रसरत्नसमुच्चयRasaratnasamuccaya

RRS, 17

17 of 18 · 41 verses

Select a line for its word-by-word analysis.

1.1१.१

अथ मूत्रकृच्छ्राश्मर्यादिचिकित्सनम्कटौ कुक्षिप्रदेशे च शूलं प्रथमतो भवेत् । (१।१)

atha mūtrakṛcchrāśmaryādicikitsanamkaṭau kukṣipradeśe ca śūlaṃ prathamato bhavet |

1.2१.२

पश्चाद्रोधो ज्वलन्मूत्रम् अश्मरीरोगलक्षणम् ॥ (१।२)

paścādrodho jvalanmūtram aśmarīrogalakṣaṇam ||

2.1२.१

पाषाणभेदीरसःरसं द्विगुणगंधेन मर्दयित्वा प्रयत्नतः । (२।१)

pāṣāṇabhedīrasaḥrasaṃ dviguṇagaṃdhena mardayitvā prayatnataḥ |

2.2२.२

वसुः पुनर्नवा वासा श्वेता ग्राह्या प्रयत्नतः ॥ (२।२)

vasuḥ punarnavā vāsā śvetā grāhyā prayatnataḥ ||

3.1३.१

तद्द्रवैर्भावयेदेनं प्रत्येकं तु दिनत्रयम् । (३।१)

taddravairbhāvayedenaṃ pratyekaṃ tu dinatrayam |

3.2३.२

पक्वं मूषागतं शुष्कं स्वेदयेज्जलयन्त्रतः ॥ (३।२)

pakvaṃ mūṣāgataṃ śuṣkaṃ svedayejjalayantrataḥ ||

4.1४.१

पाषाणभेदी नामायं नियुञ्जीतास्य वल्लयुक् । (४।१)

pāṣāṇabhedī nāmāyaṃ niyuñjītāsya vallayuk |

4.2४.२

गोपालकर्कटीदुग्धं भूम्यामलकमूलिका । (४।२)

gopālakarkaṭīdugdhaṃ bhūmyāmalakamūlikā |

4.3४.३

कुलत्थक्वाथतोयेन पिष्ट्वा तदनुपाययेत् ॥ (४।३)

kulatthakvāthatoyena piṣṭvā tadanupāyayet ||

5.1५.१

द्वितीयः पाषाणभेदीरसःरसेन सितवर्षाभ्वा रसं द्विगुणगंधकम् । (५।१)

dvitīyaḥ pāṣāṇabhedīrasaḥrasena sitavarṣābhvā rasaṃ dviguṇagaṃdhakam |

5.2५.२

घृष्टं पचेच्च मूषायां द्वौ माषौ तस्य भक्षयेत् ॥ (५।२)

ghṛṣṭaṃ pacecca mūṣāyāṃ dvau māṣau tasya bhakṣayet ||

6.1६.१

पातालकर्कटीमूलं कुलत्थोदैः पिबेदनु । (६।१)

pātālakarkaṭīmūlaṃ kulatthodaiḥ pibedanu |

6.2६.२

गोकण्टकसदाभद्रामूलक्वाथं पिबेन्निशि । (६।२)

gokaṇṭakasadābhadrāmūlakvāthaṃ pibenniśi |

6.3६.३

अयं पाषाणभिन्नाम्ना रसः पाषाणभेदकः ॥ (६।३)

ayaṃ pāṣāṇabhinnāmnā rasaḥ pāṣāṇabhedakaḥ ||

7.1७.१

गोक्षुरबीजसमुत्थं चूर्णमविक्षीरसंयुक्तम् । (७।१)

gokṣurabījasamutthaṃ cūrṇamavikṣīrasaṃyuktam |

7.2७.२

रसवरमिश्रं पिबतश्चूर्णीभूत्वाश्मरी पतति ॥ (७।२)

rasavaramiśraṃ pibataścūrṇībhūtvāśmarī patati ||

8.1८.१

त्रिविक्रमरसःमृतताम्रमजाक्षीरैः पाच्यं तुल्यं गते द्रवे । (८।१)

trivikramarasaḥmṛtatāmramajākṣīraiḥ pācyaṃ tulyaṃ gate drave |

8.2८.२

तत्ताम्रं शुद्धसूतं च गंधकं च समं समम् ॥ (८।२)

tattāmraṃ śuddhasūtaṃ ca gaṃdhakaṃ ca samaṃ samam ||

9.1९.१

निर्गुण्ड्युत्थद्रवैर्मर्द्यं दिनं तद्गोलम् अन्ध्रयेत् । (९।१)

nirguṇḍyutthadravairmardyaṃ dinaṃ tadgolam andhrayet |

9.2९.२

यामैकं वालुकायंत्रे पाच्यं योज्यं द्विगुञ्जकम् ॥ (९।२)

yāmaikaṃ vālukāyaṃtre pācyaṃ yojyaṃ dviguñjakam ||

10.1१०.१

बीजपूरस्य मूलं तु सजलं चानुपाययेत् । (१०।१)

bījapūrasya mūlaṃ tu sajalaṃ cānupāyayet |

10.2१०.२

रसस्त्रिविक्रमो नाम्ना मासैकेनाश्मरीप्रणुत् ॥ (१०।२)

rasastrivikramo nāmnā māsaikenāśmarīpraṇut ||

11.1११.१

आनन्दभैरवीवटीतिलापामार्गकाण्डं च कारवेल्ल्या यवस्य च । (११।१)

ānandabhairavīvaṭītilāpāmārgakāṇḍaṃ ca kāravellyā yavasya ca |

11.2११.२

पलाशकाष्ठसंयुक्तं सर्वं तुल्यं दहेत्पुटे ॥ (११।२)

palāśakāṣṭhasaṃyuktaṃ sarvaṃ tulyaṃ dahetpuṭe ||

12.1१२.१

तन्निष्कैकमजामूत्रैर्वटीं चानन्दभैरवीम् । (१२।१)

tanniṣkaikamajāmūtrairvaṭīṃ cānandabhairavīm |

12.2१२.२

पाययेदश्मरीं हन्ति सप्ताहान्नात्र संशयः ॥ (१२।२)

pāyayedaśmarīṃ hanti saptāhānnātra saṃśayaḥ ||

13.0१३.०

सामान्योपायःपाण्डुरं फलिकामूलं जलेनैवाश्मरीहरम् ॥ (१३।०)

sāmānyopāyaḥpāṇḍuraṃ phalikāmūlaṃ jalenaivāśmarīharam ||

14.0१४.०

मधुना च यवक्षारं लीढं स्याद् अश्मरीहरम् ॥ (१४।०)

madhunā ca yavakṣāraṃ līḍhaṃ syād aśmarīharam ||

15.0१५.०

हरिद्रागुडकर्षैकं चारनालेन वा पिबेत् ॥ (१५।०)

haridrāguḍakarṣaikaṃ cāranālena vā pibet ||

16.1१६.१

वन्ध्याकर्कोटकीकन्दं भक्ष्य क्षौद्रं सितायुतम् । (१६।१)

vandhyākarkoṭakīkandaṃ bhakṣya kṣaudraṃ sitāyutam |

16.2१६.२

अश्मरीं हन्ति नो चित्रं कर्षमात्रं शिवोदितम् ॥ (१६।२)

aśmarīṃ hanti no citraṃ karṣamātraṃ śivoditam ||

17.1१७.१

प्रमेहशोषस्तापोऽङ्गकार्श्यं च बहुमूत्रत्वम् एव च । (१७।१)

pramehaśoṣastāpo'ṅgakārśyaṃ ca bahumūtratvam eva ca |

17.2१७.२

अस्वास्थ्यं सर्वगात्रेषु मूत्रमेहस्य लक्षणम् ॥ (१७।२)

asvāsthyaṃ sarvagātreṣu mūtramehasya lakṣaṇam ||

18.0१८.०

गुडमार्कण्डीमार्कण्डीचूर्णमादाय सगुडं खादयेन्निशि ॥ (१८।०)

guḍamārkaṇḍīmārkaṇḍīcūrṇamādāya saguḍaṃ khādayenniśi ||

19.1१९.१

लघुलोकेश्वररसःमृतसूतस्य भागैकं चत्वारः शुद्धगन्धकात् । (१९।१)

laghulokeśvararasaḥmṛtasūtasya bhāgaikaṃ catvāraḥ śuddhagandhakāt |

19.2१९.२

पिष्ट्वा वराटकं तेन रसपादं च टंकणम् ॥ (१९।२)

piṣṭvā varāṭakaṃ tena rasapādaṃ ca ṭaṃkaṇam ||

20.1२०.१

क्षीरैः पिष्ट्वा मुखं रुद्ध्वा वराटांश्चान्ध्रयेत्पुटेत् । (२०।१)

kṣīraiḥ piṣṭvā mukhaṃ ruddhvā varāṭāṃścāndhrayetpuṭet |

20.2२०.२

स्वांगशीतं विचूर्ण्याथ लघुलोकेश्वरो रसः ॥ (२०।२)

svāṃgaśītaṃ vicūrṇyātha laghulokeśvaro rasaḥ ||

21.1२१.१

चतुर्गुंजारसश्चायं मरिचैकोनविंशतिः । (२१।१)

caturguṃjārasaścāyaṃ maricaikonaviṃśatiḥ |

21.2२१.२

जातिमूलपलैकं तु अजाक्षीरेण पेषयेत् । (२१।२)

jātimūlapalaikaṃ tu ajākṣīreṇa peṣayet |

21.3२१.३

शर्कराभावितं चानु पीत्वा कृच्छ्रहरं परम् ॥ (२१।३)

śarkarābhāvitaṃ cānu pītvā kṛcchraharaṃ param ||

Data courtesy of The Digital Corpus of Sanskrit.

RRS, 17

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit