रसरत्नसमुच्चयRasaratnasamuccaya

RRS, 5

5 of 18 · 488 verses

Select a line for its word-by-word analysis.

1.1१.१

शुद्धं लोहं कनकरजतं भानुलोहाश्मसारं पूतीलोहं द्वितयमुदितं नागवंगाभिधानम् । (१।१)

śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam |

1.2१.२

मिश्रं लोहं त्रितयमुदितं पित्तलं कांस्यवर्तं धातुर् लोहे लुह इति मतः सोऽप्यनेकार्थवाची ॥ (१।२)

miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe luha iti mataḥ so'pyanekārthavācī ||

2.1२.१

गोल्द्:: सुब्त्य्पेस्प्राकृतं सहजं वह्निसम्भूतं खनिसंभवम् । (२।१)

gold:: subtypesprākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisaṃbhavam |

2.2२.२

रसेंद्रवेधसंजातं स्वर्णं पञ्चविधं स्मृतम् ॥ (२।२)

raseṃdravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam ||

3.1३.१

गोल्द्:: मेदिच्। प्रोपेर्तिएसायुर्लक्ष्मीप्रभाधीस्मृतिकरमखिलव्याधिविध्वंसि पुण्यं भूतावेशप्रशान्तिस्मरभरसुखदं सौख्यपुष्टिप्रकाशि । (३।१)

gold:: medic. propertiesāyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi |

3.2३.२

गाङ्गेयं चाथ रूप्यं गदहरमजराकारि मेहापहारि क्षीणानां पुष्टिकारि स्फुटमतिकरणं वीर्यवृद्धिप्रकारि ॥ (३।२)

gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri ||

4.1४.१

गोल्द्:: प्राकृतब्रह्माण्डं संवृतं येन रजोगुणभुवा खलु । (४।१)

gold:: prākṛtabrahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu |

4.2४.२

तत्प्राकृतमिति प्रोक्तं देवानामपि दुर्लभम् ॥ (४।२)

tatprākṛtamiti proktaṃ devānāmapi durlabham ||

5.1५.१

गोल्द्:: सहजब्रह्मा येनावृतो जातः सुवर्णेन जरायुणा । (५।१)

gold:: sahajabrahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā |

5.2५.२

तन्मेरुरूपतां यातं सुवर्णं सहजं हि तत् ॥ (५।२)

tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat ||

6.1६.१

गोल्द्:: वह्निसंभवविसृष्टमग्निना शैवं तेजः पीतं सुदुःसहम् । (६।१)

gold:: vahnisaṃbhavavisṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham |

6.2६.२

अभूत्सर्वं समुद्दिष्टं सुवर्णं वह्निसंभवम् ॥ (६।२)

abhūtsarvaṃ samuddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam ||

7.1७.१

एतत्स्वर्णत्रयं दिव्यं वर्णैः षोडशभिर्युतम् । (७।१)

etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam |

7.2७.२

धारणादेव तत्कुर्याच्छरीरमजरामरम् ॥ (७।२)

dhāraṇādeva tatkuryāccharīramajarāmaram ||

8.1८.१

गोल्द्:: खनिजतत्र तत्र गिरीणां हि जातं खनिषु यद्भवेत् । (८।१)

gold:: khanijatatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet |

8.2८.२

तच्चतुर्दशवर्णाढ्यं भक्षितं सर्वरोगहृत् ॥ (८।२)

taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt ||

9.1९.१

गोल्द्:: वेधजरसेंद्रवेधसम्भूतं तद्वेधजमुदाहृतम् । (९।१)

gold:: vedhajaraseṃdravedhasambhūtaṃ tadvedhajamudāhṛtam |

9.2९.२

रसायनं महाश्रेष्ठं पवित्रं वेधजं हि तत् ॥ (९।२)

rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat ||

10.1१०.१

गोल्द्:: मेदिच्। प्रोपेर्तिएस्स्निग्धं मेध्यं विषगदहरं बृंहणं वृष्यमग्र्यं यक्ष्मोन्मादप्रशमनपरं देहरोगप्रमाथि । (१०।१)

gold:: medic. propertiessnigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi |

10.2१०.२

मेधाबुद्धिस्मृतिसुखकरं सर्वदोषामयघ्नं रुच्यं दीपि प्रशमितरुजं स्वादुपाकं सुवर्णम् ॥ (१०।२)

medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam ||

11.1११.१

गोल्द्:: अशुद्ध:: मेदिच्। प्रोपेर्तिएस्सौख्यं वीर्यं बलं हन्ति रोगवर्गं करोति च । (११।१)

gold:: aśuddha:: medic. propertiessaukhyaṃ vīryaṃ balaṃ hanti rogavargaṃ karoti ca |

11.2११.२

अशुद्धममृतं स्वर्णं तस्माच्छुद्धं च मारयेत् ॥ (११।२)

aśuddhamamṛtaṃ svarṇaṃ tasmācchuddhaṃ ca mārayet ||

12.1१२.१

गोल्द्:: चोलोउरिन्ग् (सुवर्णसम्पादन)कर्षप्रमाणं तु सुवर्णपत्रं शरावरुद्धं पटुधातुयुक्तम् । (१२।१)

gold:: colouring (suvarṇasampādana)karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam |

12.2१२.२

अङ्गारसंस्थं प्रहरार्धमानं ध्मानेन तत्स्यान्ननु पूर्णवर्णम् ॥ (१२।२)

aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam ||

13.1१३.१

लोहानां मारणं श्रेष्ठं सर्वेषां रसभस्मना । (१३।१)

lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā |

13.2१३.२

मूलीभिर्मध्यमं प्राहुः कनिष्ठं गन्धकादिभिः । (१३।२)

mūlībhirmadhyamaṃ prāhuḥ kaniṣṭhaṃ gandhakādibhiḥ |

13.3१३.३

अरिलोहेन लोहस्य मारणं दुर्गुणप्रदम् ॥ (१३।३)

arilohena lohasya māraṇaṃ durguṇapradam ||

14.1१४.१

गोल्द्:: मारणकृत्वा कण्टकवेध्यानि स्वर्णपत्राणि लेपयेत् । (१४।१)

gold:: māraṇakṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet |

14.2१४.२

लुंगांबुभस्मसूतेन म्रियते दशभिः पुटैः ॥ (१४।२)

luṃgāṃbubhasmasūtena mriyate daśabhiḥ puṭaiḥ ||

15.1१५.१

गोल्द्:: मारणद्रुते विनिक्षिपेत्स्वर्णे लोहमानं मृतं रसम् । (१५।१)

gold:: māraṇadrute vinikṣipetsvarṇe lohamānaṃ mṛtaṃ rasam |

15.2१५.२

विचूर्ण्य लुङ्गतोयेन दरदेन समन्वितम् । (१५।२)

vicūrṇya luṅgatoyena daradena samanvitam |

15.3१५.३

जायते कुंकुमच्छायं स्वर्णं द्वादशभिः पुटैः ॥ (१५।३)

jāyate kuṃkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ ||

16.1१६.१

गोल्द्:: मारणहेम्नः पादं मृतं सूतं पिष्टमम्लेन केनचित् । (१६।१)

gold:: māraṇahemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit |

16.2१६.२

पत्रे लिप्त्वा पुटैः पच्यादष्टभिर्म्रियते ध्रुवम् ॥ (१६।२)

patre liptvā puṭaiḥ pacyādaṣṭabhirmriyate dhruvam ||

17.1१७.१

गोल्द्:: द्रावणमंडूकास्थिवसाटंकहयलालेन्द्रगोपकैः । (१७।१)

gold:: drāvaṇamaṃḍūkāsthivasāṭaṃkahayalālendragopakaiḥ |

17.2१७.२

प्रतिवापेन कनकं सुचिरं तिष्ठति द्रुतम् ॥ (१७।२)

prativāpena kanakaṃ suciraṃ tiṣṭhati drutam ||

18.1१८.१

गोल्द्:: द्रावणचूर्णं सुरेन्द्रगोपानां देवदालीफलद्रवैः । (१८।१)

gold:: drāvaṇacūrṇaṃ surendragopānāṃ devadālīphaladravaiḥ |

18.2१८.२

भावितं सदृशं हेम करोति जलवद्द्रुतम् ॥ (१८।२)

bhāvitaṃ sadṛśaṃ hema karoti jalavaddrutam ||

19.1१९.१

गोल्द्:: भस्मन्:: मेदिच्। अप्प्लिचतिओनेतद्भस्म सुवर्णजं कटुघृतोपेतं द्विगुंजोन्मितं लीढं हन्ति नृणां क्षयाग्निसदनं श्वासं च कासारुचिम् । (१९।१)

gold:: bhasman:: medic. applicationetadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim |

19.2१९.२

ओजोधातुविवर्धनं बलकरं पाण्ड्वामयध्वंसनं पथ्यं सर्वविषापहं गरहरं दुष्टग्रहण्यादिनुत् ॥ (१९।२)

ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut ||

20.1२०.१

गोल्द्:: अमारित:: मेदिच्। प्रोपेर्तिएस्बलं च वीर्यं हरते नराणां रोगव्रजं कोपयतीव काये । (२०।१)

gold:: amārita:: medic. propertiesbalaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye |

20.2२०.२

असौख्यकारं च सदैव हेमापक्वं सदोषं मरणं करोति ॥ (२०।२)

asaukhyakāraṃ ca sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti ||

21.1२१.१

सिल्वेर्:: सुब्त्य्पेस्सहजं खनिसंजातं कृत्रिमं त्रिविधं मतम् । (२१।१)

silver:: subtypessahajaṃ khanisaṃjātaṃ kṛtrimaṃ trividhaṃ matam |

21.2२१.२

रजतं पूर्वपूर्वं हि स्वगुणैरुत्तरोत्तरम् ॥ (२१।२)

rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram ||

22.1२२.१

सिल्वेर्:: सहजकैलासाद्यद्रिसम्भूतं सहजं रजतं भवेत् । (२२।१)

silver:: sahajakailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet |

22.2२२.२

तत्स्पृष्टं हि सकृद्व्याधिनाशनं देहिनां भवेत् ॥ (२२।२)

tatspṛṣṭaṃ hi sakṛdvyādhināśanaṃ dehināṃ bhavet ||

23.1२३.१

सिल्वेर्:: खनिजहिमालयादिकूटेषु यद्रूप्यं जायते हि तत् । (२३।१)

silver:: khanijahimālayādikūṭeṣu yadrūpyaṃ jāyate hi tat |

23.2२३.२

खनिजं कथ्यते तज्ज्ञैः परमं हि रसायनम् ॥ (२३।२)

khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam ||

24.1२४.१

सिल्वेर्:: पादरूप्यश्रीरामपादुकान्यस्तं वंगं यद्रूप्यतां गतम् । (२४।१)

silver:: pādarūpyaśrīrāmapādukānyastaṃ vaṃgaṃ yadrūpyatāṃ gatam |

24.2२४.२

तत्पादरूप्यमित्युक्तं कृत्रिमं सर्वरोगनुत् ॥ (२४।२)

tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut ||

25.1२५.१

सिल्वेर्:: परीक्षा:: गोओद् क़ुअलित्य्घनं स्वच्छं गुरु स्निग्धं दाहे छेदे सितं मृदु । (२५।१)

silver:: parīkṣā:: good qualityghanaṃ svacchaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu |

25.2२५.२

शंखाभं मसृणं स्फोटरहितं रजतं शुभम् ॥ (२५।२)

śaṃkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham ||

26.1२६.१

सिल्वेर्:: परीक्षा:: बद् क़ुअलित्य्दाहे रक्तं च पीतं च कृष्णं रूक्षं स्फुटं लघु । (२६।१)

silver:: parīkṣā:: bad qualitydāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu |

26.2२६.२

स्थूलाङ्गं कर्कशाङ्गं च रजतं त्याज्यमष्टधा ॥ (२६।२)

sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā ||

27.1२७.१

सिल्वेर्:: मेदिच्। प्रोपेर्तिएस्रूप्यं विपाकमधुरं तुवराम्लसारं शीतं सरं परमलेखनकं च रूप्यम् । (२७।१)

silver:: medic. propertiesrūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam |

27.2२७.२

स्निग्धं च वातकफजिज्जठराग्निदीपि बल्यं परं स्थिरवयस्करणं च मेध्यम् ॥ (२७।२)

snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam ||

28.1२८.१

सिल्वेर्:: मेदिच्। प्रोपेर्तिएस् (२)रौप्यं शीतं कषायाम्लं स्निग्धं वातहरं गुरु । (२८।१)

silver:: medic. properties (2)raupyaṃ śītaṃ kaṣāyāmlaṃ snigdhaṃ vātaharaṃ guru |

28.2२८.२

रसायनविधानेन सर्वरोगापहारकम् ॥ (२८।२)

rasāyanavidhānena sarvarogāpahārakam ||

29.1२९.१

सिल्वेर्:: शोधनतैले तक्रे गवां मूत्रे ह्यारनाले कुलत्थजे । (२९।१)

silver:: śodhanataile takre gavāṃ mūtre hyāranāle kulatthaje |

29.2२९.२

क्रमान्निषेचयेत्तप्तं द्रावे द्रावे तु सप्तधा । (२९।२)

kramānniṣecayettaptaṃ drāve drāve tu saptadhā |

29.3२९.३

स्वर्णादिलोहपत्राणां शुद्धिरेषा प्रशस्यते ॥ (२९।३)

svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate ||

30.1३०.१

सिल्वेर्:: अशुद्ध:: मेदिच्। प्रोपेर्तिएसायुः शुक्रं बलं हन्ति तापविड्बन्धरोगकृत् । (३०।१)

silver:: aśuddha:: medic. propertiesāyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt |

30.2३०.२

अशुद्धं न मृतं तारं शुद्धं मार्यमतो बुधैः ॥ (३०।२)

aśuddhaṃ na mṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ ||

31.1३१.१

सिल्वेर्:: शोधननागेन टंकणेनैव वापितं शुद्धिमृच्छति । (३१।१)

silver:: śodhananāgena ṭaṃkaṇenaiva vāpitaṃ śuddhimṛcchati |

31.2३१.२

तारं त्रिवारं निक्षिप्तं तैले ज्योतिष्मतीभवे ॥ (३१।२)

tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave ||

32.1३२.१

सिल्वेर्:: शोधनखर्परे भस्मचूर्णाभ्यां परितः पालिकां चरेत् । (३२।१)

silver:: śodhanakharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret |

32.2३२.२

तत्र रूप्यं विनिक्षिप्य समसीससमन्वितम् ॥ (३२।२)

tatra rūpyaṃ vinikṣipya samasīsasamanvitam ||

33.1३३.१

जातसीसक्षयं यावद्धमेत्तावत्पुनः पुनः । (३३।१)

jātasīsakṣayaṃ yāvaddhamettāvatpunaḥ punaḥ |

33.2३३.२

इत्थं संशोधितं रूप्यं योजनीयं रसादिषु ॥ (३३।२)

itthaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu ||

34.1३४.१

सिल्वेर्:: मारणलकुचद्रवसूताभ्यां तारपत्रं प्रलेपयेत् । (३४।१)

silver:: māraṇalakucadravasūtābhyāṃ tārapatraṃ pralepayet |

34.2३४.२

ऊर्ध्वाधो गन्धकं दत्त्वा मूषामध्ये निरुध्य च ॥ (३४।२)

ūrdhvādho gandhakaṃ dattvā mūṣāmadhye nirudhya ca ||

35.1३५.१

स्वेदयेद्वालुकायन्त्रे दिनमेकं दृढाग्निना । (३५।१)

svedayedvālukāyantre dinamekaṃ dṛḍhāgninā |

35.2३५.२

स्वांगशीतां च तां पिष्टिं साम्लतालेन मर्दिताम् । (३५।२)

svāṃgaśītāṃ ca tāṃ piṣṭiṃ sāmlatālena marditām |

35.3३५.३

पुटेद्द्वादशवाराणि भस्मीभवति रूप्यकम् ॥ (३५।३)

puṭeddvādaśavārāṇi bhasmībhavati rūpyakam ||

36.1३६.१

सिल्वेर्:: मारणमाक्षीकचूर्णलुंगाम्लमर्दितं पुटितं शनैः । (३६।१)

silver:: māraṇamākṣīkacūrṇaluṃgāmlamarditaṃ puṭitaṃ śanaiḥ |

36.2३६.२

त्रिंशद्वारेण तत्तारं भस्मसाज्जायतेतराम् ॥ (३६।२)

triṃśadvāreṇa tattāraṃ bhasmasājjāyatetarām ||

37.1३७.१

सिल्वेर्:: निरुत्थीकरणभाव्यं ताप्यं स्नुहीक्षीरैस्तारपत्राणि लेपयेत् । (३७।१)

silver:: nirutthīkaraṇabhāvyaṃ tāpyaṃ snuhīkṣīraistārapatrāṇi lepayet |

37.2३७.२

मारयेत्पुटयोगेन निरुत्थं जायते ध्रुवम् ॥ (३७।२)

mārayetpuṭayogena nirutthaṃ jāyate dhruvam ||

38.1३८.१

सिल्वेर्:: मारण:: निरुत्थतारपत्रं चतुर्भागं भागैकं शुद्धतालकम् । (३८।१)

silver:: māraṇa:: nirutthatārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam |

38.2३८.२

मर्द्यं जम्बीरजद्रावैस्तारपत्राणि लेपयेत् ॥ (३८।२)

mardyaṃ jambīrajadrāvaistārapatrāṇi lepayet ||

39.1३९.१

शोधयेद् अन्धयन्त्रे च त्रिंशदुत्पलकैः पचेत् । (३९।१)

śodhayed andhayantre ca triṃśadutpalakaiḥ pacet |

39.2३९.२

चतुर्दशपुटैरेवं निरुत्थं जायते ध्रुवम् ॥ (३९।२)

caturdaśapuṭairevaṃ nirutthaṃ jāyate dhruvam ||

40.1४०.१

सिल्वेर्, गोल्द्:: द्रावणसप्तधा नरमूत्रेण भावयेद्देवदालिकाम् । (४०।१)

silver, gold:: drāvaṇasaptadhā naramūtreṇa bhāvayeddevadālikām |

40.2४०.२

तच्चूर्णावापमात्रेण द्रुतिः स्यात्स्वर्णतारयोः ॥ (४०।२)

taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ ||

41.1४१.१

सिल्वेर्:: मेदिच्। अप्प्लिचतिओन्भस्मीभूतं रजतममलं तत्समौ व्योमभानू सर्वैस्तुल्यं त्रिकटु सवरं सारघाज्येन युक्तम् । (४१।१)

silver:: medic. applicationbhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam |

41.2४१.२

लीढं प्रातः क्षपयतितरां यक्ष्मपाण्डूदरार्शः श्वासं कासं नयनजरुजः पित्तरोगानशेषान् ॥ (४१।२)

līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān ||

42.1४२.१

चोप्पेर्:: सुब्त्य्पेस्म्लेच्छं नेपालकं चेति तयोर्नेपालकं वरम् । (४२।१)

copper:: subtypesmlecchaṃ nepālakaṃ ceti tayornepālakaṃ varam |

42.2४२.२

नेपालादन्यखन्युत्थं म्लेच्छमित्यभिधीयते ॥ (४२।२)

nepālādanyakhanyutthaṃ mlecchamityabhidhīyate ||

43.1४३.१

चोप्पेर्:: म्लेच्छ:: प्रोपेर्तिएस्सितकृष्णारुणच्छायम् अतिवामि कठोरकम् । (४३।१)

copper:: mleccha:: propertiessitakṛṣṇāruṇacchāyam ativāmi kaṭhorakam |

43.2४३.२

क्षालितं च पुनः कृष्णम् एतन्म्लेच्छकताम्रकम् ॥ (४३।२)

kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam ||

44.1४४.१

चोप्पेर्:: नेपाल:: परीक्षासुस्निग्धं मृदुलं शोणं घनाघातक्षमं गुरु । (४४।१)

copper:: nepāla:: parīkṣāsusnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru |

44.2४४.२

निर्विकारं गुणश्रेष्ठं ताम्रं नेपालमुच्यते ॥ (४४।२)

nirvikāraṃ guṇaśreṣṭhaṃ tāmraṃ nepālamucyate ||

45.1४५.१

चोप्पेर्:: परीक्षा:: बद् क़ुअलित्य्पाण्डुरं कृष्णशोणं च लघुस्फुटनसंयुतम् । (४५।१)

copper:: parīkṣā:: bad qualitypāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam |

45.2४५.२

रूक्षाङ्गं सदलं ताम्रं नेष्यते रसकर्मणि ॥ (४५।२)

rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi ||

46.1४६.१

चोप्पेर्:: मेदिच्। प्रोपेर्तिएस्ताम्रं तिक्तकषायकं च मधुरं पाकेऽथ वीर्योष्णकं साम्लं पित्तकफापहं जठररुक्कुष्ठामजन्त्वन्तकृत् । (४६।१)

copper:: medic. propertiestāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt |

46.2४६.२

ऊर्ध्वाधः परिशोधनं विषयकृत् स्थौल्यापहं क्षुत्करं दुर्नामक्षयपाण्डुरोगशमनं नेत्र्यं परं लेखनम् ॥ (४६।२)

ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam ||

47.1४७.१

चोप्पेर्:: अशुद्ध:: मेदिच्। प्रोपेर्तिएसशुद्धं ताम्रमायुर्घ्नं कान्तिवीर्यबलापहम् । (४७।१)

copper:: aśuddha:: medic. propertiesaśuddhaṃ tāmramāyurghnaṃ kāntivīryabalāpaham |

47.2४७.२

वान्तिमूर्च्छाभ्रमोत्क्लेदं कुष्ठं शूलं करोति तत् ॥ (४७।२)

vāntimūrcchābhramotkledaṃ kuṣṭhaṃ śūlaṃ karoti tat ||

48.1४८.१

उत्क्लेदभेदभ्रमदाहमोहास्ताम्रस्य दोषाः खलु दुर्धरास्ते । (४८।१)

utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste |

48.2४८.२

विशोधनात्तद्विगतस्वदोषं सुधासमं स्याद् रसवीर्यपाके ॥ (४८।२)

viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke ||

49.1४९.१

चोप्पेर्:: शोधनताम्रं क्षाराम्लसंयुक्तं द्रावितं दत्तगैरिकम् । (४९।१)

copper:: śodhanatāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam |

49.2४९.२

निक्षिप्तं महिषीतक्रे छगणे सप्तवारकम् । (४९।२)

nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam |

49.3४९.३

पञ्चदोषविनिर्मुक्तं भस्मयोग्यं हि जायते ॥ (४९।३)

pañcadoṣavinirmuktaṃ bhasmayogyaṃ hi jāyate ||

50.1५०.१

चोप्पेर्:: शोधनताम्रनिर्मलपत्राणि लिप्त्वा निम्ब्वम्बुसिन्धुना । (५०।१)

copper:: śodhanatāmranirmalapatrāṇi liptvā nimbvambusindhunā |

50.2५०.२

ध्मात्वा सौवीरकक्षेपाद्विशुध्यत्यष्टवारतः ॥ (५०।२)

dhmātvā sauvīrakakṣepādviśudhyatyaṣṭavārataḥ ||

51.1५१.१

चोप्पेर्:: शोधननिम्ब्वम्बुपटुलिप्तानि तापितान्यष्टवारकम् । (५१।१)

copper:: śodhananimbvambupaṭuliptāni tāpitānyaṣṭavārakam |

51.2५१.२

विशुध्यन्त्यर्कपत्राणि निर्गुंड्यारसमज्जनात् ॥ (५१।२)

viśudhyantyarkapatrāṇi nirguṃḍyārasamajjanāt ||

52.1५२.१

चोप्पेर्:: शोधनगोमूत्रेण पचेद्यामं ताम्रपत्रं दृढाग्निना । (५२।१)

copper:: śodhanagomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā |

52.2५२.२

शुध्यते नात्र संदेहो मारणं चाप्यथोच्यते ॥ (५२।२)

śudhyate nātra saṃdeho māraṇaṃ cāpyathocyate ||

53.1५३.१

चोप्पेर्:: मारणजम्बीररससम्पिष्टरसगन्धकलेपितम् । (५३।१)

copper:: māraṇajambīrarasasampiṣṭarasagandhakalepitam |

53.2५३.२

शुल्बपत्रं शरावस्थं त्रिपुटैर्याति पञ्चताम् ॥ (५३।२)

śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām ||

54.1५४.१

चोप्पेर्:: मारणअथवा मारितं ताम्रमम्लेनैकेन मर्दितम् । (५४।१)

copper:: māraṇaathavā māritaṃ tāmramamlenaikena marditam |

54.2५४.२

तद्गोलं सूरणस्यान्ता रुद्ध्वा सर्वत्र लेपयेत् ॥ (५४।२)

tadgolaṃ sūraṇasyāntā ruddhvā sarvatra lepayet ||

55.1५५.१

शुष्कं गजपुटे पच्यात्सर्वदोषहरं भवेत् । (५५।१)

śuṣkaṃ gajapuṭe pacyātsarvadoṣaharaṃ bhavet |

55.2५५.२

वान्तिं भ्रान्तिं विरेकं च न करोति कदाचन ॥ (५५।२)

vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana ||

56.1५६.१

चोप्पेर्:: मारणताम्रपत्राणि सूक्ष्माणि गोमूत्रे पञ्चयामकम् । (५६।१)

copper:: māraṇatāmrapatrāṇi sūkṣmāṇi gomūtre pañcayāmakam |

56.2५६.२

क्षिप्त्वा रसेन भाण्डे तद्द्विगुणं देहि गन्धकम् ॥ (५६।२)

kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam ||

57.1५७.१

अम्लपर्णीं प्रपिष्याथ ह्यभितो देहि ताम्रकम् । (५७।१)

amlaparṇīṃ prapiṣyātha hyabhito dehi tāmrakam |

57.2५७.२

सम्यङ् निरुध्य भाण्डे तमग्निं ज्वालय यामकम् । (५७।२)

samyaṅ nirudhya bhāṇḍe tamagniṃ jvālaya yāmakam |

57.3५७.३

भस्मीभवति ताम्रं तद्यथेष्टं विनियोजयेत् ॥ (५७।३)

bhasmībhavati tāmraṃ tadyatheṣṭaṃ viniyojayet ||

58.1५८.१

चोप्पेर्:: मेदिच्। अप्प्लिचतिओन्सूताद् द्विगुणितं ताम्रपत्रं कन्यारसैः प्लुतम् । (५८।१)

copper:: medic. applicationsūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam |

58.2५८.२

पिष्ट्वा तुल्येन बलिना भाण्डमध्ये विनिक्षिपेत् ॥ (५८।२)

piṣṭvā tulyena balinā bhāṇḍamadhye vinikṣipet ||

59.1५९.१

छन्नं शरावकेणैतत्तदूर्ध्वं लवणं त्यजेत् । (५९।१)

channaṃ śarāvakeṇaitattadūrdhvaṃ lavaṇaṃ tyajet |

59.2५९.२

मुखे शरावकं दत्त्वा वह्निं यामचतुष्टयम् ॥ (५९।२)

mukhe śarāvakaṃ dattvā vahniṃ yāmacatuṣṭayam ||

60.1६०.१

अवचूर्ण्यैव तच्छुल्बं वल्लमात्रं प्रयोजयेत् । (६०।१)

avacūrṇyaiva tacchulbaṃ vallamātraṃ prayojayet |

60.2६०.२

पिप्पलीमधुना सार्धं सर्वरोगेषु योजयेत् ॥ (६०।२)

pippalīmadhunā sārdhaṃ sarvarogeṣu yojayet ||

61.1६१.१

श्वासं कासं क्षयं पाण्डुमग्निमांद्यमरोचकम् । (६१।१)

śvāsaṃ kāsaṃ kṣayaṃ pāṇḍumagnimāṃdyamarocakam |

61.2६१.२

गुल्मप्लीहयकृन्मूर्च्छाशूलपक्त्यर्थम् उत्तमम् ॥ (६१।२)

gulmaplīhayakṛnmūrcchāśūlapaktyartham uttamam ||

62.1६२.१

दोषत्रयसमुद्भूतानामयाञ्जयति ध्रुवम् । (६२।१)

doṣatrayasamudbhūtānāmayāñjayati dhruvam |

62.2६२.२

रोगानुपानसहितं जयेद्धातुगतं ज्वरम् । (६२।२)

rogānupānasahitaṃ jayeddhātugataṃ jvaram |

62.3६२.३

रसे रसायने ताम्रं योजयेद्युक्तमात्रया ॥ (६२।३)

rase rasāyane tāmraṃ yojayedyuktamātrayā ||

63.1६३.१

सोमनाथशुल्बतुल्येन सूतेन बलिना तत्समेन च । (६३।१)

somanāthaśulbatulyena sūtena balinā tatsamena ca |

63.2६३.२

तदर्धांशेन तालेन शिलया च तदर्धया ॥ (६३।२)

tadardhāṃśena tālena śilayā ca tadardhayā ||

64.1६४.१

विधाय कज्जलीं श्लक्ष्णां भिन्नकज्जलसन्निभाम् । (६४।१)

vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām |

64.2६४.२

यन्त्राध्यायविनिर्दिष्टगर्भयन्त्रोदरान्तरे ॥ (६४।२)

yantrādhyāyavinirdiṣṭagarbhayantrodarāntare ||

65.1६५.१

कज्जलीं ताम्रपत्राणि पर्यायेण विनिक्षिपेत् । (६५।१)

kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet |

65.2६५.२

प्रपचेद्यामपर्यन्तं स्वांगशीतं विचूर्णयेत् ॥ (६५।२)

prapacedyāmaparyantaṃ svāṃgaśītaṃ vicūrṇayet ||

66.1६६.१

तत्तद्रोगहरानुपानसहितताम्रं द्विवल्लोन्मितं संलीढं परिणामशूलमुदरं शूलं च पाण्डुज्वरम् । (६६।१)

tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram |

66.2६६.२

गुल्मप्लीहयकृत्क्षयाग्निसदनं मेहं च मूलामयं दुष्टां च ग्रहणीं हरेद् ध्रुवम् इदं श्रीसोमनाथाभिधम् ॥ (६६।२)

gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham ||

67.0६७.०

इरोन्:: सुब्त्य्पेस्मुंडं तीक्ष्णं च कांतं च त्रिप्रकारमयः स्मृतम् ॥ (६७।०)

iron:: subtypesmuṃḍaṃ tīkṣṇaṃ ca kāṃtaṃ ca triprakāramayaḥ smṛtam ||

68.0६८.०

मुण्ड:: सुब्त्य्पेस्मृदु कुण्ठं कडारं च त्रिविधं मुण्डमुच्यते ॥ (६८।०)

muṇḍa:: subtypesmṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate ||

69.0६९.०

मृदु:: फ्य्स्। प्रोपेर्तिएस्द्रुतद्रावमविस्फोटं चिक्कणं मृदु तच्छुभम् ॥ (६९।०)

mṛdu:: phys. propertiesdrutadrāvamavisphoṭaṃ cikkaṇaṃ mṛdu tacchubham ||

70.0७०.०

कुण्ठ:: फ्य्स्। प्रोपेर्तिएस्हतं यत्प्रसरेद् दुःखात्तत्कुण्ठं मध्यमं स्मृतम् ॥ (७०।०)

kuṇṭha:: phys. propertieshataṃ yatprasared duḥkhāttatkuṇṭhaṃ madhyamaṃ smṛtam ||

71.0७१.०

कडार:: फ्य्स्। प्रोपेर्तिएस्यद्धतं भज्यते भंगे कृष्णं स्यात्तत्कडारकम् ॥ (७१।०)

kaḍāra:: phys. propertiesyaddhataṃ bhajyate bhaṃge kṛṣṇaṃ syāttatkaḍārakam ||

72.1७२.१

मुण्ड:: मेदिच्। प्रोपेर्तिएस्मुण्डं परं मृदुलकं कफवातशूलमूलाममेहगदकामलपाण्डुहारि । (७२।१)

muṇḍa:: medic. propertiesmuṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri |

72.2७२.२

गुल्मामवातजठरार्तिहरं प्रदीपि शोफापहं रुधिरकृत्खलु कोष्ठशोधि ॥ (७२।२)

gulmāmavātajaṭharārtiharaṃ pradīpi śophāpahaṃ rudhirakṛtkhalu koṣṭhaśodhi ||

73.1७३.१

इरोन्:: अशुद्ध:: मेदिच्। प्रोपेर्तिएसशुद्धलोहं न हितं निषेवणाद् आयुर्बलं कान्तिविनाशि निश्चितम् । (७३।१)

iron:: aśuddha:: medic. propertiesaśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam |

73.2७३.२

हृदि प्रपीडां तनुते ह्यपाटवं रुजं करोत्येव विशोध्य मारयेत् ॥ (७३।२)

hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet ||

74.1७४.१

तीक्ष्णलोह:: सुब्त्य्पेस्खरं सारं च हृन्नालं तारावट्टं च वाजिरम् । (७४।१)

tīkṣṇaloha:: subtypeskharaṃ sāraṃ ca hṛnnālaṃ tārāvaṭṭaṃ ca vājiram |

74.2७४.२

काललोहाभिधानं च षड्विधं तीक्ष्णमुच्यते ॥ (७४।२)

kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate ||

75.1७५.१

खरलोह:: फ्य्स्। प्रोपेर्तिएस्परुषं पोगरोन्मुक्तं भंगे पारदवच्छवि । (७५।१)

kharaloha:: phys. propertiesparuṣaṃ pogaronmuktaṃ bhaṃge pāradavacchavi |

75.2७५.२

नमने भङ्गुरं यत्तत्खरलोहमुदाहृतम् ॥ (७५।२)

namane bhaṅguraṃ yattatkharalohamudāhṛtam ||

76.1७६.१

सारवेगभङ्गुरधारं यत्सारलोहं तदीरितम् । (७६।१)

sāravegabhaṅguradhāraṃ yatsāralohaṃ tadīritam |

76.2७६.२

पोगराभासकं पाण्डुभूमिजं सारमुच्यते ॥ (७६।२)

pogarābhāsakaṃ pāṇḍubhūmijaṃ sāramucyate ||

77.1७७.१

हृन्नालकृष्णपाण्डुवपुश्चञ्चुबीजतुल्योरुपोगरम् । (७७।१)

hṛnnālakṛṣṇapāṇḍuvapuścañcubījatulyorupogaram |

77.2७७.२

छेदने चातिपरुषं हृन्नालमिति कथ्यते ॥ (७७।२)

chedane cātiparuṣaṃ hṛnnālamiti kathyate ||

78.1७८.१

पोगरअङ्गक्षया च वङ्गं च पोगरस्याभिधात्रयम् । (७८।१)

pogaraaṅgakṣayā ca vaṅgaṃ ca pogarasyābhidhātrayam |

78.2७८.२

चिकुरं भङ्गुरं लोहात् पोगरं तत्परं मतम् ॥ (७८।२)

cikuraṃ bhaṅguraṃ lohāt pogaraṃ tatparaṃ matam ||

79.1७९.१

वाजिरपोगरैर्वज्रसंकाशैः सूक्ष्मरेखैश्च सान्द्रकैः । (७९।१)

vājirapogarairvajrasaṃkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ |

79.2७९.२

निचितं श्यामलाङ्गं च वाजीरं तत्प्रकीर्त्यते ॥ (७९।२)

nicitaṃ śyāmalāṅgaṃ ca vājīraṃ tatprakīrtyate ||

80.1८०.१

कालायसनीलकृष्णप्रभं सान्द्रं मसृणं गुरु भासुरम् । (८०।१)

kālāyasanīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram |

80.2८०.२

लोहाघाते ऽप्यभङ्गात्मधारं कालायसं मतम् ॥ (८०।२)

lohāghāte 'pyabhaṅgātmadhāraṃ kālāyasaṃ matam ||

81.1८१.१

तीक्ष्णलोह:: खर:: मेदिच्। प्रोपेर्तिएस्रूक्षं स्यात् खरलोहकं समधुरं पाकेऽथ वीर्ये हिमं तिक्तोष्णं कफपित्तकुष्ठजठरप्लीहामपांड्वर्तिनुत् । (८१।१)

tīkṣṇaloha:: khara:: medic. propertiesrūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut |

81.2८१.२

सद्यः शूलयकृद्गदक्षयजरामेहामवातापहं दीप्तं चातिरसायनं बलकरं दुर्नामदाहापहम् ॥ (८१।२)

sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham ||

82.0८२.०

खरलोहात्परं सर्वमेकैकस्माच्छतोत्तरम् ॥ (८२।०)

kharalohātparaṃ sarvamekaikasmācchatottaram ||

83.1८३.१

कान्त:: सुब्त्य्पेस्भ्रामकं चुम्बकं चैव कर्षकं द्रावकं तथा । (८३।१)

kānta:: subtypesbhrāmakaṃ cumbakaṃ caiva karṣakaṃ drāvakaṃ tathā |

83.2८३.२

एवं चतुर्विधं कान्तं रोमकान्तं च पञ्चमम् ॥ (८३।२)

evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam ||

84.1८४.१

कान्त:: सुब्त्य्पेस्:: मुखएकद्वित्रिचतुष्पञ्चसर्वतोमुखम् एव तत् । (८४।१)

kānta:: subtypes:: mukhaekadvitricatuṣpañcasarvatomukham eva tat |

84.2८४.२

कान्त:: सुब्त्य्पेस्:: चोलोउर्पीतं कृष्णं तथा रक्तं त्रिवर्णं स्यात्पृथक् पृथक् । (८४।२)

kānta:: subtypes:: colourpītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syātpṛthak pṛthak |

84.3८४.३

क्रमेण देवतास्तत्र ब्रह्मविष्णुमहेश्वराः ॥ (८४।३)

krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ ||

85.1८५.१

स्पर्शवेधि भवेत्पीतं कृष्णं श्रेष्ठं रसायने । (८५।१)

sparśavedhi bhavetpītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane |

85.2८५.२

रक्तवर्णं तथा चापि रसबन्धे प्रशस्यते ॥ (८५।२)

raktavarṇaṃ tathā cāpi rasabandhe praśasyate ||

86.1८६.१

भ्रामकं तु कनिष्ठं स्याच्चुम्बकं मध्यमं तथा । (८६।१)

bhrāmakaṃ tu kaniṣṭhaṃ syāccumbakaṃ madhyamaṃ tathā |

86.2८६.२

उत्तमं कर्षकं चैव द्रावकं चोत्तमोत्तमम् ॥ (८६।२)

uttamaṃ karṣakaṃ caiva drāvakaṃ cottamottamam ||

87.0८७.०

भ्रामकभ्रामयेल्लोहजातं यत्तत्कान्तं भ्रामकं मतम् ॥ (८७।०)

bhrāmakabhrāmayellohajātaṃ yattatkāntaṃ bhrāmakaṃ matam ||

88.0८८.०

चुम्बयेच्चुम्बकं कान्तं कर्षयेत्कर्षकं तथा ॥ (८८।०)

cumbayeccumbakaṃ kāntaṃ karṣayetkarṣakaṃ tathā ||

89.0८९.०

द्रावकसाक्षाद् यद्द्रावयेल्लोहं तत्कान्तं द्रावकं भवेत् ॥ (८९।०)

drāvakasākṣād yaddrāvayellohaṃ tatkāntaṃ drāvakaṃ bhavet ||

90.0९०.०

रोमकान्ततद्रोमकान्तं स्फुटिताद् यतो रोमोद्गमो भवेत् ॥ (९०।०)

romakāntatadromakāntaṃ sphuṭitād yato romodgamo bhavet ||

91.1९१.१

कान्त:: सुब्त्य्पेस्:: मुखकनिष्ठं स्यादेकमुखं मध्यं द्वित्रिमुखं भवेत् । (९१।१)

kānta:: subtypes:: mukhakaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet |

91.2९१.२

चतुष्पञ्चमुखं श्रेष्ठमुत्तमं सर्वतोमुखम् ॥ (९१।२)

catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham ||

92.1९२.१

कान्त:: सुब्त्य्पेस्:: मेदिच्। प्रोपेर्तिएस्भ्रामकं चुम्बकं चैव व्याधिनाशे प्रशस्यते । (९२।१)

kānta:: subtypes:: medic. propertiesbhrāmakaṃ cumbakaṃ caiva vyādhināśe praśasyate |

92.2९२.२

रसे रसायने चैव कर्षकं द्रावकं हितम् ॥ (९२।२)

rase rasāyane caiva karṣakaṃ drāvakaṃ hitam ||

93.0९३.०

मदोन्मत्तगजः सूतः कान्तम् अङ्कुशमुच्यते ॥ (९३।०)

madonmattagajaḥ sūtaḥ kāntam aṅkuśamucyate ||

94.1९४.१

कान्त:: चोल्लेच्तिन्ग्क्षेत्रं ज्ञात्वा ग्रहीतव्यं तत्प्रयत्नेन धीमता । (९४।१)

kānta:: collectingkṣetraṃ jñātvā grahītavyaṃ tatprayatnena dhīmatā |

94.2९४.२

मारुतातपविक्षिप्तं वर्जयेन्नात्र संशयः ॥ (९४।२)

mārutātapavikṣiptaṃ varjayennātra saṃśayaḥ ||

95.1९५.१

कान्त:: परीक्षा (?)पात्रे यस्य प्रसरति जले तैलबिन्दुर्न लिप्तो गन्धं हिङ्गुस्त्यजति च तथा तिक्ततां निम्बकल्कः । (९५।१)

kānta:: parīkṣā (?)pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ |

95.2९५.२

पाके दुग्धं भवति शिखराकारकं नैति भूमौ कान्तं लौहं तदिदमुदितं लक्षणोक्तं च नान्यत् ॥ (९५।२)

pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat ||

96.1९६.१

कान्त:: मेदिच्। प्रोपेर्तिएस्कान्तायो ऽतिरसायनोत्तरतरं स्वस्थे चिरायुःप्रदं स्निग्धं मेहहरं त्रिदोषशमनं शूलाममूलापहम् । (९६।१)

kānta:: medic. propertieskāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham |

96.2९६.२

गुल्मप्लीहयकृत्क्षयामयहरं पाण्डूदरव्याधिनुत् तिक्तोष्णं हिमवीर्यकं किमपरं योगेन सर्वार्तिनुत् ॥ (९६।२)

gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut ||

97.1९७.१

सम्यगौषधकल्पानां लोहकल्पः प्रशस्यते । (९७।१)

samyagauṣadhakalpānāṃ lohakalpaḥ praśasyate |

97.2९७.२

तस्मात्सर्वप्रयत्नेन शुद्धं लोहं च मारयेत् ॥ (९७।२)

tasmātsarvaprayatnena śuddhaṃ lohaṃ ca mārayet ||

98.0९८.०

नायः पचेत्पञ्चपलाद् अर्वाग् ऊर्ध्वं त्रयोदशात् ॥ (९८।०)

nāyaḥ pacetpañcapalād arvāg ūrdhvaṃ trayodaśāt ||

99.0९९.०

आदौ मन्त्रस्ततः कर्म कर्तव्यं मन्त्र उच्यते ॥ (९९।०)

ādau mantrastataḥ karma kartavyaṃ mantra ucyate ||

100.1१००.१

ॐ अमृतोद्भवाय स्वाहा अनेन मन्त्रेण लोहमारणम् । (१००।१)

oṃ amṛtodbhavāya svāhā anena mantreṇa lohamāraṇam |

100.2१००.२

लक्षोत्तरगुणं सर्वं लोहं स्यादुत्तरोत्तरम् । (१००।२)

lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram |

100.3१००.३

कान्तं कोटिगुणं तत्र तदप्येवं गुणोत्तरम् ॥ (१००।३)

kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram ||

101.1१०१.१

इरोन्:: शोधनशशक्षतजसंलिप्तं त्रिवारं परितापितम् । (१०१।१)

iron:: śodhanaśaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam |

101.2१०१.२

मुण्डादिसकलं लोहं सर्वदोषान् विमुञ्चति ॥ (१०१।२)

muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati ||

102.1१०२.१

इरोन्:: शोधन:: गिरिदोषक्वाथ्यमष्टगुणे तोये त्रिफलाषोडशं पलम् । (१०२।१)

iron:: śodhana:: giridoṣakvāthyamaṣṭaguṇe toye triphalāṣoḍaśaṃ palam |

102.2१०२.२

तत्क्वाथे पादशेषे तु लोहस्य पलपञ्चकम् ॥ (१०२।२)

tatkvāthe pādaśeṣe tu lohasya palapañcakam ||

103.1१०३.१

कृत्वा पत्राणि तप्तानि सप्तवारं निषेचयेत् । (१०३।१)

kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet |

103.2१०३.२

एवं प्रलीयते दोषो गिरिजो लोहसम्भवः ॥ (१०३।२)

evaṃ pralīyate doṣo girijo lohasambhavaḥ ||

104.1१०४.१

इरोन्:: शोधन:: गिरिदोषसामुद्रलवणोपेतं तप्तं निर्वापितं खलु । (१०४।१)

iron:: śodhana:: giridoṣasāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu |

104.2१०४.२

त्रिफलाक्वथिते नूनं गिरिदोषम् अयस्त्यजेत् ॥ (१०४।२)

triphalākvathite nūnaṃ giridoṣam ayastyajet ||

105.0१०५.०

इरोन्:: शोधन:: गिरिदोषचिञ्चाफलजलक्वाथादयो दोषम् उदस्यति ॥ (१०५।०)

iron:: śodhana:: giridoṣaciñcāphalajalakvāthādayo doṣam udasyati ||

106.1१०६.१

इरोन्:: मारण:: वारितरयद्वा फलत्रयोपेतं गोमूत्रे क्वथितं क्षणम् । (१०६।१)

iron:: māraṇa:: vāritarayadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam |

106.2१०६.२

रेचितं घृतसंयुक्तं क्षिप्त्वायः खर्परे पचेत् ॥ (१०६।२)

recitaṃ ghṛtasaṃyuktaṃ kṣiptvāyaḥ kharpare pacet ||

107.1१०७.१

चालयेल्लोहदण्डेन यावत्क्षिप्तं तृणं दहेत् । (१०७।१)

cālayellohadaṇḍena yāvatkṣiptaṃ tṛṇaṃ dahet |

107.2१०७.२

पिष्ट्वा पिष्ट्वा पचेदेवं पञ्चवारमतः परम् ॥ (१०७।२)

piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param ||

108.1१०८.१

धात्रीफलरसैर् यद्वा त्रिफलाक्वथितोदकैः । (१०८।१)

dhātrīphalarasair yadvā triphalākvathitodakaiḥ |

108.2१०८.२

पुटेल्लोहं चतुर्वारं भवेद्वारितरं खलु ॥ (१०८।२)

puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu ||

109.1१०९.१

इरोन्:: मारणस्नेहाक्तं लोहरजो मूत्रे स्वरसेऽपि रात्रिधात्रीणाम् । (१०९।१)

iron:: māraṇasnehāktaṃ loharajo mūtre svarase'pi rātridhātrīṇām |

109.2१०९.२

पृथगेवं सप्तकृत्वो भर्जितमखिलामये योज्यम् ॥ (१०९।२)

pṛthagevaṃ saptakṛtvo bharjitamakhilāmaye yojyam ||

110.1११०.१

तीक्ष्णलोह:: मारणतीक्ष्णलोहस्य पत्राणि निर्दलानि दृढेऽनले । (११०।१)

tīkṣṇaloha:: māraṇatīkṣṇalohasya patrāṇi nirdalāni dṛḍhe'nale |

110.2११०.२

ध्मात्वा क्षिपेज्जले सद्यः पाषाणोलूखलोदरे ॥ (११०।२)

dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare ||

111.1१११.१

कण्डयेद्गाढनिर्घातैः स्थूलया लोहपारया । (१११।१)

kaṇḍayedgāḍhanirghātaiḥ sthūlayā lohapārayā |

111.2१११.२

तन्मध्यात्स्थूलखण्डानि रुद्ध्वा मल्लद्वयान्तरे ॥ (१११।२)

tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare ||

112.1११२.१

ध्मात्वा क्षिप्त्वा जले सम्यक् पूर्ववत्कण्डयेत्खलु । (११२।१)

dhmātvā kṣiptvā jale samyak pūrvavatkaṇḍayetkhalu |

112.2११२.२

तच्चूर्णं सूतगन्धाभ्यां पुटेद्विंशतिवारकम् ॥ (११२।२)

taccūrṇaṃ sūtagandhābhyāṃ puṭedviṃśativārakam ||

113.1११३.१

पुटे पुटे विधातव्यं पेषणं दृढवत्तरम् । (११३।१)

puṭe puṭe vidhātavyaṃ peṣaṇaṃ dṛḍhavattaram |

113.2११३.२

एवं भस्मीकृतं लोहं तत्तद्रोगेषु योजयेत् ॥ (११३।२)

evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet ||

114.1११४.१

कान्त:: मेदिच्। प्रोपेर्तिएस्कान्तायः कमनीयकान्तिजननं पाण्ड्वामयोन्मूलनम् । (११४।१)

kānta:: medic. propertieskāntāyaḥ kamanīyakāntijananaṃ pāṇḍvāmayonmūlanam |

114.2११४.२

यक्ष्मव्याधिनिबर्हणं गरहरं दोषत्रयोन्मूलनम् । (११४।२)

yakṣmavyādhinibarhaṇaṃ garaharaṃ doṣatrayonmūlanam |

114.3११४.३

नानाकुष्ठनिबर्हणं बलकरं वृष्यं वयःस्तम्भनम् । (११४।३)

nānākuṣṭhanibarhaṇaṃ balakaraṃ vṛṣyaṃ vayaḥstambhanam |

114.4११४.४

सर्वव्याधिहरं रसायनवरं भौमामृतं नापरम् ॥ (११४।४)

sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam ||

115.1११५.१

इरोन् (गेन्।):: मारणहिङ्गुलस्य पलान्पञ्च नारीस्तन्येन पेषयेत् । (११५।१)

iron (gen.):: māraṇahiṅgulasya palānpañca nārīstanyena peṣayet |

115.2११५.२

तेन लोहस्य पत्राणि लेपयेत्पलपञ्चकम् ॥ (११५।२)

tena lohasya patrāṇi lepayetpalapañcakam ||

116.1११६.१

रुद्ध्वा गजपुटे पच्यात्कषायैस्त्रैफलैः पुनः । (११६।१)

ruddhvā gajapuṭe pacyātkaṣāyaistraiphalaiḥ punaḥ |

116.2११६.२

जम्बीरैरारनालैर्वा विंशत्यंशेन हिङ्गुलम् ॥ (११६।२)

jambīrairāranālairvā viṃśatyaṃśena hiṅgulam ||

117.1११७.१

पिष्ट्वा रुद्ध्वा पचेल्लोहं तद्द्रवैः पाचयेत्पुनः । (११७।१)

piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ |

117.2११७.२

चत्वारिंशत्पुटैरेवं कान्तं तीक्ष्णं च मुण्डकम् । (११७।२)

catvāriṃśatpuṭairevaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam |

117.3११७.३

म्रियते नात्र संदेहो दत्त्वा दत्त्वैव हिङ्गुलम् ॥ (११७।३)

mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam ||

118.1११८.१

तीक्ष्णलोह:: मारणअथ पूर्वोदितं तीक्ष्णं वसुभल्लकवासयोः । (११८।१)

tīkṣṇaloha:: māraṇaatha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ |

118.2११८.२

पुटितं पत्रतोयेन त्रिंशद्वाराणि यत्नतः । (११८।२)

puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ |

118.3११८.३

शोणितं जायते भस्म कृतसिन्दूरविभ्रमम् ॥ (११८।३)

śoṇitaṃ jāyate bhasma kṛtasindūravibhramam ||

119.1११९.१

तीक्ष्णलोह:: मारणयद्वा तीक्ष्णदलोद्भूतं रजश्च त्रिफलाजलैः । (११९।१)

tīkṣṇaloha:: māraṇayadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ |

119.2११९.२

पिष्ट्वा दत्त्वौदनं किंचिच्चक्रिकां प्रविधाय च ॥ (११९।२)

piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca ||

120.1१२०.१

शोषयित्वातियत्नेन प्रपचेत्पञ्चभिः पुटैः । (१२०।१)

śoṣayitvātiyatnena prapacetpañcabhiḥ puṭaiḥ |

120.2१२०.२

रक्तवर्णं हि तद्भस्म योजनीयं यथायथम् ॥ (१२०।२)

raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham ||

121.1१२१.१

इरोन् (गेन्।):: मारण:: निरुत्थमत्स्याक्षीगन्धबाह्लीकैर्लकुचद्रवपेषितैः । (१२१।१)

iron (gen.):: māraṇa:: nirutthamatsyākṣīgandhabāhlīkairlakucadravapeṣitaiḥ |

121.2१२१.२

विलिप्य सकलं लोहं मत्स्याक्षीकल्कलेपितम् ॥ (१२१।२)

vilipya sakalaṃ lohaṃ matsyākṣīkalkalepitam ||

122.1१२२.१

भस्त्राभ्यां सुदृढं ध्मात्वा त्रिशूलीनिर्गमावधि । (१२२।१)

bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi |

122.2१२२.२

अथोद्धृत्य क्षिपेत्क्वाथे त्रिफलागोजलात्मके ॥ (१२२।२)

athoddhṛtya kṣipetkvāthe triphalāgojalātmake ||

123.1१२३.१

तस्मादाहृत्य संताड्य मृतमादाय लोहकम् । (१२३।१)

tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam |

123.2१२३.२

पुनश्च पूर्ववद् ध्मात्वा मारयेदखिलायसम् ॥ (१२३।२)

punaśca pūrvavad dhmātvā mārayedakhilāyasam ||

124.1१२४.१

खण्डयित्वा ततो गन्धगुडत्रिफलया सह । (१२४।१)

khaṇḍayitvā tato gandhaguḍatriphalayā saha |

124.2१२४.२

पुटेत्त्रिंशतिवाराणि निरुत्थं भस्म जायते ॥ (१२४।२)

puṭettriṃśativārāṇi nirutthaṃ bhasma jāyate ||

125.1१२५.१

इरोन् (गेन्।):: मारणसमगन्धम् अयश्चूर्णं कुमारीवारिभावितम् । (१२५।१)

iron (gen.):: māraṇasamagandham ayaścūrṇaṃ kumārīvāribhāvitam |

125.2१२५.२

पुटीकृतं कियत्कालमवश्यं म्रियते ह्ययः ॥ (१२५।२)

puṭīkṛtaṃ kiyatkālamavaśyaṃ mriyate hyayaḥ ||

126.1१२६.१

इरोन् (गेन्।):: मारणजम्बीररससंयुक्ते दरदे तप्तमायसम् । (१२६।१)

iron (gen.):: māraṇajambīrarasasaṃyukte darade taptamāyasam |

126.2१२६.२

बहुवारं विनिक्षिप्तं म्रियते नात्र संशयः ॥ (१२६।२)

bahuvāraṃ vinikṣiptaṃ mriyate nātra saṃśayaḥ ||

127.1१२७.१

इरोन् (गेन्।):: मारणगोमूत्रैस्त्रिफला क्वाथ्या तत्कषायेण भावयेत् । (१२७।१)

iron (gen.):: māraṇagomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet |

127.2१२७.२

त्रिःसप्ताहं प्रयत्नेन दिनैकं मर्दयेत्पुनः ॥ (१२७।२)

triḥsaptāhaṃ prayatnena dinaikaṃ mardayetpunaḥ ||

128.1१२८.१

रुद्ध्वा गजपुटे पच्याद्दिनं क्वाथेन मर्दयेत् । (१२८।१)

ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet |

128.2१२८.२

दिवा मर्द्यं पुटेद्रात्रावेकविंशद्दिनावधि । (१२८।२)

divā mardyaṃ puṭedrātrāvekaviṃśaddināvadhi |

128.3१२८.३

एकविंशत्पुटैरेवं म्रियते त्रिविधं ह्ययः ॥ (१२८।३)

ekaviṃśatpuṭairevaṃ mriyate trividhaṃ hyayaḥ ||

129.1१२९.१

कान्तलोह:: शोधनयत्पात्राध्युषिते तोये तैलबिन्दुर्न सर्पति । (१२९।१)

kāntaloha:: śodhanayatpātrādhyuṣite toye tailabindurna sarpati |

129.2१२९.२

तारेणावर्तते यत्तत्कान्तलोहं तनूकृतम् ॥ (१२९।२)

tāreṇāvartate yattatkāntalohaṃ tanūkṛtam ||

130.1१३०.१

अयसामुत्तमं सिञ्चेत्तप्तं तप्तं वरारसे । (१३०।१)

ayasāmuttamaṃ siñcettaptaṃ taptaṃ varārase |

130.2१३०.२

एवं शुद्धानि लोहानि पिष्टान्यम्लेन केनचित् ॥ (१३०।२)

evaṃ śuddhāni lohāni piṣṭānyamlena kenacit ||

131.1१३१.१

मृतसूतस्य पादेन प्रलिप्तानि पुटानले । (१३१।१)

mṛtasūtasya pādena praliptāni puṭānale |

131.2१३१.२

पचेत्तुल्येन वा ताप्यगन्धाश्महरतेजसा ॥ (१३१।२)

pacettulyena vā tāpyagandhāśmaharatejasā ||

132.1१३२.१

तप्तं क्षाराम्लसंलिप्तं शशरक्ते निधापितम् । (१३२।१)

taptaṃ kṣārāmlasaṃliptaṃ śaśarakte nidhāpitam |

132.2१३२.२

कान्तलोहं भवेद्भस्म सर्वदोषविवर्जितम् ॥ (१३२।२)

kāntalohaṃ bhavedbhasma sarvadoṣavivarjitam ||

133.1१३३.१

इरोन्:: मारण:: वारितरशुद्धं सूतं द्विधा गन्धं खल्लेन कृतकज्जलम् । (१३३।१)

iron:: māraṇa:: vāritaraśuddhaṃ sūtaṃ dvidhā gandhaṃ khallena kṛtakajjalam |

133.2१३३.२

द्वयोः समं लोहचूर्णं मर्दयेत्कन्यकाद्रवैः ॥ (१३३।२)

dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ ||

134.1१३४.१

यामद्वयात्समुद्धृत्य यद्गोलं ताम्रपात्रके । (१३४।१)

yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake |

134.2१३४.२

आच्छाद्यैरंडपत्रैश्च यामार्धेऽत्युष्णतां व्रजेत् ॥ (१३४।२)

ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet ||

135.1१३५.१

धान्यराशौ न्यसेत्पश्चात्त्रिदिनान्ते समुद्धरेत् । (१३५।१)

dhānyarāśau nyasetpaścāttridinānte samuddharet |

135.2१३५.२

संपेष्य गालयेद्वस्त्रे सत्यं वारितरं भवेत् । (१३५।२)

saṃpeṣya gālayedvastre satyaṃ vāritaraṃ bhavet |

135.3१३५.३

कान्तं तीक्ष्णं च मुंडं च निरुत्थं जायते मृतम् ॥ (१३५।३)

kāntaṃ tīkṣṇaṃ ca muṃḍaṃ ca nirutthaṃ jāyate mṛtam ||

136.1१३६.१

मेतल्स्:: मारणस्वर्णादीन्मारयेदेवं चूर्णं कृत्वा च लोहवत् । (१३६।१)

metals:: māraṇasvarṇādīnmārayedevaṃ cūrṇaṃ kṛtvā ca lohavat |

136.2१३६.२

सिद्धयोगो ह्ययं ख्यातः सिद्धानां सुमुखागतः ॥ (१३६।२)

siddhayogo hyayaṃ khyātaḥ siddhānāṃ sumukhāgataḥ ||

137.1१३७.१

अनुभूतं मया सत्यं सर्वरोगजरापहम् । (१३७।१)

anubhūtaṃ mayā satyaṃ sarvarogajarāpaham |

137.2१३७.२

त्रिफलामधुसंयुक्तं सर्वरोगेषु योजयेत् ॥ (१३७।२)

triphalāmadhusaṃyuktaṃ sarvarogeṣu yojayet ||

138.1१३८.१

एतस्माद् अपुनर्भवं हि भसितं लोहस्य दिव्यामृतं सम्यक् सिद्धरसायनं त्रिकटुकीवेल्लाज्यमध्वन्वितम् । (१३८।१)

etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam |

138.2१३८.२

हन्यान्निष्कमितं जरामरणजव्याधींश्च सत्पुत्रदं दिष्टे श्रीगिरिशेन कालयवनोद्भूत्यै पुरा तत्पितुः ॥ (१३८।२)

hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ ||

139.1१३९.१

इरोन्:: मृत:: मेदिच्। प्रोपेर्तिएस्लोहं जन्तुविकारपाण्डुपवनक्षीणत्वपित्तामयस्थौल्यार्शोग्रहणीज्वरार्तिकफजिच्छोफप्रमेहप्रणुत् । (१३९।१)

iron:: mṛta:: medic. propertieslohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut |

139.2१३९.२

गुल्मप्लीहविषापहं बलकरं कुष्ठाग्निमान्द्यप्रणुत् सौख्यालम्बिरसायनं मृतिहरं किट्टं च कान्तादिवत् ॥ (१३९।२)

gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat ||

140.1१४०.१

मृतानि लोहानि रसीभवन्ति निघ्नन्ति युक्तानि महामयांश्च । (१४०।१)

mṛtāni lohāni rasībhavanti nighnanti yuktāni mahāmayāṃśca |

140.2१४०.२

अभ्यासयोगाद् दृढदेहसिद्धिं कुर्वन्ति रुग्जन्मजराविनाशम् ॥ (१४०।२)

abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam ||

141.0१४१.०

कान्त:: ओप्तिमल्:: फ्य्स्। प्रोपेर्तिएस्पक्वजम्बूफलच्छायं कान्तलोहं तदुत्तमम् ॥ (१४१।०)

kānta:: optimal:: phys. propertiespakvajambūphalacchāyaṃ kāntalohaṃ taduttamam ||

142.1१४२.१

तीक्ष्ण:: द्रावणत्रिःसप्तकृत्वो गोमूत्रे जालिनीभस्मभावितम् । (१४२।१)

tīkṣṇa:: drāvaṇatriḥsaptakṛtvo gomūtre jālinībhasmabhāvitam |

142.2१४२.२

शोषयेत्तस्य वापेन तीक्ष्णं मूषागतं द्रवेत् ॥ (१४२।२)

śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet ||

143.1१४३.१

तीक्ष्ण:: द्रावणसुरदालिभस्म गलितं त्रिःसप्तकृत्वोऽथ गोजले शुष्कम् । (१४३।१)

tīkṣṇa:: drāvaṇasuradālibhasma galitaṃ triḥsaptakṛtvo'tha gojale śuṣkam |

143.2१४३.२

वापेन सलिलसदृशं करोति मूषागतं तीक्ष्णम् ॥ (१४३।२)

vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam ||

144.1१४४.१

कान्त:: द्रावणसुरदालिभवं भस्म नरमूत्रेण गालितम् । (१४४।१)

kānta:: drāvaṇasuradālibhavaṃ bhasma naramūtreṇa gālitam |

144.2१४४.२

त्रिःसप्तवारं तत्क्षारवापात् कान्तद्रुतिर् भवेत् ॥ (१४४।२)

triḥsaptavāraṃ tatkṣāravāpāt kāntadrutir bhavet ||

145.1१४५.१

इरोन् (गेन्।):: द्रावणगंधकं कांतपाषाणं चूर्णयित्वा समं समम् । (१४५।१)

iron (gen.):: drāvaṇagaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam |

145.2१४५.२

द्रुते लोहे प्रतीवापो देयो लोहाष्टकं द्रवेत् ॥ (१४५।२)

drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet ||

146.1१४६.१

इरोन् (गेन्।):: द्रावणदेवदाल्या द्रवैर्भाव्यं गंधकं दिनसप्तकम् । (१४६।१)

iron (gen.):: drāvaṇadevadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam |

146.2१४६.२

तेन प्रवापमात्रेण लौहं तिष्ठति सूतवत् ॥ (१४६।२)

tena pravāpamātreṇa lauhaṃ tiṣṭhati sūtavat ||

147.1१४७.१

इरोन्:: अशुद्ध:: मेदिच्। प्रोपेर्तिएसशुद्धलोहं न हितं निषेवणाद् आयुर्बलं कान्तिविनाशि निश्चितम् । (१४७।१)

iron:: aśuddha:: medic. propertiesaśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam |

147.2१४७.२

हृदि प्रपीडां तनुते ह्यपाटवं रुजं करोत्येव विशोध्य मारयेत् ॥ (१४७।२)

hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet ||

148.1१४८.१

किट्टाद्दशगुणं मुण्डं मुण्डात्तीक्ष्णं शतोन्मितम् । (१४८।१)

kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam |

148.2१४८.२

तीक्ष्णाल्लक्षगुणं कान्तं भक्षणात्कुरुते गुणान् । (१४८।२)

tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān |

148.3१४८.३

तस्मात् कान्तं सदा सेव्यं जरामृत्युहरं नृणाम् ॥ (१४८।३)

tasmāt kāntaṃ sadā sevyaṃ jarāmṛtyuharaṃ nṛṇām ||

149.1१४९.१

आयुष्प्रदाता बलवीर्यकर्ता रोगप्रहर्ता मदनस्य कर्ता । (१४९।१)

āyuṣpradātā balavīryakartā rogaprahartā madanasya kartā |

149.2१४९.२

अयःसमानं न हि किंचिद् अन्यद्रसायनं श्रेष्ठतमं हि जन्तोः ॥ (१४९।२)

ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ ||

150.1१५०.१

मण्डूर:: प्रेपरतिओनक्षाङ्गारैर्धमेत्किट्टं लोहजं तद्गवां जलैः । (१५०।१)

maṇḍūra:: preparationakṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ |

150.2१५०.२

सेचयेदक्षपात्रान्तः सप्तवारं पुनः पुनः । (१५०।२)

secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ |

150.3१५०.३

मण्डूरोऽयं समाख्यातश्चूर्णं श्लक्ष्णं प्रयोजयेत् ॥ (१५०।३)

maṇḍūro'yaṃ samākhyātaścūrṇaṃ ślakṣṇaṃ prayojayet ||

151.1१५१.१

मण्डूर:: प्रेपरतिओन्गोमूत्रैस्त्रिफला क्वाथ्या तत्क्वाथे सेचयेच्छनैः । (१५१।१)

maṇḍūra:: preparationgomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ |

151.2१५१.२

लोहकिट्टं सुसंतप्तं यावज्जीर्यति तत्स्वयम् । (१५१।२)

lohakiṭṭaṃ susaṃtaptaṃ yāvajjīryati tatsvayam |

151.3१५१.३

तच्चूर्णं जायते पेष्यं मण्डूरोऽयं प्रयोजयेत् ॥ (१५१।३)

taccūrṇaṃ jāyate peṣyaṃ maṇḍūro'yaṃ prayojayet ||

152.1१५२.१

मुण्ड:: मण्डूर:: मेदिच्। प्रोपेर्तिएस्ये गुणा मारिते मुण्डे ते गुणा मुण्डकिट्टके । (१५२।१)

muṇḍa:: maṇḍūra:: medic. propertiesye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake |

152.2१५२.२

तस्मात्सर्वत्र मण्डूरं रोगशान्त्यै प्रयोजयेत् ॥ (१५२।२)

tasmātsarvatra maṇḍūraṃ rogaśāntyai prayojayet ||

153.1१५३.१

तिन्:: सुब्त्य्पेस्खुरकं मिश्रकं चेति द्विविधं वंगमुच्यते । (१५३।१)

tin:: subtypeskhurakaṃ miśrakaṃ ceti dvividhaṃ vaṃgamucyate |

153.2१५३.२

खुरं तत्र गुणैः श्रेष्ठं मिश्रकं न हितं मतम् ॥ (१५३।२)

khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam ||

154.1१५४.१

खुर:: मृत:: परीक्षाधवलं मृतं स्निग्धं द्रुतद्रावं सगौरवम् । (१५४।१)

khura:: mṛta:: parīkṣādhavalaṃ mṛtaṃ snigdhaṃ drutadrāvaṃ sagauravam |

154.2१५४.२

मिश्रक:: फ्य्स्। प्रोपेर्तिएस्निःशब्दं खुरवंगं स्यात् मिश्रकं श्यामशुभ्रकम् ॥ (१५४।२)

miśraka:: phys. propertiesniḥśabdaṃ khuravaṃgaṃ syāt miśrakaṃ śyāmaśubhrakam ||

155.1१५५.१

तिन्:: मेदिच्। प्रोपेर्तिएस्वङ्गं तिक्तोष्णकं रूक्षमीषद् वातप्रकोपनम् । (१५५।१)

tin:: medic. propertiesvaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣad vātaprakopanam |

155.2१५५.२

मेहश्लेष्मामयघ्नं च मेदोघ्नं कृमिनाशनम् ॥ (१५५।२)

mehaśleṣmāmayaghnaṃ ca medoghnaṃ kṛmināśanam ||

156.1१५६.१

खुर:: शोधनद्रावयित्वा निशायुक्ते क्षिप्तं निर्गुण्डिकारसे । (१५६।१)

khura:: śodhanadrāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase |

156.2१५६.२

विशुध्यति त्रिवारेण खुरवंगं न संशयः ॥ (१५६।२)

viśudhyati trivāreṇa khuravaṃgaṃ na saṃśayaḥ ||

157.1१५७.१

मिश्रक:: शोधनअम्लतक्रविनिक्षिप्तं वर्षाभूविषतिन्दुभिः । (१५७।१)

miśraka:: śodhanaamlatakravinikṣiptaṃ varṣābhūviṣatindubhiḥ |

157.2१५७.२

कट्फलांबुगतं वंगं द्वितीयं परिशुध्यति ॥ (१५७।२)

kaṭphalāṃbugataṃ vaṃgaṃ dvitīyaṃ pariśudhyati ||

158.1१५८.१

मेतल्स्:: शोधनशुध्यति नागो वंगो घोषो रविरातपेऽपि मुनिसंख्यैः । (१५८।१)

metals:: śodhanaśudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ |

158.2१५८.२

निर्गुण्डीरससेकैस्तन्मूलरजःप्रवापैश्च ॥ (१५८।२)

nirguṇḍīrasasekaistanmūlarajaḥpravāpaiśca ||

159.1१५९.१

तिन्:: मारणसतालेनार्कदुग्धेन लिप्त्वा वंगदलानि च । (१५९।१)

tin:: māraṇasatālenārkadugdhena liptvā vaṃgadalāni ca |

159.2१५९.२

बोधिचिंचात्वचः क्षारैर्दद्याल्लघुपुटानि च । (१५९।२)

bodhiciṃcātvacaḥ kṣārairdadyāllaghupuṭāni ca |

159.3१५९.३

मर्दयित्वा चरेद्भस्म तद्रसादिषु शस्यते ॥ (१५९।३)

mardayitvā caredbhasma tadrasādiṣu śasyate ||

160.1१६०.१

तिन्:: मारणप्रद्राव्य खर्परे वंगं षोडशांशं रसं क्षिपेत् । (१६०।१)

tin:: māraṇapradrāvya kharpare vaṃgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet |

160.2१६०.२

स्वल्पस्वल्पालकं दत्त्वा भारद्वाजस्य काष्ठतः । (१६०।२)

svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ |

160.3१६०.३

मर्दयित्वा चरेद्भस्म तद्रसादिषु शस्यते ॥ (१६०।३)

mardayitvā caredbhasma tadrasādiṣu śasyate ||

161.1१६१.१

तिन्:: मारणपलाशद्रवयुक्तेन वंगपत्रं प्रलेपयेत् । (१६१।१)

tin:: māraṇapalāśadravayuktena vaṃgapatraṃ pralepayet |

161.2१६१.२

तालेन पुटितं पश्चान्म्रियते नात्र संशयः ॥ (१६१।२)

tālena puṭitaṃ paścānmriyate nātra saṃśayaḥ ||

162.1१६२.१

तिन्:: मारणभल्लाततैलसंलिप्तं वंगं वस्त्रेण वेष्टितम् । (१६२।१)

tin:: māraṇabhallātatailasaṃliptaṃ vaṃgaṃ vastreṇa veṣṭitam |

162.2१६२.२

चिंचापिप्पलपालाशकाष्ठाग्नौ याति पञ्चताम् ॥ (१६२।२)

ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām ||

163.1१६३.१

तिन्:: ड़ोर्मुलतिओन्स्वंगभस्मसमं कान्तं व्योमभस्म च तत्समम् । (१६३।१)

tin:: formulationsvaṃgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam |

163.2१६३.२

मर्दयेत्कनकाम्भोभिर्निम्बपत्ररसैरपि ॥ (१६३।२)

mardayetkanakāmbhobhirnimbapatrarasairapi ||

164.1१६४.१

दाडिमस्य मयूरस्य रसेन च पृथक् पृथक् । (१६४।१)

dāḍimasya mayūrasya rasena ca pṛthak pṛthak |

164.2१६४.२

भूपालावर्तभस्माथ विनिक्षिप्य समांशकम् ॥ (१६४।२)

bhūpālāvartabhasmātha vinikṣipya samāṃśakam ||

165.1१६५.१

गोमूलकशिलाधातुजलैः सम्यग्विमर्दयेत् । (१६५।१)

gomūlakaśilādhātujalaiḥ samyagvimardayet |

165.2१६५.२

ततो गुग्गुलतोयेन मर्दयित्वा दिनाष्टकम् ॥ (१६५।२)

tato guggulatoyena mardayitvā dināṣṭakam ||

166.1१६६.१

विशोष्य परिचूर्ण्याथ समभागेन योजयेत् । (१६६।१)

viśoṣya paricūrṇyātha samabhāgena yojayet |

166.2१६६.२

घृष्टं बन्धूकनिर्यासैर् नाकुलीबीजचूर्णकैः ॥ (१६६।२)

ghṛṣṭaṃ bandhūkaniryāsair nākulībījacūrṇakaiḥ ||

167.1१६७.१

ततः क्षिपेत्करण्डान्तर्विधाय पटगालितम् । (१६७।१)

tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam |

167.2१६७.२

गोतक्रपिष्टरजनीसारेण सह पाययेत् ॥ (१६७।२)

gotakrapiṣṭarajanīsāreṇa saha pāyayet ||

168.1१६८.१

चतुर्भिर् वल्लकैस्तुल्यं रम्यं वंगरसायनम् । (१६८।१)

caturbhir vallakaistulyaṃ ramyaṃ vaṃgarasāyanam |

168.2१६८.२

निश्चितं तेन नश्यन्ति मेहा विंशतिभेदकाः ॥ (१६८।२)

niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ ||

169.1१६९.१

शालयो मुद्गसूपं च नवनीतं तिलोद्भवम् । (१६९।१)

śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam |

169.2१६९.२

पटोलं तिक्ततुण्डीरं तक्रं पथ्याय शस्यते ॥ (१६९।२)

paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyāya śasyate ||

170.1१७०.१

लेअद्:: शुद्ध:: परीक्षाद्रुतद्रावं महाभारं छेदे कृष्णं समुज्ज्वलम् । (१७०।१)

lead:: śuddha:: parīkṣādrutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam |

170.2१७०.२

पूतिगन्धं बहिः कृष्णं शुद्धं सीसमतोऽन्यथा ॥ (१७०।२)

pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā ||

171.1१७१.१

लेअद्:: मेदिच्। प्रोपेर्तिएसत्युष्णं सीसकं स्निग्धं तिक्तं वातकफापहम् । (१७१।१)

lead:: medic. propertiesatyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātakaphāpaham |

171.2१७१.२

प्रमेहतोयदोषघ्नं दीपनं चामवातनुत् ॥ (१७१।२)

pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut ||

172.1१७२.१

लेअद्:: शोधनसिन्दुवारजटाकौन्तीहरिद्राचूर्णकं क्षिपेत् । (१७२।१)

lead:: śodhanasinduvārajaṭākauntīharidrācūrṇakaṃ kṣipet |

172.2१७२.२

द्रुते नागेऽथ निर्गुण्ड्यास् त्रिवारं निक्षिपेद्रसे । (१७२।२)

drute nāge'tha nirguṇḍyās trivāraṃ nikṣipedrase |

172.3१७२.३

नागः शुद्धो भवेदेवं मूर्छास्फोटादि नाचरेत् ॥ (१७२।३)

nāgaḥ śuddho bhavedevaṃ mūrchāsphoṭādi nācaret ||

173.1१७३.१

लेअद्:: मारणतिर्यगाकारचुल्ल्यां तु तिर्यग्वक्त्रं घटं न्यसेत् । (१७३।१)

lead:: māraṇatiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ nyaset |

173.2१७३.२

तं च वक्त्रं विना सर्वं गोपयेद्यत्नतो मृदा ॥ (१७३।२)

taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā ||

174.1१७४.१

भृष्टयन्त्राभिधे तस्मिन् पात्रे सीसं विनिक्षिपेत् । (१७४।१)

bhṛṣṭayantrābhidhe tasmin pātre sīsaṃ vinikṣipet |

174.2१७४.२

पलविंशतिकं शुद्धमधस्तीव्रानलं क्षिपेत् ॥ (१७४।२)

palaviṃśatikaṃ śuddhamadhastīvrānalaṃ kṣipet ||

175.1१७५.१

द्रुते नागे क्षिपेत्सूतं शुद्धं कर्षमितं शुभम् । (१७५।१)

drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham |

175.2१७५.२

घर्षयित्वा क्षिपेत्क्षारमेकैकं हि पलं पलम् ॥ (१७५।२)

gharṣayitvā kṣipetkṣāramekaikaṃ hi palaṃ palam ||

176.1१७६.१

अर्जुनस्याक्षवृक्षस्य महाराजगिरेरपि । (१७६।१)

arjunasyākṣavṛkṣasya mahārājagirerapi |

176.2१७६.२

दाडिमस्य मयूरस्य क्षिप्त्वा क्षारं पृथक् पृथक् ॥ (१७६।२)

dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak ||

177.1१७७.१

एवं विंशतिरात्राणि पचेत्तीव्रेण वह्निना । (१७७।१)

evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā |

177.2१७७.२

विघट्टयन्दृढं दोर्भ्यां लोहदर्व्या प्रयत्नतः ॥ (१७७।२)

vighaṭṭayandṛḍhaṃ dorbhyāṃ lohadarvyā prayatnataḥ ||

178.1१७८.१

रक्तं तज्जायते भस्म कपोतच्छायमेव वा । (१७८।१)

raktaṃ tajjāyate bhasma kapotacchāyameva vā |

178.2१७८.२

नागं दोषविनिर्मुक्तं जायतेऽतिरसायनम् ॥ (१७८।२)

nāgaṃ doṣavinirmuktaṃ jāyate'tirasāyanam ||

179.1१७९.१

लेअद्:: मारणहतमुत्थापितं सीसं दशवारेण सिध्यति । (१७९।१)

lead:: māraṇahatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati |

179.2१७९.२

तन्मृतं सीसकं सर्वदोषमुक्तं रसायनम् ॥ (१७९।२)

tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam ||

180.1१८०.१

लेअद्:: मारण:: निरुत्थअश्वत्थचिंचात्वग्भस्म नागस्य चतुरंशतः । (१८०।१)

lead:: māraṇa:: nirutthaaśvatthaciṃcātvagbhasma nāgasya caturaṃśataḥ |

180.2१८०.२

क्षिपेन्नागं पचेत्पात्रे चालयेल्लोहचाटुना ॥ (१८०।२)

kṣipennāgaṃ pacetpātre cālayellohacāṭunā ||

181.1१८१.१

यामाद्भस्म तदुद्धृत्य भस्मतुल्या मनःशिला । (१८१।१)

yāmādbhasma taduddhṛtya bhasmatulyā manaḥśilā |

181.2१८१.२

जम्बीरैर् आरनालैर्वा पिष्ट्वा रुद्ध्वा पुटे पचेत् ॥ (१८१।२)

jambīrair āranālairvā piṣṭvā ruddhvā puṭe pacet ||

182.1१८२.१

स्वांगशीतं पुनः पिष्ट्वा विंशत्यंशशिलायुतम् । (१८२।१)

svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam |

182.2१८२.२

अम्लेनैव तु यामैकं पूर्ववत्पाचयेत्पुटे । (१८२।२)

amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe |

182.3१८२.३

एवं षष्टिपुटैः पक्वो नागः स्यात्सुनिरुत्थितः ॥ (१८२।३)

evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātsunirutthitaḥ ||

183.1१८३.१

लेअद्:: मारण:: निरुत्थशिलया रविदुग्धेन नागपत्राणि लेपयेत् । (१८३।१)

lead:: māraṇa:: nirutthaśilayā ravidugdhena nāgapatrāṇi lepayet |

183.2१८३.२

मारयेत्पुटयोगेन निरुत्थं जायते तथा ॥ (१८३।२)

mārayetpuṭayogena nirutthaṃ jāyate tathā ||

184.1१८४.१

लेअद्:: ड़ोर्मुलतिओन्सेवं नागोद्भवं भस्म ताप्यभस्मार्धभागिकम् । (१८४।१)

lead:: formulationsevaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam |

184.2१८४.२

पादं पादं क्षिपेद्भस्म शुल्बस्य विमलस्य च ॥ (१८४।२)

pādaṃ pādaṃ kṣipedbhasma śulbasya vimalasya ca ||

185.1१८५.१

कान्ताभ्रसत्त्वयोश् चापि स्फटिकस्य पृथक् पृथक् । (१८५।१)

kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak |

185.2१८५.२

सर्वमेकत्र संचूर्ण्य पुटेत्त्रिफलवारिणा ॥ (१८५।२)

sarvamekatra saṃcūrṇya puṭettriphalavāriṇā ||

186.1१८६.१

त्रिंशद्वनगिरिण्डैश्च त्रिंशद्वारं विचूर्ण्य तत् । (१८६।१)

triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat |

186.2१८६.२

व्योषवेल्लकचूर्णैश्च समांशैः सह मेलयेत् ॥ (१८६।२)

vyoṣavellakacūrṇaiśca samāṃśaiḥ saha melayet ||

187.1१८७.१

मध्वाज्यसहितं हन्ति प्रलीढं वल्लमात्रया । (१८७।१)

madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā |

187.2१८७.२

अशीतिवातजान्रोगान्धनुर्वातं विशेषतः ॥ (१८७।२)

aśītivātajānrogāndhanurvātaṃ viśeṣataḥ ||

188.1१८८.१

कफरोगानशेषांश्च मूत्ररोगांश्च सर्वशः । (१८८।१)

kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ |

188.2१८८.२

श्वासं कासं क्षयं पाण्डुं श्वयथुं शीतकज्वरम् ॥ (१८८।२)

śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakajvaram ||

189.1१८९.१

ग्रहणीमामदोषं च वह्निमान्द्यं सुदुर्जरम् । (१८९।१)

grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ sudurjaram |

189.2१८९.२

सर्वानुदकदोषांश्च तत्तद्रोगानुपानतः ॥ (१८९।२)

sarvānudakadoṣāṃśca tattadrogānupānataḥ ||

190.0१९०.०

ब्रस्स्:: सुब्त्य्पेस्रीतिका काकतुण्डी च द्विविधं पित्तलं भवेत् ॥ (१९०।०)

brass:: subtypesrītikā kākatuṇḍī ca dvividhaṃ pittalaṃ bhavet ||

191.0१९१.०

रीतिका:: परीक्षासंताप्य कांजिके क्षिप्ता ताम्राभा रीतिका मता ॥ (१९१।०)

rītikā:: parīkṣāsaṃtāpya kāṃjike kṣiptā tāmrābhā rītikā matā ||

192.0१९२.०

काकतुण्डी:: परीक्षाएवं या जायते कृष्णा काकतुण्डीति सा मता ॥ (१९२।०)

kākatuṇḍī:: parīkṣāevaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā ||

193.1१९३.१

रीतिका:: मेदिच्। प्रोपेर्तिएस्रीतिस्तिक्तरसा रूक्षा जन्तुघ्नी सास्रपित्तनुत् । (१९३।१)

rītikā:: medic. propertiesrītistiktarasā rūkṣā jantughnī sāsrapittanut |

193.2१९३.२

पाण्डुकुष्ठहरा योगात्सोष्णवीर्या च शीतला ॥ (१९३।२)

pāṇḍukuṣṭhaharā yogātsoṣṇavīryā ca śītalā ||

194.1१९४.१

काकतुण्डी:: मेदिच्। प्रोपेर्तिएस्काकतुण्डी गतस्नेहा तिक्तोष्णा कफपित्तनुत् । (१९४।१)

kākatuṇḍī:: medic. propertieskākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut |

194.2१९४.२

यकृत्प्लीहहरा शीतवीर्या च परिकीर्तिता ॥ (१९४।२)

yakṛtplīhaharā śītavīryā ca parikīrtitā ||

195.1१९५.१

ब्रस्स्:: रीति:: फ्य्स्। प्रोपेर्तिएस्गुर्वी मृद्वी च पीताभा साराङ्गी ताडनक्षमा । (१९५।१)

brass:: rīti:: phys. propertiesgurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā |

195.2१९५.२

सुस्निग्धा मसृणाङ्गी च रीतिरेतादृशी शुभा ॥ (१९५।२)

susnigdhā masṛṇāṅgī ca rītiretādṛśī śubhā ||

196.1१९६.१

रीति:: परीक्षा:: बद् क़ुअलित्य्पाण्डुपीता खरा रूक्षा बर्बरा ताडनाक्षमा । (१९६।१)

rīti:: parīkṣā:: bad qualitypāṇḍupītā kharā rūkṣā barbarā tāḍanākṣamā |

196.2१९६.२

पूतिगन्धा तथा लघ्वी रीतिर्नेष्टा रसादिषु ॥ (१९६।२)

pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu ||

197.1१९७.१

रीति:: शोधनतप्त्वा क्षिप्त्वा च निर्गुण्डीरसे श्यामारजोऽन्विते । (१९७।१)

rīti:: śodhanataptvā kṣiptvā ca nirguṇḍīrase śyāmārajo'nvite |

197.2१९७.२

पञ्चवारेण संशुद्धिं रीतिरायाति निश्चितम् ॥ (१९७।२)

pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam ||

198.1१९८.१

रीति:: मारणनिम्बूरसशिलागन्धवेष्टिता पुटिताष्टधा । (१९८।१)

rīti:: māraṇanimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā |

198.2१९८.२

रीतिरायाति भस्मत्वं ततो योज्या यथायथम् ॥ (१९८।२)

rītirāyāti bhasmatvaṃ tato yojyā yathāyatham ||

199.0१९९.०

रीति:: मारणताम्रवन्मारणं तस्याः कृत्वा सर्वत्र योजयेत् ॥ (१९९।०)

rīti:: māraṇatāmravanmāraṇaṃ tasyāḥ kṛtvā sarvatra yojayet ||

200.1२००.१

ब्रस्स्:: पित्तलरसायनमृतारकूटकं कान्तं व्योमसत्त्वं च मारितम् । (२००।१)

brass:: pittalarasāyanamṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam |

200.2२००.२

त्रयं समांशकं तुल्यं व्योषं जन्तुघ्नसंयुतम् ॥ (२००।२)

trayaṃ samāṃśakaṃ tulyaṃ vyoṣaṃ jantughnasaṃyutam ||

201.1२०१.१

ब्रह्मबीजाजमोदाग्निभल्लाततिलसंयुतम् । (२०१।१)

brahmabījājamodāgnibhallātatilasaṃyutam |

201.2२०१.२

सेवितं निष्कमात्रं हि जन्तुघ्नं कुष्ठनाशनम् । (२०१।२)

sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam |

201.3२०१.३

विशेषाच्छ्वेतकुष्ठघ्नं दीपनं पाचनं हितम् ॥ (२०१।३)

viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam ||

202.1२०२.१

ब्रस्स्:: द्रावणसुवर्णरीतिकाचूर्णं भक्षितं वेष्टितं पुनः । (२०२।१)

brass:: drāvaṇasuvarṇarītikācūrṇaṃ bhakṣitaṃ veṣṭitaṃ punaḥ |

202.2२०२.२

छागेन कृष्णवर्णेन मत्तेन तरुणेन च ॥ (२०२।२)

chāgena kṛṣṇavarṇena mattena taruṇena ca ||

203.1२०३.१

तल्लिप्तं खर्परे दग्धं द्रुतिं मुञ्चति शोभनाम् । (२०३।१)

talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām |

203.2२०३.२

चतुर्दशलसद्वर्णसुवर्णसदृशछविः । (२०३।२)

caturdaśalasadvarṇasuvarṇasadṛśachaviḥ |

203.3२०३.३

देहलोहकरी प्रोक्ता युक्ता रसरसायने ॥ (२०३।३)

dehalohakarī proktā yuktā rasarasāyane ||

204.1२०४.१

ब्रोन्ज़े:: प्रोदुच्तिओनष्टभागेन ताम्रेण द्विभागखुरकेण च । (२०४।१)

bronze:: productionaṣṭabhāgena tāmreṇa dvibhāgakhurakeṇa ca |

204.2२०४.२

विद्रुतेन भवेत्कांस्यं तत्सौराष्ट्रभवं शुभम् ॥ (२०४।२)

vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham ||

205.1२०५.१

ब्रोन्ज़े:: परीक्षा:: गोओद् क़ुअलित्य्तीक्ष्णशब्दं मृदु स्निग्धमीषच्छ्यामलशुभ्रकम् । (२०५।१)

bronze:: parīkṣā:: good qualitytīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam |

205.2२०५.२

निर्मलं दाहरक्तं च षोढा कांस्यं प्रशस्यते ॥ (२०५।२)

nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate ||

206.1२०६.१

ब्रोन्ज़े:: परीक्षा:: बद् क़ुअलित्य्तत्पीतं दहने ताम्रं खरं रूक्षं घनासहम् । (२०६।१)

bronze:: parīkṣā:: bad qualitytatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham |

206.2२०६.२

मन्दनादं गतज्योतिः सप्तधा कांस्यमुत्सृजेत् ॥ (२०६।२)

mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet ||

207.1२०७.१

ब्रोन्ज़े:: मेदिच्। प्रोपेर्तिएस्कांस्यं लघु च तिक्तोष्णं लेखनं दृक्प्रसादनम् । (२०७।१)

bronze:: medic. propertieskāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam |

207.2२०७.२

कृमिकुष्ठहरं वातपित्तघ्नं दीपनं हितम् ॥ (२०७।२)

kṛmikuṣṭhaharaṃ vātapittaghnaṃ dīpanaṃ hitam ||

208.1२०८.१

घृतमेकं विना चान्यत्सर्वं कांस्यगतं नृणाम् । (२०८।१)

ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām |

208.2२०८.२

भुक्तमारोग्यसुखदं हितं सात्म्यकरं तथा ॥ (२०८।२)

bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā ||

209.0२०९.०

ब्रोन्ज़े:: शोधनतप्तं कांस्यं गवां मूत्रे वापितं परिशुध्यति ॥ (२०९।०)

bronze:: śodhanataptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati ||

210.0२१०.०

ब्रोन्ज़े:: मारण:: निरुत्थम्रियते गन्धतालाभ्यां निरुत्थं पञ्चभिः पुटैः ॥ (२१०।०)

bronze:: māraṇa:: nirutthamriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ ||

211.1२११.१

ब्रोन्ज़े:: मारणत्रिक्षारं पञ्चलवणं सप्तधाम्लेन भावयेत् । (२११।१)

bronze:: māraṇatrikṣāraṃ pañcalavaṇaṃ saptadhāmlena bhāvayet |

211.2२११.२

कांस्यारकूटपत्राणि तेन कल्केन लेपयेत् । (२११।२)

kāṃsyārakūṭapatrāṇi tena kalkena lepayet |

211.3२११.३

रुद्ध्वा गजपुटे पक्वं शुद्धभस्मत्वमाप्नुयात् ॥ (२११।३)

ruddhvā gajapuṭe pakvaṃ śuddhabhasmatvamāpnuyāt ||

212.1२१२.१

वर्तलोहकांस्यार्करीतिलोहाहिजातं तद्वर्तलोहकम् । (२१२।१)

vartalohakāṃsyārkarītilohāhijātaṃ tadvartalohakam |

212.2२१२.२

तदेव पञ्चलोहाख्यं लोहविद्भिरुदाहृतम् ॥ (२१२।२)

tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam ||

213.1२१३.१

वर्तलोह:: मेदिच्। प्रोपेर्तिएस्हिमाम्लं कटुकं रूक्षं कफपित्तविनाशनम् । (२१३।१)

vartaloha:: medic. propertieshimāmlaṃ kaṭukaṃ rūkṣaṃ kaphapittavināśanam |

213.2२१३.२

रुच्यं त्वच्यं कृमिघ्नं च नेत्र्यं मलविशोधनम् ॥ (२१३।२)

rucyaṃ tvacyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam ||

214.1२१४.१

तद्भाण्डे साधितं सर्वम् अन्नव्यञ्जनसूपकम् । (२१४।१)

tadbhāṇḍe sādhitaṃ sarvam annavyañjanasūpakam |

214.2२१४.२

अम्लेन वर्जितं चातिदीपनं पाचनं हितम् ॥ (२१४।२)

amlena varjitaṃ cātidīpanaṃ pācanaṃ hitam ||

215.0२१५.०

वर्तलोह:: शोधनद्रुतमश्वजले क्षिप्तं वर्तलोहं विशुध्यति ॥ (२१५।०)

vartaloha:: śodhanadrutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati ||

216.1२१६.१

वर्तलोह:: मारणम्रियते गन्धतालाभ्यां पुटितं वर्तलोहकम् । (२१६।१)

vartaloha:: māraṇamriyate gandhatālābhyāṃ puṭitaṃ vartalohakam |

216.2२१६.२

तेषु तेष्विह योगेषु योजनीयं यथाविधि ॥ (२१६।२)

teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi ||

217.1२१७.१

मेर्चुर्य्:: प्रेपरतिओन् wइथ् महारसस् एत्च्।जातिमद्भिर्विशुद्धैश्च विधिना परिसाधितैः । (२१७।१)

mercury:: preparation with mahārasas etc.jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ |

217.2२१७.२

रसोपरसलोहाद्यैः सूतः सिध्यति नान्यथा ॥ (२१७।२)

rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā ||

218.1२१८.१

रत्नानि लोहानि वराटशुक्तिपाषाणजातं खुरशृङ्गशल्यम् । (२१८।१)

ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam |

218.2२१८.२

महारसाद्येषु कठोरदेहं भस्मीकृतं स्यात् खलु सूतयोग्यम् ॥ (२१८।२)

mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam ||

219.1२१९.१

भूनाग:: सत्त्ववज्राणां द्रावणार्थाय सत्त्वं भूनागजं ब्रुवे । (२१९।१)

bhūnāga:: sattvavajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve |

219.2२१९.२

तदेव परमं तेजः सूतराजेन्द्रवज्रयोः ॥ (२१९।२)

tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ ||

220.1२२०.१

धौतभूनागसम्भूतं मर्दयेद्भृंगजद्रवैः । (२२०।१)

dhautabhūnāgasambhūtaṃ mardayedbhṛṃgajadravaiḥ |

220.2२२०.२

निम्बूद्रवैश्च निर्गुण्ड्याः स्वरसैस्त्रिदिनं पृथक् ॥ (२२०।२)

nimbūdravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak ||

221.1२२१.१

तद्द्रावणगणोपेतं संमर्द्य वटकीकृतम् । (२२१।१)

taddrāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam |

221.2२२१.२

निरुध्य दृढमूषायां द्विदण्डं प्रधमेद् दृढम् ॥ (२२१।२)

nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham ||

222.1२२२.१

स्वतःशीतं समाहृत्य पट्टके विनिवेश्य तत् । (२२२।१)

svataḥśītaṃ samāhṛtya paṭṭake viniveśya tat |

222.2२२२.२

रवकान् राजिकातुल्यान् रेणून् अतिभरान्वितान् ॥ (२२२।२)

ravakān rājikātulyān reṇūn atibharānvitān ||

223.1२२३.१

द्वादशांशार्कसंयुक्तान्धमित्वा रवकान्हरेत् । (२२३।१)

dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet |

223.2२२३.२

प्रक्षाल्य रवकानाशु समादाय प्रयत्नतः ॥ (२२३।२)

prakṣālya ravakānāśu samādāya prayatnataḥ ||

224.1२२४.१

वज्रादिद्रावणं तेन प्रकुर्वीत यथेप्सितम् । (२२४।१)

vajrādidrāvaṇaṃ tena prakurvīta yathepsitam |

224.2२२४.२

खरसत्त्वम् इदं प्रोक्तं रसायनमनुत्तमम् । (२२४।२)

kharasattvam idaṃ proktaṃ rasāyanamanuttamam |

224.3२२४.३

द्वित्रिमूषासु चैकस्यां सत्त्वं भवति निश्चितम् ॥ (२२४।३)

dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam ||

225.1२२५.१

भूनाग:: सत्त्वभुजङ्गमानुपादाय चतुष्प्रस्थसमन्वितान् । (२२५।१)

bhūnāga:: sattvabhujaṅgamānupādāya catuṣprasthasamanvitān |

225.2२२५.२

सुवर्णरूप्यताम्रायस्कांतसंभूतिभूमिजान् ॥ (२२५।२)

suvarṇarūpyatāmrāyaskāṃtasaṃbhūtibhūmijān ||

226.1२२६.१

प्रक्षाल्य रजनीतोयैः शीतलैश्च जलैरपि । (२२६।१)

prakṣālya rajanītoyaiḥ śītalaiśca jalairapi |

226.2२२६.२

उपोषितं मयूरं वा शूरं वा चरणायुधम् ॥ (२२६।२)

upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham ||

227.1२२७.१

क्रमेण चारयित्वाथ तद्विष्ठां समुपाहरेत् । (२२७।१)

krameṇa cārayitvātha tadviṣṭhāṃ samupāharet |

227.2२२७.२

क्षाराम्लैः सह संपेष्य विशोष्य च खरातपे ॥ (२२७।२)

kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape ||

228.1२२८.१

ततः खर्परके क्षिप्त्वा भर्जयित्वा मषीं चरेत् । (२२८।१)

tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret |

228.2२२८.२

मषीं द्रावणवर्गेण संयुक्तां संप्रमर्दिताम् ॥ (२२८।२)

maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām ||

229.1२२९.१

निरुध्य कोष्ठिकामध्ये प्रधमेद् घटिकाद्वयम् । (२२९।१)

nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam |

229.2२२९.२

शीतलीभूतमूषायाः खोटमाहृत्य पेषयेत् ॥ (२२९।२)

śītalībhūtamūṣāyāḥ khoṭamāhṛtya peṣayet ||

230.1२३०.१

प्रक्षाल्य रवकान्सूक्ष्मान्समादाय प्रयत्नतः । (२३०।१)

prakṣālya ravakānsūkṣmānsamādāya prayatnataḥ |

230.2२३०.२

सुवर्णमानवद् ध्मात्वा रवं कृत्वा नियोजयेत् ॥ (२३०।२)

suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet ||

231.1२३१.१

भूनाग:: मुद्रिका (?)भूनागोद्भवसत्त्वमुत्तममिदं श्रीसोमदेवोदितं दत्तं पादमितं द्विशाणकनकेनैकं गतेनोर्मिकाम् । (२३१।१)

bhūnāga:: mudrikā (?)bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām |

231.2२३१.२

तद्धौताम्बुविलेपितं स्थिरचरोद्भूतं विषं नेत्ररुक् शूलं मूलगदं च कर्णजरुजो हन्यात् प्रसूतिग्रहम् ॥ (२३१।२)

taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham ||

232.1२३२.१

तैलपातनमूलान्युत्तरवारुण्या जर्जरीकृत्य कांजिके । (२३२।१)

tailapātanamūlānyuttaravāruṇyā jarjarīkṛtya kāṃjike |

232.2२३२.२

क्षिपेदङ्कोल्लबीजानां पेशिकां जर्जरीकृताम् । (२३२।२)

kṣipedaṅkollabījānāṃ peśikāṃ jarjarīkṛtām |

232.3२३२.३

तत्तैलं घृतवत्स्त्यानं ग्राह्यं तत्तु यथाविधि ॥ (२३२।३)

tattailaṃ ghṛtavatstyānaṃ grāhyaṃ tattu yathāvidhi ||

233.1२३३.१

तैलपातनसंपेष्योत्तरवारुण्याः पेटकार्या दलान्यथ । (२३३।१)

tailapātanasaṃpeṣyottaravāruṇyāḥ peṭakāryā dalānyatha |

233.2२३३.२

काञ्जिकेन ततस्तेन कल्केन परिमर्दयेत् ॥ (२३३।२)

kāñjikena tatastena kalkena parimardayet ||

234.1२३४.१

रजश्चाङ्कोल्लबीजानां तद्बद्ध्वा विरलाम्बरे । (२३४।१)

rajaścāṅkollabījānāṃ tadbaddhvā viralāmbare |

234.2२३४.२

तद्विलम्ब्यातपे तीव्रे तस्याधश्चषकं न्यसेत् । (२३४।२)

tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset |

234.3२३४.३

तस्मिन्निपतितं तैलमादेयं श्वित्रनाशनम् ॥ (२३४।३)

tasminnipatitaṃ tailamādeyaṃ śvitranāśanam ||

235.1२३५.१

तैल:: पातनअङ्कोल्लबीजसम्भूतं चूर्णं संमर्द्य काञ्जिकैः । (२३५।१)

taila:: pātanaaṅkollabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ |

235.2२३५.२

एकरात्रोषितं तत्तु पिण्डीकृत्य ततः परम् ॥ (२३५।२)

ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param ||

236.1२३६.१

स्वेदयेत्कन्दुके यन्त्रे घटिकाद्वितयं ततः । (२३६।१)

svedayetkanduke yantre ghaṭikādvitayaṃ tataḥ |

236.2२३६.२

तां च पिण्डीं दृढे वस्त्रे बद्ध्वा निष्पीड्य काष्ठतः ॥ (२३६।२)

tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ ||

237.1२३७.१

अधःपात्रस्थितं तैलं समाहृत्य नियोजयेत् । (२३७।१)

adhaḥpātrasthitaṃ tailaṃ samāhṛtya niyojayet |

237.2२३७.२

एवं कन्दुकयन्त्रेण सर्वतैलान्युपाहरेत् ॥ (२३७।२)

evaṃ kandukayantreṇa sarvatailānyupāharet ||

238.0२३८.०

अङ्कोलस्यापि तैलं स्यात्काकतुण्ड्या समूलया ॥ (२३८।०)

aṅkolasyāpi tailaṃ syātkākatuṇḍyā samūlayā ||

239.0२३९.०

तैल:: पातनवाकुचिदेवदाल्योश्च कर्कोटीमूलतो भवेत् ॥ (२३९।०)

taila:: pātanavākucidevadālyośca karkoṭīmūlato bhavet ||

240.0२४०.०

तैल:: विषमुष्टिअपामार्गकषायेण तैलं स्याद्विषमुष्टिजम् ॥ (२४०।०)

taila:: viṣamuṣṭiapāmārgakaṣāyeṇa tailaṃ syādviṣamuṣṭijam ||

241.0२४१.०

तैल:: जैपालमूलक्वाथैः कुमार्याश्च तैलं जैपालजं हरेत् ॥ (२४१।०)

taila:: jaipālamūlakvāthaiḥ kumāryāśca tailaṃ jaipālajaṃ haret ||

242.0२४२.०

तैल:: वाकुचीक्वाथै रक्तापामार्गस्य वाकुचीतैलमाहरेत् ॥ (२४२।०)

taila:: vākucīkvāthai raktāpāmārgasya vākucītailamāharet ||

243.1२४३.१

तैल:: पातनकृष्णायाः काकतुण्ड्याश्च बीजचूर्णानि कारयेत् । (२४३।१)

taila:: pātanakṛṣṇāyāḥ kākatuṇḍyāśca bījacūrṇāni kārayet |

243.2२४३.२

कान्तपाषाणचूर्णं च एकीकृत्य निरोधयेत् । (२४३।२)

kāntapāṣāṇacūrṇaṃ ca ekīkṛtya nirodhayet |

243.3२४३.३

धान्यराशिगतं पश्चादुद्धृत्य तैलमाहरेत् ॥ (२४३।३)

dhānyarāśigataṃ paścāduddhṛtya tailamāharet ||

Data courtesy of The Digital Corpus of Sanskrit.

RRS, 5

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit