रसरत्नसमुच्चयRasaratnasamuccaya
RRS, 4
Select a line for its word-by-word analysis.
मणयःमणयो ऽपि च विज्ञेयाः सूतबन्धस्य कारकाः ॥ (१।०)
maṇayaḥmaṇayo 'pi ca vijñeyāḥ sūtabandhasya kārakāḥ ||
वैक्रान्तः सूर्यकान्तश्च हीरकं मौक्तिकं मणिः ॥ (२।०)
vaikrāntaḥ sūryakāntaśca hīrakaṃ mauktikaṃ maṇiḥ ||
चन्द्रकान्तस्तथा चैव राजावर्तश्च सप्तमः । (३।१)
candrakāntastathā caiva rājāvartaśca saptamaḥ |
पञ्चरत्न (?)पद्मरागेन्द्रनीलाख्यौ तथा मरकतोत्तमः । (५।१)
pañcaratna (?)padmarāgendranīlākhyau tathā marakatottamaḥ |
पुष्परागः सवज्राख्यः पञ्च रत्नवराः स्मृताः ॥ (५।२)
puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ ||
जेwएल्स्:: नवग्रहमाणिक्यमुक्ताफलविद्रुमाणि तार्क्ष्यं च पुष्पं भिदुरं च नीलम् । (६।१)
jewels:: navagrahamāṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam |
गोमेदकं चाथ विदूरकं च क्रमेण रत्नानि नवग्रहाणाम् ॥ (६।२)
gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām ||
ग्रहानुमैत्र्या कुरुविन्दपुष्पप्रवालमुक्ताफलतार्क्ष्यवज्रम् । (७।१)
grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram |
नीलाख्यगोमेदविदूरकं च क्रमेण मुद्राधृतमिष्टसिद्ध्यै ॥ (७।२)
nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai ||
सुरक्ष्याणि सुजातीनि रत्नान्युक्तानि सिद्धये ॥ (८।२)
surakṣyāṇi sujātīni ratnānyuktāni siddhaye ||
माणिक्यमाणिक्यं पद्मरागाख्यं द्वितीयं नीलगन्धि च ॥ (९।०)
māṇikyamāṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca ||
माणिक्य:: परीक्षाकुशेशयदलच्छायं स्वच्छं स्निग्धं महत्स्फुटम् । (१०।१)
māṇikya:: parīkṣākuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam |
वृत्तायतं समं गात्रं माणिक्यं श्रेष्ठमुच्यते ॥ (१०।२)
vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate ||
माणिक्य:: नीलगन्धिनीलं गङ्गाम्बुसम्भूतं नीलगर्भारुणच्छवि । (११।१)
māṇikya:: nīlagandhinīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi |
पूर्वमाणिक्यवच्छ्रेष्ठं माणिक्यं नीलगन्धि तत् ॥ (११।२)
pūrvamāṇikyavacchreṣṭhaṃ māṇikyaṃ nīlagandhi tat ||
माणिक्य:: परीक्षारन्ध्रकार्कश्यमालिन्यरौक्ष्यावैशद्यसंयुतम् । (१२।१)
māṇikya:: parīkṣārandhrakārkaśyamālinyaraukṣyāvaiśadyasaṃyutam |
चिपिटं लघु वक्रं च माणिक्यं दुष्टमष्टधा ॥ (१२।२)
cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭamaṣṭadhā ||
माणिक्य:: मेदिच्। प्रोपेर्तिएस्माणिक्यं दीपनं वृष्यं कफवातक्षयार्तिनुत् । (१३।१)
māṇikya:: medic. propertiesmāṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtinut |
मौक्तिक:: परीक्षाह्लादि श्वेतं लघु स्निग्धं रश्मिवन्निर्मलं महत् । (१४।१)
mauktika:: parīkṣāhlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat |
ख्यातं तोयप्रभं वृत्तं मौक्तिकं नवधा शुभम् ॥ (१४।२)
khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham ||
मौक्तिक:: मेदिच्। प्रोपेर्तिएस्मुक्ताफलं लघु हिमं मधुरं च कान्तिदृष्ट्यग्निपुष्टिकरणं विषहारि भेदि । (१५।१)
mauktika:: medic. propertiesmuktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi |
वीर्यप्रदं जलनिधेर्जनिता च शुक्तिर्दीप्ता च पक्तिरुजमाशु हरेदवश्यम् ॥ (१५।२)
vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam ||
मौक्तिक:: परीक्षा:: बद् क़ुअलित्य्रूक्षाङ्गं निर्जलं श्यावं ताम्राभं लवणोपमम् । (१६।१)
mauktika:: parīkṣā:: bad qualityrūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam |
अर्धशुभ्रं च विकटं ग्रन्थिलं मौक्तिकं त्यजेत् ॥ (१६।२)
ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet ||
मौक्तिक:: मेदिच्। प्रोपेर्तिएस्कफपित्तक्षयध्वंसि कासश्वासाग्निमान्द्यनुत् । (१७।१)
mauktika:: medic. propertieskaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut |
पुष्टिदं वृष्यमायुष्यं दाहघ्नं मौक्तिकं मतम् ॥ (१७।२)
puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam ||
प्रवाल:: परीक्षा:: गोओद् क़ुअलित्य्पक्वबिम्बफलच्छायं वृत्तायतमवक्रकम् । (१८।१)
pravāla:: parīkṣā:: good qualitypakvabimbaphalacchāyaṃ vṛttāyatamavakrakam |
स्निग्धमव्रणकं स्थूलं प्रवालं सप्तधा शुभम् ॥ (१८।२)
snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham ||
प्रवाल:: परीक्षा:: बद् क़ुअलित्य्पाण्डुरं धूसरं सूक्ष्मं सव्रणं कण्डरान्वितम् । (१९।१)
pravāla:: parīkṣā:: bad qualitypāṇḍuraṃ dhūsaraṃ sūkṣmaṃ savraṇaṃ kaṇḍarānvitam |
निर्भारं शुल्बवर्णं च प्रवालं नेष्यते ऽष्टधा ॥ (१९।२)
nirbhāraṃ śulbavarṇaṃ ca pravālaṃ neṣyate 'ṣṭadhā ||
प्रवाल:: मेदिच्। प्रोपेर्तिएस्क्षयपित्तास्रकासघ्नं दीपनं पाचनं लघु । (२०।१)
pravāla:: medic. propertieskṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu |
तार्क्ष्य:: परीक्षा:: गोओद् क़ुअलित्य्हरिद्वर्णं गुरु स्निग्धं स्फुरद्रश्मिचयं शुभम् । (२१।१)
tārkṣya:: parīkṣā:: good qualityharidvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham |
मसृणं भासुरं तार्क्ष्यं गात्रं सप्तगुणं मतम् ॥ (२१।२)
masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam ||
तार्क्ष्य:: परीक्षा:: बद् क़ुअलित्य्कपिलं कर्कशं नीलं पाण्डु कृष्णं च लाघवम् । (२२।१)
tārkṣya:: parīkṣā:: bad qualitykapilaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ ca lāghavam |
चिपिटं विकटं कृष्णं रूक्षं तार्क्ष्यं न शस्यते ॥ (२२।२)
cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate ||
तार्क्ष्य:: मेदिच्। प्रोपेर्तिएस्ज्वरच्छर्दिविषश्वाससंनिपाताग्निमान्द्यनुत् । (२३।१)
tārkṣya:: medic. propertiesjvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut |
दुर्नामपाण्डुशोफघ्नं तार्क्ष्यमोजोविवर्धनम् ॥ (२३।२)
durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam ||
पुष्पराग:: परीक्षापुष्परागं गुरु स्वच्छं स्निग्धं स्थूलं समं मृदु । (२४।१)
puṣparāga:: parīkṣāpuṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu |
पुष्पराग:: परीक्षा:: बद् क़ुअलित्य्निष्प्रभं कर्कशं रूक्षं पीतं श्यामं नतोन्नतम् । (२५।१)
puṣparāga:: parīkṣā:: bad qualityniṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam |
कपिशं कपिलं पाण्डु पुष्परागं परित्यजेत् ॥ (२५।२)
kapiśaṃ kapilaṃ pāṇḍu puṣparāgaṃ parityajet ||
पुष्पराग:: मेदिच्। प्रोपेर्तिएस्पुष्परागं विषच्छर्दिकफवाताग्निमान्द्यनुत् । (२६।१)
puṣparāga:: medic. propertiespuṣparāgaṃ viṣacchardikaphavātāgnimāndyanut |
वज्र:: सुब्त्य्पेस्वज्रं च त्रिविधं प्रोक्तं नरो नारी नपुंसकम् । (२७।१)
vajra:: subtypesvajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam |
पूर्वं पूर्वमिह श्रेष्ठं रसवीर्यविपाकतः ॥ (२७।२)
pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ ||
पुंवज्रअष्टास्रं वाष्टफलकं षट्कोणमतिभासुरम् । (२८।१)
puṃvajraaṣṭāsraṃ vāṣṭaphalakaṃ ṣaṭkoṇamatibhāsuram |
अम्बुदेन्द्रधनुर्वारितरं पुंवज्रमुच्यते ॥ (२८।२)
ambudendradhanurvāritaraṃ puṃvajramucyate ||
स्त्रीवज्रतदेव चिपिटाकारं स्त्रीवज्रं वर्तुलायतम् । (२९।१)
strīvajratadeva cipiṭākāraṃ strīvajraṃ vartulāyatam |
नपुंसकवर्तुलं कुण्ठकोणाग्रं किंचिद्गुरु नपुंसकम् ॥ (२९।२)
napuṃsakavartulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam ||
स्त्रीपुंनपुंसकं वज्रं योज्यं स्त्रीपुंनपुंसके । (३०।१)
strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake |
व्यत्यासान्नैव फलदं पुंवज्रेण विना क्वचित् ॥ (३०।२)
vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit ||
वज्र:: सुब्त्य्पेस्:: चोलोर्श्वेतादिवर्णभेदेन तदेकैकं चतुर्विधम् । (३१।१)
vajra:: subtypes:: colorśvetādivarṇabhedena tadekaikaṃ caturvidham |
ब्रह्मक्षत्रियविट्शूद्रं स्वस्ववर्णफलप्रदम् ॥ (३१।२)
brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam ||
न्यायो ऽयं भैरवेणोक्तः पदार्थेष्वखिलेष्वपि ॥ (३२।२)
nyāyo 'yaṃ bhairaveṇoktaḥ padārtheṣvakhileṣvapi ||
वज्र:: मेदिच्। प्रोपेर्तिएसायुःप्रदं झटिति सद्गुणदं च वृष्यं दोषत्रयप्रशमनम् सकलामयघ्नम् । (३३।१)
vajra:: medic. propertiesāyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam |
सूतेन्द्रबन्धवधसद्गुणकृत्प्रदीपनं मृत्युंजयं तदमृतोपममेव वज्रम् ॥ (३३।२)
sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram ||
जेwएल्स्:: ५ दोषस्ग्रासत्रासश्च बिन्दुश्च रेखा च जलगर्भता । (३४।१)
jewels:: 5 doṣasgrāsatrāsaśca binduśca rekhā ca jalagarbhatā |
सर्वरत्नेष्वमी पञ्च दोषाः साधारणा मताः । (३४।२)
sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ |
क्षेत्रतोयभवा दोषा रत्नेषु न लगन्ति ते ॥ (३४।३)
kṣetratoyabhavā doṣā ratneṣu na laganti te ||
वज्र:: शोधनकुलत्थक्वाथके स्विन्नं कोद्रवक्वथितेन वा । (३५।१)
vajra:: śodhanakulatthakvāthake svinnaṃ kodravakvathitena vā |
एकयामावधि स्विन्नं वज्रं शुध्यति निश्चितम् ॥ (३५।२)
ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam ||
वज्र:: मारणवज्रं मत्कुणरक्तेन चतुर्वारं विभावितम् । (३६।१)
vajra:: māraṇavajraṃ matkuṇaraktena caturvāraṃ vibhāvitam |
सुगन्धिमूषिकामांसैर्वर्तितैर्मर्द्य वेष्टयेत् ॥ (३६।२)
sugandhimūṣikāmāṃsairvartitairmardya veṣṭayet ||
पुटेत्पुटैर्वराहाख्यैस्त्रिंशद्वारं ततः परम् । (३७।१)
puṭetpuṭairvarāhākhyaistriṃśadvāraṃ tataḥ param |
ध्मात्वा ध्मात्वा शतं वारान्कुलत्थक्वाथके क्षिपेत् । (३७।२)
dhmātvā dhmātvā śataṃ vārānkulatthakvāthake kṣipet |
अन्यैरुक्तः शतं वारान्कर्तव्यो ऽयं विधिक्रमः ॥ (३७।३)
anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ ||
वज्र:: मारणकुलत्थक्वाथसंयुक्तलकुचद्रवपिष्टया । (३८।१)
vajra:: māraṇakulatthakvāthasaṃyuktalakucadravapiṣṭayā |
शिलया लिप्तमूषायां वज्रं क्षिप्त्वा निरुध्य च ॥ (३८।२)
śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca ||
अष्टवारं पुटेत्सम्यग्विशुष्कैश्च वनोत्पलैः । (३९।१)
aṣṭavāraṃ puṭetsamyagviśuṣkaiśca vanotpalaiḥ |
शतवारं ततो ध्मात्वा निक्षिप्तं शुद्धपारदे । (३९।२)
śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade |
निश्चितं म्रियते वज्रं भस्म वारितरं भवेत् ॥ (३९।३)
niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet ||
वज्र:: मारणविलिप्तं मत्कुणस्यास्रे सप्तवारं विशोषितम् । (४१।१)
vajra:: māraṇaviliptaṃ matkuṇasyāsre saptavāraṃ viśoṣitam |
सप्तवारं परिध्मातं वज्रभस्म भवेत्खलु । (४२।१)
saptavāraṃ paridhmātaṃ vajrabhasma bhavetkhalu |
ब्रह्मज्योतिर्मुनीन्द्रेण क्रमो ऽयं परिकीर्तितः ॥ (४२।२)
brahmajyotirmunīndreṇa kramo 'yaṃ parikīrtitaḥ ||
वज्र:: मारणनीलज्योतिर्लताकन्दे घृष्टं घर्मे विशोषितम् । (४३।१)
vajra:: māraṇanīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam |
वज्रं भस्मत्वमायाति कर्मवज्ज्ञानवह्निना ॥ (४३।२)
vajraṃ bhasmatvamāyāti karmavajjñānavahninā ||
वज्र:: मारणमदनस्य फलोद्भूतरसेन क्षोणिनागकैः । (४४।१)
vajra:: māraṇamadanasya phalodbhūtarasena kṣoṇināgakaiḥ |
वज्रचूर्णं भवेद्वर्यं योजयेच्च रसादिषु ॥ (४४।३)
vajracūrṇaṃ bhavedvaryaṃ yojayecca rasādiṣu ||
वज्र:: मारणतद्वज्रं चूर्णयित्वाथ किंचिट् टङ्कणसंयुतम् । (४५।१)
vajra:: māraṇatadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam |
तुल्यस्वर्णेन तद्ध्मातं योजनीयं रसादिषु ॥ (४५।३)
tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu ||
मुखे धृतं करोत्याशु चलद्दन्तविबन्धनम् ॥ (४६।२)
mukhe dhṛtaṃ karotyāśu caladdantavibandhanam ||
त्रिंशद्भागमितं हि वज्रभसितं स्वर्णं कलाभागिकं तारं चाष्टगुणं सितामृतवरं रुद्रांशकं चाभ्रकम् । (४७।१)
triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam |
पादांशं खलु ताप्यकं वसुगुणं वैक्रान्तकं षड्गुणं भागो ऽप्युक्तरसै रसो ऽयमुदितः षाड्गुण्यसंसिद्धये ॥ (४७।२)
pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye ||
नीलजलनीलेन्द्रनीलं च शक्रनीलं तयोर्वरम् ॥ (४८।०)
nīlajalanīlendranīlaṃ ca śakranīlaṃ tayorvaram ||
जलनील:: फ्य्स्। प्रोपेर्तिएस्श्वैत्यगर्भितनीलाभं लघु तज्जलनीलकम् । (४९।१)
jalanīla:: phys. propertiesśvaityagarbhitanīlābhaṃ laghu tajjalanīlakam |
इन्द्रनील:: फ्य्स्। प्रोपेर्तिएस्कार्ष्ण्यगर्भितनीलाभं सभारं शक्रनीलकम् ॥ (४९।२)
indranīla:: phys. propertieskārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam ||
नील:: परीक्षा:: गोओदेकच्छायं गुरु स्निग्धं स्वच्छं पिण्डितविग्रहम् । (५०।१)
nīla:: parīkṣā:: goodekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham |
मृदु मध्ये लसज्ज्योतिः सप्तधा नीलमुत्तमम् ॥ (५०।२)
mṛdu madhye lasajjyotiḥ saptadhā nīlamuttamam ||
जलनील:: परीक्षाकोमलं विहितं रूक्षं निर्भारं रक्तगन्धि च । (५१।१)
jalanīla:: parīkṣākomalaṃ vihitaṃ rūkṣaṃ nirbhāraṃ raktagandhi ca |
चिपिटाभं ससूक्ष्मं च जलनीलं च सप्तधा ॥ (५१।२)
cipiṭābhaṃ sasūkṣmaṃ ca jalanīlaṃ ca saptadhā ||
नील:: मेदिच्। प्रोपेर्तिएस्श्वासकासहरं वृष्यं त्रिदोषघ्नं सुदीपनम् । (५२।१)
nīla:: medic. propertiesśvāsakāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam |
गोमेदगोमेदःसमरागत्वाद्गोमेदं रत्नमुच्यते ॥ (५३।०)
gomedagomedaḥsamarāgatvādgomedaṃ ratnamucyate ||
गोमेद:: परीक्षासुस्वच्छगोजलच्छायं स्वच्छं स्निग्धं समं गुरु । (५४।१)
gomeda:: parīkṣāsusvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru |
निर्दलं मसृणं दीप्तं गोमेदं शुभमष्टधा ॥ (५४।२)
nirdalaṃ masṛṇaṃ dīptaṃ gomedaṃ śubhamaṣṭadhā ||
गोमेद:: परीक्षा:: बद् क़ुअलित्य्विच्छायं लघु रूक्षाङ्गं चिपिटं पटलान्वितम् । (५५।१)
gomeda:: parīkṣā:: bad qualityvicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam |
निष्प्रभं पीतकाचाभं गोमेदं न शुभावहम् ॥ (५५।२)
niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham ||
गोमेद:: मेदिच्। प्रोपेर्तिएस्गोमेदं कफपित्तघ्नं क्षयपाण्डुक्षयंकरम् । (५६।१)
gomeda:: medic. propertiesgomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram |
दीपनं पाचनं रुच्यं त्वच्यं बुद्धिप्रबोधनम् ॥ (५६।२)
dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam ||
वैडूर्य:: परीक्षा:: गोओद् क़ुअलित्य्वैदूर्यं श्यामशुभ्राभं समं स्वच्छं गुरु स्फुटम् । (५७।१)
vaiḍūrya:: parīkṣā:: good qualityvaidūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam |
भ्रमच्छुभ्रोत्तरीयेण गर्भितं शुभमीरितम् ॥ (५७।२)
bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam ||
वैडूर्य:: परीक्षा:: बद् क़ुअलित्य्श्यामं तोयसमच्छायं चिपिटं लघु कर्कशम् । (५८।१)
vaiḍūrya:: parīkṣā:: bad qualityśyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam |
रक्तगर्भोत्तरीयं च वैदूर्यं नैव शस्यते ॥ (५८।२)
raktagarbhottarīyaṃ ca vaidūryaṃ naiva śasyate ||
वैडूर्य:: मेदिच्। प्रोपेर्तिएस्वैदूर्यं रक्तपित्तघ्नं प्रज्ञायुर्बलवर्धनम् । (५९।१)
vaiḍūrya:: medic. propertiesvaidūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam |
रत्न:: शोधनशुध्यत्यम्लेन माणिक्यं जयन्त्या मौक्तिकं तथा । (६०।१)
ratna:: śodhanaśudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā |
विद्रुमं क्षारवर्गेण तार्क्ष्यं गोदुग्धकैस्तथा ॥ (६०।२)
vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā ||
पुष्परागं च संधानैः कुलत्थक्वाथसंपुटैः । (६१।१)
puṣparāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃpuṭaiḥ |
रोचनाभिश्च गोमेदं वैदूर्यं त्रिफलाजलैः ॥ (६१।३)
rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ ||
रत्न:: मारणलकुचद्रावसम्पिष्टैः शिलागन्धकतालकैः । (६२।१)
ratna:: māraṇalakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ |
वज्रं विनान्यरत्नानि म्रियन्ते ऽष्टपुटैः खलु ॥ (६२।२)
vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu ||
रत्न:: द्रावणरामठं पञ्चलवणं क्षाराणां त्रितयं तथा । (६३।१)
ratna:: drāvaṇarāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā |
स्थूलं कुम्भीफलं पक्वं तथा ज्वालामुखी शुभा । (६४।१)
sthūlaṃ kumbhīphalaṃ pakvaṃ tathā jvālāmukhī śubhā |
द्रवन्ती च रुदन्ती च पयस्या चित्रमूलकम् ॥ (६४।२)
dravantī ca rudantī ca payasyā citramūlakam ||
दुग्धं स्नुह्यास्तथार्कस्य सर्वं संमर्द्य यत्नतः । (६५।१)
dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardya yatnataḥ |
गोलं विधाय तन्मध्ये प्रक्षिपेत्तदनन्तरम् ॥ (६५।२)
golaṃ vidhāya tanmadhye prakṣipettadanantaram ||
भूर्जे तं गोलकं कृत्वा सूत्रेणावेष्ट्य यत्नतः ॥ (६६।२)
bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ ||
पुनर्वस्त्रेण संवेष्ट्य दोलायन्त्रे निधाय च । (६७।१)
punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca |
अहोरात्रत्रयं यावत् स्वेदयेत् तीव्रवह्निना । (६८।१)
ahorātratrayaṃ yāvat svedayet tīvravahninā |
तस्मादाहृत्य संक्षाल्य रत्नजां द्रुतिमाहरेत् । (६८।२)
tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet |
पेअर्ल्:: द्रावणमुक्ताचूर्णं तु सप्ताहं वेतसाम्लेन मर्दितम् । (६९।१)
pearl:: drāvaṇamuktācūrṇaṃ tu saptāhaṃ vetasāmlena marditam |
जम्बीरोदरमध्ये तु धान्यराशौ विनिक्षिपेत् । (६९।२)
jambīrodaramadhye tu dhānyarāśau vinikṣipet |
सप्ताहादुद्धृतं चैव पुटे धृत्वा द्रुतिर्भवेत् ॥ (६९।३)
saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet ||
वज्र:: द्रावणवज्रवल्ल्यन्तरस्थं च कृत्वा वज्रं निरोधयेत् । (७०।१)
vajra:: drāvaṇavajravallyantarasthaṃ ca kṛtvā vajraṃ nirodhayet |
अम्लभाण्डगतं स्वेद्यं सप्ताहाद् द्रवताम् व्रजेत् ॥ (७०।२)
amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet ||
वैक्रान्त:: द्रावणश्वेतवर्णं तु वैक्रान्तमम्लवेतसभावितम् । (७१।१)
vaikrānta:: drāvaṇaśvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam |
सप्ताहान्नात्र संदेहः खरघर्मे द्रवत्यसौ ॥ (७१।२)
saptāhānnātra saṃdehaḥ kharagharme dravatyasau ||
वैक्रान्त:: द्रावणकेतकीस्वरसं ग्राह्यं सैन्धवं स्वर्णपुष्पिका । (७२।१)
vaikrānta:: drāvaṇaketakīsvarasaṃ grāhyaṃ saindhavaṃ svarṇapuṣpikā |
इन्द्रगोपकसंयुक्तं सर्वं भाण्डे विनिक्षिपेत् । (७२।२)
indragopakasaṃyuktaṃ sarvaṃ bhāṇḍe vinikṣipet |
सप्ताहं स्वेदयेत्तस्मिन्वैक्रान्तं द्रवतां व्रजेत् ॥ (७२।३)
saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet ||
रत्न:: द्रावणलोहाष्टके तथा वज्रवापनात् स्वेदनाद् द्रुतिः । (७३।१)
ratna:: drāvaṇalohāṣṭake tathā vajravāpanāt svedanād drutiḥ |
जायते नात्र संदेहो योगस्यास्य प्रभावतः ॥ (७३।२)
jāyate nātra saṃdeho yogasyāsya prabhāvataḥ ||
कुरुते योगराजो ऽयं रत्नानां द्रावणं परम् ॥ (७४।०)
kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param ||
द्रुतीनां दीर्घकालरक्षणोपायःकुसुम्भतैलमध्ये तु संस्थाप्या द्रुतयः पृथक् । (७५।१)
drutīnāṃ dīrghakālarakṣaṇopāyaḥkusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak |
तिष्ठन्ति चिरकालं तु प्राप्ते कार्ये नियोजयेत् ॥ (७५।२)
tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet ||
रत्न:: गोओद् प्रोपेर्तिएस्सूर्यादिग्रहनिग्रहापहरणं दीर्घायुरारोग्यदं । (७६।१)
ratna:: good propertiessūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ |
सौभाग्योदयभाग्यवश्यविभवोत्साहप्रदं धैर्यकृत् ॥ (७६।२)
saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt ||
दुश्छायाचलधूलिसंगतिभवालक्ष्मीहरं सर्वदा । (७७।१)
duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā |
रत्नानां परिधारणं निगदितं भूतादिनिर्नाशनम् ॥ (७७।२)
ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirnāśanam ||
Data courtesy of The Digital Corpus of Sanskrit.