रसरत्नसमुच्चयRasaratnasamuccaya

RRS, 2

2 of 18 · 344 verses

Select a line for its word-by-word analysis.

1.1१.१

अष्टमहारसाःअभ्रवैक्रान्तमाक्षीकविमलाद्रिजसस्यकम् । (१।१)

aṣṭamahārasāḥabhravaikrāntamākṣīkavimalādrijasasyakam |

1.2१.२

चपलो रसकश्चेति ज्ञात्वाष्टौ संग्रहेद् रसान् ॥ (१।२)

capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān ||

2.1२.१

देव्या रजो भवेद्गन्धो धातुः शुक्रं तथाभ्रकम् इति क्षेपकः । (२।१)

devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ |

2.2२.२

अभ्र:: मेदिच्। प्रोपेर्तिएस्गौरीतेजः परमममृतं वातपित्तक्षयघ्नम् प्रज्ञाबोधि प्रशमितरुजं वृष्यमायुष्यमग्र्यम् । (२।२)

abhra:: medic. propertiesgaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam |

2.3२.३

बल्यं स्निग्धं रुचिदम् अकफं दीपनं शीतवीर्यं तत्तद्योगैः सकलगदहृद् व्योम सूतेन्द्रबन्धि ॥ (२।३)

balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi ||

3.1३.१

अभ्र:: प्रोदुच्तिओन्राजहस्ताद् अधस्ताद् यत्समानीतं घनं खनेः । (३।१)

abhra:: productionrājahastād adhastād yatsamānītaṃ ghanaṃ khaneḥ |

3.2३.२

भवेत्तदुक्तफलदं निःसत्त्वं निष्फलं परम् ॥ (३।२)

bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param ||

4.1४.१

अभ्र:: सुब्त्य्पेस्पिनाकं नागमण्डूकं वज्रमित्यभ्रकं मतम् । (४।१)

abhra:: subtypespinākaṃ nāgamaṇḍūkaṃ vajramityabhrakaṃ matam |

4.2४.२

अभ्र:: सुब्त्य्पेस्:: चोलोउर्श्वेतादिवर्णभेदेन प्रत्येकं तच्चतुर्विधम् ॥ (४।२)

abhra:: subtypes:: colourśvetādivarṇabhedena pratyekaṃ taccaturvidham ||

5.1५.१

पिनाकपिनाकं पावकोत्तप्तं विमुञ्चति दलोच्चयम् । (५।१)

pinākapinākaṃ pāvakottaptaṃ vimuñcati daloccayam |

5.2५.२

तत्सेवितं मलं बद्ध्वा मारयत्येव मानवम् ॥ (५।२)

tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam ||

6.1६.१

नागनागाभ्रं नागवत्कुर्याद्ध्वनिं पावकसंस्थितम् । (६।१)

nāganāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam |

6.2६.२

नाग:: मेदिच्। प्रोपेर्तिएस्तद्भुक्तं कुरुते कुष्ठं मण्डलाख्यं न संशयः ॥ (६।२)

nāga:: medic. propertiestadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ ||

7.1७.१

मण्डूकौत्प्लुत्योत्प्लुत्य मण्डूकं ध्मातं पतति चाभ्रकम् । (७।१)

maṇḍūkautplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam |

7.2७.२

मण्डूक:: मेदिच्। प्रोपेर्तिएस्तत्कुर्यादश्मरीरोगमसाध्यं शस्त्रतो ऽन्यथा ॥ (७।२)

maṇḍūka:: medic. propertiestatkuryādaśmarīrogamasādhyaṃ śastrato 'nyathā ||

8.1८.१

वज्रवज्राभ्रं वह्निसंतप्तं निर्मुक्ताशेषवैकृतम् । (८।१)

vajravajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam |

8.2८.२

देहलोहकरं तच्च सर्वरोगहरं परम् ॥ (८।२)

dehalohakaraṃ tacca sarvarogaharaṃ param ||

9.1९.१

श्वेतं रक्तं च पीतं च कृष्णमेवं चतुर्विधम् । (९।१)

śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham |

9.2९.२

श्वेतं श्वेतक्रियासूक्तं रक्ताभं रक्तकर्मणि । (९।२)

śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi |

9.3९.३

पीताभमभ्रकं यत्तु श्रेष्ठं तत्पीतकर्मणि ॥ (९।३)

pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi ||

10.1१०.१

चतुर्विधं वरं व्योम यद्यप्युक्तं रसायने । (१०।१)

caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane |

10.2१०.२

तथापि कृष्णवर्णाभ्रं कोटिकोटिगुणाधिकम् ॥ (१०।२)

tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam ||

11.1११.१

अभ्र:: परीक्षास्निग्धं पृथुदलं वर्णसंयुक्तं भारतो ऽधिकम् । (११।१)

abhra:: parīkṣāsnigdhaṃ pṛthudalaṃ varṇasaṃyuktaṃ bhārato 'dhikam |

11.2११.२

सुखनिर्मोच्यपत्त्रं च तदभ्रं शस्तमीरितम् ॥ (११।२)

sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam ||

12.1१२.१

ग्रासायोग्याभ्रसचन्द्रिकं च किट्टाभं व्योम न ग्रासयेद्रसः । (१२।१)

grāsāyogyābhrasacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ |

12.2१२.२

ग्रसितश्च नियोज्यो ऽसौ लोहे चैव रसायने ॥ (१२।२)

grasitaśca niyojyo 'sau lohe caiva rasāyane ||

13.1१३.१

अभ्र:: निश्चन्द्रिक:: मेदिच्। प्रोपेर्तिएस्निश्चन्द्रिकं मृतं व्योम सेव्यं सर्वगदेषु च । (१३।१)

abhra:: niścandrika:: medic. propertiesniścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca |

13.2१३.२

सेवितं चन्द्रसंयुक्तं मेहं मन्दानलं चरेत् ॥ (१३।२)

sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret ||

14.1१४.१

यैर् उक्तं युक्तिनिर्मुक्तैः पत्त्राभ्रकरसायनम् । (१४।१)

yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam |

14.2१४.२

तैर् दृष्टं कालकूटाख्यं विषं जीवनहेतवे ॥ (१४।२)

tair dṛṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave ||

15.1१५.१

सत्त्वार्थं सेवनार्थं च योजयेच्छोधिताभ्रकम् । (१५।१)

sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam |

15.2१५.२

अन्यथा त्व् अगुणं कृत्वा विकरोत्येव निश्चितम् ॥ (१५।२)

anyathā tv aguṇaṃ kṛtvā vikarotyeva niścitam ||

16.1१६.१

अभ्र:: शोधनप्रतप्तं सप्तवाराणि निक्षिप्तं काञ्जिके ऽभ्रकम् । (१६।१)

abhra:: śodhanaprataptaṃ saptavārāṇi nikṣiptaṃ kāñjike 'bhrakam |

16.2१६.२

निर्दोषं जायते नूनं प्रक्षिप्तं वापि गोजले ॥ (१६।२)

nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale ||

17.1१७.१

त्रिफलाक्वथिते चापि गवां दुग्धे विशेषतः । (१७।१)

triphalākvathite cāpi gavāṃ dugdhe viśeṣataḥ |

17.2१७.२

अभ्र:: मारणततो धान्याभ्रकं कृत्वा पिष्ट्वा मत्स्याक्षिकारसैः ॥ (१७।२)

abhra:: māraṇatato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ ||

18.1१८.१

चक्रीं कृत्वा विशोष्याथ पुटेद् अर्धेभके पुटे । (१८।१)

cakrīṃ kṛtvā viśoṣyātha puṭed ardhebhake puṭe |

18.2१८.२

पुटेदेवं हि षड्वारं पौनर्नवरसैः सह ॥ (१८।२)

puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha ||

19.1१९.१

कलांशटङ्कणेनापि संमर्द्य कृतचक्रिकम् । (१९।१)

kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam |

19.2१९.२

अर्धेभाख्यपुटैस् तद्वत् सप्तवारं पुटेत् खलु ॥ (१९।२)

ardhebhākhyapuṭais tadvat saptavāraṃ puṭet khalu ||

20.1२०.१

एवं वासारसेनापि तण्डुलीयरसेन च । (२०।१)

evaṃ vāsārasenāpi taṇḍulīyarasena ca |

20.2२०.२

प्रपुटेत् सप्तवाराणि पूर्वप्रोक्तविधानतः । (२०।२)

prapuṭet saptavārāṇi pūrvaproktavidhānataḥ |

20.3२०.३

एवं सिद्धं घनं सर्वयोगेषु विनियोजयेत् ॥ (२०।३)

evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet ||

21.1२१.१

धान्याभ्रचूर्णाभ्रं शालिसंयुक्तं वस्त्रबद्धं हि काञ्जिके । (२१।१)

dhānyābhracūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike |

21.2२१.२

निर्यातं मर्दनाद्वस्त्राद्धान्याभ्रमिति कथ्यते ॥ (२१।२)

niryātaṃ mardanādvastrāddhānyābhramiti kathyate ||

22.1२२.१

धान्याभ्र:: मारणधान्याभ्रं कासमर्दस्य रसेन परिमर्दितम् । (२२।१)

dhānyābhra:: māraṇadhānyābhraṃ kāsamardasya rasena parimarditam |

22.2२२.२

पुटितं दशवारेण म्रियते नात्र संशयः । (२२।२)

puṭitaṃ daśavāreṇa mriyate nātra saṃśayaḥ |

22.3२२.३

तद्वन्मुस्तारसेनापि तण्डुलीयरसेन च ॥ (२२।३)

tadvanmustārasenāpi taṇḍulīyarasena ca ||

23.1२३.१

अभ्र:: मारणपीतामलकसौभाग्यपिष्टं चक्रीकृताभ्रकम् । (२३।१)

abhra:: māraṇapītāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam |

23.2२३.२

पुटितं षष्टिवाराणि सिन्दूराभं प्रजायते । (२३।२)

puṭitaṃ ṣaṣṭivārāṇi sindūrābhaṃ prajāyate |

23.3२३.३

क्षयाद्यखिलरोगघ्नं भवेद्रोगानुपानतः ॥ (२३।३)

kṣayādyakhilarogaghnaṃ bhavedrogānupānataḥ ||

24.1२४.१

अभ्र:: मारणवटमूलत्वचः क्वाथैस् ताम्बूलीपत्त्रसारतः । (२४।१)

abhra:: māraṇavaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ |

24.2२४.२

वासामत्स्याक्षिकाभ्यां वा मीनाक्ष्या सकठिल्लया ॥ (२४।२)

vāsāmatsyākṣikābhyāṃ vā mīnākṣyā sakaṭhillayā ||

25.1२५.१

पयसा वटवृक्षस्य मर्दितं पुटितं घनम् । (२५।१)

payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam |

25.2२५.२

भवेद्विंशतिवारेण सिन्दूरसदृशप्रभम् ॥ (२५।२)

bhavedviṃśativāreṇa sindūrasadṛśaprabham ||

26.1२६.१

अभ्र:: सत्त्वपातनपादांशटङ्कणोपेतं मुसलीरसमर्दितम् । (२६।१)

abhra:: sattvapātanapādāṃśaṭaṅkaṇopetaṃ musalīrasamarditam |

26.2२६.२

रुन्ध्यात्कोष्ठ्यां दृढं ध्मातं सत्त्वरूपं भवेद् घनम् ॥ (२६।२)

rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam ||

27.1२७.१

अभ्र:: सत्त्वपातनकासमर्दघनाधान्यवासानां च पुनर्भुवः । (२७।१)

abhra:: sattvapātanakāsamardaghanādhānyavāsānāṃ ca punarbhuvaḥ |

27.2२७.२

मत्स्याक्ष्याः काण्डवल्ल्याश्च हंसपाद्या रसैः पृथक् ॥ (२७।२)

matsyākṣyāḥ kāṇḍavallyāśca haṃsapādyā rasaiḥ pṛthak ||

28.1२८.१

पिष्ट्वा पिष्ट्वा प्रयत्नेन शोषयेद् घर्मयोगतः । (२८।१)

piṣṭvā piṣṭvā prayatnena śoṣayed gharmayogataḥ |

28.2२८.२

पलं गोधूमचूर्णस्य क्षुद्रमत्स्याश्च टङ्कणम् ॥ (२८।२)

palaṃ godhūmacūrṇasya kṣudramatsyāśca ṭaṅkaṇam ||

29.1२९.१

प्रत्येकमष्टमांशेन दत्त्वा दत्त्वा विमर्दयेत् । (२९।१)

pratyekamaṣṭamāṃśena dattvā dattvā vimardayet |

29.2२९.२

मर्दने मर्दने सम्यक्शोषयेद्रविरश्मिभिः ॥ (२९।२)

mardane mardane samyakśoṣayedraviraśmibhiḥ ||

30.1३०.१

पञ्चाजं पञ्चगव्यं वा पञ्चमाहिषमेव च । (३०।१)

pañcājaṃ pañcagavyaṃ vā pañcamāhiṣameva ca |

30.2३०.२

क्षिप्त्वा गोलान्प्रकुर्वीत किंचित्तिन्दुकतो ऽधिकान् ॥ (३०।२)

kṣiptvā golānprakurvīta kiṃcittindukato 'dhikān ||

31.1३१.१

पञ्चाजपयो दधि घृतं मूत्रं सविट्कं चाजम् उच्यते । (३१।१)

pañcājapayo dadhi ghṛtaṃ mūtraṃ saviṭkaṃ cājam ucyate |

31.2३१.२

अधःपातनकोष्ठ्यां हि ध्मात्वा सत्त्वं निपातयेत् ॥ (३१।२)

adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet ||

32.1३२.१

अभ्र:: सत्त्वपातन:: सेपरतिओन् ओड़् सत्त्व अन्द् किट्टकोष्ठ्यां किट्टं समाहृत्य विचूर्ण्य रवकान् हरेत् । (३२।१)

abhra:: sattvapātana:: separation of sattva and kiṭṭakoṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret |

32.2३२.२

तत्किट्टं स्वल्पटङ्केन गोमयेन विमर्द्य च ॥ (३२।२)

tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardya ca ||

33.1३३.१

गोलान्विधाय संशोष्य घर्मे भूयो ऽपि पूर्ववत् । (३३।१)

golānvidhāya saṃśoṣya gharme bhūyo 'pi pūrvavat |

33.2३३.२

भूयः किट्टं समाहृत्य मृदित्वा सत्त्वमाहरेत् ॥ (३३।२)

bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet ||

34.1३४.१

अभ्र:: सत्त्व:: शोधनअथ सत्त्वकणांस्तांस्तु क्वाथयित्वाम्लकाञ्जिकैः । (३४।१)

abhra:: sattva:: śodhanaatha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ |

34.2३४.२

शोधनीयगणोपेतं मूषामध्ये निरुध्य च ॥ (३४।२)

śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca ||

35.1३५.१

सम्यग्द्रुतं समाहृत्य द्विवारं प्रधमेद् घनम् । (३५।१)

samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam |

35.2३५.२

इति शुद्धं भवेत्सत्त्वं योज्यं रसरसायने ॥ (३५।२)

iti śuddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane ||

36.1३६.१

अभ्र:: सत्त्व:: मृदूकरणमधुतैलवसाज्येषु द्रावितं परिवापितम् । (३६।१)

abhra:: sattva:: mṛdūkaraṇamadhutailavasājyeṣu drāvitaṃ parivāpitam |

36.2३६.२

मृदु स्याद्दशवारेण सत्त्वं लोहादिकं खरम् ॥ (३६।२)

mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam ||

37.1३७.१

अभ्र:: मारणपट्टचूर्णं विधायाथ गोघृतेन परिप्लुतम् । (३७।१)

abhra:: māraṇapaṭṭacūrṇaṃ vidhāyātha goghṛtena pariplutam |

37.2३७.२

भर्जयेत्सप्तवाराणि चुल्लीसंस्थितखर्परे ॥ (३७।२)

bharjayetsaptavārāṇi cullīsaṃsthitakharpare ||

38.1३८.१

अग्निवर्णं भवेद्यावद्वारं वारं विचूर्णयेत् । (३८।१)

agnivarṇaṃ bhavedyāvadvāraṃ vāraṃ vicūrṇayet |

38.2३८.२

तृणं क्षिप्त्वा दहेद्यावत्तावद्वा भर्जनं चरेत् ॥ (३८।२)

tṛṇaṃ kṣiptvā dahedyāvattāvadvā bharjanaṃ caret ||

39.1३९.१

ततः सगन्धकं पिष्ट्वा वटमूलकषायतः । (३९।१)

tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ |

39.2३९.२

पुटेद्विंशतिवारेण वाराहेण पुटेन हि ॥ (३९।२)

puṭedviṃśativāreṇa vārāheṇa puṭena hi ||

40.1४०.१

पुनर्विंशतिवाराणि त्रिफलोत्थकषायतः । (४०।१)

punarviṃśativārāṇi triphalotthakaṣāyataḥ |

40.2४०.२

त्रिफलामुण्डिकाभृङ्गपत्रपथ्याक्षमूलकैः ॥ (४०।२)

triphalāmuṇḍikābhṛṅgapatrapathyākṣamūlakaiḥ ||

41.1४१.१

भावयित्वा प्रयोक्तव्यं सर्वरोगेषु मात्रया । (४१।१)

bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā |

41.2४१.२

सत्त्वाभ्रात्किंचिदपरं निर्विकारं गुणाधिकम् ॥ (४१।२)

sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam ||

42.1४२.१

एवं चेच्छतवाराणि पुटपाकेन साधितम् । (४२।१)

evaṃ cecchatavārāṇi puṭapākena sādhitam |

42.2४२.२

गुणवज्जायते ऽत्यर्थं परं पाचनदीपनम् ॥ (४२।२)

guṇavajjāyate 'tyarthaṃ paraṃ pācanadīpanam ||

43.1४३.१

अभ्र:: मारण:: निश्चन्द्रिकगन्धर्वपत्त्रतोयेन गुडेन सह भावितम् । (४३।१)

abhra:: māraṇa:: niścandrikagandharvapattratoyena guḍena saha bhāvitam |

43.2४३.२

अधोर्ध्वं वटपत्राणि निश्चन्द्रं त्रिपुटैः खगम् ॥ (४३।२)

adhordhvaṃ vaṭapatrāṇi niścandraṃ tripuṭaiḥ khagam ||

44.1४४.१

क्षुधं करोति चात्यर्थं गुञ्जार्धमितिसेवया । (४४।१)

kṣudhaṃ karoti cātyarthaṃ guñjārdhamitisevayā |

44.2४४.२

तत्तद्रोगहरैर्योगैः सर्वरोगहरं परम् ॥ (४४।२)

tattadrogaharairyogaiḥ sarvarogaharaṃ param ||

45.1४५.१

अभ्र:: सत्त्व:: शोधनसत्त्वस्य गोलकं ध्मातं सस्यसंयुक्तकाञ्जिके । (४५।१)

abhra:: sattva:: śodhanasattvasya golakaṃ dhmātaṃ sasyasaṃyuktakāñjike |

45.2४५.२

निर्वाप्य तत्क्षणेनैव कुट्टयेल्लोहपारया ॥ (४५।२)

nirvāpya tatkṣaṇenaiva kuṭṭayellohapārayā ||

46.1४६.१

सम्प्रताप्य घनस्थूलकणान् क्षिप्त्वाथ काञ्जिके । (४६।१)

sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike |

46.2४६.२

तत्क्षणेन समाहृत्य कुट्टयित्वा रजश्चरेत् ॥ (४६।२)

tatkṣaṇena samāhṛtya kuṭṭayitvā rajaścaret ||

47.1४७.१

गोघृतेन च तच्चूर्णं भर्जयेत् पूर्ववत् त्रिधा । (४७।१)

goghṛtena ca taccūrṇaṃ bharjayet pūrvavat tridhā |

47.2४७.२

धात्रीफलरसैस्तद्वद्धात्रीपत्ररसेन वा ॥ (४७।२)

dhātrīphalarasaistadvaddhātrīpatrarasena vā ||

48.1४८.१

भर्जने भर्जने कार्यं शिलापट्टेन पेषणम् । (४८।१)

bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam |

48.2४८.२

ततः पुनर्नवावासारसैः काञ्जिकमिश्रितैः ॥ (४८।२)

tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ ||

49.1४९.१

प्रपुटेद्दशवाराणि दशवाराणि गन्धकैः । (४९।१)

prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ |

49.2४९.२

एवं संशोधितं व्योमसत्त्वं सर्वगुणोत्तरम् । (४९।२)

evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram |

49.3४९.३

यथेष्टं विनियोक्तव्यं जारणे च रसायने ॥ (४९।३)

yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane ||

50.1५०.१

अभ्र:: द्रुतिद्रुतयो नैव निर्दिष्टाः शास्त्रे दृष्टा अपि दृढम् । (५०।१)

abhra:: drutidrutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dṛḍham |

50.2५०.२

विना शंभोः प्रसादेन न सिध्यन्ति कदाचन ॥ (५०।२)

vinā śaṃbhoḥ prasādena na sidhyanti kadācana ||

51.1५१.१

अभ्र:: मृत:: मेदिच्। प्रोपेर्तिएस्, अप्प्लिचतिओन्वेल्लव्योषसमन्वितं घृतयुतं वल्लोन्मितं सेवितं दिव्याभ्रं क्षयपाण्डुरुग्ग्रहणिकाशूलामकुष्ठामयम् । (५१।१)

abhra:: mṛta:: medic. properties, applicationvellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam |

51.2५१.२

जूर्तिं श्वासगदं प्रमेहमरुचिं कासामयं दुर्धरं मन्दाग्निं जठरव्यथां विजयते योगैरशेषामयान् ॥ (५१।२)

jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān ||

52.1५२.१

वैक्रान्त:: परीक्षा:: गोओद् क़ुअलित्यष्टास्रश् चाष्टफलकः षट्कोणो मसृणो गुरुः । (५२।१)

vaikrānta:: parīkṣā:: good qualityaṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ |

52.2५२.२

शुद्धमिश्रितवर्णैश्च युक्तो वैक्रान्त उच्यते ॥ (५२।२)

śuddhamiśritavarṇaiśca yukto vaikrānta ucyate ||

53.1५३.१

वैक्रान्त:: सुब्त्य्पेस्:: चोलोउर्श्वेतो रक्तश्च पीतश्च नीलः पारापतच्छविः । (५३।१)

vaikrānta:: subtypes:: colourśveto raktaśca pītaśca nīlaḥ pārāpatacchaviḥ |

53.2५३.२

श्यामलः कृष्णवर्णश्च कर्बुरश्चाष्टधा हि सः ॥ (५३।२)

śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ ||

54.1५४.१

वैक्रान्त:: मेदिच्। प्रोपेर्तिएसायुःप्रदश्च बलवर्णकरो ऽतिवृष्यः प्रज्ञाप्रदः सकलदोषगदापहारी । (५४।१)

vaikrānta:: medic. propertiesāyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī |

54.2५४.२

दीप्ताग्निकृत् पविसमानगुणस्तरस्वी वैक्रान्तकः खलु वपुर्बललोहकारी ॥ (५४।२)

dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī ||

55.1५५.१

रसायनेषु सर्वेषु पूर्वगण्यः प्रतापवान् । (५५।१)

rasāyaneṣu sarveṣu pūrvagaṇyaḥ pratāpavān |

55.2५५.२

वज्रस्थाने नियोक्तव्यो वैक्रान्तः सर्वदोषहा ॥ (५५।२)

vajrasthāne niyoktavyo vaikrāntaḥ sarvadoṣahā ||

56.1५६.१

वैक्रान्त:: म्य्थ्। ओरिगिन्दैत्येन्द्रो माहिषः सिद्धः सहदेवसमुद्भवः । (५६।१)

vaikrānta:: myth. origindaityendro māhiṣaḥ siddhaḥ sahadevasamudbhavaḥ |

56.2५६.२

दुर्गा भगवती देवी तं शूलेन व्यमर्दयत् ॥ (५६।२)

durgā bhagavatī devī taṃ śūlena vyamardayat ||

57.1५७.१

तस्य रक्तं तु पतितं यत्र यत्र स्थितं भुवि । (५७।१)

tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi |

57.2५७.२

तत्र तत्र तु वैक्रान्तं वज्राकारं महारसम् ॥ (५७।२)

tatra tatra tu vaikrāntaṃ vajrākāraṃ mahārasam ||

58.1५८.१

वैक्रान्त:: लोचल् दिस्त्रिबुतिओन्विन्ध्यस्य दक्षिणे भागे ह्य् उत्तरे वास्ति सर्वतः । (५८।१)

vaikrānta:: local distributionvindhyasya dakṣiṇe bhāge hy uttare vāsti sarvataḥ |

58.2५८.२

वैक्रान्त:: निरुक्तिविकृन्तयति लोहानि तेन वैक्रान्तकः स्मृतः ॥ (५८।२)

vaikrānta:: niruktivikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ ||

59.1५९.१

वैक्रान्त:: सुब्त्य्पेस्:: चोलोउर्श्वेतः पीतस्तथा रक्तो नीलः पारावतप्रभः । (५९।१)

vaikrānta:: subtypes:: colourśvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ |

59.2५९.२

मयूरकण्ठसदृशश्चान्यो मरकतप्रभः ॥ (५९।२)

mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ ||

60.1६०.१

देहसिद्धिकरं कृष्णं पीते पीतं सिते सितम् । (६०।१)

dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam |

60.2६०.२

सर्वार्थसिद्धिदं रक्तं तथा मरकतप्रभम् । (६०।२)

sarvārthasiddhidaṃ raktaṃ tathā marakataprabham |

60.3६०.३

शेषे द्वे निष्फले वर्ज्ये वैक्रान्तमिति सप्तधा ॥ (६०।३)

śeṣe dve niṣphale varjye vaikrāntamiti saptadhā ||

61.1६१.१

यत्र क्षेत्रे स्थितं चैव वैक्रान्तं तत्र भैरवम् । (६१।१)

yatra kṣetre sthitaṃ caiva vaikrāntaṃ tatra bhairavam |

61.2६१.२

विनायकं च सम्पूज्य गृह्णीयाच्छुद्धमानसः ॥ (६१।२)

vināyakaṃ ca sampūjya gṛhṇīyācchuddhamānasaḥ ||

62.1६२.१

वैक्रान्त:: मेदिच्। प्रोपेर्तिएस्वैक्रान्तो वज्रसदृशो देहलोहकरो मतः । (६२।१)

vaikrānta:: medic. propertiesvaikrānto vajrasadṛśo dehalohakaro mataḥ |

62.2६२.२

विषघ्नो रसराजश्च ज्वरकुष्ठक्षयप्रणुत् ॥ (६२।२)

viṣaghno rasarājaśca jvarakuṣṭhakṣayapraṇut ||

63.1६३.१

वैक्रान्त:: शोधनवैक्रान्तकाः स्युस्त्रिदिनं विशुद्धाः संस्वेदिताः क्षारपटूनि दत्त्वा । (६३।१)

vaikrānta:: śodhanavaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā |

63.2६३.२

अम्लेषु मूत्रेषु कुलत्थरम्भानीरे ऽथवा कोद्रववारिपक्वाः ॥ (६३।२)

amleṣu mūtreṣu kulattharambhānīre 'thavā kodravavāripakvāḥ ||

64.1६४.१

वैक्रान्त:: शोधनकुलत्थक्वाथसंस्विन्नो वैक्रान्तः परिशुध्यति । (६४।१)

vaikrānta:: śodhanakulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati |

64.2६४.२

वैक्रान्त:: मारणम्रियते ऽष्टपुटैर् गन्धनिम्बुकद्रवसंयुतः ॥ (६४।२)

vaikrānta:: māraṇamriyate 'ṣṭapuṭair gandhanimbukadravasaṃyutaḥ ||

65.1६५.१

वैक्रान्त:: मारणवैक्रान्तेषु च तप्तेषु हयमूत्रं विनिक्षिपेत् । (६५।१)

vaikrānta:: māraṇavaikrānteṣu ca tapteṣu hayamūtraṃ vinikṣipet |

65.2६५.२

पौनःपुन्येन वा कुर्याद्द्रवं दत्त्वा पुटं त्वनु । (६५।२)

paunaḥpunyena vā kuryāddravaṃ dattvā puṭaṃ tvanu |

65.3६५.३

भस्मीभूतं तु वैक्रान्तं वज्रस्थाने नियोजयेत् ॥ (६५।३)

bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet ||

66.1६६.१

वैक्रान्त:: सत्त्वपातनमोचमोरटपालाशक्षारगोमूत्रभावितम् । (६६।१)

vaikrānta:: sattvapātanamocamoraṭapālāśakṣāragomūtrabhāvitam |

66.2६६.२

वज्रकन्दनिशाकल्कफलचूर्णसमन्वितम् ॥ (६६।२)

vajrakandaniśākalkaphalacūrṇasamanvitam ||

67.1६७.१

तत्कल्कं टङ्कणं लाक्षाचूर्णं वैक्रान्तसंभवम् । (६७।१)

tatkalkaṃ ṭaṅkaṇaṃ lākṣācūrṇaṃ vaikrāntasaṃbhavam |

67.2६७.२

नवसारसमायुक्तं मेषशृङ्गीद्रवान्वितं ॥ (६७।२)

navasārasamāyuktaṃ meṣaśṛṅgīdravānvitaṃ ||

68.1६८.१

पिण्डितं मूकमूषस्थं ध्मापितं च हठाग्निना । (६८।१)

piṇḍitaṃ mūkamūṣasthaṃ dhmāpitaṃ ca haṭhāgninā |

68.2६८.२

तत्रैव पतते सत्त्वं वैक्रान्तस्य न संशयः ॥ (६८।२)

tatraiva patate sattvaṃ vaikrāntasya na saṃśayaḥ ||

69.1६९.१

वैक्रान्त:: सत्त्वपातनसत्त्वपातनयोगेन मर्दितश्च वटीकृतः । (६९।१)

vaikrānta:: sattvapātanasattvapātanayogena marditaśca vaṭīkṛtaḥ |

69.2६९.२

मूषास्थो घटिकाध्मातो वैक्रान्तः सत्त्वमुत्सृजेत् ॥ (६९।२)

mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet ||

70.1७०.१

वैक्रान्त:: ड़ोर्मुलतिओन्स्भस्मत्वं समुपागतो विकृतको हेम्ना मृतेनान्वितः पादांशेन कणाज्यवेल्लसहितो गुञ्जामितः सेवितः । (७०।१)

vaikrānta:: formulationsbhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ |

70.2७०.२

यक्ष्माणं जरणं च पाण्डुगुदजं श्वासं च कासामयं दुष्टां च ग्रहणीम् उरःक्षतमुखान् रोगाञ्जयेद् देहकृत् ॥ (७०।२)

yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt ||

71.1७१.१

सूतभस्मार्धसंयुक्तं नीलवैक्रान्तभस्मकं । (७१।१)

sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakaṃ |

71.2७१.२

मृताभ्रसत्त्वमुभयोस्तुलितं परिमर्दितम् ॥ (७१।२)

mṛtābhrasattvamubhayostulitaṃ parimarditam ||

72.1७२.१

क्षौद्राज्यसंयुतं प्रातर्गुञ्जामात्रं निषेवितम् । (७२।१)

kṣaudrājyasaṃyutaṃ prātarguñjāmātraṃ niṣevitam |

72.2७२.२

निहन्ति सकलान्रोगान्दुर्जयानन्यभेषजैः । (७२।२)

nihanti sakalānrogāndurjayānanyabheṣajaiḥ |

72.3७२.३

त्रिःसप्तदिवसैर् नॄणां गङ्गाम्भ इव पातकम् ॥ (७२।३)

triḥsaptadivasair nṝṇāṃ gaṅgāmbha iva pātakam ||

73.1७३.१

माक्षिक:: म्य्थ्। ओरिगिन्सुवर्णशैलप्रभवो विष्णुना काञ्चनो रसः । (७३।१)

mākṣika:: myth. originsuvarṇaśailaprabhavo viṣṇunā kāñcano rasaḥ |

73.2७३.२

ताप्यां किरातचीनेषु यवनेषु च निर्मितः । (७३।२)

tāpyāṃ kirātacīneṣu yavaneṣu ca nirmitaḥ |

73.3७३.३

माक्षिक:: तिमे ओड़् ओरिगिन्ताप्यः सूर्यांशुसंतप्तो माधवे मासि दृश्यते ॥ (७३।३)

mākṣika:: time of origintāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate ||

74.1७४.१

माक्षिक:: मेदिच्। प्रोपेर्तिएस्मधुरः काञ्चनाभासः साम्लो रजतसंनिभः । (७४।१)

mākṣika:: medic. propertiesmadhuraḥ kāñcanābhāsaḥ sāmlo rajatasaṃnibhaḥ |

74.2७४.२

किंचित्कषायमधुरः शीतः पाके कटुर्लघुः । (७४।२)

kiṃcitkaṣāyamadhuraḥ śītaḥ pāke kaṭurlaghuḥ |

74.3७४.३

तत्सेवनाज्जराव्याधिविषैर्न परिभूयते ॥ (७४।३)

tatsevanājjarāvyādhiviṣairna paribhūyate ||

75.1७५.१

माक्षिक:: सुब्त्य्पेस्माक्षिको द्विविधो हेममाक्षिकस्तारमाक्षिकः । (७५।१)

mākṣika:: subtypesmākṣiko dvividho hemamākṣikastāramākṣikaḥ |

75.2७५.२

स्वर्णमाक्षिकतत्राद्यं माक्षिकं कान्यकुब्जोत्थं स्वर्णसंनिभम् ॥ (७५।२)

svarṇamākṣikatatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasaṃnibham ||

76.1७६.१

तारमाक्षिकतपतीतीरसम्भूतं पञ्चवर्णसुवर्णवत् । (७६।१)

tāramākṣikatapatītīrasambhūtaṃ pañcavarṇasuvarṇavat |

76.2७६.२

पाषाणबहलः प्रोक्तस्ताराख्यो ऽल्पगुणात्मकः ॥ (७६।२)

pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ ||

77.1७७.१

माक्षीकधातुः सकलामयघ्नः प्राणो रसेन्द्रस्य परं हि वृष्यः । (७७।१)

mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ |

77.2७७.२

दुर्मेललोहद्वयमेलनश् च गुणोत्तरः सर्वरसायनाग्र्यः ॥ (७७।२)

durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ ||

78.1७८.१

माक्षिक:: शोधनएरण्डतैललुङ्गाम्बुसिद्धं शुध्यति माक्षिकम् । (७८।१)

mākṣika:: śodhanaeraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam |

78.2७८.२

माक्षिक:: शोधनसिद्धं वा कदलीकन्दतोयेन घटिकाद्वयम् । (७८।२)

mākṣika:: śodhanasiddhaṃ vā kadalīkandatoyena ghaṭikādvayam |

78.3७८.३

तप्तं क्षिप्तं वराक्वाथे शुद्धिमायाति माक्षिकम् ॥ (७८।३)

taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam ||

79.1७९.१

माक्षिक:: मारणमातुलुङ्गाम्बुगन्धाभ्यां पिष्टं मूषोदरे स्थितम् । (७९।१)

mākṣika:: māraṇamātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam |

79.2७९.२

पञ्चक्रोडपुटैर् दग्धं म्रियते माक्षिकं खलु ॥ (७९।२)

pañcakroḍapuṭair dagdhaṃ mriyate mākṣikaṃ khalu ||

80.1८०.१

माक्षिक:: मारणएरण्डस्नेहगव्याजैर् मातुलुङ्गरसेन वा । (८०।१)

mākṣika:: māraṇaeraṇḍasnehagavyājair mātuluṅgarasena vā |

80.2८०.२

खर्परस्थं दृढं पक्वं जायते धातुसंनिभम् । (८०।२)

kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusaṃnibham |

80.3८०.३

एवं मृतं रसे योज्यं रसायनविधाव् अपि ॥ (८०।३)

evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāv api ||

81.1८१.१

माक्षिक:: सत्त्वपातनत्रिंशांशनागसंयुक्तं क्षारैर् अम्लैश्च वर्तितम् । (८१।१)

mākṣika:: sattvapātanatriṃśāṃśanāgasaṃyuktaṃ kṣārair amlaiśca vartitam |

81.2८१.२

ध्मातं प्रकटमूषायां सत्त्वं मुञ्चति माक्षिकम् ॥ (८१।२)

dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam ||

82.1८२.१

माक्षिक:: सत्त्व:: नागग्राससप्तवारं परिद्राव्य क्षिप्तं निर्गुण्डिकारसे । (८२।१)

mākṣika:: sattva:: nāgagrāsasaptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase |

82.2८२.२

माक्षीकसत्त्वसंमिश्रं नागं नश्यति निश्चितम् ॥ (८२।२)

mākṣīkasattvasaṃmiśraṃ nāgaṃ naśyati niścitam ||

83.1८३.१

माक्षिक:: सत्त्वपातनक्षौद्रगन्धर्वतैलाभ्यां गोमूत्रेण घृतेन च । (८३।१)

mākṣika:: sattvapātanakṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca |

83.2८३.२

कदलीकन्दसारेण भावितं माक्षिकं मुहुः । (८३।२)

kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ |

83.3८३.३

मूषायां मुञ्चति ध्मातं सत्त्वं शुल्बनिभं मृदु ॥ (८३।३)

mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulbanibhaṃ mṛdu ||

84.1८४.१

माक्षिक:: सत्त्व:: प्रोपेर्तिएस्गुञ्जाबीजसमच्छायं द्रुतद्रावं च शीतलम् । (८४।१)

mākṣika:: sattva:: propertiesguñjābījasamacchāyaṃ drutadrāvaṃ ca śītalam |

84.2८४.२

ताप्यसत्त्वं विशुद्धं तद्देहलोहकरं परम् ॥ (८४।२)

tāpyasattvaṃ viśuddhaṃ taddehalohakaraṃ param ||

85.1८५.१

माक्षिक:: सत्त्व:: मेदिचिनेस्माक्षीकसत्त्वेन रसेन्द्रपिष्टं कृत्वा विलीने च बलिं निधाय । (८५।१)

mākṣika:: sattva:: medicinesmākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya |

85.2८५.२

संमिश्र्य संमर्द्य च खल्वमध्ये निक्षिप्य सत्त्वं द्रुतिमभ्रकस्य ॥ (८५।२)

saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya ||

86.1८६.१

विधाय गोलं लवणाख्ययन्त्रे पचेद्दिनार्धं मृदुवह्निना च । (८६।१)

vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca |

86.2८६.२

स्वतः सुशीतं परिचूर्ण्य सम्यग्वल्लोन्मितं व्योषविडङ्गयुक्तम् ॥ (८६।२)

svataḥ suśītaṃ paricūrṇya samyagvallonmitaṃ vyoṣaviḍaṅgayuktam ||

87.1८७.१

संसेवितं क्षौद्रयुतं निहन्ति जरां सरोगां त्वपमृत्युमेव । (८७।१)

saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva |

87.2८७.२

दुःसाध्यरोगानपि सप्तवासरैर्नैतेन तुल्यो ऽस्ति सुधारसो ऽपि ॥ (८७।२)

duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi ||

88.1८८.१

एरण्डोत्थेन तैलेन गुञ्जाक्षौद्रं च टङ्कणम् । (८८।१)

eraṇḍotthena tailena guñjākṣaudraṃ ca ṭaṅkaṇam |

88.2८८.२

मर्दितं तस्य वापेन सत्त्वं माक्षीकजं द्रवेत् ॥ (८८।२)

marditaṃ tasya vāpena sattvaṃ mākṣīkajaṃ dravet ||

89.1८९.१

विमल:: सुब्त्य्पेस्विमलस्त्रिविधः प्रोक्तो हेमाद्यस्तारपूर्वकः । (८९।१)

vimala:: subtypesvimalastrividhaḥ prokto hemādyastārapūrvakaḥ |

89.2८९.२

तृतीयः कांस्यविमलस्तत्तत्कान्त्या स लक्ष्यते ॥ (८९।२)

tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate ||

90.1९०.१

विमल:: फ्य्स्। प्रोपेर्तिएस्वर्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः । (९०।१)

vimala:: phys. propertiesvartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ |

90.2९०.२

विमल:: मेदिच्। प्रोपेर्तिएस्मरुत्पित्तहरो वृष्यो विमलो ऽतिरसायनः ॥ (९०।२)

vimala:: medic. propertiesmarutpittaharo vṛṣyo vimalo 'tirasāyanaḥ ||

91.1९१.१

विमल:: सुब्त्य्पेस्:: उसेपूर्वो हेमक्रियासूक्तो द्वितीयो रूप्यकृन्मतः । (९१।१)

vimala:: subtypes:: usepūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ |

91.2९१.२

तृतीयो भेषजे तेषु पूर्वपूर्वो गुणोत्तरः ॥ (९१।२)

tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ ||

92.1९२.१

विमल:: शोधनआटरूषजले स्विन्नो विमलो विमलो भवेत् । (९२।१)

vimala:: śodhanaāṭarūṣajale svinno vimalo vimalo bhavet |

92.2९२.२

जम्बीरस्वरसे स्विन्नो मेषशृङ्गीरसे ऽथवा । (९२।२)

jambīrasvarase svinno meṣaśṛṅgīrase 'thavā |

92.3९२.३

आयाति शुद्धिं विमलो धातवश्च यथा परे ॥ (९२।३)

āyāti śuddhiṃ vimalo dhātavaśca yathā pare ||

93.0९३.०

विमल:: मारणगन्धाश्मलकुचाम्लैश्च म्रियते दशभिः पुटैः ॥ (९३।०)

vimala:: māraṇagandhāśmalakucāmlaiśca mriyate daśabhiḥ puṭaiḥ ||

94.1९४.१

विमल:: सत्त्वपातनसटङ्कलकुचद्रावैर्मेषशृङ्ग्याश्च भस्मना । (९४।१)

vimala:: sattvapātanasaṭaṅkalakucadrāvairmeṣaśṛṅgyāśca bhasmanā |

94.2९४.२

पिष्टो मूषोदरे लिप्तः संशोष्य च निरुध्य च ॥ (९४।२)

piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca ||

95.1९५.१

षट्प्रस्थकोकिलैर्ध्मातो विमलः सीससंनिभः । (९५।१)

ṣaṭprasthakokilairdhmāto vimalaḥ sīsasaṃnibhaḥ |

95.2९५.२

सत्त्वं मुञ्चति तद्युक्तो रसः स्यात्स रसायनः ॥ (९५।२)

sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ ||

96.1९६.१

विमल:: सत्त्वपातनविमलं शिग्रुतोयेन काङ्क्षीकासीसटङ्कणम् । (९६।१)

vimala:: sattvapātanavimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇam |

96.2९६.२

वज्रकन्दसमायुक्तं भावितं कदलीरसैः ॥ (९६।२)

vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ ||

97.1९७.१

मोक्षकक्षारसंयुक्तं ध्मापितं मूकमूषगम् । (९७।१)

mokṣakakṣārasaṃyuktaṃ dhmāpitaṃ mūkamūṣagam |

97.2९७.२

सत्त्वं चन्द्रार्कसंकाशं पतते नात्र संशयः ॥ (९७।२)

sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ ||

98.1९८.१

विमल:: सत्त्व:: मेदिच्। उसेतत्सत्त्वं सूतसंयुक्तं पिष्टं कृत्वा सुमर्दितम् । (९८।१)

vimala:: sattva:: medic. usetatsattvaṃ sūtasaṃyuktaṃ piṣṭaṃ kṛtvā sumarditam |

98.2९८.२

विलीने गन्धके क्षिप्त्वा जारयेत्त्रिगुणालकं ॥ (९८।२)

vilīne gandhake kṣiptvā jārayettriguṇālakaṃ ||

99.1९९.१

शिलां पञ्चगुणां चापि वालुकायन्त्रके खलु । (९९।१)

śilāṃ pañcaguṇāṃ cāpi vālukāyantrake khalu |

99.2९९.२

तारभस्मदशांशेन तावद्वैक्रान्तकं मृतं ॥ (९९।२)

tārabhasmadaśāṃśena tāvadvaikrāntakaṃ mṛtaṃ ||

100.1१००.१

सर्वमेकत्र संचूर्ण्य पटेन परिगाल्य च । (१००।१)

sarvamekatra saṃcūrṇya paṭena parigālya ca |

100.2१००.२

निक्षिप्य कूपिकामध्ये परिपूर्य प्रयत्नतः ॥ (१००।२)

nikṣipya kūpikāmadhye paripūrya prayatnataḥ ||

101.1१०१.१

लीढो व्योषवरान्वितो विमलको युक्तो घृतैः सेवितो हन्याद्दुर्भगकृज्ज्वराञ्श्वयथुकं पाण्डुप्रमेहारुचीः । (१०१।१)

līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ |

101.2१०१.२

मूलार्तिं ग्रहणीं च शूलमतुलं यक्ष्मामयं कामलां सर्वान्पित्तमरुद्गदान्किमपरैर्योगैरशेषामयान् ॥ (१०१।२)

mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān ||

102.1१०२.१

शिलाजतु:: सुब्त्य्पेस्शिलाधातुर् द्विधा प्रोक्तो गोमूत्राद्यो रसायनः । (१०२।१)

śilājatu:: subtypesśilādhātur dvidhā prokto gomūtrādyo rasāyanaḥ |

102.2१०२.२

कर्पूरपूर्वकश्चान्यस्तत्राद्यो द्विविधः पुनः । (१०२।२)

karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ |

102.3१०२.३

ससत्त्वश्चैव निःसत्त्वस्तयोः पूर्वो गुणाधिकः ॥ (१०२।३)

sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ ||

103.1१०३.१

शिलाजतु:: ओरिगिन् दुरिन्ग् सुम्मेर्ग्रीष्मे तीव्रार्कतप्तेभ्यः पादेभ्यो हिमभूभृतः । (१०३।१)

śilājatu:: origin during summergrīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ |

103.2१०३.२

स्वर्णरूप्यार्कगर्भेभ्यः शिलाधातुर्विनिःसरेत् ॥ (१०३।२)

svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret ||

104.1१०४.१

शिलाजतु:: ड़्रोम् गोल्द्स्वर्णगर्भगिरेर्जातो जपापुष्पनिभो गुरुः । (१०४।१)

śilājatu:: from goldsvarṇagarbhagirerjāto japāpuṣpanibho guruḥ |

104.2१०४.२

सस्वल्पतिक्तः सुस्वादुः परमं तद्रसायनम् ॥ (१०४।२)

sasvalpatiktaḥ susvāduḥ paramaṃ tadrasāyanam ||

105.1१०५.१

शिलाजतु:: ड़्रोम् सिल्वेर्रूप्यगर्भगिरेर्जातं मधुरं पाण्डुरं गुरु । (१०५।१)

śilājatu:: from silverrūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru |

105.2१०५.२

शिलाजं पित्तरोगघ्नं विशेषात्पाण्डुरोगहृत् ॥ (१०५।२)

śilājaṃ pittarogaghnaṃ viśeṣātpāṇḍurogahṛt ||

106.1१०६.१

शिलाजतु:: ड़्रोम् चोप्पेर्ताम्रगर्भं गिरेर्जातं नीलवर्णं घनं गुरु । (१०६।१)

śilājatu:: from coppertāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru |

106.2१०६.२

शिलाजं कफवातघ्नं तिक्तोष्णं क्षयरोगहृत् ॥ (१०६।२)

śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayarogahṛt ||

107.1१०७.१

शिलाजतु:: परीक्षा:: शुद्धवह्नौ क्षिप्तं भवेद्यत्तल्लिङ्गाकारमधूमकम् । (१०७।१)

śilājatu:: parīkṣā:: śuddhavahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam |

107.2१०७.२

सलिले ऽथ विलीनं च तच्छुद्धं हि शिलाजतु ॥ (१०७।२)

salile 'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu ||

108.1१०८.१

शिलाजतु:: मेदिच्। प्रोपेर्तिएस्नूनं सज्वरपाण्डुशोफशमनं मेहाग्निमान्द्यापहं मेदश्छेदकरं च यक्ष्मशमनं शूलामयोन्मूलनम् । (१०८।१)

śilājatu:: medic. propertiesnūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam |

108.2१०८.२

गुल्मप्लीहविनाशनं जठरहृच्छूलघ्नमामापहं सर्वत्वग्गदनाशनं किमपरं देहे च लोहे हितम् ॥ (१०८।२)

gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam ||

109.1१०९.१

शिलाजतु:: पोस्सेस्सेस् प्रोपेर्तिएस् ओड़् इत्स् सोउर्चेस्रसोपरससूतेन्द्ररत्नलोहेषु ये गुणाः । (१०९।१)

śilājatu:: possesses properties of its sourcesrasoparasasūtendraratnaloheṣu ye guṇāḥ |

109.2१०९.२

वसन्ति ते शिलाधातौ जरामृत्युजिगीषया ॥ (१०९।२)

vasanti te śilādhātau jarāmṛtyujigīṣayā ||

110.0११०.०

शिलाजतु:: शोधनक्षाराम्लगोजलैर् धौतं शुध्यत्येव शिलाजतु ॥ (११०।०)

śilājatu:: śodhanakṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu ||

111.1१११.१

शिलाजतु:: शोधनशिलाधातुं च दुग्धेन त्रिफलामार्कवद्रवैः । (१११।१)

śilājatu:: śodhanaśilādhātuṃ ca dugdhena triphalāmārkavadravaiḥ |

111.2१११.२

लोहपात्रे विनिक्षिप्य शोधयेदतियत्नतः ॥ (१११।२)

lohapātre vinikṣipya śodhayedatiyatnataḥ ||

112.1११२.१

शिलाजतु:: शोधनक्षाराम्लगुग्गुलोपेतैः स्वेदनीयन्त्रमध्यगैः । (११२।१)

śilājatu:: śodhanakṣārāmlaguggulopetaiḥ svedanīyantramadhyagaiḥ |

112.2११२.२

स्वेदितं घटिकामानाच्छिलाधातु विशुध्यति ॥ (११२।२)

sveditaṃ ghaṭikāmānācchilādhātu viśudhyati ||

113.1११३.१

शिलाजतु:: मारणशिलया गन्धतालाभ्यां मातुलुङ्गरसेन च । (११३।१)

śilājatu:: māraṇaśilayā gandhatālābhyāṃ mātuluṅgarasena ca |

113.2११३.२

पुटितं हि शिलाधातु म्रियते ऽष्टगिरिण्डकैः ॥ (११३।२)

puṭitaṃ hi śilādhātu mriyate 'ṣṭagiriṇḍakaiḥ ||

114.1११४.१

शिलाजतु:: मेदिच्। अप्प्लिचतिओन्भस्मीभूतशिलोद्भवं समतुलं कान्तं च वैक्रान्तकं युक्तं च त्रिफलाकटुत्रिकघृतैर्वल्लेन तुल्यं भजेत् । (११४।१)

śilājatu:: medic. applicationbhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet |

114.2११४.२

पाण्डौ यक्ष्मगदे तथाग्निसदने मेहेषु मूलामये गुल्मप्लीहमहोदरे बहुविधे शूले च योन्यामये ॥ (११४।२)

pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye ||

115.1११५.१

सेवेत यदि षण्मासं रसायनविधानतः । (११५।१)

seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ |

115.2११५.२

वलीपलितनिर्मुक्तो जीवेद्वर्षशतं सुखी ॥ (११५।२)

valīpalitanirmukto jīvedvarṣaśataṃ sukhī ||

116.1११६.१

शिलाजतु:: सत्त्वपातनपिष्टं द्रावणवर्गेण साम्लेन गिरिसंभवम् । (११६।१)

śilājatu:: sattvapātanapiṣṭaṃ drāvaṇavargeṇa sāmlena girisaṃbhavam |

116.2११६.२

क्षिप्त्वा मूषोदरे रुद्ध्वा गाढैर्ध्मातं हि कोकिलैः । (११६।२)

kṣiptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ |

116.3११६.३

सत्त्वं मुञ्चेच्छिलाधातुः श्वसनैर्लोहसंनिभम् ॥ (११६।३)

sattvaṃ muñcecchilādhātuḥ śvasanairlohasaṃnibham ||

117.1११७.१

कर्पूरशिलाजतु:: फ्य्स्। प्रोपेर्तिएस्पाण्डुरं सिकताकारं कर्पूराद्यं शिलाजतु । (११७।१)

karpūraśilājatu:: phys. propertiespāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu |

117.2११७.२

कर्पूरशिलाजतु:: मेदिच्। प्रोपेर्तिएस्मूत्रकृच्छ्राश्मरीमेहकामलापाण्डुनाशनम् ॥ (११७।२)

karpūraśilājatu:: medic. propertiesmūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam ||

118.1११८.१

कर्पूरशिलाजतु:: शोधनएलातोयेन संभिन्नं सिद्धं शुद्धिमुपैति तत् । (११८।१)

karpūraśilājatu:: śodhanaelātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat |

118.2११८.२

कर्पूरशिलाजतु:: मारण, सत्त्वपातननैतस्य मारणं सत्त्वपातनं विहितं बुधैः ॥ (११८।२)

karpūraśilājatu:: māraṇa, sattvapātananaitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ ||

119.1११९.१

सस्यक:: म्य्थ्। ओरिगिन्पीत्वा हालाहलं वान्तं पीतामृतगरुत्मता । (११९।१)

sasyaka:: myth. originpītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā |

119.2११९.२

विषेणामृतयुक्तेन गिरौ मरकताह्वये । (११९।२)

viṣeṇāmṛtayuktena girau marakatāhvaye |

119.3११९.३

तद्वान्तं हि घनीभूतं संजातं सस्यकं खलु ॥ (११९।३)

tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu ||

120.0१२०.०

सस्यक:: परीक्षा:: गोओद् क़ुअलित्य्मयूरकण्ठसच्छायं भाराढ्यमतिशस्यते ॥ (१२०।०)

sasyaka:: parīkṣā:: good qualitymayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate ||

121.1१२१.१

द्रव्यं विषयुतं यत्तद्द्रव्याधिकगुणं भवेत् । (१२१।१)

dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet |

121.2१२१.२

हालाहलं सुधायुक्तं सुधाधिकगुणं तथा ॥ (१२१।२)

hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā ||

122.1१२२.१

मयूरतुत्थ:: मेदिच्। प्रोपेर्तिएस्निःशेषदोषविषहृद्गदशूलमूलकुष्ठाम्लपैत्तिकविबन्धहरं परं च । (१२२।१)

mayūratuttha:: medic. propertiesniḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca |

122.2१२२.२

रसायनं वमनरेककरं गरघ्नं श्वित्रापहं गदितमत्र मयूरतुत्थम् ॥ (१२२।२)

rasāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham ||

123.0१२३.०

सस्यक:: शोधनसस्यकं शुद्धिमाप्नोति रक्तवर्गेण भावितम् ॥ (१२३।०)

sasyaka:: śodhanasasyakaṃ śuddhimāpnoti raktavargeṇa bhāvitam ||

124.1१२४.१

स्नेहवर्गेण संसिक्तं सप्तवारमदूषितम् । (१२४।१)

snehavargeṇa saṃsiktaṃ saptavāramadūṣitam |

124.2१२४.२

दोलायन्त्रेण सुस्विन्नं सस्यकं प्रहरत्रयम् । (१२४।२)

dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam |

124.3१२४.३

गोमहिष्याजमूत्रेषु शुध्यते पञ्चखर्परम् ॥ (१२४।३)

gomahiṣyājamūtreṣu śudhyate pañcakharparam ||

125.1१२५.१

तुत्थखर्पर:: मारणलकुचद्रावगन्धाश्मटङ्कणेन समन्वितम् । (१२५।१)

tutthakharpara:: māraṇalakucadrāvagandhāśmaṭaṅkaṇena samanvitam |

125.2१२५.२

निरुध्य मूषिकामध्ये म्रियते कौक्कुटैः पुटैः ॥ (१२५।२)

nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ ||

126.1१२६.१

खर्पर:: सत्त्वपातनसस्यकस्य तु चूर्णं तु पादसौभाग्यसंयुतम् । (१२६।१)

kharpara:: sattvapātanasasyakasya tu cūrṇaṃ tu pādasaubhāgyasaṃyutam |

126.2१२६.२

करञ्जतैलमध्यस्थं दिनमेकं निधापयेत् ॥ (१२६।२)

karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet ||

127.1१२७.१

अन्धमूषास्यमध्यस्थं ध्मापयेत्कोकिलत्रयम् । (१२७।१)

andhamūṣāsyamadhyasthaṃ dhmāpayetkokilatrayam |

127.2१२७.२

इन्द्रगोपाकृति चैव सत्त्वं भवति शोभनम् ॥ (१२७।२)

indragopākṛti caiva sattvaṃ bhavati śobhanam ||

128.1१२८.१

खर्पर:: सत्त्वपातननिम्बुद्रवाल्पटङ्काभ्यां मूषामध्ये निरुध्य च । (१२८।१)

kharpara:: sattvapātananimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca |

128.2१२८.२

ताम्ररूपं परिध्मातं सत्त्वं मुञ्चति सस्यकम् ॥ (१२८।२)

tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam ||

129.1१२९.१

खर्पर:: सत्त्वपातनशुद्धं सस्यं शिलाक्रान्तं पूर्वभेषजसंयुतम् । (१२९।१)

kharpara:: sattvapātanaśuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam |

129.2१२९.२

नानाविधानयोगेन सत्त्वं मुञ्चति निश्चितम् ॥ (१२९।२)

nānāvidhānayogena sattvaṃ muñcati niścitam ||

130.1१३०.१

सत्त्वमेतत्समादाय खरभूनागसत्त्वभुक् । (१३०।१)

sattvametatsamādāya kharabhūnāgasattvabhuk |

130.2१३०.२

तन्मुद्रिका कृतस्पर्शा शूलघ्नी तत्क्षणाद् भवेत् ॥ (१३०।२)

tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet ||

131.1१३१.१

चराचरं विषं भूतडाकिनीदृग्गतं जयेत् । (१३१।१)

carācaraṃ viṣaṃ bhūtaḍākinīdṛggataṃ jayet |

131.2१३१.२

मुद्रिकेयं विधातव्या दृष्टप्रत्ययकारिका ॥ (१३१।२)

mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā ||

132.1१३२.१

रामवत् सोमसेनानीर् मुद्रिते ऽपि तथाक्षरम् । (१३२।१)

rāmavat somasenānīr mudrite 'pi tathākṣaram |

132.2१३२.२

हिमालयोत्तरे पार्श्वे अश्वकर्णो महाद्रुमः । (१३२।२)

himālayottare pārśve aśvakarṇo mahādrumaḥ |

132.3१३२.३

तत्र शूलं समुत्पन्नं तत्रैव विलयं गतम् ॥ (१३२।३)

tatra śūlaṃ samutpannaṃ tatraiva vilayaṃ gatam ||

133.1१३३.१

मन्त्रेणानेन मुद्राम्भो निपीतं सप्तमन्त्रितम् । (१३३।१)

mantreṇānena mudrāmbho nipītaṃ saptamantritam |

133.2१३३.२

सद्यः शूलहरं प्रोक्तमिति भालुकिभाषितम् ॥ (१३३।२)

sadyaḥ śūlaharaṃ proktamiti bhālukibhāṣitam ||

134.1१३४.१

अनया मुद्रया तप्तं तैलमग्नौ सुनिश्चितम् । (१३४।१)

anayā mudrayā taptaṃ tailamagnau suniścitam |

134.2१३४.२

लेपितं हन्ति वेगेन शूलं यत्र क्वचिद्भवेत् । (१३४।२)

lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavet |

134.3१३४.३

सद्यः सूतिकरं नार्याः सद्यो नेत्ररुजापहम् ॥ (१३४।३)

sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham ||

135.1१३५.१

चपल:: सुब्त्य्पेस्गौरः श्वेतो ऽरुणः कृष्णश्चपलस्तु चतुर्विधः । (१३५।१)

capala:: subtypesgauraḥ śveto 'ruṇaḥ kṛṣṇaścapalastu caturvidhaḥ |

135.2१३५.२

हेमाभश्चैव ताराभो विशेषाद्रसबन्धनः ॥ (१३५।२)

hemābhaścaiva tārābho viśeṣādrasabandhanaḥ ||

136.1१३६.१

शेषौ तु मध्यौ लाक्षावच्छीघ्रद्रावौ तु निष्फलौ । (१३६।१)

śeṣau tu madhyau lākṣāvacchīghradrāvau tu niṣphalau |

136.2१३६.२

चपल:: निरुक्तिवङ्गवद्द्रवते वह्नौ चपलस्तेन कीर्तितः ॥ (१३६।२)

capala:: niruktivaṅgavaddravate vahnau capalastena kīrtitaḥ ||

137.1१३७.१

चपल:: मेदिच्। प्रोपेर्तिएस्चपलो लेखनः स्निग्धो देहलोहकरो मतः । (१३७।१)

capala:: medic. propertiescapalo lekhanaḥ snigdho dehalohakaro mataḥ |

137.2१३७.२

रसराजसहायः स्यात्तिक्तोष्णमधुरो मतः ॥ (१३७।२)

rasarājasahāyaḥ syāttiktoṣṇamadhuro mataḥ ||

138.1१३८.१

चपल:: फ्य्स्। प्रोपेर्तिएस्चपलः स्फटिकच्छायः षडस्री स्निग्धको गुरुः । (१३८।१)

capala:: phys. propertiescapalaḥ sphaṭikacchāyaḥ ṣaḍasrī snigdhako guruḥ |

138.2१३८.२

चपल:: मेदिच्। प्रोपेर्तिएस्त्रिदोषघ्नो ऽतिवृष्यश्च रसबन्धविधायकः ॥ (१३८।२)

capala:: medic. propertiestridoṣaghno 'tivṛṣyaśca rasabandhavidhāyakaḥ ||

139.0१३९.०

तेxत्महारसेषु कैश्चिद्धि चपलः परिकीर्तितः ॥ (१३९।०)

Textmahāraseṣu kaiściddhi capalaḥ parikīrtitaḥ ||

140.0१४०.०

चपल:: शोधनजम्बीरकर्कोटकशृङ्गवेरैर् विभावनाभिश्चपलस्य शुद्धिः ॥ (१४०।०)

capala:: śodhanajambīrakarkoṭakaśṛṅgaverair vibhāvanābhiścapalasya śuddhiḥ ||

141.1१४१.१

चपल:: सत्त्वपातनशैलं तु चूर्णयित्वा तु धान्याम्लोपविषैर् विषैः । (१४१।१)

capala:: sattvapātanaśailaṃ tu cūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ |

141.2१४१.२

पिण्डं बद्ध्वा तु विधिवत्पातयेच्चपलं तथा ॥ (१४१।२)

piṇḍaṃ baddhvā tu vidhivatpātayeccapalaṃ tathā ||

142.1१४२.१

रसक:: सुब्त्य्पेस्रसको द्विविधः प्रोक्तो दुर्दुरः कारवेल्लकः । (१४२।१)

rasaka:: subtypesrasako dvividhaḥ prokto durduraḥ kāravellakaḥ |

142.2१४२.२

सदलो दुर्दुरः प्रोक्तो निर्दलः कारवेल्लकः ॥ (१४२।२)

sadalo durduraḥ prokto nirdalaḥ kāravellakaḥ ||

143.1१४३.१

सत्त्वपाते शुभः पूर्वो द्वितीयश्चौषधादिषु । (१४३।१)

sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu |

143.2१४३.२

रसक:: मेदिच्। प्रोपेर्तिएस्रसकः सर्वमेहघ्नः कफपित्तविनाशनः । (१४३।२)

rasaka:: medic. propertiesrasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ |

143.3१४३.३

नेत्ररोगक्षयघ्नश्च लोहपारदरञ्जनः ॥ (१४३।३)

netrarogakṣayaghnaśca lohapāradarañjanaḥ ||

144.1१४४.१

नागार्जुनेन संदिष्टौ रसश्च रसकावुभौ । (१४४।१)

nāgārjunena saṃdiṣṭau rasaśca rasakāvubhau |

144.2१४४.२

श्रेष्ठौ सिद्धरसौ ख्यातौ देहलोहकरौ परम् ॥ (१४४।२)

śreṣṭhau siddharasau khyātau dehalohakarau param ||

145.1१४५.१

रसश्च रसकश्चोभौ येनाग्निसहनौ कृतौ । (१४५।१)

rasaśca rasakaścobhau yenāgnisahanau kṛtau |

145.2१४५.२

देहलोहमयी सिद्धिर्दासी तस्य न संशयः ॥ (१४५।२)

dehalohamayī siddhirdāsī tasya na saṃśayaḥ ||

146.1१४६.१

रसक:: शोधनकटुकालाबुनिर्यास आलोड्य रसकं पचेत् । (१४६।१)

rasaka:: śodhanakaṭukālābuniryāsa āloḍya rasakaṃ pacet |

146.2१४६.२

शुद्धं दोषविनिर्मुक्तं पीतवर्णं तु जायते ॥ (१४६।२)

śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate ||

147.1१४७.१

रसक:: शोधनखर्परः परिसंतप्तः सप्तवारं निमज्जितः । (१४७।१)

rasaka:: śodhanakharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ |

147.2१४७.२

बीजपूररसस्यान्तर्निर्मलत्वं समश्नुते ॥ (१४७।२)

bījapūrarasasyāntarnirmalatvaṃ samaśnute ||

148.1१४८.१

रसक:: शोधननृमूत्रे वाश्वमूत्रे वा तक्रे वा काञ्जिके ऽथवा । (१४८।१)

rasaka:: śodhananṛmūtre vāśvamūtre vā takre vā kāñjike 'thavā |

148.2१४८.२

प्रताप्य मज्जितं सम्यक्खर्परं परिशुध्यति ॥ (१४८।२)

pratāpya majjitaṃ samyakkharparaṃ pariśudhyati ||

149.1१४९.१

रसक:: रञ्जननरमूत्रे स्थितो मासं रसको रञ्जयेद्ध्रुवम् । (१४९।१)

rasaka:: rañjananaramūtre sthito māsaṃ rasako rañjayeddhruvam |

149.2१४९.२

शुद्धताम्रं रसं तारं शुद्धस्वर्णप्रभं यथा ॥ (१४९।२)

śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā ||

150.1१५०.१

रसक:: सत्त्वपातनहरिद्रात्रिफलारालासिन्धुधूमैः सटङ्कणैः । (१५०।१)

rasaka:: sattvapātanaharidrātriphalārālāsindhudhūmaiḥ saṭaṅkaṇaiḥ |

150.2१५०.२

सारुष्करैश्च पादांशैः साम्लैः संमर्द्य खर्परम् ॥ (१५०।२)

sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam ||

151.1१५१.१

लिप्तं वृन्ताकमूषायां शोषयित्वा निरुध्य च । (१५१।१)

liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca |

151.2१५१.२

मूषामुखोपरि न्यस्य खर्परं प्रधमेत्ततः ॥ (१५१।२)

mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ ||

152.1१५२.१

खर्परे प्रहृते ज्वाला भवेन्नीला सिता यदि । (१५२।१)

kharpare prahṛte jvālā bhavennīlā sitā yadi |

152.2१५२.२

तदा संदंशतो मूषां धृत्वा कृत्वा त्वधोमुखीम् ॥ (१५२।२)

tadā saṃdaṃśato mūṣāṃ dhṛtvā kṛtvā tvadhomukhīm ||

153.1१५३.१

शनैरास्फालयेद्भूमौ यथा नालं न भज्यते । (१५३।१)

śanairāsphālayedbhūmau yathā nālaṃ na bhajyate |

153.2१५३.२

वङ्गाभं पतितं सत्त्वं समादाय नियोजयेत् । (१५३।२)

vaṅgābhaṃ patitaṃ sattvaṃ samādāya niyojayet |

153.3१५३.३

एवं त्रिचतुरैर्वारैः सर्वं सत्त्वं विनिःसरेत् ॥ (१५३।३)

evaṃ tricaturairvāraiḥ sarvaṃ sattvaṃ viniḥsaret ||

154.1१५४.१

रसक:: सत्त्वपातनसाभयाजतुभूनागनिशाधूमजटङ्कणम् । (१५४।१)

rasaka:: sattvapātanasābhayājatubhūnāganiśādhūmajaṭaṅkaṇam |

154.2१५४.२

मूकमूषागतं ध्मातं शुद्धं सत्त्वं विमुञ्चति ॥ (१५४।२)

mūkamūṣāgataṃ dhmātaṃ śuddhaṃ sattvaṃ vimuñcati ||

155.1१५५.१

रसक:: सत्त्वपातनलाक्षागुडासुरीपथ्याहरिद्रासर्जटङ्कणैः । (१५५।१)

rasaka:: sattvapātanalākṣāguḍāsurīpathyāharidrāsarjaṭaṅkaṇaiḥ |

155.2१५५.२

सम्यक्संचूर्ण्य तत्पक्वं गोदुग्धेन घृतेन च ॥ (१५५।२)

samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca ||

156.1१५६.१

वृन्ताकमूषिकामध्ये निरुध्य गुटिकाकृतिम् । (१५६।१)

vṛntākamūṣikāmadhye nirudhya guṭikākṛtim |

156.2१५६.२

ध्मात्वा ध्मात्वा समाकृष्य ढालयित्वा शिलातले । (१५६।२)

dhmātvā dhmātvā samākṛṣya ḍhālayitvā śilātale |

156.3१५६.३

सत्त्वं वङ्गाकृतिं ग्राह्यं रसकस्य मनोहरम् ॥ (१५६।३)

sattvaṃ vaṅgākṛtiṃ grāhyaṃ rasakasya manoharam ||

157.1१५७.१

रसक:: सत्त्वपातनयद्वा जलयुतां स्थालीं निखनेत्कोष्ठिकोदरे । (१५७।१)

rasaka:: sattvapātanayadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare |

157.2१५७.२

सच्छिद्रं तन्मुखे मल्लं तन्मुखे ऽधोमुखीं क्षिपेत् ॥ (१५७।२)

sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet ||

158.1१५८.१

मूषोपरि शिखित्रांश्च प्रक्षिप्य प्रधमेद्दृढम् । (१५८।१)

mūṣopari śikhitrāṃśca prakṣipya pradhameddṛḍham |

158.2१५८.२

पतितं स्थालिकानीरे सत्त्वमादाय योजयेत् ॥ (१५८।२)

patitaṃ sthālikānīre sattvamādāya yojayet ||

159.1१५९.१

तेxत्तत्सत्त्वं तालकोपेतं प्रक्षिप्य खलु खर्परे । (१५९।१)

Texttatsattvaṃ tālakopetaṃ prakṣipya khalu kharpare |

159.2१५९.२

मर्दयेल्लोहदण्डेन भस्मीभवति निश्चितम् ॥ (१५९।२)

mardayellohadaṇḍena bhasmībhavati niścitam ||

160.1१६०.१

रसक:: सत्त्व:: मृत:: मेदिच्। उसेतद्भस्म मृतकान्तेन समेन सह योजयेत् । (१६०।१)

rasaka:: sattva:: mṛta:: medic. usetadbhasma mṛtakāntena samena saha yojayet |

160.2१६०.२

अष्टगुञ्जामितं चूर्णं त्रिफलाक्वाथसंयुतम् ॥ (१६०।२)

aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam ||

161.1१६१.१

कान्तपात्रस्थितं रात्रौ तिलजप्रतिवापकम् । (१६१।१)

kāntapātrasthitaṃ rātrau tilajaprativāpakam |

161.2१६१.२

निषेवितं निहन्त्याशु मधुमेहमपि ध्रुवम् ॥ (१६१।२)

niṣevitaṃ nihantyāśu madhumehamapi dhruvam ||

162.1१६२.१

पित्तं क्षयं च पाण्डुं च श्वयथुं गुल्ममेव च । (१६२।१)

pittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca |

162.2१६२.२

रक्तगुल्मं च नारीणां प्रदरं सोमरोगकम् ॥ (१६२।२)

raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam ||

163.1१६३.१

योनिरोगानशेषांश्च विषमांश्च ज्वरानपि । (१६३।१)

yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi |

163.2१६३.२

रजःशूलं च नारीणां कासं श्वासं च हिध्मिकाम् ॥ (१६३।२)

rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām ||

Data courtesy of The Digital Corpus of Sanskrit.

RRS, 2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit