रसार्णवRasārṇava

RArṇ, 6

6 of 18 · 287 verses

Select a line for its word-by-word analysis.

1.1१.१

श्रीदेव्युवाच । (१।१)

śrīdevyuvāca |

1.2१.२

देवदेव महादेव शक्तीनां लक्षणं कथम् । (१।२)

devadeva mahādeva śaktīnāṃ lakṣaṇaṃ katham |

1.3१.३

रसकर्मणि योग्यत्वे संस्कारस् तस्य कथ्यताम् ॥ (१।३)

rasakarmaṇi yogyatve saṃskāras tasya kathyatām ||

2.1२.१

श्रीभैरव उवाच । (२।१)

śrībhairava uvāca

2.2२.२

अभ्र: एन्त्स्तेहुन्ग्कदाचिद्गिरिजा देवी हरं दृष्ट्वा मनोहरम् । (२।२)

abhra: Entstehungkadācidgirijā devī haraṃ dṛṣṭvā manoharam |

2.3२.३

मुमोच यत्तदा वीर्यं तज्जातं शुभमभ्रकम् । (२।३)

mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam |

2.4२.४

अभ्र: उन्तेरर्तेन्पीतं कृष्णं तथा शुक्लं रक्तं भूमेश्च संगमात् ॥ (२।४)

abhra: Unterartenpītaṃ kṛṣṇaṃ tathā śuklaṃ raktaṃ bhūmeśca saṃgamāt ||

3.0३.०

अभ्रकं कान्तपाषाणं वज्रं वैक्रान्तकं शृणु ॥ (३।०)

abhrakaṃ kāntapāṣāṇaṃ vajraṃ vaikrāntakaṃ śṛṇu ||

4.1४.१

पिनाकं दर्दुरं नागं वज्रं चाभ्रं चतुर्विधम् । (४।१)

pinākaṃ darduraṃ nāgaṃ vajraṃ cābhraṃ caturvidham |

4.2४.२

पिनाकेऽग्निं प्रविष्टे तु शब्दश् चिटिचिटिर् भवेत् ॥ (४।२)

pināke'gniṃ praviṣṭe tu śabdaś ciṭiciṭir bhavet ||

5.1५.१

दर्दुरेऽग्निं प्रविष्टे तु शब्दः कुक्कुटवद्भवेत् । (५।१)

dardure'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet |

5.2५.२

अग्निं प्रविष्टं नागं तु फूत्कारं देवि मुञ्चति ॥ (५।२)

agniṃ praviṣṭaṃ nāgaṃ tu phūtkāraṃ devi muñcati ||

6.0६.०

अग्निं प्रविष्टं वज्रं तु वज्रवत्तिष्ठति प्रिये ॥ (६।०)

agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye ||

7.1७.१

कुष्ठप्रदं पिनाकाभ्रं दर्दुरं मरणप्रदम् । (७।१)

kuṣṭhapradaṃ pinākābhraṃ darduraṃ maraṇapradam |

7.2७.२

नागं देहगतं नित्यं व्याधिं कुर्याद् भगंदरम् ॥ (७।२)

nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagaṃdaram ||

8.1८.१

रसे रसायने चैव योज्यं वज्राभ्रकं प्रिये । (८।१)

rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye |

8.2८.२

अनेकवर्णभेदेन तच्चतुर्विधमभ्रकम् ॥ (८।२)

anekavarṇabhedena taccaturvidhamabhrakam ||

9.1९.१

अभ्र:: सुब्त्य्पेस्:: चोलोउर्रक्तं पीतं च हेमार्थे कृष्णं हेमशरीरयोः । (९।१)

abhra:: subtypes:: colourraktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ |

9.2९.२

तारकर्मणि शुक्लं च काचकिट्टं सदा त्यजेत् ॥ (९।२)

tārakarmaṇi śuklaṃ ca kācakiṭṭaṃ sadā tyajet ||

10.1१०.१

अभ्र:: शोधनएकपत्त्रं कृतं पूर्वम् अभ्रकं सुरनायिके । (१०।१)

abhra:: śodhanaekapattraṃ kṛtaṃ pūrvam abhrakaṃ suranāyike |

10.2१०.२

अगस्त्यपुष्पतोयेन कुमुदानां रसेन च ॥ (१०।२)

agastyapuṣpatoyena kumudānāṃ rasena ca ||

11.1११.१

कपितिन्दुकजम्बीरमेघनादपुनर्नवैः । (११।१)

kapitindukajambīrameghanādapunarnavaiḥ |

11.2११.२

यवचिञ्चारनालाम्लकरवीरारुणोत्पलैः ॥ (११।२)

yavaciñcāranālāmlakaravīrāruṇotpalaiḥ ||

12.1१२.१

वनसूरणभूधात्रीभिण्डीमूलाम्लवेतसैः । (१२।१)

vanasūraṇabhūdhātrībhiṇḍīmūlāmlavetasaiḥ |

12.2१२.२

मेषशृङ्गीशशवसाशृङ्गतैलशमीरसैः ॥ (१२।२)

meṣaśṛṅgīśaśavasāśṛṅgatailaśamīrasaiḥ ||

13.1१३.१

वज्रवल्लीक्षीरकन्दमरिचैः सुमुखेन च । (१३।१)

vajravallīkṣīrakandamaricaiḥ sumukhena ca |

13.2१३.२

त्रिदिनं स्वेदयेद् देवि जायते दोषवर्जितम् ॥ (१३।२)

tridinaṃ svedayed devi jāyate doṣavarjitam ||

14.1१४.१

अभ्र:: सत्त्वपातनधान्याभ्रकं पुरा कृत्वा सुश्लक्ष्णं नवनीतवत् । (१४।१)

abhra:: sattvapātanadhānyābhrakaṃ purā kṛtvā suślakṣṇaṃ navanītavat |

14.2१४.२

त्रिंशत्पलं व्योमरजः क्षुद्रमत्स्यपलद्वयम् ॥ (१४।२)

triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam ||

15.1१५.१

तिलचूर्णपलं गुञ्जात्रिपलं पादटङ्कणम् । (१५।१)

tilacūrṇapalaṃ guñjātripalaṃ pādaṭaṅkaṇam |

15.2१५.२

गोधूमबद्धा तत्पिण्डी पञ्चगव्येन भाविता ॥ (१५।२)

godhūmabaddhā tatpiṇḍī pañcagavyena bhāvitā ||

16.1१६.१

धमनात् कोष्ठिकायन्त्रे भस्त्राभ्यां तीव्रवह्निना । (१६।१)

dhamanāt koṣṭhikāyantre bhastrābhyāṃ tīvravahninā |

16.2१६.२

पतत्यभ्रकसत्त्वं तु सत्त्वानि निखिलानि च ॥ (१६।२)

patatyabhrakasattvaṃ tu sattvāni nikhilāni ca ||

17.1१७.१

अभ्र:: द्रावणस्वेदनौषधिनिर्यासलोलितं पुटितं मुहुः । (१७।१)

abhra:: drāvaṇasvedanauṣadhiniryāsalolitaṃ puṭitaṃ muhuḥ |

17.2१७.२

मृतं तु पञ्चनिचुलपुटैर् बहुलपीतकम् ॥ (१७।२)

mṛtaṃ tu pañcaniculapuṭair bahulapītakam ||

18.1१८.१

पिण्डितं व्योम निष्क्लेदं दत्त्वा सत्त्वं निरञ्जनम् । (१८।१)

piṇḍitaṃ vyoma niṣkledaṃ dattvā sattvaṃ nirañjanam |

18.2१८.२

उमाफलैश्च पुष्पैश्च षष्टिकाम्लपरिप्लुतैः । (१८।२)

umāphalaiśca puṣpaiśca ṣaṣṭikāmlapariplutaiḥ |

18.3१८.३

औमदण्डविमर्देन गगनं द्रवति स्फुटम् ॥ (१८।३)

aumadaṇḍavimardena gaganaṃ dravati sphuṭam ||

19.1१९.१

अभ्र:: द्रावणअग्निजारं नवे कुम्भे स्थापयित्वा धरोत्तरम् । (१९।१)

abhra:: drāvaṇaagnijāraṃ nave kumbhe sthāpayitvā dharottaram |

19.2१९.२

गगनं द्रवति क्षिप्रं मुक्ताफलसमप्रभम् ॥ (१९।२)

gaganaṃ dravati kṣipraṃ muktāphalasamaprabham ||

20.1२०.१

अभ्रद्रावण (३)शतधा कञ्चुकीचूर्णं कञ्चुकीरसभावितम् । (२०।१)

abhradrāvaṇa (3)śatadhā kañcukīcūrṇaṃ kañcukīrasabhāvitam |

20.2२०.२

द्रावयेद्गगनं देवि लोहानि सकलानि च ॥ (२०।२)

drāvayedgaganaṃ devi lohāni sakalāni ca ||

21.1२१.१

अभ्रद्रावण (४)धान्याम्लके पर्युषितं निचुलक्षारवारिणि । (२१।१)

abhradrāvaṇa (4)dhānyāmlake paryuṣitaṃ niculakṣāravāriṇi |

21.2२१.२

स्थितं तद्द्रवतां याति निर्लेपरससन्निभम् ॥ (२१।२)

sthitaṃ taddravatāṃ yāti nirleparasasannibham ||

22.1२२.१

अभ्रद्रावण (५)अगस्त्यपुष्पतोयेन पिष्ट्वा सूरणकन्दके । (२२।१)

abhradrāvaṇa (5)agastyapuṣpatoyena piṣṭvā sūraṇakandake |

22.2२२.२

कोष्ठभूमिगतं मासं जायते रससन्निभम् ॥ (२२।२)

koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham ||

23.1२३.१

अभ्रद्रावण (६)छागमूत्रेण संसिक्तं कपितिन्दुकरेणुना । (२३।१)

abhradrāvaṇa (6)chāgamūtreṇa saṃsiktaṃ kapitindukareṇunā |

23.2२३.२

अभ्रकं वापितं देवि जायते जलसन्निभम् ॥ (२३।२)

abhrakaṃ vāpitaṃ devi jāyate jalasannibham ||

24.1२४.१

अभ्रद्रावण (७)काकिनीबीजचूर्णेन घृष्टमभ्रकजं रजः । (२४।१)

abhradrāvaṇa (7)kākinībījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ |

24.2२४.२

स्नुहिक्षीरेण सप्ताहं सिक्तं ध्मातं द्रुतं भवेत् ॥ (२४।२)

snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet ||

25.1२५.१

अभ्रद्रावण (८)अपामार्गस्य पञ्चाङ्गमभ्रकं च सुपेषितम् । (२५।१)

abhradrāvaṇa (8)apāmārgasya pañcāṅgamabhrakaṃ ca supeṣitam |

25.2२५.२

स्थापयेन्मृन्मये पात्रे तद्भवेत् सलिलं यथा ॥ (२५।२)

sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā ||

26.1२६.१

अभ्र:: द्रावणघृष्टमभ्रकचूर्णं तु कपालीमरिचैः सह । (२६।१)

abhra:: drāvaṇaghṛṣṭamabhrakacūrṇaṃ tu kapālīmaricaiḥ saha |

26.2२६.२

शिलया वापितं भूयोऽप्यगस्त्यरससंयुतम् ॥ (२६।२)

śilayā vāpitaṃ bhūyo'pyagastyarasasaṃyutam ||

27.1२७.१

मार्जारपादीस्वरसफलमूलाम्लमर्दितम् । (२७।१)

mārjārapādīsvarasaphalamūlāmlamarditam |

27.2२७.२

मातुलुङ्गफले न्यस्तं व्रीहिमध्ये निधापयेत् । (२७।२)

mātuluṅgaphale nyastaṃ vrīhimadhye nidhāpayet |

27.3२७.३

तद्द्रवेत् पक्षमात्रेण शिलासैन्धवयोजितम् ॥ (२७।३)

taddravet pakṣamātreṇa śilāsaindhavayojitam ||

28.1२८.१

अभ्रद्रावण (१०)एकपत्त्रीकृतं सप्तदिनं मुनिरसे क्षिपेत् । (२८।१)

abhradrāvaṇa (10)ekapattrīkṛtaṃ saptadinaṃ munirase kṣipet |

28.2२८.२

दार्वीमरिचसंमिश्रं मौर्वीरसपरिप्लुतम् ॥ (२८।२)

dārvīmaricasaṃmiśraṃ maurvīrasapariplutam ||

29.1२९.१

सौवर्चलयुतो मेघो वज्रवल्लीरसप्लुतः । (२९।१)

sauvarcalayuto megho vajravallīrasaplutaḥ |

29.2२९.२

शरावसंपुटे ध्मातो जायते जलसन्निभः ॥ (२९।२)

śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ ||

30.1३०.१

अभ्रद्रावण (११)वेगाफलस्य चूर्णेन सममभ्रकजं रजः । (३०।१)

abhradrāvaṇa (11)vegāphalasya cūrṇena samamabhrakajaṃ rajaḥ |

30.2३०.२

भावितं कुलिशक्षीरे ध्मातं द्रवति तत्क्षणात् ॥ (३०।२)

bhāvitaṃ kuliśakṣīre dhmātaṃ dravati tatkṣaṇāt ||

31.1३१.१

अभ्रद्रावण (१२)वज्रवल्लीरसैः पिष्ट्वा व्योम सौवर्चलान्वितम् । (३१।१)

abhradrāvaṇa (12)vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam |

31.2३१.२

शरावसंपुटे पक्त्वा द्रवेत् सलिलसन्निभम् ॥ (३१।२)

śarāvasaṃpuṭe paktvā dravet salilasannibham ||

32.1३२.१

अभ्रद्रावण (१३)गोमांससैन्धवार्कैस्तु मुनितोययुतं पुनः । (३२।१)

abhradrāvaṇa (13)gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ |

32.2३२.२

कदलीकन्दकान्तःस्थं गोमयाग्नौ त्र्यहं द्रवेत् ॥ (३२।२)

kadalīkandakāntaḥsthaṃ gomayāgnau tryahaṃ dravet ||

33.1३३.१

अभ्रद्रावण (१४)कृष्णाभ्रपत्रं संगृह्य पीलुतैलेन लेपयेत् । (३३।१)

abhradrāvaṇa (14)kṛṣṇābhrapatraṃ saṃgṛhya pīlutailena lepayet |

33.2३३.२

सप्ताहमातपे तप्तम् आम्ले क्षिप्त्वा दिनत्रयम् ॥ (३३।२)

saptāhamātape taptam āmle kṣiptvā dinatrayam ||

34.1३४.१

क्षाराष्तकवज्रार्कचित्रकक्षारं तुम्बीक्षारस्तथार्जुनः । (३४।१)

kṣārāṣtakavajrārkacitrakakṣāraṃ tumbīkṣārastathārjunaḥ |

34.2३४.२

सर्जक्षारो यवक्षारष्टङ्कणश्चाष्टमो भवेत् ॥ (३४।२)

sarjakṣāro yavakṣāraṣṭaṅkaṇaścāṣṭamo bhavet ||

35.1३५.१

अभ्रद्रावण (१५)क्षीरकन्दरसं चैव वज्रकन्दरसं तथा । (३५।१)

abhradrāvaṇa (15)kṣīrakandarasaṃ caiva vajrakandarasaṃ tathā |

35.2३५.२

बृहतीत्रयसंयुक्तं क्षारवर्गं च लेपयेत् ॥ (३५।२)

bṛhatītrayasaṃyuktaṃ kṣāravargaṃ ca lepayet ||

36.1३६.१

कल्केनानेन लिप्तं तत् पत्राभ्रं कांस्यभाजने । (३६।१)

kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane |

36.2३६.२

धमनात् सूर्यतापोत्थात् त्रिदिनेन द्रुतं भवेत् ॥ (३६।२)

dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet ||

37.1३७.१

अभ्रद्रावण (१६)अथवाभ्रकपत्रं तु कञ्चुकीक्षीरमध्यगम् । (३७।१)

abhradrāvaṇa (16)athavābhrakapatraṃ tu kañcukīkṣīramadhyagam |

37.2३७.२

भावयेच्च तथा तेन यावच्चूर्णं ततो भवेत् ॥ (३७।२)

bhāvayecca tathā tena yāvaccūrṇaṃ tato bhavet ||

38.1३८.१

ग्राहयेदभ्रपत्राणि निक्षिप्याम्ले दिनत्रयम् । (३८।१)

grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam |

38.2३८.२

लेपयेत्तेन कल्केन कांस्यपात्रे निधापयेत् । (३८।२)

lepayettena kalkena kāṃsyapātre nidhāpayet |

38.3३८.३

सूर्यतापेन सप्ताहं द्रुतिः संजायते क्षणात् ॥ (३८।३)

sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt ||

39.1३९.१

अभ्रद्रावण (१७)काकाण्डीफलचूर्णेन द्रावकैः पञ्चभिस्तथा । (३९।१)

abhradrāvaṇa (17)kākāṇḍīphalacūrṇena drāvakaiḥ pañcabhistathā |

39.2३९.२

अभ्रकस्य युतं चूर्णं ध्मातं मूषागतं द्रवेत् ॥ (३९।२)

abhrakasya yutaṃ cūrṇaṃ dhmātaṃ mūṣāgataṃ dravet ||

40.1४०.१

कान्तभेदाःभ्रामकं चुम्बकं चैव कर्षकं द्रावकं तथा । (४०।१)

kāntabhedāḥbhrāmakaṃ cumbakaṃ caiva karṣakaṃ drāvakaṃ tathā |

40.2४०.२

एवं चतुर्विधं कान्तं रोमकान्तं च पञ्चमम् ॥ (४०।२)

evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam ||

41.1४१.१

एकद्वित्रिचतुःपञ्चसर्वतोमुखमेव तत् । (४१।१)

ekadvitricatuḥpañcasarvatomukhameva tat |

41.2४१.२

पीतं कृष्णं तथा रक्तं त्रिवर्णं स्यात् पृथक् पृथक् ॥ (४१।२)

pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syāt pṛthak pṛthak ||

42.0४२.०

क्रमेण देवतास्तत्र ब्रह्मविष्णुमहेश्वराः ॥ (४२।०)

krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ ||

43.1४३.१

स्पर्शवेधि भवेत् पीतं कृष्णं श्रेष्ठं रसायने । (४३।१)

sparśavedhi bhavet pītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane |

43.2४३.२

रक्तवर्णं महाभागे रसबन्धे प्रशस्यते ॥ (४३।२)

raktavarṇaṃ mahābhāge rasabandhe praśasyate ||

44.1४४.१

भ्रामकं तु कनिष्ठं स्यात् चुम्बकं मध्यमं प्रिये । (४४।१)

bhrāmakaṃ tu kaniṣṭhaṃ syāt cumbakaṃ madhyamaṃ priye |

44.2४४.२

उत्तमं कर्षकं देवि द्रावकं चोत्तमोत्तमम् ॥ (४४।२)

uttamaṃ karṣakaṃ devi drāvakaṃ cottamottamam ||

45.1४५.१

भ्रामयेल्लोहजातं तु तत्कान्तं भ्रामकं प्रिये । (४५।१)

bhrāmayellohajātaṃ tu tatkāntaṃ bhrāmakaṃ priye |

45.2४५.२

चुम्बयेच्चुम्बकं कान्तं कर्षयेत् कर्षकं प्रिये ॥ (४५।२)

cumbayeccumbakaṃ kāntaṃ karṣayet karṣakaṃ priye ||

46.1४६.१

यत्साक्षाद्द्रावयेल्लोहं तत् कान्तं द्रावकं भवेत् । (४६।१)

yatsākṣāddrāvayellohaṃ tat kāntaṃ drāvakaṃ bhavet |

46.2४६.२

तद्रोमकान्तं स्फुटितात् यथा रोमोद्गमो भवेत् ॥ (४६।२)

tadromakāntaṃ sphuṭitāt yathā romodgamo bhavet ||

47.1४७.१

कनिष्ठं स्यादेकमुखं मध्यं द्वित्रिमुखं भवेत् । (४७।१)

kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet |

47.2४७.२

चतुःपञ्चमुखं श्रेष्ठम् उत्तमं सर्वतोमुखम् ॥ (४७।२)

catuḥpañcamukhaṃ śreṣṭham uttamaṃ sarvatomukham ||

48.1४८.१

एइन्सत्ज़्गेबिएतेभ्रामकं चुम्बकं चैव व्याधिनाशे प्रशस्यते । (४८।१)

Einsatzgebietebhrāmakaṃ cumbakaṃ caiva vyādhināśe praśasyate |

48.2४८.२

रसे रसायने चैव कर्षकं द्रावकं हितम् ॥ (४८।२)

rase rasāyane caiva karṣakaṃ drāvakaṃ hitam ||

49.1४९.१

ज़ुर् "ज़्गेलुन्ग्" वोन् क़ुएच्क्सिल्बेर्मदोन्मत्तगजः सूतः कान्तमङ्कुशमुच्यते । (४९।१)

zur "Zgelung" von Quecksilbermadonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate |

49.2४९.२

गेwइन्नुन्ग् वोन् कान्तक्षेत्रं खात्वा ग्रहीतव्यं तत्प्रयत्नेन भूयसा ॥ (४९।२)

Gewinnung von kāntakṣetraṃ khātvā grahītavyaṃ tatprayatnena bhūyasā ||

50.1५०.१

रेइनिगुन्ग् वोन् कान्त, दस् अन् देर् ओबेर्ड़्ल्¦छे गेड़ुन्देन् wउर्देमारुतातपविक्षिप्तं वर्जयेत् सुरसुन्दरि । (५०।१)

Reinigung von kānta, das an der Oberfl¦che gefunden wurdemārutātapavikṣiptaṃ varjayet surasundari |

50.2५०.२

बहिःस्थितं त्वयस्कान्तं छागरक्तेन भावयेत् ॥ (५०।२)

bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet ||

51.1५१.१

छागरक्तप्रलिप्तेन वाससा परिवेष्टयेत् । (५१।१)

chāgaraktapraliptena vāsasā pariveṣṭayet |

51.2५१.२

छागचर्म परीवेष्ट्य विन्यसेत् पूर्ववत् क्षितौ ॥ (५१।२)

chāgacarma parīveṣṭya vinyaset pūrvavat kṣitau ||

52.0५२.०

उद्धृतं सप्तभिर्मासैः तोयकुम्भे विनिक्षिपेत् ॥ (५२।०)

uddhṛtaṃ saptabhirmāsaiḥ toyakumbhe vinikṣipet ||

53.1५३.१

वेरेह्रुन्ग्: वोर्बेरेइतुन्ग् औड़् एइन्सत्ज़्रक्तपुष्पैः सदा पूज्यं रक्तमाल्यानुलेपनैः । (५३।१)

Verehrung: Vorbereitung auf Einsatzraktapuṣpaiḥ sadā pūjyaṃ raktamālyānulepanaiḥ |

53.2५३.२

पूजितं मद्यमांसैश्च योज्यं रसरसायने ॥ (५३।२)

pūjitaṃ madyamāṃsaiśca yojyaṃ rasarasāyane ||

54.1५४.१

त्रन्स्ड़ोर्मतिओन् वोन् स्छ्लेछ्तेरेन् ज़ु बेस्सेरेन् अर्तेन्संस्कृतं छागरक्तेन भ्रामकं चुम्बकं भवेत् । (५४।१)

Transformation von schlechteren zu besseren Artensaṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet |

54.2५४.२

अनेन क्रमयोगेन द्रावकं भवति प्रिये ॥ (५४।२)

anena kramayogena drāvakaṃ bhavati priye ||

55.1५५.१

+ ह्ग्सूतलोहस्य वक्ष्यामि संस्कारम् अतिसौख्यदम् । (५५।१)

+ Hgsūtalohasya vakṣyāmi saṃskāram atisaukhyadam |

55.2५५.२

जीवदेहे प्रवेशे च देहसौख्यबलप्रदम् ॥ (५५।२)

jīvadehe praveśe ca dehasaukhyabalapradam ||

56.1५६.१

कान्तलोहं विना सूतो देहे न क्रामति क्वचित् । (५६।१)

kāntalohaṃ vinā sūto dehe na krāmati kvacit |

56.2५६.२

वेधयेद् व्यापयेच्छीघ्रं तैलबिन्दुरिवाम्भसि ॥ (५६।२)

vedhayed vyāpayecchīghraṃ tailabindurivāmbhasi ||

57.1५७.१

न सूतेन विना कान्तो न कान्तः सूतवर्जितः । (५७।१)

na sūtena vinā kānto na kāntaḥ sūtavarjitaḥ |

57.2५७.२

कान्तसूतसमायुक्तः प्रयोगो देहधारकः ॥ (५७।२)

kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ ||

58.1५८.१

कान्तलोह:: द्रावणयवक्षारं तु संगृह्य स्निग्धभाण्डे निधापयेत् । (५८।१)

kāntaloha:: drāvaṇayavakṣāraṃ tu saṃgṛhya snigdhabhāṇḍe nidhāpayet |

58.2५८.२

मरिचाभ्रकचूर्णेन पिण्डीबन्धं तु कारयेत् । (५८।२)

maricābhrakacūrṇena piṇḍībandhaṃ tu kārayet |

58.3५८.३

कान्तलोहं द्रवेद्ध्मातं नात्र कार्या विचारणा ॥ (५८।३)

kāntalohaṃ draveddhmātaṃ nātra kāryā vicāraṇā ||

59.1५९.१

कान्तलोह:: शोधनत्रिंशच्चुम्बककान्तं च पिष्ट्वा तु त्रिफलाम्भसा । (५९।१)

kāntaloha:: śodhanatriṃśaccumbakakāntaṃ ca piṣṭvā tu triphalāmbhasā |

59.2५९.२

तेनैव क्षालनं कार्यं पञ्चनिष्कं तु टङ्कणम् ॥ (५९।२)

tenaiva kṣālanaṃ kāryaṃ pañcaniṣkaṃ tu ṭaṅkaṇam ||

60.1६०.१

जीर्णवस्त्रे विनिक्षिप्य मधुसर्पिर्युतं पुटेत् । (६०।१)

jīrṇavastre vinikṣipya madhusarpiryutaṃ puṭet |

60.2६०.२

संस्थाप्य मासपर्य्यन्तं तत्र शुद्धिर्भवेत्प्रिये ॥ (६०।२)

saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye ||

61.1६१.१

कान्तद्रुतिपातसिनाडिकाया मूलं तु दशनिष्कमितं युतम् । (६१।१)

kāntadrutipātasināḍikāyā mūlaṃ tu daśaniṣkamitaṃ yutam |

61.2६१.२

फलत्रयकषायेन खल्ले तु परिमर्दयेत् ॥ (६१।२)

phalatrayakaṣāyena khalle tu parimardayet ||

62.1६२.१

त्रिमूषासु समं स्थाप्यमष्टाङ्गुलमितासु च । (६२।१)

trimūṣāsu samaṃ sthāpyamaṣṭāṅgulamitāsu ca |

62.2६२.२

मूषकालेपनं कार्यं तन्मूलं निष्कमात्रकम् ॥ (६२।२)

mūṣakālepanaṃ kāryaṃ tanmūlaṃ niṣkamātrakam ||

63.1६३.१

शिवपञ्चमुखीकार्यमूषां प्रति समं ततः । (६३।१)

śivapañcamukhīkāryamūṣāṃ prati samaṃ tataḥ |

63.2६३.२

यन्त्रहस्ते सुसम्बध्य खोटकं च शिलातले ॥ (६३।२)

yantrahaste susambadhya khoṭakaṃ ca śilātale ||

64.1६४.१

तैलेन मिश्रितं कृत्वा कान्तनागं लभेत्ततः । (६४।१)

tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ |

64.2६४.२

अभ्रकक्रमयोगेन द्रुतिपातं च साधयेत् ॥ (६४।२)

abhrakakramayogena drutipātaṃ ca sādhayet ||

65.1६५.१

वज्रोत्पत्तिसुरासुरैर्मथ्यमाने क्षीरोदे मन्दराद्रिणा । (६५।१)

vajrotpattisurāsurairmathyamāne kṣīrode mandarādriṇā |

65.2६५.२

पीतं तदमृतं देवैरमरत्वम् उपागतम् ॥ (६५।२)

pītaṃ tadamṛtaṃ devairamaratvam upāgatam ||

66.1६६.१

पिबतां बिन्दवो देवि पतिता भूमिमण्डले । (६६।१)

pibatāṃ bindavo devi patitā bhūmimaṇḍale |

66.2६६.२

शुष्कास्ते वज्रतां याता नानावर्णा महाबलाः ॥ (६६।२)

śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ ||

67.1६७.१

बिन्दवः केऽपि संजाताः सस्यका विमलास्तथा । (६७।१)

bindavaḥ ke'pi saṃjātāḥ sasyakā vimalāstathā |

67.2६७.२

उन्तेरर्तेन्: कस्तेन्ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैवम् अनेकधा ॥ (६७।२)

Unterarten: Kastenbrāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaivam anekadhā ||

68.1६८.१

श्वेता रक्तास्तथा पीता कृष्णाश्चैव चतुर्विधाः । (६८।१)

śvetā raktāstathā pītā kṛṣṇāścaiva caturvidhāḥ |

68.2६८.२

उन्तेरर्तेन्: गेस्छ्लेछ्तेर्पुरुषाश्च स्त्रियश्चैव नपुंसकम् अनुक्रमात् ॥ (६८।२)

Unterarten: Geschlechterpuruṣāśca striyaścaiva napuṃsakam anukramāt ||

69.1६९.१

वृत्ताः फलकसम्पूर्णास् तेजस्वन्तो महत्तराः । (६९।१)

vṛttāḥ phalakasampūrṇās tejasvanto mahattarāḥ |

69.2६९.२

पुरुषास्ते निबोद्धव्या रेखाबिन्दुविवर्जिताः ॥ (६९।२)

puruṣāste niboddhavyā rekhābinduvivarjitāḥ ||

70.1७०.१

रेखाबिन्दुसमायुक्ताः खण्डाश्चैव तु योषितः । (७०।१)

rekhābindusamāyuktāḥ khaṇḍāścaiva tu yoṣitaḥ |

70.2७०.२

त्रिकोणाः पत्तला दीर्घाः विज्ञेयास्ते नपुंसकाः ॥ (७०।२)

trikoṇāḥ pattalā dīrghāḥ vijñeyāste napuṃsakāḥ ||

71.1७१.१

सत्त्ववन्तो बलोपेता लोहे क्रामणशीलिनः । (७१।१)

sattvavanto balopetā lohe krāmaṇaśīlinaḥ |

71.2७१.२

रसबन्धकराः शीघ्रं पुंवज्राः सुरवन्दिते ॥ (७१।२)

rasabandhakarāḥ śīghraṃ puṃvajrāḥ suravandite ||

72.1७२.१

शरीरकान्तिजननाः स्त्रीवज्राः स्वल्पशक्तयः । (७२।१)

śarīrakāntijananāḥ strīvajrāḥ svalpaśaktayaḥ |

72.2७२.२

नपुंसकाः सत्त्वहीनाः कष्टं लोहे क्रमन्ति च ॥ (७२।२)

napuṃsakāḥ sattvahīnāḥ kaṣṭaṃ lohe kramanti ca ||

73.1७३.१

नछ् कस्तेन्क्षत्रियाः सर्वकार्येषु वर्ज्याश्च रसकर्मणि । (७३।१)

nach Kastenkṣatriyāḥ sarvakāryeṣu varjyāśca rasakarmaṇi |

73.2७३.२

उत्तमा मध्यमाश्चैव कनिष्ठाः परिकीर्तिताः ॥ (७३।२)

uttamā madhyamāścaiva kaniṣṭhāḥ parikīrtitāḥ ||

74.1७४.१

स्थूलातिस्थूलमध्याश्च सूक्ष्माः सूक्ष्मतराः प्रिये । (७४।१)

sthūlātisthūlamadhyāśca sūkṣmāḥ sūkṣmatarāḥ priye |

74.2७४.२

आस्फोटदाहभेदैश्च निर्व्यङ्गा निरुपद्रवाः । (७४।२)

āsphoṭadāhabhedaiśca nirvyaṅgā nirupadravāḥ |

74.3७४.३

वीर्यवन्तश्च ते ज्येष्ठा निर्मला बलवत्तराः ॥ (७४।३)

vīryavantaśca te jyeṣṭhā nirmalā balavattarāḥ ||

75.1७५.१

रसायने भवेद्विप्रो ह्यणिमादिगुणप्रदः । (७५।१)

rasāyane bhavedvipro hyaṇimādiguṇapradaḥ |

75.2७५.२

क्षत्रियो मृत्युनाशार्थो वलीपलितरोगहा ॥ (७५।२)

kṣatriyo mṛtyunāśārtho valīpalitarogahā ||

76.1७६.१

द्रव्यकारी तथा वैश्यः शरीरं दृढतां नयेत् । (७६।१)

dravyakārī tathā vaiśyaḥ śarīraṃ dṛḍhatāṃ nayet |

76.2७६.२

व्याधिप्रशमनं शूद्रो वयःस्तम्भं करोति च ॥ (७६।२)

vyādhipraśamanaṃ śūdro vayaḥstambhaṃ karoti ca ||

77.0७७.०

नछ् गेस्छ्लेछ्तेर्न्क्लीबे क्लीबाः स्त्रियः स्त्रीणां सर्वेषां पुरुषा हिताः ॥ (७७।०)

nach Geschlechternklībe klībāḥ striyaḥ strīṇāṃ sarveṣāṃ puruṣā hitāḥ ||

78.1७८.१

यथा जातिस्तथोत्साहं यथा सत्त्वं तथा गुणान् । (७८।१)

yathā jātistathotsāhaṃ yathā sattvaṃ tathā guṇān |

78.2७८.२

यथा रुचिस्तथा शीलं यथा शीलं तथा वरम् । (७८।२)

yathā rucistathā śīlaṃ yathā śīlaṃ tathā varam |

78.3७८.३

यथा वरस्तथा वर्णं कुर्वन्ति कुलिशाः प्रिये ॥ (७८।३)

yathā varastathā varṇaṃ kurvanti kuliśāḥ priye ||

79.1७९.१

वज्रशोधनश्यामा शमी घनरवो वर्षाभून्मत्तकोद्रवाः । (७९।१)

vajraśodhanaśyāmā śamī ghanaravo varṣābhūnmattakodravāḥ |

79.2७९.२

आखुकर्णी मुनितरुः कुलत्थं चाम्लवेतसम् ॥ (७९।२)

ākhukarṇī munitaruḥ kulatthaṃ cāmlavetasam ||

80.1८०.१

मेषशृङ्गी रसोऽप्येषां कन्दस्य सूरणस्य तु । (८०।१)

meṣaśṛṅgī raso'pyeṣāṃ kandasya sūraṇasya tu |

80.2८०.२

शोधयेत्त्रिदिनं वज्रं शुद्धिमेति सुरेश्वरि ॥ (८०।२)

śodhayettridinaṃ vajraṃ śuddhimeti sureśvari ||

81.1८१.१

वज्रमारण (१)मेषशृङ्गं भुजङ्गास्थि कूर्मपृष्ठं शिलाजतु । (८१।१)

vajramāraṇa (1)meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu |

81.2८१.२

स्नुक्कीलालरसं स्तन्यं कान्तपाषाणमेव च ॥ (८१।२)

snukkīlālarasaṃ stanyaṃ kāntapāṣāṇameva ca ||

82.1८२.१

वज्रकं चापि वैक्रान्तं तन्मध्ये प्रक्षिपेत् प्रिये । (८२।१)

vajrakaṃ cāpi vaikrāntaṃ tanmadhye prakṣipet priye |

82.2८२.२

तीव्रानले पुटं दत्त्वा पुटान्तं यावदागतम् ॥ (८२।२)

tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam ||

83.1८३.१

कुलत्थं कोद्रवं चापि हयमूत्रेण पेषयेत् । (८३।१)

kulatthaṃ kodravaṃ cāpi hayamūtreṇa peṣayet |

83.2८३.२

तप्तं निषेचयेत् पीठे यावत्तद्भस्मतां गतम् ॥ (८३।२)

taptaṃ niṣecayet pīṭhe yāvattadbhasmatāṃ gatam ||

84.0८४.०

एष कापालिको योगो वज्रमारण उत्तमः ॥ (८४।०)

eṣa kāpāliko yogo vajramāraṇa uttamaḥ ||

85.1८५.१

वज्रमारण (२)माक्षिकं मेषशृङ्गं च शिलागन्धकटङ्कणम् । (८५।१)

vajramāraṇa (2)mākṣikaṃ meṣaśṛṅgaṃ ca śilāgandhakaṭaṅkaṇam |

85.2८५.२

वैक्रान्तं तालकं चापि वज्रीक्षीरपरिप्लुतम् ॥ (८५।२)

vaikrāntaṃ tālakaṃ cāpi vajrīkṣīrapariplutam ||

86.1८६.१

लेपं मूषोदरे दत्त्वा समावर्त्तं तु कारयेत् । (८६।१)

lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet |

86.2८६.२

म्रियन्ते हीरकास्तत्र द्वन्द्वे सम्यङ्मिलन्ति च ॥ (८६।२)

mriyante hīrakāstatra dvandve samyaṅmilanti ca ||

87.1८७.१

वज्रमारण (३)गन्धकं च शिलाधातुं भ्रामकस्य मुखं तथा । (८७।१)

vajramāraṇa (3)gandhakaṃ ca śilādhātuṃ bhrāmakasya mukhaṃ tathā |

87.2८७.२

शशकस्य च दन्तांश्च वेतसाम्लेन पेषयेत् ॥ (८७।२)

śaśakasya ca dantāṃśca vetasāmlena peṣayet ||

88.1८८.१

अनेन सिद्धकल्केन मूषालेपं तु कारयेत् । (८८।१)

anena siddhakalkena mūṣālepaṃ tu kārayet |

88.2८८.२

अन्धमूषागतं ध्मातं वज्रं तु म्रियते क्षणात् ॥ (८८।२)

andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt ||

89.0८९.०

तेनैव मिलितं वज्रं तारहेम्नि न संशयः ॥ (८९।०)

tenaiva militaṃ vajraṃ tārahemni na saṃśayaḥ ||

90.1९०.१

वज्रमारण (४)तालकं गन्धकं कान्तं ताप्यं कर्पूरटङ्कणम् । (९०।१)

vajramāraṇa (4)tālakaṃ gandhakaṃ kāntaṃ tāpyaṃ karpūraṭaṅkaṇam |

90.2९०.२

चिञ्चास्थि मेषशृङ्गं च स्त्रीरजःपरिपेषितम् । (९०।२)

ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam |

90.3९०.३

मूषालेपगतं ध्मातं वज्रं तु म्रियते क्षणात् ॥ (९०।३)

mūṣālepagataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt ||

91.1९१.१

वज्रमारण (५)शरपुङ्खस्य पञ्चाङ्गं पेष्यं स्त्रीरजसा ततः । (९१।१)

vajramāraṇa (5)śarapuṅkhasya pañcāṅgaṃ peṣyaṃ strīrajasā tataḥ |

91.2९१.२

पेटारीबीजम् अथवा संपेष्यं तण्डुलाम्भसा ॥ (९१।२)

peṭārībījam athavā saṃpeṣyaṃ taṇḍulāmbhasā ||

92.1९२.१

पेष्यं त्रिकर्षकार्पासमूलं वा तण्डुलाम्भसा । (९२।१)

peṣyaṃ trikarṣakārpāsamūlaṃ vā taṇḍulāmbhasā |

92.2९२.२

आरक्तराकामूलं वा स्त्रीस्तन्येन तु पेषितम् ॥ (९२।२)

āraktarākāmūlaṃ vā strīstanyena tu peṣitam ||

93.1९३.१

पेषयेद् वज्रकन्दं वा वज्रीक्षीरेण सुव्रते । (९३।१)

peṣayed vajrakandaṃ vā vajrīkṣīreṇa suvrate |

93.2९३.२

तत्कल्कपुटितं ध्मातं वज्रं चैव मृतं भवेत् ॥ (९३।२)

tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet ||

94.1९४.१

वज्रमारण (६)महानदीश्वेतशुक्त्यां दिनमेकं तु भावितम् । (९४।१)

vajramāraṇa (6)mahānadīśvetaśuktyāṃ dinamekaṃ tu bhāvitam |

94.2९४.२

क्षीरेणोत्तरवारुण्याः कल्केनानेन सुव्रते ॥ (९४।२)

kṣīreṇottaravāruṇyāḥ kalkenānena suvrate ||

95.1९५.१

तालेन मेषशृङ्ग्या च वज्रवल्ल्या च वेष्टितम् । (९५।१)

tālena meṣaśṛṅgyā ca vajravallyā ca veṣṭitam |

95.2९५.२

अन्धमूषागतं ध्मातं वज्रं तु म्रियते क्षणात् ॥ (९५।२)

andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt ||

96.1९६.१

वज्रमारण (७)कान्तस्य पिष्टिकामध्ये वज्रं देवि विनिक्षिपेत् । (९६।१)

vajramāraṇa (7)kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet |

96.2९६.२

पेषयेद् गन्धतैलेन म्रियते वज्रम् ईश्वरि ॥ (९६।२)

peṣayed gandhatailena mriyate vajram īśvari ||

97.1९७.१

वज्रमारण (८)कुलत्थाम्भसि कासीससौराष्ट्रीतालकान्विते । (९७।१)

vajramāraṇa (8)kulatthāmbhasi kāsīsasaurāṣṭrītālakānvite |

97.2९७.२

अपामार्गक्षारयुते वज्रं सिक्तं मृतं भवेत् ॥ (९७।२)

apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet ||

98.1९८.१

वज्र:: मारणअमृताकन्दतिमिरबीजत्वक्क्षीरवेष्टितम् । (९८।१)

vajra:: māraṇaamṛtākandatimirabījatvakkṣīraveṣṭitam |

98.2९८.२

मेषशृङ्गगतं वज्रं मृल्लिप्तं म्रियते पुटैः ॥ (९८।२)

meṣaśṛṅgagataṃ vajraṃ mṛlliptaṃ mriyate puṭaiḥ ||

99.1९९.१

वज्रमारण (९)पेटारी हंसपादी च वज्रवल्ली च सूरणम् । (९९।१)

vajramāraṇa (9)peṭārī haṃsapādī ca vajravallī ca sūraṇam |

99.2९९.२

अश्वत्थस्याङ्कुरा देवि सर्वे स्त्रीस्तन्यपेषिताः ॥ (९९।२)

aśvatthasyāṅkurā devi sarve strīstanyapeṣitāḥ ||

100.1१००.१

अनेन सिद्धकल्केन वेष्टितं बृहतीफले । (१००।१)

anena siddhakalkena veṣṭitaṃ bṛhatīphale |

100.2१००.२

क्षिप्तं बहिर्मृदा लिप्तं म्रियते सप्तभिः पुटैः ॥ (१००।२)

kṣiptaṃ bahirmṛdā liptaṃ mriyate saptabhiḥ puṭaiḥ ||

101.1१०१.१

वज्रमारण (१०)श्वेतेन्दुरेखापुष्पाम्बुगन्धकत्रयमाक्षिकैः । (१०१।१)

vajramāraṇa (10)śvetendurekhāpuṣpāmbugandhakatrayamākṣikaiḥ |

101.2१०१.२

वेष्टितं कुलिशं देवि पुटपाकात् मृतं भवेत् ॥ (१०१।२)

veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet ||

102.1१०२.१

ब्राह्मणवज्रमारणअश्वत्थबदरीभिण्डीमाक्षीकं कर्कटास्थि च । (१०२।१)

brāhmaṇavajramāraṇaaśvatthabadarībhiṇḍīmākṣīkaṃ karkaṭāsthi ca |

102.2१०२.२

स्नुहीक्षीरेण संपेष्य पुटाद्विप्रो मृतो भवेत् ॥ (१०२।२)

snuhīkṣīreṇa saṃpeṣya puṭādvipro mṛto bhavet ||

103.1१०३.१

क्षत्रियवज्रमारणकरवीरार्कदुग्धेन मेषशृङ्गं सहिङ्गुलम् । (१०३।१)

kṣatriyavajramāraṇakaravīrārkadugdhena meṣaśṛṅgaṃ sahiṅgulam |

103.2१०३.२

उदुम्बरसमायुक्तं पुटात् क्षत्रियमारणम् ॥ (१०३।२)

udumbarasamāyuktaṃ puṭāt kṣatriyamāraṇam ||

104.1१०४.१

वैश्यवज्रमारणबाला चातिबला चैव गन्धकं कर्कटास्थि च । (१०४।१)

vaiśyavajramāraṇabālā cātibalā caiva gandhakaṃ karkaṭāsthi ca |

104.2१०४.२

क्षीरेणोत्तरवारुण्याः पुटनाद्वैश्यमारणम् ॥ (१०४।२)

kṣīreṇottaravāruṇyāḥ puṭanādvaiśyamāraṇam ||

105.1१०५.१

शूद्रवज्रमारणकण्डूलसूरणेनैव शिलया लशुनेन च । (१०५।१)

śūdravajramāraṇakaṇḍūlasūraṇenaiva śilayā laśunena ca |

105.2१०५.२

न्यग्रोधशङ्खदुग्धेन शूद्रोऽपि म्रियते क्षणात् ॥ (१०५।२)

nyagrodhaśaṅkhadugdhena śūdro'pi mriyate kṣaṇāt ||

106.1१०६.१

एन्त्ड़ेर्नेन् वोन् फलकस्स्थूला बहुस्थूलपुटैः नश्यन्ति फलकादयः । (१०६।१)

Entfernen von phalakassthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ |

106.2१०६.२

सुस्विन्ना इव जायन्ते मृदुत्वमुपजायते ॥ (१०६।२)

susvinnā iva jāyante mṛdutvamupajāyate ||

107.1१०७.१

वज्रमारण (११)पिष्ट्वामलकपञ्चाङ्गं गौराभाम् इन्द्रवारुणीम् । (१०७।१)

vajramāraṇa (11)piṣṭvāmalakapañcāṅgaṃ gaurābhām indravāruṇīm |

107.2१०७.२

अनेन वेष्टितं वज्रं म्रियते सप्तभिः पुटैः ॥ (१०७।२)

anena veṣṭitaṃ vajraṃ mriyate saptabhiḥ puṭaiḥ ||

108.1१०८.१

?? (१)मातृवाहकजीवस्य मध्ये वज्रं विनिक्षिपेत् । (१०८।१)

?? (1)mātṛvāhakajīvasya madhye vajraṃ vinikṣipet |

108.2१०८.२

दोलास्वेदे त्र्यहं देवि गुणपत्त्रसमं भवेत् ॥ (१०८।२)

dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet ||

109.1१०९.१

?? (२)एरण्डवृक्षमध्ये तु वज्रं देवि विनिक्षिपेत् । (१०९।१)

?? (2)eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet |

109.2१०९.२

एकमासे गते देवि गुणपत्त्रसमं भवेत् ॥ (१०९।२)

ekamāse gate devi guṇapattrasamaṃ bhavet ||

110.1११०.१

वज्र:: मृदूकरणकान्तस्य पिष्टिकामध्ये वज्रं देवि विनिक्षिपेत् । (११०।१)

vajra:: mṛdūkaraṇakāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet |

110.2११०.२

कार्पासनिम्बपत्त्रं च बदरीपत्त्रसंयुतम् ॥ (११०।२)

kārpāsanimbapattraṃ ca badarīpattrasaṃyutam ||

111.1१११.१

एकत्र पेषयेत्तत्तु कान्तगोलकवेष्टितम् । (१११।१)

ekatra peṣayettattu kāntagolakaveṣṭitam |

111.2१११.२

बाह्ये ताम्बूलपत्त्रेण स्थापयेज्जानुमध्यतः ॥ (१११।२)

bāhye tāmbūlapattreṇa sthāpayejjānumadhyataḥ ||

112.1११२.१

यामद्वयेन तद्वज्रं जायते मृदु निश्चितम् । (११२।१)

yāmadvayena tadvajraṃ jāyate mṛdu niścitam |

112.2११२.२

तत्क्षणान्म्रियते वज्रं तारे हेम्नि न संशयः ॥ (११२।२)

tatkṣaṇānmriyate vajraṃ tāre hemni na saṃśayaḥ ||

113.1११३.१

वज्रखोटकरणजम्बीरफलमध्यस्थं वस्त्रपोटलिकागतम् । (११३।१)

vajrakhoṭakaraṇajambīraphalamadhyasthaṃ vastrapoṭalikāgatam |

113.2११३.२

क्वाथयेत् कोद्रवक्वाथे क्रमेणानेन तु त्र्यहम् । (११३।२)

kvāthayet kodravakvāthe krameṇānena tu tryaham |

113.3११३.३

तद्वज्रं जायते खोटं हेम्ना मिलति तत्क्षणात् ॥ (११३।३)

tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt ||

114.1११४.१

वज्रमृदूकरणनागवल्ल्या प्रलिप्तं तु तत्पत्त्रेणैव वेष्टितम् । (११४।१)

vajramṛdūkaraṇanāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam |

114.2११४.२

जानुमध्ये स्थितं यामं मृदु संजायते ध्रुवम् ॥ (११४।२)

jānumadhye sthitaṃ yāmaṃ mṛdu saṃjāyate dhruvam ||

115.1११५.१

वज्रभस्मीकरणमूले वज्रलतायास्तु मृदु वज्रं विनिक्षिपेत् । (११५।१)

vajrabhasmīkaraṇamūle vajralatāyāstu mṛdu vajraṃ vinikṣipet |

115.2११५.२

पुटं दद्यात् प्रयत्नेन भस्मीभवति तत्क्षणात् ॥ (११५।२)

puṭaṃ dadyāt prayatnena bhasmībhavati tatkṣaṇāt ||

116.1११६.१

सुखाद् बन्धकरं ह्य् आशु सत्त्वं मुञ्चति तत्क्षणात् । (११६।१)

sukhād bandhakaraṃ hy āśu sattvaṃ muñcati tatkṣaṇāt |

116.2११६.२

सर्वमृत्युप्रशमनाः सर्वसिद्धिकराश् च ते ॥ (११६।२)

sarvamṛtyupraśamanāḥ sarvasiddhikarāś ca te ||

117.1११७.१

वज्रद्रवीकरण (१)अस्थिशृङ्खलमध्यस्थं कृत्वा वज्रं विरन्ध्रितम् । (११७।१)

vajradravīkaraṇa (1)asthiśṛṅkhalamadhyasthaṃ kṛtvā vajraṃ virandhritam |

117.2११७.२

जलभाण्डे तु तत् स्विन्नं सप्ताहं द्रवतां व्रजेत् ॥ (११७।२)

jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet ||

118.1११८.१

वज्रद्रवीकरण (२)क्षारत्रयं रामठं च चणकाम्लवेतसम् । (११८।१)

vajradravīkaraṇa (2)kṣāratrayaṃ rāmaṭhaṃ ca caṇakāmlavetasam |

118.2११८.२

क्षिप्त्वा ज्वालामुखीक्षीरं स्थलकुम्भीरसेन च ॥ (११८।२)

kṣiptvā jvālāmukhīkṣīraṃ sthalakumbhīrasena ca ||

119.1११९.१

एतैस्तु मर्दितं वज्रं स्नुह्यर्कपयसा तथा । (११९।१)

etaistu marditaṃ vajraṃ snuhyarkapayasā tathā |

119.2११९.२

दोलायां स्वेदयेद्देवि जायते रसवद् यथा ॥ (११९।२)

dolāyāṃ svedayeddevi jāyate rasavad yathā ||

120.1१२०.१

वज्र:: द्रावण (?)अथवाप्यभ्रकं स्विन्नं मौक्तिकं च प्रवालकम् । (१२०।१)

vajra:: drāvaṇa (?)athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam |

120.2१२०.२

माक्षिकं नीलपुष्पं च पीतं मरकतं महत् । (१२०।२)

mākṣikaṃ nīlapuṣpaṃ ca pītaṃ marakataṃ mahat |

120.3१२०.३

वैडूर्यस्फटिकादीनि द्रवन्ति सलिलं यथा ॥ (१२०।३)

vaiḍūryasphaṭikādīni dravanti salilaṃ yathā ||

121.1१२१.१

वज्रद्रवीकरण (४)लोहजातं तथा ध्मातम् अग्निवर्णं तु दृश्यते । (१२१।१)

vajradravīkaraṇa (4)lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate |

121.2१२१.२

वापितं सकृद् एकेन मृतं जलसमं भवेत् ॥ (१२१।२)

vāpitaṃ sakṛd ekena mṛtaṃ jalasamaṃ bhavet ||

122.1१२२.१

मुक्ताफलं तु सप्ताहं वेतसाम्लेन भावितम् । (१२२।१)

muktāphalaṃ tu saptāhaṃ vetasāmlena bhāvitam |

122.2१२२.२

जम्बीरोदरमध्यस्थं धान्यराशौ निधापयेत् । (१२२।२)

jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet |

122.3१२२.३

पुटपाकेन तच्चूर्णं जायते सलिलं यथा ॥ (१२२।३)

puṭapākena taccūrṇaṃ jāyate salilaṃ yathā ||

123.0१२३.०

वैक्रान्तशृणु देवि महाभागे वैक्रान्ताख्यं महारसम् ॥ (१२३।०)

vaikrāntaśṛṇu devi mahābhāge vaikrāntākhyaṃ mahārasam ||

124.1१२४.१

दैत्येन्द्रो महिषः सिद्धो हरदेहसमुद्भवः । (१२४।१)

daityendro mahiṣaḥ siddho haradehasamudbhavaḥ |

124.2१२४.२

दुर्गा भगवती देवी तं शूलेन व्यमर्दयत् ॥ (१२४।२)

durgā bhagavatī devī taṃ śūlena vyamardayat ||

125.1१२५.१

तस्य रक्तं तु पतितं यत्र यत्र स्थितं भुवि । (१२५।१)

tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi |

125.2१२५.२

तत्र तत्र तु वैक्रान्तो वज्राकारो महारसः ॥ (१२५।२)

tatra tatra tu vaikrānto vajrākāro mahārasaḥ ||

126.1१२६.१

विन्ध्यस्य दक्षिणे चास्ति उत्तरे नास्ति सर्वथा । (१२६।१)

vindhyasya dakṣiṇe cāsti uttare nāsti sarvathā |

126.2१२६.२

विकृन्तयति लोहानि तेन वैक्रान्तकः स्मृतः ॥ (१२६।२)

vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ ||

127.1१२७.१

उन्तेरर्तेन्श्वेतः पीतस्तथा रक्तो नीलः पारावतप्रभः । (१२७।१)

Unterartenśvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ |

127.2१२७.२

मयूरवालसदृशश् चान्यो मरकतप्रभः ॥ (१२७।२)

mayūravālasadṛśaś cānyo marakataprabhaḥ ||

128.1१२८.१

देहसिद्धिकरः कृष्णः पीते पीतः सिते सितः । (१२८।१)

dehasiddhikaraḥ kṛṣṇaḥ pīte pītaḥ site sitaḥ |

128.2१२८.२

सर्वार्थसिद्धिदो रक्तः तथा मरकतप्रभः । (१२८।२)

sarvārthasiddhido raktaḥ tathā marakataprabhaḥ |

128.3१२८.३

शेषे द्वे निष्फले वर्ज्ये वैक्रान्तमिति सप्तधा ॥ (१२८।३)

śeṣe dve niṣphale varjye vaikrāntamiti saptadhā ||

129.1१२९.१

यत्र क्षेत्रे स्थितं देवि वैक्रान्तं तत्र भैरवम् । (१२९।१)

yatra kṣetre sthitaṃ devi vaikrāntaṃ tatra bhairavam |

129.2१२९.२

विनायकं च सम्पूज्य गृह्णीयात् साधकोत्तमः ॥ (१२९।२)

vināyakaṃ ca sampūjya gṛhṇīyāt sādhakottamaḥ ||

130.1१३०.१

वैक्रान्तशोधनवैक्रान्तं चूर्णितं सूक्ष्मं सुरासुरनमस्कृतम् । (१३०।१)

vaikrāntaśodhanavaikrāntaṃ cūrṇitaṃ sūkṣmaṃ surāsuranamaskṛtam |

130.2१३०.२

व्याघ्रीकन्दस्य मध्यस्थं धमयित्वा पुटे स्थितम् ॥ (१३०।२)

vyāghrīkandasya madhyasthaṃ dhamayitvā puṭe sthitam ||

131.1१३१.१

अश्वमूत्रेण मृद्वग्नौ स्वेदयेत् सप्तवासरात् । (१३१।१)

aśvamūtreṇa mṛdvagnau svedayet saptavāsarāt |

131.2१३१.२

छायाशुष्कं ततः कुर्यादिदं वैक्रान्तमुत्तमम् ॥ (१३१।२)

chāyāśuṣkaṃ tataḥ kuryādidaṃ vaikrāntamuttamam ||

132.1१३२.१

वैक्रान्त:: सत्त्वपातनअथवा लवणक्षारमूत्राम्लकृष्णतैलकैः । (१३२।१)

vaikrānta:: sattvapātanaathavā lavaṇakṣāramūtrāmlakṛṣṇatailakaiḥ |

132.2१३२.२

कुलत्थकोद्रवक्वाथे स्वेदयेत् सप्त वासरान् ॥ (१३२।२)

kulatthakodravakvāthe svedayet sapta vāsarān ||

133.1१३३.१

वन्ध्याचूर्णं तु वैक्रान्तं समांशेन तु चूर्णयेत् । (१३३।१)

vandhyācūrṇaṃ tu vaikrāntaṃ samāṃśena tu cūrṇayet |

133.2१३३.२

अजामूत्रेण संभाव्य छायाशुष्कं तु कारयेत् । (१३३।२)

ajāmūtreṇa saṃbhāvya chāyāśuṣkaṃ tu kārayet |

133.3१३३.३

अन्धनाले धमित्वा तु मूषासत्त्वं तु जायते ॥ (१३३।३)

andhanāle dhamitvā tu mūṣāsattvaṃ tu jāyate ||

134.1१३४.१

वैक्रान्त:: सत्त्वपातनमोक्षमोरटपालाशक्षारगोमूत्रभावितम् । (१३४।१)

vaikrānta:: sattvapātanamokṣamoraṭapālāśakṣāragomūtrabhāvitam |

134.2१३४.२

वज्रकन्दशिफाकल्कलाक्षाटङ्कणसंयुतम् ॥ (१३४।२)

vajrakandaśiphākalkalākṣāṭaṅkaṇasaṃyutam ||

135.1१३५.१

वैक्रान्तसम्भवं चूर्णं मेषशृङ्गीद्रवान्वितम् । (१३५।१)

vaikrāntasambhavaṃ cūrṇaṃ meṣaśṛṅgīdravānvitam |

135.2१३५.२

पिण्डितं मूकमूषायां ध्मातं सत्त्वं विमुञ्चति ॥ (१३५।२)

piṇḍitaṃ mūkamūṣāyāṃ dhmātaṃ sattvaṃ vimuñcati ||

136.1१३६.१

वैक्रान्तसत्त्वपातन (३)वैक्रान्तं वज्रकन्दं च पेषयेद् वज्रवारिणा । (१३६।१)

vaikrāntasattvapātana (3)vaikrāntaṃ vajrakandaṃ ca peṣayed vajravāriṇā |

136.2१३६.२

माहिषे नवनीते च सक्षौद्रं पिण्डितं ततः । (१३६।२)

māhiṣe navanīte ca sakṣaudraṃ piṇḍitaṃ tataḥ |

136.3१३६.३

शोधयित्वा धमेत् सत्त्वम् इन्द्रगोपसमं पतेत् ॥ (१३६।३)

śodhayitvā dhamet sattvam indragopasamaṃ patet ||

137.1१३७.१

वैक्रान्तद्रवीकरणकेतकीस्वरसः काङ्क्षी मणिमत्थं सखेचरम् । (१३७।१)

vaikrāntadravīkaraṇaketakīsvarasaḥ kāṅkṣī maṇimatthaṃ sakhecaram |

137.2१३७.२

स्वेदनाज्जायते देवि वैक्रान्तं रससंनिभम् ॥ (१३७।२)

svedanājjāyate devi vaikrāntaṃ rasasaṃnibham ||

138.1१३८.१

सुवर्णं रजतं ताम्रं कान्तलोहस्य वा रजः । (१३८।१)

suvarṇaṃ rajataṃ tāmraṃ kāntalohasya vā rajaḥ |

138.2१३८.२

अनेन स्वेदविधिना द्रवन्ति सलिलं यथा ॥ (१३८।२)

anena svedavidhinā dravanti salilaṃ yathā ||

139.1१३९.१

इत्युक्तमभ्रकादीनां चतुर्णां लक्षणादिकम् । (१३९।१)

ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam |

139.2१३९.२

तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुम् इच्छसि ॥ (१३९।२)

tanmamācakṣva deveśi kimanyacchrotum icchasi ||

140.0१४०.०

इति श्रीपार्वतीपरमेश्वरसंवादे रसार्णवे रससंहितायाम् अभ्रकादिलक्षणसंस्कारनिर्णयो नाम षष्ठः पटलः ॥ (१४०।०)

iti śrīpārvatīparameśvarasaṃvāde rasārṇave rasasaṃhitāyām abhrakādilakṣaṇasaṃskāranirṇayo nāma ṣaṣṭhaḥ paṭalaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

RArṇ, 6

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit