा शूलनुत् क्षुद्वैषम्यहरा च गुल्मशमनी मूलार्तिमूलंकषा शोफव्याधिहरात्र किं बहुगिरा सर्वामयोत्सादिनी ॥ (१२८।०)
kṣipraṃ kṣutparibodhinī khalu matā sarvāmayadhvaṃsinī śleṣmavyādhividhūnanī kasanahṛcchvāsāpahā śūlanut kṣudvaiṣamyaharā ca gulmaśamanī mūlārtimūlaṃkaṣā śophavyādhiharātra kiṃ bahugirā sarvāmayotsādinī ||
क्रव्यादरसःद्विपलं गन्धकं शुद्धं द्रावयित्वा विनिक्षिपेत् । (१२९।१)
kravyādarasaḥdvipalaṃ gandhakaṃ śuddhaṃ drāvayitvā vinikṣipet |
तोलमानेन संक्षिप्य पञ्चाङ्गुलदले क्षिपेत् । (१३०।१)
tolamānena saṃkṣipya pañcāṅguladale kṣipet |
ततो विचूर्ण्य यत्नेन निक्षिप्यायसभाजने ॥ (१३०।२)
tato vicūrṇya yatnena nikṣipyāyasabhājane ||
चुल्ल्यां निवेश्य यत्नेन ज्वालयेन्मृदुवह्निना । (१३१।१)
cullyāṃ niveśya yatnena jvālayenmṛduvahninā |
पात्रमात्रं हि जंबीररसं सम्यग्विजारयेत् ॥ (१३१।२)
pātramātraṃ hi jaṃbīrarasaṃ samyagvijārayet ||
संचूर्ण्य पञ्चकोलोत्थैः कषायैः साम्लवेतसैः । (१३२।१)
saṃcūrṇya pañcakolotthaiḥ kaṣāyaiḥ sāmlavetasaiḥ |
भावनाः खलु कर्तव्याः पञ्चाशत्प्रमितास्ततः ॥ (१३२।२)
bhāvanāḥ khalu kartavyāḥ pañcāśatpramitāstataḥ ||
तदर्धं कृष्णलवणं सर्वतुल्यं मरीचकम् ॥ (१३३।२)
tadardhaṃ kṛṣṇalavaṇaṃ sarvatulyaṃ marīcakam ||
ततः संशोष्य सम्पिष्य कूपिकाजठरे क्षिपेत् ॥ (१३४।२)
tataḥ saṃśoṣya sampiṣya kūpikājaṭhare kṣipet ||
अत्यर्थं गुरुमांसानि गुरुभोज्यान्यनेकशः । (१३५।१)
atyarthaṃ gurumāṃsāni gurubhojyānyanekaśaḥ |
भुक्त्वा च कंठपर्यन्तं चतुर्वल्लमितं रसम् ॥ (१३५।२)
bhuktvā ca kaṃṭhaparyantaṃ caturvallamitaṃ rasam ||
क्षिप्रं तज्जीर्यते भुक्तं जायते दीपनं पुनः ॥ (१३६।२)
kṣipraṃ tajjīryate bhuktaṃ jāyate dīpanaṃ punaḥ ||
रसः क्रव्यादनामायं प्रोक्तो मन्थानभैरवैः । (१३७।१)
rasaḥ kravyādanāmāyaṃ prokto manthānabhairavaiḥ |
सिंघणक्षोणिपालस्य भूरिमांसप्रियस्य च । (१३७।२)
siṃghaṇakṣoṇipālasya bhūrimāṃsapriyasya ca |
दिष्टो ग्रामं समासाद्य भैरवानन्दयोगिना ॥ (१३७।३)
diṣṭo grāmaṃ samāsādya bhairavānandayoginā ||
कुर्याद्दीपनमुद्धतं च पचनं दुष्टामसंशोषणं तुन्दस्थौल्यनिबर्हणं गरहरं मूलार्तिशूलापहम् । (१३८।१)
kuryāddīpanamuddhataṃ ca pacanaṃ duṣṭāmasaṃśoṣaṇaṃ tundasthaulyanibarhaṇaṃ garaharaṃ mūlārtiśūlāpaham |
गुल्मप्लीहविनाशनं ग्रहणिकाविध्वंसनं स्रंसनं वातग्रन्थिमहोदरापहरणं क्रव्यादनामा रसः ॥ (१३८।२)
gulmaplīhavināśanaṃ grahaṇikāvidhvaṃsanaṃ sraṃsanaṃ vātagranthimahodarāpaharaṇaṃ kravyādanāmā rasaḥ ||
राजशेखरवटीभागो मृतरसस्यैको वत्सनाभांशकद्वयम् । (१३९।१)
rājaśekharavaṭībhāgo mṛtarasasyaiko vatsanābhāṃśakadvayam |
रसतुल्यं शिवाचूर्णं गन्धकं त्र्यूषणं तथा ॥ (१३९।२)
rasatulyaṃ śivācūrṇaṃ gandhakaṃ tryūṣaṇaṃ tathā ||
विचूर्ण्यातिप्रयत्नेन भावयेत्सप्तवासरम् । (१४०।१)
vicūrṇyātiprayatnena bhāvayetsaptavāsaram |
ताम्बूलपत्रतोयेन स्वर्णधुस्तूरजद्रवैः । (१४०।२)
tāmbūlapatratoyena svarṇadhustūrajadravaiḥ |
पिष्ट्वा चणमिताः कुर्याच्छायाशुष्कास्तु गोलिकाः ॥ (१४०।३)
piṣṭvā caṇamitāḥ kuryācchāyāśuṣkāstu golikāḥ ||
उष्णांभोयुतराजशेखरवटी मन्दाग्निनिर्णाशिनी नानाकारमहाज्वरार्तिशमनी निःशेषमूलापहा । (१४१।१)
uṣṇāṃbhoyutarājaśekharavaṭī mandāgninirṇāśinī nānākāramahājvarārtiśamanī niḥśeṣamūlāpahā |
पाण्डुव्याधिमहोदरार्तिशमनी शूलान्तकृत् पाचिनी शोफघ्नी पवनार्तिनाशनपटुः श्लेष्मामयध्वंसिनी ॥ (१४१।२)
pāṇḍuvyādhimahodarārtiśamanī śūlāntakṛt pācinī śophaghnī pavanārtināśanapaṭuḥ śleṣmāmayadhvaṃsinī ||
अग्निकुमाररसःशुद्धं सूतं विषं गंधं द्विक्षारं पटुपञ्चकम् । (१४२।१)
agnikumārarasaḥśuddhaṃ sūtaṃ viṣaṃ gaṃdhaṃ dvikṣāraṃ paṭupañcakam |
दशानां तुल्यभागा च तस्यार्धं शिग्रुमूलकम् । (१४३।१)
daśānāṃ tulyabhāgā ca tasyārdhaṃ śigrumūlakam |
तत्सर्वं विजयाद्रावैः शिग्रुचित्रकभृंगजैः ॥ (१४३।२)
tatsarvaṃ vijayādrāvaiḥ śigrucitrakabhṛṃgajaiḥ ||
द्रावैर् दिनत्रयं मर्द्यं रुद्ध्वा भाण्डे पचेल्लघु । (१४४।१)
drāvair dinatrayaṃ mardyaṃ ruddhvā bhāṇḍe pacellaghu |
दीपाग्निना तु यामैकं शुष्कं यावत्समुद्धरेत् ॥ (१४४।२)
dīpāgninā tu yāmaikaṃ śuṣkaṃ yāvatsamuddharet ||
सप्तधा चार्द्रकद्रावैर्भावयेच्चूर्णयेद्भिषक् । (१४५।१)
saptadhā cārdrakadrāvairbhāvayeccūrṇayedbhiṣak |
दीपकोऽग्निकुमारोऽयं निष्कैकं मधुना लिहेत् । (१४५।२)
dīpako'gnikumāro'yaṃ niṣkaikaṃ madhunā lihet |
प्रतिकर्षं गुडं शुंठी ह्यनुपानं च दीपनम् ॥ (१४५।३)
pratikarṣaṃ guḍaṃ śuṃṭhī hyanupānaṃ ca dīpanam ||
अमृतवटीकुष्ठगंधविषव्योमत्रिफलापारदैः समैः । (१४६।१)
amṛtavaṭīkuṣṭhagaṃdhaviṣavyomatriphalāpāradaiḥ samaiḥ |
मृगाम्बुमर्दितैर् मुद्गमानामृतवटी शुभा । (१४६।२)
mṛgāmbumarditair mudgamānāmṛtavaṭī śubhā |
अजीर्णश्लेष्मवातघ्नी दीपनी रुचिवर्धिनी ॥ (१४६।३)
ajīrṇaśleṣmavātaghnī dīpanī rucivardhinī ||
राक्षसनामा रसःताम्रं पारदगंधकौ त्रिकटुकं तीक्ष्णं च सौवर्चलं खल्ले मर्द्य दृढं विधाय सिकताकुम्भेऽष्टयामं ततः । (१४७।१)
rākṣasanāmā rasaḥtāmraṃ pāradagaṃdhakau trikaṭukaṃ tīkṣṇaṃ ca sauvarcalaṃ khalle mardya dṛḍhaṃ vidhāya sikatākumbhe'ṣṭayāmaṃ tataḥ |
स्विन्नं तस्य च रक्तशाकिनिभवं क्षारं समं मेलयेत् सर्वं भावितमातुलुंगजरसैर्नाम्ना रसो राक्षसः ॥ (१४७।२)
svinnaṃ tasya ca raktaśākinibhavaṃ kṣāraṃ samaṃ melayet sarvaṃ bhāvitamātuluṃgajarasairnāmnā raso rākṣasaḥ ||
मन्दाग्नौ सततं ददीत मुनये प्रातः पुरा शंकरः सख्य अस्मै च्यवनाय मंदहुतभुग्वर्याय नष्टौजसे । (१४८।१)
mandāgnau satataṃ dadīta munaye prātaḥ purā śaṃkaraḥ sakhya asmai cyavanāya maṃdahutabhugvaryāya naṣṭaujase |
तेनादाय समस्तलोकगुरवे सूर्याय तस्मै नमो मर्त्यानामपि चास्य दानसमये गुंजाष्टकं वर्जयेत् ॥ (१४८।२)
tenādāya samastalokagurave sūryāya tasmai namo martyānāmapi cāsya dānasamaye guṃjāṣṭakaṃ varjayet ||
जीवनामा रसःरसगंधौ सिन्धुकणाटङ्कणम् अभयाग्निहियावलीकतकफलम् । (१४९।१)
jīvanāmā rasaḥrasagaṃdhau sindhukaṇāṭaṅkaṇam abhayāgnihiyāvalīkatakaphalam |
क्रमश उत्तरं च विचूर्णितया बृहतीरससंयुतभावनया ॥ (१४९।२)
kramaśa uttaraṃ ca vicūrṇitayā bṛhatīrasasaṃyutabhāvanayā ||
आर्द्रकहिंगुपुनर्नवपूतिच्छिन्नरसैः क्रमशस्तु भावनया । (१५०।१)
ārdrakahiṃgupunarnavapūticchinnarasaiḥ kramaśastu bhāvanayā |
तत्र कलांशविशं च विमिश्रं तद्रसमानं मानविधया ॥ (१५०।२)
tatra kalāṃśaviśaṃ ca vimiśraṃ tadrasamānaṃ mānavidhayā ||
सर्वमजीर्णं कफमारुतपाण्डुशोफहलीमककामलाशूलम् । (१५१।१)
sarvamajīrṇaṃ kaphamārutapāṇḍuśophahalīmakakāmalāśūlam |
नाशयते ह्युदराग्निकरोऽयं दीपनजीवननामरसेन्द्रः ॥ (१५१।२)
nāśayate hyudarāgnikaro'yaṃ dīpanajīvananāmarasendraḥ ||
वडवानलरसःशुल्बं तालकगन्धकौ जलनिधेः फेनो ऽग्निगर्भाशयः कान्तायो लवणानि हेमपवयो नीलांजनं तुत्थकम् । (१५२।१)
vaḍavānalarasaḥśulbaṃ tālakagandhakau jalanidheḥ pheno 'gnigarbhāśayaḥ kāntāyo lavaṇāni hemapavayo nīlāṃjanaṃ tutthakam |
भागो द्वादशको रसस्य तु दिनं वल्ल्यंबुघृष्टं शनैः सिद्धोऽयं वडवानलो गजपुटे रोगानशेषाञ्जयेत् ॥ (१५२।२)
bhāgo dvādaśako rasasya tu dinaṃ vallyaṃbughṛṣṭaṃ śanaiḥ siddho'yaṃ vaḍavānalo gajapuṭe rogānaśeṣāñjayet ||
अग्निजननी वटीकणनागरगन्धकपारदकं गरलं मरिचं समभागयुतम् । (१५३।१)
agnijananī vaṭīkaṇanāgaragandhakapāradakaṃ garalaṃ maricaṃ samabhāgayutam |
लकुचस्य रसैश्चणकप्रमिता गुटिका जनयत्यचिरादनलम् ॥ (१५३।२)
lakucasya rasaiścaṇakapramitā guṭikā janayatyacirādanalam ||
सर्वरोगान्तका वटीशुद्धसूतं विषं गंधम् अजमोदं फलत्रयम् । (१५४।१)
sarvarogāntakā vaṭīśuddhasūtaṃ viṣaṃ gaṃdham ajamodaṃ phalatrayam |
सर्जीक्षारं यवक्षारं वह्निसैन्धवजीरकम् ॥ (१५४।२)
sarjīkṣāraṃ yavakṣāraṃ vahnisaindhavajīrakam ||
सौवर्चलं विडङ्गानि सामुद्रं त्र्यूषणं समम् । (१५५।१)
sauvarcalaṃ viḍaṅgāni sāmudraṃ tryūṣaṇaṃ samam |
विषमुष्टिः सर्वतुल्या जंबीराम्लेन मर्दितम् ॥ (१५५।२)
viṣamuṣṭiḥ sarvatulyā jaṃbīrāmlena marditam ||
मरिचाभां वटीं खादेद्वह्निमांद्यप्रशांतये । (१५६।१)
maricābhāṃ vaṭīṃ khādedvahnimāṃdyapraśāṃtaye |
पथ्या शुण्ठी गुडं चानु पलार्धं भक्षयेत्सदा ॥ (१५६।२)
pathyā śuṇṭhī guḍaṃ cānu palārdhaṃ bhakṣayetsadā ||
अग्निमांद्ये वटी ख्याता सर्वरोगकुलान्तका ॥ (१५७।०)
agnimāṃdye vaṭī khyātā sarvarogakulāntakā ||
सामान्योपायःमृतं ताम्रं कणातुल्यं चूर्णं क्षौद्रविमिश्रितम् । (१५८।१)
sāmānyopāyaḥmṛtaṃ tāmraṃ kaṇātulyaṃ cūrṇaṃ kṣaudravimiśritam |
निष्कार्धं भक्षयेन्नित्यं नष्टवह्निप्रदीप्तये ॥ (१५८।२)
niṣkārdhaṃ bhakṣayennityaṃ naṣṭavahnipradīptaye ||
आर्द्रकस्वरसः क्षौद्रं पलमात्रं पिबेदनु । (१५९।१)
ārdrakasvarasaḥ kṣaudraṃ palamātraṃ pibedanu |
यथेष्टं घृतमांसाशी शक्तो भवति पावकः ॥ (१५९।२)
yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.