रसार्णवRasārṇava

RArṇ, 16

16 of 18 · 217 verses

Select a line for its word-by-word analysis.

1.2१.२

श्रीदेव्युवाच । (१।२)

śrīdevyuvāca |

1.3१.३

बद्धस्य रसराजस्य कथं द्रावणमीश्वर । (१।३)

baddhasya rasarājasya kathaṃ drāvaṇamīśvara |

1.4१.४

वज्रादिजारणं चापि कथमाज्ञापय प्रभो ॥ (१।४)

vajrādijāraṇaṃ cāpi kathamājñāpaya prabho ||

2.1२.१

श्रीभैरव उवाच । (२।१)

śrībhairava uvāca

2.2२.२

पारदद्रावणतं खोटं सूक्ष्मचूर्णं तु स्त्रीरजोभिस्तु भावयेत् ॥ (२।२)

pāradadrāvaṇataṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet ||

3.1३.१

पुनर्नवा च मीनाक्षी रम्भाकन्दः स्त्रियोरजः । (३।१)

punarnavā ca mīnākṣī rambhākandaḥ striyorajaḥ |

3.2३.२

मणिमन्थं शिलाधातुं सर्वमेकत्र पेषयेत् ॥ (३।२)

maṇimanthaṃ śilādhātuṃ sarvamekatra peṣayet ||

4.1४.१

कल्केनानेन संछन्नमारोटरससंयुतम् । (४।१)

kalkenānena saṃchannamāroṭarasasaṃyutam |

4.2४.२

तं रसं भूर्जपत्त्रे तु बद्ध्वा पोटलिकां ततः ॥ (४।२)

taṃ rasaṃ bhūrjapattre tu baddhvā poṭalikāṃ tataḥ ||

5.1५.१

दोलायन्त्रे सुरेशानि स्वेदयेद्दिवसत्रयम् । (५।१)

dolāyantre sureśāni svedayeddivasatrayam |

5.2५.२

अनेन क्रमयोगेण मृतः सूतो भवेद्द्रुतः ॥ (५।२)

anena kramayogeṇa mṛtaḥ sūto bhaveddrutaḥ ||

6.1६.१

रसद्रावण उन्द् -जारणआर्द्रकं मूलकं शुण्ठी लशुनं हिङ्गु माक्षिकम् । (६।१)

rasadrāvaṇa und -jāraṇaārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam |

6.2६.२

त्रिक्षारं पञ्चलवणं काङ्क्षी कासीसगन्धकम् । (६।२)

trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam |

6.3६.३

अम्लवर्गसमायुक्तं गोलकं कारयेत् प्रिये ॥ (६।३)

amlavargasamāyuktaṃ golakaṃ kārayet priye ||

7.1७.१

तस्य मध्यगता पिष्टी दोलायां स्वेदनेन तु । (७।१)

tasya madhyagatā piṣṭī dolāyāṃ svedanena tu |

7.2७.२

द्रवते नात्र संदेहो द्रुतं जारयते रसम् ॥ (७।२)

dravate nātra saṃdeho drutaṃ jārayate rasam ||

8.1८.१

बद्धं महारसं देवि द्रावयेत् पादयोगतः । (८।१)

baddhaṃ mahārasaṃ devi drāvayet pādayogataḥ |

8.2८.२

द्रुतपादे ततो देयं द्रावयित्वा पुनर्द्रवेत् ॥ (८।२)

drutapāde tato deyaṃ drāvayitvā punardravet ||

9.1९.१

एवं बद्धं द्रुतं कृत्वा समद्वित्रिगुणादिकम् । (९।१)

evaṃ baddhaṃ drutaṃ kṛtvā samadvitriguṇādikam |

9.2९.२

तस्मिन् द्रुते जारणा च कर्तव्या कर्मवेदिभिः ॥ (९।२)

tasmin drute jāraṇā ca kartavyā karmavedibhiḥ ||

10.1१०.१

सूतजारणकुक्कुटीकन्दमार्जारी उच्चटापीश्वरी तथा । (१०।१)

sūtajāraṇakukkuṭīkandamārjārī uccaṭāpīśvarī tathā |

10.2१०.२

क्षीरकञ्चुकया युक्तं स्वेदितं च द्रुतं रसम् ॥ (१०।२)

kṣīrakañcukayā yuktaṃ sveditaṃ ca drutaṃ rasam ||

11.1११.१

द्रुतं दोलादिसंभिन्नं कुक्कुट्याद्यैर् दिनत्रयम् । (११।१)

drutaṃ dolādisaṃbhinnaṃ kukkuṭyādyair dinatrayam |

11.2११.२

आर्द्रकाद्यैर् द्रुतं चैव तत्सूतं स्वेद्यतां व्रजेत् ॥ (११।२)

ārdrakādyair drutaṃ caiva tatsūtaṃ svedyatāṃ vrajet ||

12.1१२.१

वज्रं द्रुतं यथा सूतं जारयेत्सुरवन्दिते । (१२।१)

vajraṃ drutaṃ yathā sūtaṃ jārayetsuravandite |

12.2१२.२

ईश्वरस्तस्य विज्ञेयो देवदेवो जगद्गुरुः ॥ (१२।२)

īśvarastasya vijñeyo devadevo jagadguruḥ ||

13.1१३.१

गोल्धेर्स्तेल्लुन्ग् दुर्छ् खोट उन्द् जारणविधाय खोटं यत् किंचित् मृतकोत्थापिते रसे । (१३।१)

Goldherstellung durch khoṭa und jāraṇavidhāya khoṭaṃ yat kiṃcit mṛtakotthāpite rase |

13.2१३.२

षड्गुणं हेम जार्यं तु सारयेत् सारणात्रयम् ॥ (१३।२)

ṣaḍguṇaṃ hema jāryaṃ tu sārayet sāraṇātrayam ||

14.1१४.१

कोट्यंशेन तु तेनैव शुल्ववेधं प्रदापयेत् । (१४।१)

koṭyaṃśena tu tenaiva śulvavedhaṃ pradāpayet |

14.2१४.२

जायते कनकं दिव्यं देवाभरणभूषणम् ॥ (१४।२)

jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam ||

15.1१५.१

पुनस्तत्तु रसेन्द्रस्य वज्ररत्नानि जारयेत् । (१५।१)

punastattu rasendrasya vajraratnāni jārayet |

15.2१५.२

प्रकाशमूषागर्भे च हठाग्नौ जरते क्षणात् ॥ (१५।२)

prakāśamūṣāgarbhe ca haṭhāgnau jarate kṣaṇāt ||

16.1१६.१

द्रावण वोन् जुwएलेनुच्चटामीननयनासर्पाक्षीरक्तचित्रकैः । (१६।१)

drāvaṇa von Juwelenuccaṭāmīnanayanāsarpākṣīraktacitrakaiḥ |

16.2१६.२

एतैः रत्नं द्रवत्याशु नीलमाणिक्यमौक्तिकम् ॥ (१६।२)

etaiḥ ratnaṃ dravatyāśu nīlamāṇikyamauktikam ||

17.1१७.१

सूतजारणविष्णुक्रान्ता च चक्राङ्का कुमारी यवचिञ्चिका । (१७।१)

sūtajāraṇaviṣṇukrāntā ca cakrāṅkā kumārī yavaciñcikā |

17.2१७.२

वज्राणि पद्मरागाश्च राजावर्तादिसस्यकम् । (१७।२)

vajrāṇi padmarāgāśca rājāvartādisasyakam |

17.3१७.३

ओषधीनां द्रवं दत्त्वा तप्ते सूते विनिक्षिपेत् ॥ (१७।३)

oṣadhīnāṃ dravaṃ dattvā tapte sūte vinikṣipet ||

18.0१८.०

पश्चाद्रत्नानि देयानि द्रवन्ति सलिलं यथा ॥ (१८।०)

paścādratnāni deyāni dravanti salilaṃ yathā ||

19.1१९.१

दोलायां स्वेदयेद्देवि विडयोगेन जारयेत् । (१९।१)

dolāyāṃ svedayeddevi viḍayogena jārayet |

19.2१९.२

प्रकाशमूषागर्भे च हठाग्नौ जारयेत् क्षणात् ॥ (१९।२)

prakāśamūṣāgarbhe ca haṭhāgnau jārayet kṣaṇāt ||

20.1२०.१

खोटजारणशङ्खेनैवार्कदुग्धेन पुटेन शतवापितम् । (२०।१)

khoṭajāraṇaśaṅkhenaivārkadugdhena puṭena śatavāpitam |

20.2२०.२

तद्बीजं क्षारसंयुक्तमम्लवर्गेण भावयेत् ॥ (२०।२)

tadbījaṃ kṣārasaṃyuktamamlavargeṇa bhāvayet ||

21.1२१.१

विडहिङ्गुलसंयुक्तराजावर्तप्रवालकैः । (२१।१)

viḍahiṅgulasaṃyuktarājāvartapravālakaiḥ |

21.2२१.२

गन्धकः शिलया युक्तः खोटानां जारणे हितः ॥ (२१।२)

gandhakaḥ śilayā yuktaḥ khoṭānāṃ jāraṇe hitaḥ ||

22.1२२.१

बद्धहेमजारणमूषालेपादिसंयोगात् बद्धहेम्नो हि जारणम् । (२२।१)

baddhahemajāraṇamūṣālepādisaṃyogāt baddhahemno hi jāraṇam |

22.2२२.२

तत्क्षेपाज्जायते देवि विडयोगेन जारणम् ॥ (२२।२)

tatkṣepājjāyate devi viḍayogena jāraṇam ||

23.0२३.०

पश्चाद्धेम प्रदातव्यं षट्त्रिंशांशद्रवेण च ॥ (२३।०)

paścāddhema pradātavyaṃ ṣaṭtriṃśāṃśadraveṇa ca ||

24.1२४.१

त्रन्स्ड़ोर्मतिओन् इन् खेचर-रसततो वै सूतराजस्य जायते रश्मिमण्डलम् । (२४।१)

Transformation in khecara-rasatato vai sūtarājasya jāyate raśmimaṇḍalam |

24.2२४.२

तिर्यगूर्ध्वमधोव्यापितेजःपुञ्जेन पूरितम् ॥ (२४।२)

tiryagūrdhvamadhovyāpitejaḥpuñjena pūritam ||

25.1२५.१

इत्थं शुद्धो भवेत् सूतः चिन्तामणिरिव स्वयम् । (२५।१)

itthaṃ śuddho bhavet sūtaḥ cintāmaṇiriva svayam |

25.2२५.२

सदेवैः पूज्यते सिद्धैः द्वितीय इव शंकरः ॥ (२५।२)

sadevaiḥ pūjyate siddhaiḥ dvitīya iva śaṃkaraḥ ||

26.1२६.१

लोकानुग्रहकर्ता च भुक्तिमुक्तिप्रदायकः । (२६।१)

lokānugrahakartā ca bhuktimuktipradāyakaḥ |

26.2२६.२

जारयेच्च महानीलं तत्त्वसंख्याक्रमेण तु ॥ (२६।२)

jārayecca mahānīlaṃ tattvasaṃkhyākrameṇa tu ||

27.1२७.१

भ्रमते दक्षिणावर्तस् तदासौ खेचरो रसः । (२७।१)

bhramate dakṣiṇāvartas tadāsau khecaro rasaḥ |

27.2२७.२

वेधयेत् सर्वलोहानि भारसंख्यानि पार्वति ॥ (२७।२)

vedhayet sarvalohāni bhārasaṃkhyāni pārvati ||

28.0२८.०

कापालिरञ्जनएवं जीर्णस्य सूतस्य शृणु कापालिरञ्जनम् ॥ (२८।०)

kāpālirañjanaevaṃ jīrṇasya sūtasya śṛṇu kāpālirañjanam ||

29.1२९.१

शुल्वपत्त्रपलैकं तु पलार्धं गन्धकस्य च । (२९।१)

śulvapattrapalaikaṃ tu palārdhaṃ gandhakasya ca |

29.2२९.२

टङ्कणं कर्षमेकं तु कर्षैकां रसकज्जलीम् ॥ (२९।२)

ṭaṅkaṇaṃ karṣamekaṃ tu karṣaikāṃ rasakajjalīm ||

30.1३०.१

माक्षिकं कर्षमेकं तु सर्वमेकत्र कारयेत् । (३०।१)

mākṣikaṃ karṣamekaṃ tu sarvamekatra kārayet |

30.2३०.२

अन्धमूषागतं ध्मातं खोटो भवति तत्क्षणात् ॥ (३०।२)

andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt ||

31.1३१.१

Wएइतेर्वेरर्बेइतुन्ग्: त्रन्स्ड़ोर्मतिओन् इन् गोल्द् (कापालिकयोग)तं खोटं सूक्ष्मचूर्णं तु चणकाम्लेन मर्दयेत् । (३१।१)

Weiterverarbeitung: Transformation in Gold (kāpālikayoga)taṃ khoṭaṃ sūkṣmacūrṇaṃ tu caṇakāmlena mardayet |

31.2३१.२

आरण्यगोमयेनैव पुटान् दद्याच्चतुर्दश ॥ (३१।२)

āraṇyagomayenaiva puṭān dadyāccaturdaśa ||

32.0३२.०

इन्द्रगोपकसंकाशं जायते नात्र संशयः ॥ (३२।०)

indragopakasaṃkāśaṃ jāyate nātra saṃśayaḥ ||

33.1३३.१

तच्चूर्णं मधुना युक्तं शुद्धतारं तु रञ्जयेत् । (३३।१)

taccūrṇaṃ madhunā yuktaṃ śuddhatāraṃ tu rañjayet |

33.2३३.२

रञ्जयेत् त्रीणि वाराणि शोभनं हेम जायते ॥ (३३।२)

rañjayet trīṇi vārāṇi śobhanaṃ hema jāyate ||

34.1३४.१

एष कापालिको योगः सर्वलोहानि रञ्जयेत् । (३४।१)

eṣa kāpāliko yogaḥ sarvalohāni rañjayet |

34.2३४.२

रञ्जयेद्बद्धसूतं च वज्रबन्धं च रञ्जयेत् ॥ (३४।२)

rañjayedbaddhasūtaṃ ca vajrabandhaṃ ca rañjayet ||

35.1३५.१

रञ्जन नछ् वेर्स्छिएदेनेन् मेथोदेनारचूर्णपलैकं वा मृतनागपलं तु वा । (३५।१)

rañjana nach verschiedenen Methodenāracūrṇapalaikaṃ vā mṛtanāgapalaṃ tu vā |

35.2३५.२

वङ्गाभ्रकपलैकं वा तीक्ष्णचूर्णपलं तु वा ॥ (३५।२)

vaṅgābhrakapalaikaṃ vā tīkṣṇacūrṇapalaṃ tu vā ||

36.1३६.१

त्रिशुल्वं नागवङ्गौ वा एकैकांशसमन्वितम् । (३६।१)

triśulvaṃ nāgavaṅgau vā ekaikāṃśasamanvitam |

36.2३६.२

त्रिशुल्वं गैरिकैकैकमथवा तीक्ष्णमाक्षिकम् ॥ (३६।२)

triśulvaṃ gairikaikaikamathavā tīkṣṇamākṣikam ||

37.1३७.१

अथवा तीक्ष्णभागौ द्वौ त्रयो घोषा नवोरगाः । (३७।१)

athavā tīkṣṇabhāgau dvau trayo ghoṣā navoragāḥ |

37.2३७.२

ताम्रस्य नव भागाः स्युर् आरभागचतुष्टयम् ॥ (३७।२)

tāmrasya nava bhāgāḥ syur ārabhāgacatuṣṭayam ||

38.1३८.१

अथवा देवदेवेशि माक्षिकस्य पलद्वयम् । (३८।१)

athavā devadeveśi mākṣikasya paladvayam |

38.2३८.२

मयूरग्रीवतुत्थैकं मृतनागपलं तथा ॥ (३८।२)

mayūragrīvatutthaikaṃ mṛtanāgapalaṃ tathā ||

39.1३९.१

अथवा वङ्गनागांशमेकैकं सुरवन्दिते । (३९।१)

athavā vaṅganāgāṃśamekaikaṃ suravandite |

39.2३९.२

तीक्ष्णद्वयं त्रिशुल्वं च हेमताप्यचतुष्टयम् ॥ (३९।२)

tīkṣṇadvayaṃ triśulvaṃ ca hematāpyacatuṣṭayam ||

40.1४०.१

यद्वा विमलवैक्रान्तवङ्गनागानि रीतिका । (४०।१)

yadvā vimalavaikrāntavaṅganāgāni rītikā |

40.2४०.२

सशुल्वाप्यथवा हेम विमलं च भुजंगमः ॥ (४०।२)

saśulvāpyathavā hema vimalaṃ ca bhujaṃgamaḥ ||

41.1४१.१

एषामन्यतमं देवि पूर्वकल्पसमन्वितम् । (४१।१)

eṣāmanyatamaṃ devi pūrvakalpasamanvitam |

41.2४१.२

अन्धमूषागतं ध्मातं खोटो भवति तत्क्षणात् ॥ (४१।२)

andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt ||

42.0४२.०

पुटयेत् पूर्वयोगेन रञ्जयेत् पूर्वयोगतः ॥ (४२।०)

puṭayet pūrvayogena rañjayet pūrvayogataḥ ||

43.1४३.१

हेर्स्तेल्लुन्ग् एइनेस् पक्वबीजस्नागशुल्वं तथा तीक्ष्णं कापालिक्रममुत्तमम् । (४३।१)

Herstellung eines pakvabījasnāgaśulvaṃ tathā tīkṣṇaṃ kāpālikramamuttamam |

43.2४३.२

तेनैव रञ्जयेत्तारं सप्तवारं पुनः पुनः ॥ (४३।२)

tenaiva rañjayettāraṃ saptavāraṃ punaḥ punaḥ ||

44.1४४.१

तेनैव रञ्जयेद्धेम सप्तवारं पुनः पुनः । (४४।१)

tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ |

44.2४४.२

पक्वबीजमिदं श्रेष्ठं सर्वकर्मसु योजयेत् ॥ (४४।२)

pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet ||

45.1४५.१

ताररञ्जनवङ्गतीक्ष्णं कपाली च शुल्वं तारं तु रञ्जयेत् । (४५।१)

tārarañjanavaṅgatīkṣṇaṃ kapālī ca śulvaṃ tāraṃ tu rañjayet |

45.2४५.२

रञ्जयेत् सर्वलोहानि यावत् कुङ्कुमसंनिभम् ॥ (४५।२)

rañjayet sarvalohāni yāvat kuṅkumasaṃnibham ||

46.1४६.१

वैक्रान्तनागकापाली शुद्धतारं तु रञ्जयेत् । (४६।१)

vaikrāntanāgakāpālī śuddhatāraṃ tu rañjayet |

46.2४६.२

रञ्जयेत् सह हेम्ना तु भवेत् कुङ्कुमसन्निभम् ॥ (४६।२)

rañjayet saha hemnā tu bhavet kuṅkumasannibham ||

47.1४७.१

हेमरञ्जनरक्ततैलनिषिक्तं तु लोहसंक्रान्तिनाशनम् । (४७।१)

hemarañjanaraktatailaniṣiktaṃ tu lohasaṃkrāntināśanam |

47.2४७.२

आरकापालिचूर्णं तु शुद्धतारं तु रञ्जयेत् ॥ (४७।२)

ārakāpālicūrṇaṃ tu śuddhatāraṃ tu rañjayet ||

48.1४८.१

विमलेन च नागेन कापाली परमेश्वरी । (४८।१)

vimalena ca nāgena kāpālī parameśvarī |

48.2४८.२

रञ्जयेत् सर्वलोहानि तारं हेम विशेषतः ॥ (४८।२)

rañjayet sarvalohāni tāraṃ hema viśeṣataḥ ||

49.1४९.१

रञ्जयेत् त्रीणि वाराणि जायते हेम शोभनम् । (४९।१)

rañjayet trīṇi vārāṇi jāyate hema śobhanam |

49.2४९.२

तेनैव रञ्जयेद्धेम सप्तवारं पुनः पुनः ॥ (४९।२)

tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ ||

50.1५०.१

हेमरञ्जनलवणोदनिषिक्तं तु लोहसंक्रान्तिनाशनम् । (५०।१)

hemarañjanalavaṇodaniṣiktaṃ tu lohasaṃkrāntināśanam |

50.2५०.२

वङ्गनागं तथा कान्तं शुल्वं तीक्ष्णं च माक्षिकम् ॥ (५०।२)

vaṅganāgaṃ tathā kāntaṃ śulvaṃ tīkṣṇaṃ ca mākṣikam ||

51.1५१.१

रविनागकपाली तु शुद्धतारं तु रञ्जयेत् । (५१।१)

ravināgakapālī tu śuddhatāraṃ tu rañjayet |

51.2५१.२

रञ्जयेत् त्रीणि वाराणि तारारिष्टं तु जायते । (५१।२)

rañjayet trīṇi vārāṇi tārāriṣṭaṃ tu jāyate |

51.3५१.३

तेनैव रञ्जयेद्धेम सप्तवाराणि पार्वति ॥ (५१।३)

tenaiva rañjayeddhema saptavārāṇi pārvati ||

52.1५२.१

एन्त्ड़ेर्नेन् वोन् संक्रान्तिकालिकारक्तवर्गनिषिक्तं च लोहसंक्रान्तिनाशनम् । (५२।१)

Entfernen von saṃkrāntikālikāraktavarganiṣiktaṃ ca lohasaṃkrāntināśanam |

52.2५२.२

वङ्गनागं तथा शुल्वं कपाली सुरवन्दिते ॥ (५२।२)

vaṅganāgaṃ tathā śulvaṃ kapālī suravandite ||

53.1५३.१

गुडेन नीलकाचेन तुत्थाम्ललवणेन च । (५३।१)

guḍena nīlakācena tutthāmlalavaṇena ca |

53.2५३.२

विषपित्ताम्लपिष्टेन हन्यात् संक्रान्तिकालिकाम् ॥ (५३।२)

viṣapittāmlapiṣṭena hanyāt saṃkrāntikālikām ||

54.1५४.१

हेर्स्तेल्लुन्ग् वोन् हेमदलगैरिकं गन्धकं सूतं तिलतैलेन पेषयेत् । (५४।१)

Herstellung von hemadalagairikaṃ gandhakaṃ sūtaṃ tilatailena peṣayet |

54.2५४.२

लेपयेत्तारपत्राणि दत्त्वा शुल्वकपालिकाम् ॥ (५४।२)

lepayettārapatrāṇi dattvā śulvakapālikām ||

55.0५५.०

ऊर्ध्वाधस्त्वन्धमूषायां शुभ्रं हेमदलं भवेत् ॥ (५५।०)

ūrdhvādhastvandhamūṣāyāṃ śubhraṃ hemadalaṃ bhavet ||

56.1५६.१

तेxत्भागैकं हरितालस्य भागैकं गैरिकस्य च । (५६।१)

Textbhāgaikaṃ haritālasya bhāgaikaṃ gairikasya ca |

56.2५६.२

माक्षिककल्कभागैकं चत्वारो गोलकस्य च । (५६।२)

mākṣikakalkabhāgaikaṃ catvāro golakasya ca |

56.3५६.३

अन्धमूषागतं ध्मातं हेम रञ्जयति क्षणात् ॥ (५६।३)

andhamūṣāgataṃ dhmātaṃ hema rañjayati kṣaṇāt ||

57.1५७.१

अनेन क्रमयोगेण चतुर्वारं तु रञ्जयेत् । (५७।१)

anena kramayogeṇa caturvāraṃ tu rañjayet |

57.2५७.२

पक्वबीजमिदं श्रेष्ठं बालार्कसदृशप्रभम् ॥ (५७।२)

pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham ||

58.0५८.०

तेन वर्णद्वयोत्कर्षः षोडशांशेन जायते ॥ (५८।०)

tena varṇadvayotkarṣaḥ ṣoḍaśāṃśena jāyate ||

59.1५९.१

रक्ततैले निषिक्तं च लोहसंक्रान्तिनाशनम् । (५९।१)

raktataile niṣiktaṃ ca lohasaṃkrāntināśanam |

59.2५९.२

चन्द्रार्क -> गोल्द्रसकस्य तु कापाली चन्द्रार्कं तु शतांशतः । (५९।२)

candrārka -> Goldrasakasya tu kāpālī candrārkaṃ tu śatāṃśataḥ |

59.3५९.३

अन्धमूषागतं ध्मातं शोभनं हेम जायते ॥ (५९।३)

andhamūṣāgataṃ dhmātaṃ śobhanaṃ hema jāyate ||

60.1६०.१

हेर्स्तेल्लुन्ग् एइनेस् खोटस्, रञ्जनशुद्धनागपलैकं तु कर्षैकं द्रुतसूतकम् । (६०।१)

Herstellung eines khoṭas, rañjanaśuddhanāgapalaikaṃ tu karṣaikaṃ drutasūtakam |

60.2६०.२

सारयेत् सारणायन्त्रे खोटो भवति सूतकः ॥ (६०।२)

sārayet sāraṇāyantre khoṭo bhavati sūtakaḥ ||

61.1६१.१

खोटस्य पलमेकं तु माक्षिकस्य पलं तथा । (६१।१)

khoṭasya palamekaṃ tu mākṣikasya palaṃ tathā |

61.2६१.२

एकीकृत्याथ संमर्द्य कनकस्य रसेन च । (६१।२)

ekīkṛtyātha saṃmardya kanakasya rasena ca |

61.3६१.३

पाचयेन्मृन्मये पात्रे भवेत् कुङ्कुमसन्निभम् ॥ (६१।३)

pācayenmṛnmaye pātre bhavet kuṅkumasannibham ||

62.1६२.१

पूर्वकल्केन संयुक्तं खोटं कुर्वीत पूर्वतः । (६२।१)

pūrvakalkena saṃyuktaṃ khoṭaṃ kurvīta pūrvataḥ |

62.2६२.२

एतत् कापालिकायोगाच्चूर्णमम्लेन मर्दयेत् ॥ (६२।२)

etat kāpālikāyogāccūrṇamamlena mardayet ||

63.0६३.०

पुटयेत् पूर्वयोगेन रञ्जयेत् पूर्वयोगतः ॥ (६३।०)

puṭayet pūrvayogena rañjayet pūrvayogataḥ ||

64.1६४.१

गोल्धेर्स्तेल्लुन्ग्येन केन रसं बद्ध्वा हेमगन्धशिलोरगैः । (६४।१)

Goldherstellungyena kena rasaṃ baddhvā hemagandhaśiloragaiḥ |

64.2६४.२

क्रमेण वेष्टितं ध्मातं शतवाराणि वेधयेत् ॥ (६४।२)

krameṇa veṣṭitaṃ dhmātaṃ śatavārāṇi vedhayet ||

65.1६५.१

आदौ तु बद्धसूतं च वङ्गं तारं मनःशिला । (६५।१)

ādau tu baddhasūtaṃ ca vaṅgaṃ tāraṃ manaḥśilā |

65.2६५.२

क्रमेण वेष्टयेत् ध्मातं शतवेधी न संशयः ॥ (६५।२)

krameṇa veṣṭayet dhmātaṃ śatavedhī na saṃśayaḥ ||

66.0६६.०

अनेन कुरुते तारं कनकेन तु काञ्चनम् ॥ (६६।०)

anena kurute tāraṃ kanakena tu kāñcanam ||

67.1६७.१

मृतसूत अल्स् रेअगेन्ज़् (?)सूतो मृतो हन्ति समेन वङ्गं तेनैव हन्याद्द्विगुणं च तारम् । (६७।१)

mṛtasūta als Reagenz (?)sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram |

67.2६७.२

तारं चतुःषष्टिरविं करोति हेमापि तद्वत् फणिहेमयोगात् ॥ (६७।२)

tāraṃ catuḥṣaṣṭiraviṃ karoti hemāpi tadvat phaṇihemayogāt ||

68.1६८.१

हेर्स्तेल्लुन्ग् वोन् कोटिवेधिरस (?)मृतरसपलमेकं पञ्चनागं च दद्यात् कनकपलविमिश्रं ध्मातसूतावशेषम् । (६८।१)

Herstellung von koṭivedhirasa (?)mṛtarasapalamekaṃ pañcanāgaṃ ca dadyāt kanakapalavimiśraṃ dhmātasūtāvaśeṣam |

68.2६८.२

पुनरपि शतवारानेवमेव क्रमेण भवति च रसराजः कोटिवेधी क्रमेण ॥ (६८।२)

punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa ||

69.1६९.१

गोल्धेर्स्तेल्लुन्ग्मृतसूतपलैकं तु द्वे पले दरदस्य च । (६९।१)

Goldherstellungmṛtasūtapalaikaṃ tu dve pale daradasya ca |

69.2६९.२

चतुःपलं गन्धकस्य कङ्कुष्ठस्य पलत्रयम् । (६९।२)

catuḥpalaṃ gandhakasya kaṅkuṣṭhasya palatrayam |

69.3६९.३

शिलायाः पञ्चकं चैव गोपित्तेन तु मर्दयेत् ॥ (६९।३)

śilāyāḥ pañcakaṃ caiva gopittena tu mardayet ||

70.1७०.१

पलैकनागपत्राणि तेन कल्केन लेपयेत् । (७०।१)

palaikanāgapatrāṇi tena kalkena lepayet |

70.2७०.२

मारयेत् पुटयोगेन नागोऽयं म्रियते क्षणात् ॥ (७०।२)

mārayet puṭayogena nāgo'yaṃ mriyate kṣaṇāt ||

71.1७१.१

वटिकां कारयेत्पश्चात् षष्टिं त्रीणि शतानि च । (७१।१)

vaṭikāṃ kārayetpaścāt ṣaṣṭiṃ trīṇi śatāni ca |

71.2७१.२

एकैकां वटिकां पश्चाद्गोपित्तेन तु मर्दयेत् ॥ (७१।२)

ekaikāṃ vaṭikāṃ paścādgopittena tu mardayet ||

72.1७२.१

अनेन क्रमयोगेण शतं दद्यात् पुटानि च । (७२।१)

anena kramayogeṇa śataṃ dadyāt puṭāni ca |

72.2७२.२

नागोऽयं जायते देवि सिन्दूरारुणसंनिभः ॥ (७२।२)

nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ ||

73.1७३.१

शतांशेन च तेनैव तारे वेधं प्रदापयेत् । (७३।१)

śatāṃśena ca tenaiva tāre vedhaṃ pradāpayet |

73.2७३.२

तत्तारं जायते देवि देवाभरणमुत्तमम् ॥ (७३।२)

tattāraṃ jāyate devi devābharaṇamuttamam ||

74.1७४.१

मृतनागपलैकं तु हेमपत्त्रं तु तत्समम् । (७४।१)

mṛtanāgapalaikaṃ tu hemapattraṃ tu tatsamam |

74.2७४.२

मारयेत् पुटयोगेन म्रियते हेम तत्क्षणात् ॥ (७४।२)

mārayet puṭayogena mriyate hema tatkṣaṇāt ||

75.1७५.१

तद्भस्म नागैकयुतं हेमपत्त्रं तु तत्समम् । (७५।१)

tadbhasma nāgaikayutaṃ hemapattraṃ tu tatsamam |

75.2७५.२

मारयेत् पुटयोगेन म्रियते हेम तत्क्षणात् ॥ (७५।२)

mārayet puṭayogena mriyate hema tatkṣaṇāt ||

76.1७६.१

अनेन क्रमयोगेण त्रीणि वाराणि कारयेत् । (७६।१)

anena kramayogeṇa trīṇi vārāṇi kārayet |

76.2७६.२

सहस्रांशेन तेनैव तारं वेधं प्रदापयेत् ॥ (७६।२)

sahasrāṃśena tenaiva tāraṃ vedhaṃ pradāpayet ||

77.1७७.१

सुखसाध्यप्रयोगेन तत्तारं कनकं भवेत् । (७७।१)

sukhasādhyaprayogena tattāraṃ kanakaṃ bhavet |

77.2७७.२

कल्कवेधकल्कवेधमतो वक्ष्ये सुखसाध्यं सुरेश्वरि ॥ (७७।२)

kalkavedhakalkavedhamato vakṣye sukhasādhyaṃ sureśvari ||

78.1७८.१

पलाशनिम्बबिल्वाक्षकार्पासकटुतुम्बिनी । (७८।१)

palāśanimbabilvākṣakārpāsakaṭutumbinī |

78.2७८.२

कङ्गुणीकटुतैलं च एकैकं रसमारकम् ॥ (७८।२)

kaṅguṇīkaṭutailaṃ ca ekaikaṃ rasamārakam ||

79.1७९.१

समे हेम्नि समं सूतं तारं ताम्रमथापि वा । (७९।१)

same hemni samaṃ sūtaṃ tāraṃ tāmramathāpi vā |

79.2७९.२

महारसाष्टमध्ये तु चत्वार उपरसास् तथा ॥ (७९।२)

mahārasāṣṭamadhye tu catvāra uparasās tathā ||

80.1८०.१

फलाम्लकाञ्जिकैर् मध्यनिरङ्गारे तु खल्लयेत् । (८०।१)

phalāmlakāñjikair madhyaniraṅgāre tu khallayet |

80.2८०.२

तप्तायसेऽथवा लोहमुष्टिना मृदुवह्निना ॥ (८०।२)

taptāyase'thavā lohamuṣṭinā mṛduvahninā ||

81.1८१.१

प्रागुक्तवालुकायन्त्रे तैलं दत्त्वा विचक्षणः । (८१।१)

prāguktavālukāyantre tailaṃ dattvā vicakṣaṇaḥ |

81.2८१.२

मर्दयेत् पक्षमेकं तु दिवारात्रमतन्द्रितः ॥ (८१।२)

mardayet pakṣamekaṃ tu divārātramatandritaḥ ||

82.1८२.१

तत्कल्कं जायते श्रेष्ठं धर्मकामार्थमोक्षदम् । (८२।१)

tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam |

82.2८२.२

वेधयेदष्टलोहानि देवानामपि दुर्लभम् ॥ (८२।२)

vedhayedaṣṭalohāni devānāmapi durlabham ||

83.1८३.१

नाशयेत् सकलान् रोगान् पलैकेन न संशयः । (८३।१)

nāśayet sakalān rogān palaikena na saṃśayaḥ |

83.2८३.२

त्रिकटुत्रिफलायुक्तं मध्वाज्येन तु भक्षयेत् ॥ (८३।२)

trikaṭutriphalāyuktaṃ madhvājyena tu bhakṣayet ||

84.1८४.१

हेम्ना तु बद्धं गुञ्जैकं तारेण द्वे सुरेश्वरि । (८४।१)

hemnā tu baddhaṃ guñjaikaṃ tāreṇa dve sureśvari |

84.2८४.२

ताम्रेण गुञ्जात्रितयं वर्षात् स्याद् अजरामरः ॥ (८४।२)

tāmreṇa guñjātritayaṃ varṣāt syād ajarāmaraḥ ||

85.1८५.१

सेवन्ते चन्द्रवदनाः सर्वाभरणभूषिताः । (८५।१)

sevante candravadanāḥ sarvābharaṇabhūṣitāḥ |

85.2८५.२

मेदिज़्। अन्wएइसुन्गेन्त्रिफलाबीजमध्वाज्यं नस्यं कृत्वा निशासु च ॥ (८५।२)

mediz. Anweisungentriphalābījamadhvājyaṃ nasyaṃ kṛtvā niśāsu ca ||

86.1८६.१

रसं तु भक्षयेत् प्रातरजीर्णं नैव जायते । (८६।१)

rasaṃ tu bhakṣayet prātarajīrṇaṃ naiva jāyate |

86.2८६.२

गन्धकं पानमालेपं कङ्कुष्ठं भक्षयेद् बुधः ॥ (८६।२)

gandhakaṃ pānamālepaṃ kaṅkuṣṭhaṃ bhakṣayed budhaḥ ||

87.1८७.१

??पलेन भक्षयेत् सूतं सुरासुरनमस्कृतम् । (८७।१)

??palena bhakṣayet sūtaṃ surāsuranamaskṛtam |

87.2८७.२

तप्तहेमनिभाकारो बालार्कसदृशप्रभः ॥ (८७।२)

taptahemanibhākāro bālārkasadṛśaprabhaḥ ||

88.1८८.१

वेधयेत् सर्वलोहानि छेदे दाहे न संशयः । (८८।१)

vedhayet sarvalohāni chede dāhe na saṃśayaḥ |

88.2८८.२

बद्धा तु संकलाबन्धैर् वटिका खेचरी भवेत् ॥ (८८।२)

baddhā tu saṃkalābandhair vaṭikā khecarī bhavet ||

89.1८९.१

महालताःकाकजङ्घा च बृहती शरपुङ्खाजशृङ्गिके । (८९।१)

mahālatāḥkākajaṅghā ca bṛhatī śarapuṅkhājaśṛṅgike |

89.2८९.२

शिवा शक्रलता कन्या सप्तैतास्तु महालताः ॥ (८९।२)

śivā śakralatā kanyā saptaitāstu mahālatāḥ ||

90.1९०.१

पस्ते ड़्र् एइन्सत्ज़् इन् देहलोहगुह्याद्गुह्यं समाख्यातं वातारिस्नेहसंयुतम् । (९०।१)

Paste fr Einsatz in dehalohaguhyādguhyaṃ samākhyātaṃ vātārisnehasaṃyutam |

90.2९०.२

समे हेम्नि समं सूतं तारे ताम्रे ऽथवा प्रिये ॥ (९०।२)

same hemni samaṃ sūtaṃ tāre tāmre 'thavā priye ||

91.1९१.१

महारसाष्टमध्यैकं दद्यात्तूपरसांस्तथा । (९१।१)

mahārasāṣṭamadhyaikaṃ dadyāttūparasāṃstathā |

91.2९१.२

मर्दयेत् खल्लपाषाणे यावन्निश्चेतनं भवेत् ॥ (९१।२)

mardayet khallapāṣāṇe yāvanniścetanaṃ bhavet ||

92.1९२.१

स्वेदयेदारनालेन मर्दयेत् पूर्वकल्कवत् । (९२।१)

svedayedāranālena mardayet pūrvakalkavat |

92.2९२.२

तच्च लोहस्य देहस्य तत्तत्कर्मसु योजयेत् ॥ (९२।२)

tacca lohasya dehasya tattatkarmasu yojayet ||

93.1९३.१

तेxथेमाभ्रकस्य चैकैकं सूतकस्य द्वयं तथा । (९३।१)

Texthemābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā |

93.2९३.२

ताराभ्रकस्य चैकैकं सूतकस्य द्वयं तथा ॥ (९३।२)

tārābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā ||

94.1९४.१

पिष्टिकां कारयेत्तेन निगलेन च बन्धयेत् । (९४।१)

piṣṭikāṃ kārayettena nigalena ca bandhayet |

94.2९४.२

पुटेषु पिष्टिकाबन्धो गोलेन निगलेन च ॥ (९४।२)

puṭeṣu piṣṭikābandho golena nigalena ca ||

95.0९५.०

चूर्णबन्धपुनरन्यं प्रवक्ष्यामि चूर्णबन्धं सुरेश्वरि ॥ (९५।०)

cūrṇabandhapunaranyaṃ pravakṣyāmi cūrṇabandhaṃ sureśvari ||

96.1९६.१

पिष्टिकां टङ्कणं दत्त्वा द्विपदीरसमर्दितम् । (९६।१)

piṣṭikāṃ ṭaṅkaṇaṃ dattvā dvipadīrasamarditam |

96.2९६.२

नष्टपिष्टं च शुष्कं तत् धामयित्वा पुटे पचेत् ॥ (९६।२)

naṣṭapiṣṭaṃ ca śuṣkaṃ tat dhāmayitvā puṭe pacet ||

97.1९७.१

वेष्टयेद्देवदेवेशि गोलेन निगलेन च । (९७।१)

veṣṭayeddevadeveśi golena nigalena ca |

97.2९७.२

तुषकर्षाग्निना भूमौ मृदुस्वेदं तु कारयेत् ॥ (९७।२)

tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet ||

98.1९८.१

अहोरात्रं त्रिरात्रं वा चूर्णं भवति शोभनम् । (९८।१)

ahorātraṃ trirātraṃ vā cūrṇaṃ bhavati śobhanam |

98.2९८.२

बद्धसंकलिकाभावात् भवेद्द्वेधा तु वेधकम् ॥ (९८।२)

baddhasaṃkalikābhāvāt bhaveddvedhā tu vedhakam ||

99.0९९.०

पट्टबन्धपुनरन्यं प्रवक्ष्यामि पट्टबन्धं सुदुर्लभम् ॥ (९९।०)

paṭṭabandhapunaranyaṃ pravakṣyāmi paṭṭabandhaṃ sudurlabham ||

100.1१००.१

कासीसं टङ्कणं क्षारं सैन्धवं गन्धमभ्रकम् । (१००।१)

kāsīsaṃ ṭaṅkaṇaṃ kṣāraṃ saindhavaṃ gandhamabhrakam |

100.2१००.२

सूतकं मातुलुङ्गेन मर्दितं याममात्रकम् ॥ (१००।२)

sūtakaṃ mātuluṅgena marditaṃ yāmamātrakam ||

101.1१०१.१

वङ्गताराभ्ररसकस्नुक्क्षीरकृतगोलकम् । (१०१।१)

vaṅgatārābhrarasakasnukkṣīrakṛtagolakam |

101.2१०१.२

वेष्टयेद् भूर्जपत्त्रेण वस्त्रसूत्रेण वेष्टयेत् ॥ (१०१।२)

veṣṭayed bhūrjapattreṇa vastrasūtreṇa veṣṭayet ||

102.1१०२.१

ऊर्ध्वाधो गोमयं दत्त्वा भूमध्ये स्वेदयेत्ततः । (१०२।१)

ūrdhvādho gomayaṃ dattvā bhūmadhye svedayettataḥ |

102.2१०२.२

मर्दनं स्वेदनं कुर्यात्त्रिवारानेवमेव च ॥ (१०२।२)

mardanaṃ svedanaṃ kuryāttrivārānevameva ca ||

103.1१०३.१

लेपयेद्देशधर्माच्च मर्दयेद् गुडकाञ्जिकैः । (१०३।१)

lepayeddeśadharmācca mardayed guḍakāñjikaiḥ |

103.2१०३.२

धत्तूररसलिप्तायां मूषायां संनिवेशयेत् ॥ (१०३।२)

dhattūrarasaliptāyāṃ mūṣāyāṃ saṃniveśayet ||

104.1१०४.१

बद्ध्वा मूषामुखं देवि संधिलेपं तु कारयेत् । (१०४।१)

baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet |

104.2१०४.२

लोणमध्ये क्षिपेन्मूषां बृहन्मूषां च बाह्यतः ॥ (१०४।२)

loṇamadhye kṣipenmūṣāṃ bṛhanmūṣāṃ ca bāhyataḥ ||

105.1१०५.१

मुखं तस्याश्च मूषाया बद्ध्वा लोणमृदा ततः । (१०५।१)

mukhaṃ tasyāśca mūṣāyā baddhvā loṇamṛdā tataḥ |

105.2१०५.२

तुषकर्षाग्निना भूमौ मृदुस्वेदं तु कारयेत् ॥ (१०५।२)

tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet ||

106.1१०६.१

अहोरात्रं त्रिरात्रं वा चित्रधर्मा भवन्ति ते । (१०६।१)

ahorātraṃ trirātraṃ vā citradharmā bhavanti te |

106.2१०६.२

अनेनैव प्रकारेण सप्तवारं तु कारयेत् ॥ (१०६।२)

anenaiva prakāreṇa saptavāraṃ tu kārayet ||

107.0१०७.०

अन्तर्बहिश्च बद्धास्ते धर्मशुद्धा भवन्ति ते ॥ (१०७।०)

antarbahiśca baddhāste dharmaśuddhā bhavanti te ||

108.1१०८.१

मिस्छुन्ग् ड़्र् गेनेरेल्लेन् एर्ड़ोल्ग्गन्धकेन हतं सूतं काङ्क्षीकासीससैन्धवम् । (१०८।१)

Mischung fr generellen Erfolggandhakena hataṃ sūtaṃ kāṅkṣīkāsīsasaindhavam |

108.2१०८.२

स्नुह्यर्कं टङ्कणं गुञ्जा रविक्षीरेण मर्दिता । (१०८।२)

snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā |

108.3१०८.३

पुराणका भवन्त्याशु धर्मकामार्थमोक्षदाः ॥ (१०८।३)

purāṇakā bhavantyāśu dharmakāmārthamokṣadāḥ ||

109.1१०९.१

पञ्चभागं तु शुल्वस्य द्विभागं कुञ्जरस्य च । (१०९।१)

pañcabhāgaṃ tu śulvasya dvibhāgaṃ kuñjarasya ca |

109.2१०९.२

कारयेद्दलधर्मांश्च लेपयेत् पूर्वयोगतः ॥ (१०९।२)

kārayeddaladharmāṃśca lepayet pūrvayogataḥ ||

110.1११०.१

रसेन्द्रो रञ्जति ह्य् एवं कर्तव्यं सारणादिकम् । (११०।१)

rasendro rañjati hy evaṃ kartavyaṃ sāraṇādikam |

110.2११०.२

तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥ (११०।२)

tanmamācakṣva deveśi kimanyacchrotumicchasi ||

Data courtesy of The Digital Corpus of Sanskrit.

RArṇ, 16

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit