रसरत्नसमुच्चयRasaratnasamuccaya
RRS, 14
Select a line for its word-by-word analysis.
अग्निमान्द्यं ज्वरः शैत्यं वान्तिः शोणितपूययोः । (१।१)
agnimāndyaṃ jvaraḥ śaityaṃ vāntiḥ śoṇitapūyayoḥ |
सत्त्वहानिश्च दौर्बल्यं राजरोगस्य लक्षणम् ॥ (१।२)
sattvahāniśca daurbalyaṃ rājarogasya lakṣaṇam ||
तालकं गन्धकं तुत्थं माक्षिकं रसकं शिलाम् ॥ (२।२)
tālakaṃ gandhakaṃ tutthaṃ mākṣikaṃ rasakaṃ śilām ||
रससाम्येन युञ्जीत तुत्थं भस्मीकृतं न्यसेत् । (३।१)
rasasāmyena yuñjīta tutthaṃ bhasmīkṛtaṃ nyaset |
वह्नौ भस्मीकृतं चेत्थं मयूरकसुतुत्थकम् ॥ (३।२)
vahnau bhasmīkṛtaṃ cetthaṃ mayūrakasututthakam ||
किंचिट् टङ्कणकं दत्त्वा मार्जारस्य विशा युतम् । (४।१)
kiṃciṭ ṭaṅkaṇakaṃ dattvā mārjārasya viśā yutam |
प्रथमं पुटयेद् दध्ना द्वितीयं मधुना सह ॥ (४।२)
prathamaṃ puṭayed dadhnā dvitīyaṃ madhunā saha ||
तैले पचेत्ततः सम्यक् चूर्णे वा परिशोधयेत् ॥ (५।२)
taile pacettataḥ samyak cūrṇe vā pariśodhayet ||
जयन्तीद्रवसम्पिष्टां शिलां तत्रैव पाचयेत् । (७।१)
jayantīdravasampiṣṭāṃ śilāṃ tatraiva pācayet |
अगस्तिलाङ्गलीभ्यां च प्रत्येकं दिवसं शनैः ॥ (८।२)
agastilāṅgalībhyāṃ ca pratyekaṃ divasaṃ śanaiḥ ||
चूर्णयित्वा ततः सम्यग् भावयेदार्द्रकाम्बुना ॥ (९।२)
cūrṇayitvā tataḥ samyag bhāvayedārdrakāmbunā ||
गुञ्जाद्वयं त्रयं वास्य राजयक्ष्मापनुत्तये ॥ (१०।२)
guñjādvayaṃ trayaṃ vāsya rājayakṣmāpanuttaye ||
मधुना पिप्पलीभिश्च मरिचैर्वा घृतान्वितैः । (११।१)
madhunā pippalībhiśca maricairvā ghṛtānvitaiḥ |
ददीत शूलिने प्राज्ञो गुल्मिने च विशेषतः ॥ (१२।२)
dadīta śūline prājño gulmine ca viśeṣataḥ ||
कादिवर्ज्यं चरेत्पथ्यं हृद्यं बल्यं च पूर्ववत् । (१३।१)
kādivarjyaṃ caretpathyaṃ hṛdyaṃ balyaṃ ca pūrvavat |
गुडूचीत्रिफलाक्वाथैः संस्कृतो गुग्गुलुर्वरः ॥ (१३।३)
guḍūcītriphalākvāthaiḥ saṃskṛto guggulurvaraḥ ||
राजमृगाङ्करसःरसभस्म त्रयो भागा भागैकं हेमभस्मकम् । (१४।१)
rājamṛgāṅkarasaḥrasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam |
प्रतिभागद्वयं शुद्धमेकीकृत्य विचूर्णयेत् । (१५।१)
pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet |
पिष्ट्वा तेन मुखं रुद्ध्वा मृद्भाण्डे तन्निरोधयेत् । (१६।१)
piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet |
शुद्धं गजपुटे पच्याच्चूर्णयेत्स्वाङ्गशीतलम् ॥ (१६।२)
śuddhaṃ gajapuṭe pacyāccūrṇayetsvāṅgaśītalam ||
रसो राजमृगाङ्कोऽयं चतुर्गुञ्जः क्षयापहः । (१७।१)
raso rājamṛgāṅko'yaṃ caturguñjaḥ kṣayāpahaḥ |
शङ्खेश्वररसःशङ्खस्य वलयान्निष्कं चतुर्निष्कं वराटकम् । (१८।१)
śaṅkheśvararasaḥśaṅkhasya valayānniṣkaṃ caturniṣkaṃ varāṭakam |
निष्कार्धं नीलतुत्थस्य सर्वतुल्यं तु गन्धकम् ॥ (१८।२)
niṣkārdhaṃ nīlatutthasya sarvatulyaṃ tu gandhakam ||
गन्धतुल्यं मृतं नागं नागतुल्यं मृतं रसम् । (१९।१)
gandhatulyaṃ mṛtaṃ nāgaṃ nāgatulyaṃ mṛtaṃ rasam |
टङ्कणं रसतुल्यं स्यान्मर्द्यं पाच्यं मृगाङ्कवत् । (१९।२)
ṭaṅkaṇaṃ rasatulyaṃ syānmardyaṃ pācyaṃ mṛgāṅkavat |
राजयक्ष्महरः सोऽयं नाम्ना शङ्खेश्वरो मतः ॥ (१९।३)
rājayakṣmaharaḥ so'yaṃ nāmnā śaṅkheśvaro mataḥ ||
मृगाङ्कपोटलीरसःशङ्खनाभिं गवां क्षीरैः पेषयेन्निष्कषोडश । (२०।१)
mṛgāṅkapoṭalīrasaḥśaṅkhanābhiṃ gavāṃ kṣīraiḥ peṣayenniṣkaṣoḍaśa |
तेन मूषा प्रकर्तव्या तन्मध्ये भस्मसूतकम् ॥ (२०।२)
tena mūṣā prakartavyā tanmadhye bhasmasūtakam ||
निष्कार्धं गन्धकात्त्रीणि चूर्णीकृत्य विनिक्षिपेत् । (२१।१)
niṣkārdhaṃ gandhakāttrīṇi cūrṇīkṛtya vinikṣipet |
रुद्ध्वा तद्वेष्टयेद्वस्त्रे मृत्तिकां लेपयेद्बहिः ॥ (२१।२)
ruddhvā tadveṣṭayedvastre mṛttikāṃ lepayedbahiḥ ||
शोष्यं गजपुटे पच्यान्मूषया सह चूर्णयेत् । (२२।१)
śoṣyaṃ gajapuṭe pacyānmūṣayā saha cūrṇayet |
गुञ्जैकमनुपानेन क्षयं हन्ति मृगाङ्कवत् ॥ (२२।२)
guñjaikamanupānena kṣayaṃ hanti mṛgāṅkavat ||
हेमगर्भपटोलीरसःद्विनिष्कं भस्म सूतस्य निष्कैकं स्वर्णभस्मकम् । (२३।१)
hemagarbhapaṭolīrasaḥdviniṣkaṃ bhasma sūtasya niṣkaikaṃ svarṇabhasmakam |
शुद्धगन्धकनिष्कौ द्वौ चूर्णयित्वा चित्रकद्रवैः ॥ (२३।२)
śuddhagandhakaniṣkau dvau cūrṇayitvā citrakadravaiḥ ||
द्वियामान्ते विशोष्याथ तेन पूर्या वराटिकाः । (२४।१)
dviyāmānte viśoṣyātha tena pūryā varāṭikāḥ |
वराटान्मृण्मये भाण्डे रुद्ध्वा गजपुटे पचेत् ॥ (२४।२)
varāṭānmṛṇmaye bhāṇḍe ruddhvā gajapuṭe pacet ||
स्वाङ्गशीतं विचूर्ण्याथ पोटलीं हेमगर्भिताम् । (२५।१)
svāṅgaśītaṃ vicūrṇyātha poṭalīṃ hemagarbhitām |
मृगाङ्कवच्चतुर्गुञ्जं भक्षितं राजयक्ष्मनुत् ॥ (२५।२)
mṛgāṅkavaccaturguñjaṃ bhakṣitaṃ rājayakṣmanut ||
स्वयमग्निरसं खादेत्त्रिनिष्कं राजयक्ष्मनुत् ॥ (२६।०)
svayamagnirasaṃ khādettriniṣkaṃ rājayakṣmanut ||
पञ्चामृतरसःभस्मसूताभ्रलोहानां शिलाजतुविषं समम् । (२७।१)
pañcāmṛtarasaḥbhasmasūtābhralohānāṃ śilājatuviṣaṃ samam |
गुडूचीत्रिफलाक्वाथैः संस्कृतं गुग्गुलुं तथा ॥ (२७।२)
guḍūcītriphalākvāthaiḥ saṃskṛtaṃ gugguluṃ tathā ||
एकीकृत्य द्विगुञ्जं तद्भक्षयेद्राजयक्ष्मनुत् ॥ (२८।२)
ekīkṛtya dviguñjaṃ tadbhakṣayedrājayakṣmanut ||
हरेत्क्षीराजगन्धाभ्यां जयन्ती वा क्षयापहा ॥ (३०।०)
haretkṣīrājagandhābhyāṃ jayantī vā kṣayāpahā ||
क्षयशामकरसःतुल्यं पारदगन्धकं त्रिकटुकं ताभ्यां रजः कम्बुजं तैस्तुल्यं च भवेत्कपर्दभसितं स्यात्पारदाट्टङ्कणम् । (३१।१)
kṣayaśāmakarasaḥtulyaṃ pāradagandhakaṃ trikaṭukaṃ tābhyāṃ rajaḥ kambujaṃ taistulyaṃ ca bhavetkapardabhasitaṃ syātpāradāṭṭaṅkaṇam |
पादांशं सकलैः समानमरिचं लिह्यात्क्रमात्साज्यकं यावन्निष्कमितं भवेत्प्रतिदिनं मासात्क्षयः शाम्यति ॥ (३१।२)
pādāṃśaṃ sakalaiḥ samānamaricaṃ lihyātkramātsājyakaṃ yāvanniṣkamitaṃ bhavetpratidinaṃ māsātkṣayaḥ śāmyati ||
लोकनाथरसःरसस्य भस्मना हेम पादांशेन प्रकल्पयेत् । (३२।१)
lokanātharasaḥrasasya bhasmanā hema pādāṃśena prakalpayet |
गन्धकं द्विगुणं दत्त्वा मर्दयेच्चित्रकाम्बुना ॥ (३२।२)
gandhakaṃ dviguṇaṃ dattvā mardayeccitrakāmbunā ||
भाण्डे चूर्णप्रलिप्तेऽथ क्षिप्त्वा रुन्धीत मृत्स्नया ॥ (३३।२)
bhāṇḍe cūrṇapralipte'tha kṣiptvā rundhīta mṛtsnayā ||
शोषयित्वा पुटेद्गर्तेऽरत्निमात्रे ऽपराह्णके । (३४।१)
śoṣayitvā puṭedgarte'ratnimātre 'parāhṇake |
स्वाङ्गशीतलम् उद्धृत्य चूर्णयित्वाथ विन्यसेत् ॥ (३४।२)
svāṅgaśītalam uddhṛtya cūrṇayitvātha vinyaset ||
गुञ्जाचतुष्टयं साज्यं मरिचैश्च समन्वितम् ॥ (३५।२)
guñjācatuṣṭayaṃ sājyaṃ maricaiśca samanvitam ||
अङ्गकार्श्येऽग्निमान्द्ये च रसोऽयं कासहिक्कयोः ॥ (३६।२)
aṅgakārśye'gnimāndye ca raso'yaṃ kāsahikkayoḥ ||
मरीचैर्घृतसंयुक्तैः प्रदातव्यो दिनत्रयम् । (३७।१)
marīcairghṛtasaṃyuktaiḥ pradātavyo dinatrayam |
लवणं वर्जयेत्तत्र साज्यं सदधि भोजनम् ॥ (३७।२)
lavaṇaṃ varjayettatra sājyaṃ sadadhi bhojanam ||
मधुना पाययेत्सार्धं दग्धवृन्ताकमाशयेत् ॥ (३९।२)
madhunā pāyayetsārdhaṃ dagdhavṛntākamāśayet ||
स्नानं शीतलतोयेन मूर्ध्नि धारां विनिक्षिपेत् । (४०।१)
snānaṃ śītalatoyena mūrdhni dhārāṃ vinikṣipet |
भृष्ट्वा तन्मरिचैः सार्धं भोजयेच्छ्लेष्मनुत्तये । (४१।१)
bhṛṣṭvā tanmaricaiḥ sārdhaṃ bhojayecchleṣmanuttaye |
आर्द्रकं मधुमिश्रं वा गुडार्द्रकमथोऽपि वा ॥ (४१।२)
ārdrakaṃ madhumiśraṃ vā guḍārdrakamatho'pi vā ||
भृष्ट्वा कुस्तुम्बरीमाषान्निस्तुषांश्चूर्णयेत्ततः । (४२।१)
bhṛṣṭvā kustumbarīmāṣānnistuṣāṃścūrṇayettataḥ |
भृष्ट्वा कुस्तुम्बरीं सम्यग् घृते शर्करया पिबेत् । (४३।१)
bhṛṣṭvā kustumbarīṃ samyag ghṛte śarkarayā pibet |
एलां मरिचसंयुक्तां यावद् वान्तिः प्रशाम्यति ॥ (४३।२)
elāṃ maricasaṃyuktāṃ yāvad vāntiḥ praśāmyati ||
अजमोदं विडङ्गं च पिष्ट्वा तक्रेण पाययेत् । (४४।१)
ajamodaṃ viḍaṅgaṃ ca piṣṭvā takreṇa pāyayet |
कृमिकोपप्रशान्त्यर्थं क्वाथं वातघ्नमुस्तयोः ॥ (४४।२)
kṛmikopapraśāntyarthaṃ kvāthaṃ vātaghnamustayoḥ ||
संस्कृत्य दुग्धिकां वह्नौ विरेके च प्रयोजयेत् । (४५।१)
saṃskṛtya dugdhikāṃ vahnau vireke ca prayojayet |
ईषद्भृष्ट्वा जयाचूर्णं मधुना खादयेन्निशि ॥ (४५।२)
īṣadbhṛṣṭvā jayācūrṇaṃ madhunā khādayenniśi ||
स्नापयेद्रोगिणं वैद्यो लोकनाथं रसं स्मरन् ॥ (४६।२)
snāpayedrogiṇaṃ vaidyo lokanāthaṃ rasaṃ smaran ||
वैद्यनाथरसःशंखस्य वलयं निष्कं चतुर्निष्कं वराटिकाः । (४७।१)
vaidyanātharasaḥśaṃkhasya valayaṃ niṣkaṃ caturniṣkaṃ varāṭikāḥ |
कर्षांशं नीलतुत्थं च तालं गन्धाश्मटङ्कणम् ॥ (४७।२)
karṣāṃśaṃ nīlatutthaṃ ca tālaṃ gandhāśmaṭaṅkaṇam ||
तुत्थं नागरसं चार्धं निष्कांशं पूर्ववत्पुटेत् । (४८।१)
tutthaṃ nāgarasaṃ cārdhaṃ niṣkāṃśaṃ pūrvavatpuṭet |
अस्यार्धमाषं मरिचार्धमाषं ताम्बूलवल्लीरसभावितं च । (४९।१)
asyārdhamāṣaṃ maricārdhamāṣaṃ tāmbūlavallīrasabhāvitaṃ ca |
तत्पत्रलिप्तं मधुनावलिह्याद्धैयङ्गवीनेन घृतेन वापि ॥ (४९।२)
tatpatraliptaṃ madhunāvalihyāddhaiyaṅgavīnena ghṛtena vāpi ||
नाडीमार्गे निर्गते चाल्पमल्पं पथ्यं भोज्यं लोकनाथोपदिष्टम् । (५०।१)
nāḍīmārge nirgate cālpamalpaṃ pathyaṃ bhojyaṃ lokanāthopadiṣṭam |
यामे यामे चैवम् आ मण्डलान्तात् सिद्धं सद्यः शोषजिद्वैद्यनाथः ॥ (५०।२)
yāme yāme caivam ā maṇḍalāntāt siddhaṃ sadyaḥ śoṣajidvaidyanāthaḥ ||
लोकनाथरसःअध्यर्धनिष्कौ रसतुत्थभागौ पृथक्पृथग्गन्धकटङ्ककर्षम् । (५१।१)
lokanātharasaḥadhyardhaniṣkau rasatutthabhāgau pṛthakpṛthaggandhakaṭaṅkakarṣam |
शंखस्य कर्षं मृतताम्रतो द्वौ वराटिकानां नव सम्पुटस्थान् ॥ (५१।२)
śaṃkhasya karṣaṃ mṛtatāmrato dvau varāṭikānāṃ nava sampuṭasthān ||
पक्त्वा पचेदर्कदलद्रवार्द्रान् भूयो ऽर्धभागेन करीषकाणाम् । (५२।१)
paktvā pacedarkadaladravārdrān bhūyo 'rdhabhāgena karīṣakāṇām |
अस्यार्धपादं मरिचार्धभागं गन्धाश्मनिष्कं च घृतेन लिह्यात् ॥ (५२।२)
asyārdhapādaṃ maricārdhabhāgaṃ gandhāśmaniṣkaṃ ca ghṛtena lihyāt ||
अश्नीयात्पूर्ववत्पथ्यं वासराण्येकविंशतिः । (५३।१)
aśnīyātpūrvavatpathyaṃ vāsarāṇyekaviṃśatiḥ |
प्राणनाथरसःअयोरजो विंशतिनिष्कमानं विभावितं भृङ्गरसाढकेन । (५४।१)
prāṇanātharasaḥayorajo viṃśatiniṣkamānaṃ vibhāvitaṃ bhṛṅgarasāḍhakena |
धत्तूरभार्ङ्गित्रिफलारसार्द्रं तुल्यांशताप्यं विपचेत्पुटेषु ॥ (५४।२)
dhattūrabhārṅgitriphalārasārdraṃ tulyāṃśatāpyaṃ vipacetpuṭeṣu ||
सूतं च निष्कं समभागतुत्थं गन्धोपलौ द्वौ चतुरो वराटान् । (५५।१)
sūtaṃ ca niṣkaṃ samabhāgatutthaṃ gandhopalau dvau caturo varāṭān |
पक्त्वा पुटाग्नौ समलोहचूर्णान्पचेत्तथा पूर्वरसैर्विमिश्रान् ॥ (५५।२)
paktvā puṭāgnau samalohacūrṇānpacettathā pūrvarasairvimiśrān ||
चूर्णेऽस्मिन्मरिचाः सप्त तुत्थटङ्कणयोर्दश । (५६।१)
cūrṇe'sminmaricāḥ sapta tutthaṭaṅkaṇayordaśa |
संसृजेत् तत् पृथङ्निष्कान् प्राणनाथाह्वयोदितः ॥ (५६।२)
saṃsṛjet tat pṛthaṅniṣkān prāṇanāthāhvayoditaḥ ||
अर्धपादो रसाद्भक्ष्यः केवलाद्राजयक्ष्मिभिः । (५७।१)
ardhapādo rasādbhakṣyaḥ kevalādrājayakṣmibhiḥ |
वज्ररसःकर्षं खर्परसत्त्वस्य षण्मासे हेम्नि विद्रुते । (५८।१)
vajrarasaḥkarṣaṃ kharparasattvasya ṣaṇmāse hemni vidrute |
षण्निष्कसूतं गन्धाश्मन्यष्टनिष्के प्रवेशितम् ॥ (५८।२)
ṣaṇniṣkasūtaṃ gandhāśmanyaṣṭaniṣke praveśitam ||
क्रमाद् द्वित्रिचतुर्निष्कं मृतायः सीसभास्करम् ॥ (५९।२)
kramād dvitricaturniṣkaṃ mṛtāyaḥ sīsabhāskaram ||
चाङ्गेर्यम्लेन यामांस्त्रीन्मर्दितं चूर्णितं पृथक् । (६०।१)
cāṅgeryamlena yāmāṃstrīnmarditaṃ cūrṇitaṃ pṛthak |
द्वौ निष्कौ नीलवटकव्योमायस्कान्ततालकात् ॥ (६०।२)
dvau niṣkau nīlavaṭakavyomāyaskāntatālakāt ||
अङ्कोल्लकङ्गुणीबीजतुत्थेभ्यश् चतुरः पृथक् । (६१।१)
aṅkollakaṅguṇībījatutthebhyaś caturaḥ pṛthak |
अष्टौ च टंकणक्षाराद्वराटानां च विंशतिः ॥ (६१।२)
aṣṭau ca ṭaṃkaṇakṣārādvarāṭānāṃ ca viṃśatiḥ ||
महाजम्बीरनीरस्य प्रस्थद्वन्द्वेन पेषयेत् । (६२।१)
mahājambīranīrasya prasthadvandvena peṣayet |
एतदष्टशरावस्थं शुद्धं खार्यास्तुषस्य च ॥ (६२।२)
etadaṣṭaśarāvasthaṃ śuddhaṃ khāryāstuṣasya ca ||
गतेऽस्य घटिकामात्रे प्रतियामं च पथ्यभुक् ॥ (६४।२)
gate'sya ghaṭikāmātre pratiyāmaṃ ca pathyabhuk ||
नो चेदुद्दीपितो वह्निः क्षणाद्धातून्पचत्यतः । (६५।१)
no ceduddīpito vahniḥ kṣaṇāddhātūnpacatyataḥ |
दिनमेकं निषेव्यैनं त्याज्यान्यामण्डलं त्यजेत् ॥ (६५।२)
dinamekaṃ niṣevyainaṃ tyājyānyāmaṇḍalaṃ tyajet ||
ततः परं यथेष्टाशी द्वादशाब्दं सुखी भवेत् । (६६।१)
tataḥ paraṃ yatheṣṭāśī dvādaśābdaṃ sukhī bhavet |
एकमेकं दिनं भुक्त्वा वर्षे वर्षे महारसम् ॥ (६६।२)
ekamekaṃ dinaṃ bhuktvā varṣe varṣe mahārasam ||
वर्षादौ च त्यजेत्त्याज्यं द्वादशाब्दं जरां जयेत् । (६७।१)
varṣādau ca tyajettyājyaṃ dvādaśābdaṃ jarāṃ jayet |
महावीररसःनिष्कौ द्वौ तुत्थभागस्य रसाद् एकं सुसंस्कृतात् । (६८।१)
mahāvīrarasaḥniṣkau dvau tutthabhāgasya rasād ekaṃ susaṃskṛtāt |
निष्कं विषस्य द्वौ तीक्ष्णात्कर्षांशं गन्धमौक्तिकात् ॥ (६८।२)
niṣkaṃ viṣasya dvau tīkṣṇātkarṣāṃśaṃ gandhamauktikāt ||
मर्दितं लाङ्गलीकन्दप्रलिप्ते सम्पुटे पचेत् ॥ (६९।२)
marditaṃ lāṅgalīkandapralipte sampuṭe pacet ||
अर्धपादं च पोटल्याः काकिन्यौ द्वे विषस्य च । (७०।१)
ardhapādaṃ ca poṭalyāḥ kākinyau dve viṣasya ca |
पाण्डुगुल्मवतां श्रेष्ठो महावीरो हितो रसः ॥ (७१।२)
pāṇḍugulmavatāṃ śreṣṭho mahāvīro hito rasaḥ ||
न योजयेत्क्षीररसान्विरुद्धक्रमतत्त्वतः ॥ (७२।२)
na yojayetkṣīrarasānviruddhakramatattvataḥ ||
सांआन्योपायःमातुलुङ्गस्य मूलानि लाजचूर्णं ससैन्धवम् । (७३।१)
sāṃānyopāyaḥmātuluṅgasya mūlāni lājacūrṇaṃ sasaindhavam |
पिप्पलीमधुना युक्तं खादेद्वान्तिप्रशान्तये ॥ (७३।२)
pippalīmadhunā yuktaṃ khādedvāntipraśāntaye ||
निष्कार्धं टङ्कणं वाथ काकमाचीद्रवैः पिबेत् ॥ (७४।२)
niṣkārdhaṃ ṭaṅkaṇaṃ vātha kākamācīdravaiḥ pibet ||
सुगन्धां वा पिबेत्खादेत् सर्ववान्तिप्रशान्तये । (७५।१)
sugandhāṃ vā pibetkhādet sarvavāntipraśāntaye |
अलक्तकरसं क्षौद्रै रक्तवान्तिहरं परम् ॥ (७५।२)
alaktakarasaṃ kṣaudrai raktavāntiharaṃ param ||
तृष्णाहररसःयुक्तं गन्धकपिष्ट्यायस्तालकं स्वर्णमाक्षिकम् । (७६।१)
tṛṣṇāhararasaḥyuktaṃ gandhakapiṣṭyāyastālakaṃ svarṇamākṣikam |
युक्त्या तद्भस्मतां नीतं तृष्णाछर्दिनिवारणम् ॥ (७६।२)
yuktyā tadbhasmatāṃ nītaṃ tṛṣṇāchardinivāraṇam ||
राजावर्तरसःराजावर्तो रसः शुल्बं माक्षिकं घृतपाचितम् । (७७।१)
rājāvartarasaḥrājāvarto rasaḥ śulbaṃ mākṣikaṃ ghṛtapācitam |
मध्वाज्यशर्करायुक्तं हन्ति सर्वान्मदात्ययान् ॥ (७७।२)
madhvājyaśarkarāyuktaṃ hanti sarvānmadātyayān ||
यष्टीमधुरसैर्घृष्टं घृतमध्ये विपाचितम् ॥ (७८।२)
yaṣṭīmadhurasairghṛṣṭaṃ ghṛtamadhye vipācitam ||
मध्वाज्यशर्करायुक्तं हन्ति सर्वान्मदात्ययान् ॥ (७९।०)
madhvājyaśarkarāyuktaṃ hanti sarvānmadātyayān ||
भैरवनाथी पञ्चामृतपर्पटीसुवर्णं रजतं ताम्रं सत्त्वाभ्रं कान्तलोहकम् । (८०।१)
bhairavanāthī pañcāmṛtaparpaṭīsuvarṇaṃ rajataṃ tāmraṃ sattvābhraṃ kāntalohakam |
क्रमवृद्धमिदं सर्वं शाणेयौ नागवङ्गकौ ॥ (८०।२)
kramavṛddhamidaṃ sarvaṃ śāṇeyau nāgavaṅgakau ||
द्रावयित्वैकतः सर्वं रेतयित्वा ततश्चरेत् । (८१।१)
drāvayitvaikataḥ sarvaṃ retayitvā tataścaret |
सर्वं खल्ले विनिक्षिप्य मर्दयेद् अम्लवर्गतः । (८२।१)
sarvaṃ khalle vinikṣipya mardayed amlavargataḥ |
ताप्यं नीलाञ्जनं तालं शिलागन्धं च चूर्णितम् ॥ (८२।२)
tāpyaṃ nīlāñjanaṃ tālaṃ śilāgandhaṃ ca cūrṇitam ||
दत्त्वा दत्त्वा पुटेत्तावद्यावद्विंशतिवारकम् । (८३।१)
dattvā dattvā puṭettāvadyāvadviṃśativārakam |
विधाय कज्जलीं श्लक्ष्णां क्षिप्त्वा तां लोहपात्रके । (८४।१)
vidhāya kajjalīṃ ślakṣṇāṃ kṣiptvā tāṃ lohapātrake |
द्रावयेद् बदराङ्गारैर् मृदुभिश्चाथ निक्षिपेत् ॥ (८४।२)
drāvayed badarāṅgārair mṛdubhiścātha nikṣipet ||
पत्रेणान्येन संछाद्य कुर्याद्यत्नेन चिप्पिटीम् । (८६।१)
patreṇānyena saṃchādya kuryādyatnena cippiṭīm |
तस्योपरि क्षिपेत्सद्यो गोमयं स्तोकमेव च ॥ (८६।२)
tasyopari kṣipetsadyo gomayaṃ stokameva ca ||
निक्षिपेदूर्ध्वदण्डायां पालिकायां ततः परम् ॥ (८७।२)
nikṣipedūrdhvadaṇḍāyāṃ pālikāyāṃ tataḥ param ||
पूर्ववद्बदराङ्गारैर् मृदुभिर् द्रावयेच्छनैः । (८८।१)
pūrvavadbadarāṅgārair mṛdubhir drāvayecchanaiḥ |
पूर्वपर्पटिकातुल्यं तस्मादल्पं मुहुर्मुहुः । (८९।१)
pūrvaparpaṭikātulyaṃ tasmādalpaṃ muhurmuhuḥ |
पलिकेति विनिर्दिष्टा स्नेहक्षेपणयन्त्रिका । (९०।१)
paliketi vinirdiṣṭā snehakṣepaṇayantrikā |
जीर्णे तालादिके चूर्णे पटचूर्णं विधीयताम् ॥ (९०।२)
jīrṇe tālādike cūrṇe paṭacūrṇaṃ vidhīyatām ||
पूतीकरञ्जषट्कोलव्याघ्रीसौभाञ्जनाङ्घ्रिभिः । (९१।१)
pūtīkarañjaṣaṭkolavyāghrīsaubhāñjanāṅghribhiḥ |
एतैः पञ्चपलैः क्वाथं षोडशांशावशेषितम् ॥ (९१।२)
etaiḥ pañcapalaiḥ kvāthaṃ ṣoḍaśāṃśāvaśeṣitam ||
तेन क्वाथेन संस्वेद्य शोषयेत्सप्तधा हि ताम् । (९२।१)
tena kvāthena saṃsvedya śoṣayetsaptadhā hi tām |
विषतिन्दुफलोद्भूतै रसैर्निर्गुण्डिकारसैः ॥ (९२।२)
viṣatinduphalodbhūtai rasairnirguṇḍikārasaiḥ ||
विभाव्य पलिकामध्ये क्षिप्त्वा बदरवह्निना । (९३।१)
vibhāvya palikāmadhye kṣiptvā badaravahninā |
ईषत्प्रस्वेदनं कृत्वा स्थापयेदतियत्नतः ॥ (९३।२)
īṣatprasvedanaṃ kṛtvā sthāpayedatiyatnataḥ ||
अरोचकं च दुःसाध्यं प्रसेकं छर्दिहृद्भवम् । (९६।१)
arocakaṃ ca duḥsādhyaṃ prasekaṃ chardihṛdbhavam |
वातज्वरं च विड्बन्धं ग्रहणीं कफजान्गदान् । (९७।१)
vātajvaraṃ ca viḍbandhaṃ grahaṇīṃ kaphajāngadān |
एकद्वन्द्वत्रिदोषोत्थान् रोगान् अन्यान् महागदान् ॥ (९७।२)
ekadvandvatridoṣotthān rogān anyān mahāgadān ||
अग्निमान्द्यं विशेषेण हन्तीयं पर्पटी ध्रुवम् । (९८।१)
agnimāndyaṃ viśeṣeṇa hantīyaṃ parpaṭī dhruvam |
तत्तद्रोगहरैर् योगैस् तत्तद्रोगानुपानतः । (९९।१)
tattadrogaharair yogais tattadrogānupānataḥ |
क्षयादिसर्वरोगघ्नी स्यात् पञ्चामृतपर्पटी ॥ (९९।२)
kṣayādisarvarogaghnī syāt pañcāmṛtaparpaṭī ||
त्यजेत्पारावतं मांसं वृन्ताकं कुक्कुटं तथा ॥ (१००।२)
tyajetpārāvataṃ māṃsaṃ vṛntākaṃ kukkuṭaṃ tathā ||
Data courtesy of The Digital Corpus of Sanskrit.