रसार्णवRasārṇava

RArṇ, 8

8 of 18 · 183 verses

Select a line for its word-by-word analysis.

1.1१.१

श्रीदेव्युवाच । (१।१)

śrīdevyuvāca |

1.2१.२

महारसानां लोहानां रत्नानां च सुरेश्वर । (१।२)

mahārasānāṃ lohānāṃ ratnānāṃ ca sureśvara |

1.3१.३

रागसंख्यां तथा बीजसाधनं च वद प्रभो ॥ (१।३)

rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho ||

2.1२.१

श्रीभैरव उवाच । (२।१)

śrībhairava uvāca

2.2२.२

राग इन् वेर्स्छिएदेनेन् स्तोड़्ड़ेन्महारसेषु द्विगुणस्ताम्ररागः सुरेश्वरि । (२।२)

rāga in verschiedenen Stoffenmahāraseṣu dviguṇastāmrarāgaḥ sureśvari |

2.3२.३

गिरिदोषे क्षयं नीते सूतकं रञ्जयन्ति ते ॥ (२।३)

giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te ||

3.1३.१

सस्यकश्चपलश् चैव राजावर्तश्च माक्षिकः । (३।१)

sasyakaścapalaś caiva rājāvartaśca mākṣikaḥ |

3.2३.२

विमलो गैरिकं चैषामेकैकं द्विगुणं भवेत् ॥ (३।२)

vimalo gairikaṃ caiṣāmekaikaṃ dviguṇaṃ bhavet ||

4.1४.१

भ्रामकादिषु कान्तेष्वप्य् एकद्वित्रिगुणो हि सः । (४।१)

bhrāmakādiṣu kānteṣvapy ekadvitriguṇo hi saḥ |

4.2४.२

एकैकमभ्रके चैव श्वेतपीतारुणः सिते ॥ (४।२)

ekaikamabhrake caiva śvetapītāruṇaḥ site ||

5.1५.१

अष्टादशसहस्राणि स्थिता रागाश्च गन्धके । (५।१)

aṣṭādaśasahasrāṇi sthitā rāgāśca gandhake |

5.2५.२

अयुतं दरदे देवि शिलायां द्विसहस्रकम् ॥ (५।२)

ayutaṃ darade devi śilāyāṃ dvisahasrakam ||

6.1६.१

रसके सप्तसाहस्रं कङ्कुष्ठे तु चतुष्टयम् । (६।१)

rasake saptasāhasraṃ kaṅkuṣṭhe tu catuṣṭayam |

6.2६.२

रसगर्भे प्रकाशन्ते जारणं तु भवेद्यदि ॥ (६।२)

rasagarbhe prakāśante jāraṇaṃ tu bhavedyadi ||

7.1७.१

द्वादशाग्रं शतं पञ्च नागे रागा व्यवस्थिताः । (७।१)

dvādaśāgraṃ śataṃ pañca nāge rāgā vyavasthitāḥ |

7.2७.२

शतहीनं सहस्रं तु वङ्गे रागा व्यवस्थिताः ॥ (७।२)

śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ ||

8.1८.१

रागाणां शतपञ्चाशत् शुल्वमध्ये व्यवस्थिताः । (८।१)

rāgāṇāṃ śatapañcāśat śulvamadhye vyavasthitāḥ |

8.2८.२

रक्तपीताश्च शुक्लाश्च हेम्नि रागाश्च षोडश ॥ (८।२)

raktapītāśca śuklāśca hemni rāgāśca ṣoḍaśa ||

9.1९.१

रागाः षष्टिसहस्राणि शक्रनीले व्यवस्थिताः । (९।१)

rāgāḥ ṣaṣṭisahasrāṇi śakranīle vyavasthitāḥ |

9.2९.२

महानीले च देवेशि ते रागा द्विगुणाः स्थिताः ॥ (९।२)

mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ ||

10.1१०.१

माणिक्ये तु सुरेशानि रागा लक्षत्रयोदश । (१०।१)

māṇikye tu sureśāni rāgā lakṣatrayodaśa |

10.2१०.२

गजवारिसमुत्पन्नं रत्नं मुक्ताफलं विदुः ॥ (१०।२)

gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ ||

11.1११.१

गजे त्रीणि सहस्राणि षट्सहस्राणि वारिजे । (११।१)

gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije |

11.2११.२

नवलक्षं च रागाणां पद्मरागे व्यवस्थिताः ॥ (११।२)

navalakṣaṃ ca rāgāṇāṃ padmarāge vyavasthitāḥ ||

12.1१२.१

भेदयेत् सर्वलोहानि यच्च केन न भिद्यते । (१२।१)

bhedayet sarvalohāni yacca kena na bhidyate |

12.2१२.२

तद्वज्रं तस्य देवेशि रागं लक्षद्वयं विदुः ॥ (१२।२)

tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ ||

13.1१३.१

षोडशैव सहस्राणि पुष्परागे व्यवस्थिताः । (१३।१)

ṣoḍaśaiva sahasrāṇi puṣparāge vyavasthitāḥ |

13.2१३.२

पादोनलक्षरागास्तु प्रोक्ता मरकते प्रिये ॥ (१३।२)

pādonalakṣarāgāstu proktā marakate priye ||

14.1१४.१

रागसंख्यां न जानाति संक्रान्तस्य रसस्य तु । (१४।१)

rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu |

14.2१४.२

अधिकं मारयेल्लोहं हीनं चैव प्रकाशयेत् ॥ (१४।२)

adhikaṃ mārayellohaṃ hīnaṃ caiva prakāśayet ||

15.1१५.१

मानवेन्द्रः प्रकुर्वीत यो हि जानाति पार्वति । (१५।१)

mānavendraḥ prakurvīta yo hi jānāti pārvati |

15.2१५.२

शतकोटिप्रमाणेन रागसंख्यां प्रकल्पयेत् । (१५।२)

śatakoṭipramāṇena rāgasaṃkhyāṃ prakalpayet |

15.3१५.३

स्पर्शनं चैवमालोक्य शतकोटिस्तु विध्यते ॥ (१५।३)

sparśanaṃ caivamālokya śatakoṭistu vidhyate ||

16.1१६.१

बीजअतः परं प्रवक्ष्यामि बीजानां साधनं प्रिये । (१६।१)

bījaataḥ paraṃ pravakṣyāmi bījānāṃ sādhanaṃ priye |

16.2१६.२

हेमतारवशाद्बीजं द्विविधं तावदीश्वरि ॥ (१६।२)

hematāravaśādbījaṃ dvividhaṃ tāvadīśvari ||

17.1१७.१

पीतारुणैर्हेमबीजं तारबीजं सितैर्भवेत् । (१७।१)

pītāruṇairhemabījaṃ tārabījaṃ sitairbhavet |

17.2१७.२

कल्पितं रञ्जितं पक्वमिति भूयस्त्रिधा भवेत् ॥ (१७।२)

kalpitaṃ rañjitaṃ pakvamiti bhūyastridhā bhavet ||

18.0१८.०

कल्पितं द्विविधं तच्च शुद्धमिश्रविभेदतः ॥ (१८।०)

kalpitaṃ dvividhaṃ tacca śuddhamiśravibhedataḥ ||

19.1१९.१

रसोपरसलोहानां बीजानां कल्पनं पृथक् । (१९।१)

rasoparasalohānāṃ bījānāṃ kalpanaṃ pṛthak |

19.2१९.२

शुद्धं मिश्रं तु संयोगात् यथालाभं सुरेश्वरि ॥ (१९।२)

śuddhaṃ miśraṃ tu saṃyogāt yathālābhaṃ sureśvari ||

20.1२०.१

सत्त्वमावर्तितं व्योम्नि शोधितं काचटङ्कणैः । (२०।१)

sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ |

20.2२०.२

चिञ्चाफलाम्लनिर्गुण्डीपत्त्रकल्कनिषेचनैः । (२०।२)

ciñcāphalāmlanirguṇḍīpattrakalkaniṣecanaiḥ |

20.3२०.३

पक्वं निविडितं देवि रसपिष्टिक्षमं भवेत् ॥ (२०।३)

pakvaṃ niviḍitaṃ devi rasapiṣṭikṣamaṃ bhavet ||

21.1२१.१

द्रवीकरण वोन् मनःशिला उन्द् अन्देरेन् मिनेरलिएन्स्नेहक्षाराम्लवर्गैश्च शिलायाश्च पुटत्रयात् । (२१।१)

dravīkaraṇa von manaḥśilā und anderen Mineraliensnehakṣārāmlavargaiśca śilāyāśca puṭatrayāt |

21.2२१.२

मृताहे धूपनायन्त्रे धूपगन्धानुलेपनात् । (२१।२)

mṛtāhe dhūpanāyantre dhūpagandhānulepanāt |

21.3२१.३

वङ्गस्यापि विधानेन तालकस्य हतस्य वा ॥ (२१।३)

vaṅgasyāpi vidhānena tālakasya hatasya vā ||

22.1२२.१

ताप्यहिङ्गुलयोर्वापि हते च रसकस्य वा । (२२।१)

tāpyahiṅgulayorvāpi hate ca rasakasya vā |

22.2२२.२

रसगर्भे द्रवेत् कृष्णं पत्त्रं कनकतारयोः ॥ (२२।२)

rasagarbhe dravet kṛṣṇaṃ pattraṃ kanakatārayoḥ ||

23.1२३.१

द्रवीकरण वोन् मिस्छुन्गेन्, दिए स्छ्wएर् रेअगिएरेन्संकराख्यं तु दुर्मेल्यं प्रिये मृदुखराह्वयम् । (२३।१)

dravīkaraṇa von Mischungen, die schwer reagierensaṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam |

23.2२३.२

ततः संमृदितं देवि द्वंद्वमेलापनं द्रुतम् । (२३।२)

tataḥ saṃmṛditaṃ devi dvaṃdvamelāpanaṃ drutam |

23.3२३.३

भवेत् समरसं गर्भे रसराजस्य च द्रवेत् ॥ (२३।३)

bhavet samarasaṃ garbhe rasarājasya ca dravet ||

24.0२४.०

अतः परं प्रवक्ष्यामि द्वंद्वमेलापनं शृणु ॥ (२४।०)

ataḥ paraṃ pravakṣyāmi dvaṃdvamelāpanaṃ śṛṇu ||

25.1२५.१

हेमाभ्रवर्षाभूकदलीकन्दकाकमाचीपुनर्नवाः । (२५।१)

hemābhravarṣābhūkadalīkandakākamācīpunarnavāḥ |

25.2२५.२

चूर्णं नरकपालं च गुञ्जाटङ्कणसंयुतम् । (२५।२)

cūrṇaṃ narakapālaṃ ca guñjāṭaṅkaṇasaṃyutam |

25.3२५.३

क्षीरतैलेन सुध्मातं हेमाभ्रं मिलति प्रिये ॥ (२५।३)

kṣīratailena sudhmātaṃ hemābhraṃ milati priye ||

26.0२६.०

ताराभ्रअनेनैव विधानेन ताराभ्रमपि मेलयेत् ॥ (२६।०)

tārābhraanenaiva vidhānena tārābhramapi melayet ||

27.1२७.१

वङ्गाभ्र (१)वङ्गमावर्त्य देवेशि पुनः सूतकयोजितम् । (२७।१)

vaṅgābhra (1)vaṅgamāvartya deveśi punaḥ sūtakayojitam |

27.2२७.२

कदलीकन्दतोयेन मर्दयेट्टङ्कणान्वितम् । (२७।२)

kadalīkandatoyena mardayeṭṭaṅkaṇānvitam |

27.3२७.३

अन्धमूषागतं ध्मातं वङ्गाभ्रं मिलति क्षणात् ॥ (२७।३)

andhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt ||

28.1२८.१

वङ्गाभ्र (२)चूर्णं नरकपालस्य स्त्रीस्तन्यं वनशिग्रुकम् । (२८।१)

vaṅgābhra (2)cūrṇaṃ narakapālasya strīstanyaṃ vanaśigrukam |

28.2२८.२

गुञ्जाटङ्कणसंयुक्तं वङ्गाभ्रं मिलति क्षणात् ॥ (२८।२)

guñjāṭaṅkaṇasaṃyuktaṃ vaṅgābhraṃ milati kṣaṇāt ||

29.1२९.१

वङ्गाभ्र (३)अभ्रकं चूर्णयित्वा तु काकमाचीरसप्लुतम् । (२९।१)

vaṅgābhra (3)abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam |

29.2२९.२

कपित्थतोयसंस्पृष्टं रसटङ्कणसंयुतम् । (२९।२)

kapitthatoyasaṃspṛṣṭaṃ rasaṭaṅkaṇasaṃyutam |

29.3२९.३

वङ्गपत्त्रान्तरन्यस्तं ध्मातं वङ्गाभ्रकं मिलेत् ॥ (२९।३)

vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet ||

30.1३०.१

द्वन्द्वमेलापन वोन् अभ्र-वेर्बिन्दुन्गेन् मित् अन्देरेन् स्तोड़्ड़ेनावर्त्य कटुतैलेन भस्मापामार्गजं क्षिपेत् । (३०।१)

dvandvamelāpana von abhra-Verbindungen mit anderen Stoffenāvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet |

30.2३०.२

वङ्गाभ्रं हरितालं च नागाभ्रे तु मनःशिलाः ॥ (३०।२)

vaṅgābhraṃ haritālaṃ ca nāgābhre tu manaḥśilāḥ ||

31.1३१.१

हेमाभ्रं नागताप्येन ताराभ्रं वङ्गतालकात् । (३१।१)

hemābhraṃ nāgatāpyena tārābhraṃ vaṅgatālakāt |

31.2३१.२

गन्धकेन तु शुल्वाभ्रं तीक्ष्णाभ्रं सिन्धुहिङ्गुलात् । (३१।२)

gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt |

31.3३१.३

वङ्गाभ्रं हरितालेन नागाभ्रं शिलया मिलेत् ॥ (३१।३)

vaṅgābhraṃ haritālena nāgābhraṃ śilayā milet ||

32.1३२.१

द्वन्द्वम्। वोन् कान्त, अभ्र, मनःशिला, विमललाङ्गली चामरीकेशं कार्पासास्थिकुलत्थकम् । (३२।१)

dvandvam. von kānta, abhra, manaḥśilā, vimalalāṅgalī cāmarīkeśaṃ kārpāsāsthikulatthakam |

32.2३२.२

भूलता चाश्मदलनी स्त्रीस्तन्यं सुरगोपकः ॥ (३२।२)

bhūlatā cāśmadalanī strīstanyaṃ suragopakaḥ ||

33.1३३.१

एतत्प्रलिप्तमूषायां सुध्मातास् तीव्रवह्निना । (३३।१)

etatpraliptamūṣāyāṃ sudhmātās tīvravahninā |

33.2३३.२

कान्ताभ्रशैलविमला मिलन्ति सकलान् क्षणात् ॥ (३३।२)

kāntābhraśailavimalā milanti sakalān kṣaṇāt ||

34.1३४.१

द्वन्द्वमेलापन (१)लताछुछुन्दरीमांसं विषटङ्कणयोजितम् । (३४।१)

dvandvamelāpana (1)latāchuchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam |

34.2३४.२

मूषालेपेन कुरुते सर्वद्वंद्वेषु मेलनम् ॥ (३४।२)

mūṣālepena kurute sarvadvaṃdveṣu melanam ||

35.1३५.१

सत्त्वमेलापनअभ्रकं सुरसा शृङ्गं मण्डूकस्य वसा विषम् । (३५।१)

sattvamelāpanaabhrakaṃ surasā śṛṅgaṃ maṇḍūkasya vasā viṣam |

35.2३५.२

गुञ्जाटङ्कणयोगेन सर्वसत्त्वेषु मेलनम् ॥ (३५।२)

guñjāṭaṅkaṇayogena sarvasattveṣu melanam ||

36.1३६.१

द्वन्द्वमेलापन (२)टङ्कणोर्णागिरिजतुकर्णाख्यामलकर्कटैः । (३६।१)

dvandvamelāpana (2)ṭaṅkaṇorṇāgirijatukarṇākhyāmalakarkaṭaiḥ |

36.2३६.२

मिलन्ति सर्वद्वंद्वानि स्त्रीस्तन्यपरिपेषितैः ॥ (३६।२)

milanti sarvadvaṃdvāni strīstanyaparipeṣitaiḥ ||

37.1३७.१

द्वन्द्वमेलापन (३)धातकीगुग्गुलुगुडसर्जयावकटङ्कणैः । (३७।१)

dvandvamelāpana (3)dhātakīgugguluguḍasarjayāvakaṭaṅkaṇaiḥ |

37.2३७.२

स्त्रीस्तन्यपेषितैः सर्वं द्वंद्वजं तु रसायने ॥ (३७।२)

strīstanyapeṣitaiḥ sarvaṃ dvaṃdvajaṃ tu rasāyane ||

38.1३८.१

खसत्त्वमेलापनखसत्त्वं सूक्ष्मचूर्णं तु पूर्वकल्केन संयुतम् । (३८।१)

khasattvamelāpanakhasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam |

38.2३८.२

अन्धमूषागतं ध्मातं संकरं मिलति क्षणात् ॥ (३८।२)

andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt ||

39.1३९.१

खसत्त्वमेलापन (२)वापितं ताप्यरसकसस्यकैर्दरदेन च । (३९।१)

khasattvamelāpana (2)vāpitaṃ tāpyarasakasasyakairdaradena ca |

39.2३९.२

खसत्त्वं स्यान्निबद्धं च दृढं ध्मातं मिलेत्ततः ॥ (३९।२)

khasattvaṃ syānnibaddhaṃ ca dṛḍhaṃ dhmātaṃ milettataḥ ||

40.1४०.१

मेलापन दुर्छ् हित्ज़ेरसोपरसलोहानि सर्वाण्येकत्र धामयेत् । (४०।१)

melāpana durch Hitzerasoparasalohāni sarvāṇyekatra dhāmayet |

40.2४०.२

अन्योन्यं द्वंद्वतां यान्ति द्रवन्ति सलिलं यथा ॥ (४०।२)

anyonyaṃ dvaṃdvatāṃ yānti dravanti salilaṃ yathā ||

41.0४१.०

बीजानि कल्पितान्येवं रञ्जितानि परं शृणु ॥ (४१।०)

bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu ||

42.1४२.१

रसराजरञ्जन (१)घनं माक्षिकचूर्णेन शुल्वचूर्णेन रञ्जितम् । (४२।१)

rasarājarañjana (1)ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam |

42.2४२.२

द्वंद्वितं ताप्यसत्त्वेन रसराजस्य रञ्जनम् ॥ (४२।२)

dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam ||

43.1४३.१

रसरञ्जन (२)आरक्तवल्लीगोमूत्रैः बहुधा परिभावितैः । (४३।१)

rasarañjana (2)āraktavallīgomūtraiḥ bahudhā paribhāvitaiḥ |

43.2४३.२

कुनटीगन्धपाषाणैर्हेममाक्षिकहिङ्गुलैः ॥ (४३।२)

kunaṭīgandhapāṣāṇairhemamākṣikahiṅgulaiḥ ||

44.1४४.१

वापितं सेवितं रक्तगणैः स्नेहैर्मृतं ततः । (४४।१)

vāpitaṃ sevitaṃ raktagaṇaiḥ snehairmṛtaṃ tataḥ |

44.2४४.२

रञ्जनं रसराजस्य तीक्ष्णताम्रौ विशेषतः ॥ (४४।२)

rañjanaṃ rasarājasya tīkṣṇatāmrau viśeṣataḥ ||

45.1४५.१

रसरञ्जन (३)केवलं विमलं ताम्रं वापितं दरदेन च । (४५।१)

rasarañjana (3)kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena ca |

45.2४५.२

कुरुते त्रिगुणं जीर्णं लाक्षाभं निर्मलं रसम् ॥ (४५।२)

kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam ||

46.1४६.१

??रसकं द्विगुणं दत्त्वा ताम्रं सुध्मातम् ईश्वरि । (४६।१)

??rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātam īśvari |

46.2४६.२

कृष्णाभ्रकस्य चूर्णं च रक्तवर्गैर् मुहुः पुटैः ॥ (४६।२)

kṛṣṇābhrakasya cūrṇaṃ ca raktavargair muhuḥ puṭaiḥ ||

47.1४७.१

ताप्येन वा मृतं हेम त्रिगुणेन निवापितम् । (४७।१)

tāpyena vā mṛtaṃ hema triguṇena nivāpitam |

47.2४७.२

पारदस्वर्णाभकरणभाण्डिकायां तु रसकं ताप्यसैन्धवसंयुतम् ॥ (४७।२)

pāradasvarṇābhakaraṇabhāṇḍikāyāṃ tu rasakaṃ tāpyasaindhavasaṃyutam ||

48.1४८.१

इन्द्रगोपनिभं यावत् सर्वं द्विगुणजारणात् । (४८।१)

indragopanibhaṃ yāvat sarvaṃ dviguṇajāraṇāt |

48.2४८.२

द्रुतं हेमनिभं सूतं कुरुते नात्र संशयः ॥ (४८।२)

drutaṃ hemanibhaṃ sūtaṃ kurute nātra saṃśayaḥ ||

49.1४९.१

अभ्रादिरञ्जन (?)अभ्रकं हेम ताम्रं च शिलया माक्षिकेण च । (४९।१)

abhrādirañjana (?)abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca |

49.2४९.२

गैरिकेण च मुख्येन रसकेन च रञ्जयेत् ॥ (४९।२)

gairikeṇa ca mukhyena rasakena ca rañjayet ||

50.0५०.०

पक्वबीजबीजानि रञ्जितान्येवं पक्वबीजान्यतः शृणु ॥ (५०।०)

pakvabījabījāni rañjitānyevaṃ pakvabījānyataḥ śṛṇu ||

51.1५१.१

महारसादिद्रवीकरणमहारसानुपरसान् तीक्ष्णलोहानि च क्षिपेत् । (५१।१)

mahārasādidravīkaraṇamahārasānuparasān tīkṣṇalohāni ca kṣipet |

51.2५१.२

समांशं सममाक्षीकं गन्धकावापयोगतः ॥ (५१।२)

samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ ||

52.1५२.१

शतशो वापयेदेतत् अक्षीणं सावशेषितम् । (५२।१)

śataśo vāpayedetat akṣīṇaṃ sāvaśeṣitam |

52.2५२.२

समांशं रसराजस्य गर्भे द्रवति निश्चितम् ॥ (५२।२)

samāṃśaṃ rasarājasya garbhe dravati niścitam ||

53.1५३.१

??तदेतद्विष्टिकास्तम्भे जारणायां सुरेश्वरि । (५३।१)

??tadetadviṣṭikāstambhe jāraṇāyāṃ sureśvari |

53.2५३.२

रञ्जने रसराजस्य सारणायां च शस्यते ॥ (५३।२)

rañjane rasarājasya sāraṇāyāṃ ca śasyate ||

54.1५४.१

तदेव शतशो रक्तगणैः स्नेहैर्निषेचितम् । (५४।१)

tadeva śataśo raktagaṇaiḥ snehairniṣecitam |

54.2५४.२

अधिकं शस्यते तेषु सहस्रांशेन वेधकृत् ॥ (५४।२)

adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt ||

55.1५५.१

अभ्रसत्त्व बेइ रसायननिर्व्यूढं नागवङ्गाभ्यां क्रियायां हेमतारयोः । (५५।१)

abhrasattva bei rasāyananirvyūḍhaṃ nāgavaṅgābhyāṃ kriyāyāṃ hematārayoḥ |

55.2५५.२

खसत्त्वं रविणा योज्यं द्वंद्वितं स्याद्रसायने ॥ (५५।२)

khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane ||

56.1५६.१

रसाकृष्टिसस्नेहक्षारपञ्चाम्लैः रसैस्तैस्तालकादिभिः । (५६।१)

rasākṛṣṭisasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ |

56.2५६.२

समद्वित्रिगुणान् ताम्रे वाहयेद्वङ्गपन्नगान् ॥ (५६।२)

samadvitriguṇān tāmre vāhayedvaṅgapannagān ||

57.0५७.०

रक्तस्नेहनिषिक्तं तद्रसाकृष्टिरिति स्मृतम् ॥ (५७।०)

raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam ||

58.1५८.१

??माक्षिकं गन्धपाषाणं हरितालं मनःशिलाम् । (५८।१)

??mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām |

58.2५८.२

वैक्रान्तकं कान्तमुख्यं सस्यकं विमलाञ्जनम् । (५८।२)

vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam |

58.3५८.३

रसकं वापितं शश्वच्चूर्णितं हेम्नि वाहयेत् ॥ (५८।३)

rasakaṃ vāpitaṃ śaśvaccūrṇitaṃ hemni vāhayet ||

59.1५९.१

नागनिर्जीवीकरणलोहपर्पटिकाताप्यकङ्कुष्ठविमलाभ्रकैः । (५९।१)

nāganirjīvīkaraṇalohaparpaṭikātāpyakaṅkuṣṭhavimalābhrakaiḥ |

59.2५९.२

मृतशुल्वशिलासत्त्वस्नुह्यर्कक्षीरहिङ्गुलैः । (५९।२)

mṛtaśulvaśilāsattvasnuhyarkakṣīrahiṅgulaiḥ |

59.3५९.३

नागो निर्जीवतां याति पुटयोगैः पुनः पुनः ॥ (५९।३)

nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ ||

60.1६०.१

रसादिस्वर्णनिर्वाहणरसतालकशङ्खाभ्रचिञ्चाक्षारैस्तथा त्रपुः । (६०।१)

rasādisvarṇanirvāhaṇarasatālakaśaṅkhābhraciñcākṣāraistathā trapuḥ |

60.2६०.२

मृतं नागं मृतं वङ्गं शुल्वं तीक्ष्णं च वा मृतम् । (६०।२)

mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulvaṃ tīkṣṇaṃ ca vā mṛtam |

60.3६०.३

एकैकमुत्तमे हेम्नि वाहयेत् सुरवन्दिते ॥ (६०।३)

ekaikamuttame hemni vāhayet suravandite ||

61.1६१.१

चोप्पेर्:: रञ्जननिरुत्थे पन्नगे हेम्नि निर्व्यूढे शतशो गणे । (६१।१)

copper:: rañjananirutthe pannage hemni nirvyūḍhe śataśo gaṇe |

61.2६१.२

गोरोचनानिभं धाम भास्करे तारसंनिभम् ॥ (६१।२)

gorocanānibhaṃ dhāma bhāskare tārasaṃnibham ||

62.1६२.१

चोप्पेर्:: रञ्जनतीक्ष्णाभ्रकं रविसमं माक्षिकं द्विगुणं तथा । (६२।१)

copper:: rañjanatīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā |

62.2६२.२

आवर्तितं चूर्णितं च मारितं सप्तभिः पुटैः ॥ (६२।२)

āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ ||

63.1६३.१

व्यूढे शतगुणे हेम्नि तद्बीजं जारयेत् समम् । (६३।१)

vyūḍhe śataguṇe hemni tadbījaṃ jārayet samam |

63.2६३.२

चन्द्रार्कपत्त्रलेपेन शतभागेन वेधयेत् ॥ (६३।२)

candrārkapattralepena śatabhāgena vedhayet ||

64.1६४.१

ऊर्ध्वाधो माक्षिकं दत्त्वा शुल्वं हेमसमं भवेत् । (६४।१)

ūrdhvādho mākṣikaṃ dattvā śulvaṃ hemasamaṃ bhavet |

64.2६४.२

एवं दशगुणं व्यूढं बीजं कारणसंनिभम् ॥ (६४।२)

evaṃ daśaguṇaṃ vyūḍhaṃ bījaṃ kāraṇasaṃnibham ||

65.1६५.१

नागबीजरसकाभ्रं कान्तताम्रे भागवृद्ध्या धमेत्ततः । (६५।१)

nāgabījarasakābhraṃ kāntatāmre bhāgavṛddhyā dhamettataḥ |

65.2६५.२

माक्षिकेण हतं तच्च बीजे निर्वाहयेत् प्रिये ॥ (६५।२)

mākṣikeṇa hataṃ tacca bīje nirvāhayet priye ||

66.1६६.१

द्वात्रिंशद्गुणितं हेम्नि नागं ताप्यं हतं वहेत् । (६६।१)

dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyaṃ hataṃ vahet |

66.2६६.२

त्रिंशद्गुणशिलावापं नागबीजमुदाहृतम् ॥ (६६।२)

triṃśadguṇaśilāvāpaṃ nāgabījamudāhṛtam ||

67.1६७.१

हेर्स्तेल्लुन्ग् एइनेस् वेधकस् औस् अभ्रसत्त्वताप्यतालकवापेन सत्त्वं पीताभ्रकस्य तु । (६७।१)

Herstellung eines vedhakas aus abhrasattvatāpyatālakavāpena sattvaṃ pītābhrakasya tu |

67.2६७.२

बीजे निर्वाहयेद् एतत् योषामृष्टस्य वेधकम् ॥ (६७।२)

bīje nirvāhayed etat yoṣāmṛṣṭasya vedhakam ||

68.1६८.१

??नागः करोति मृदुतां निर्व्यूढस्तां च रक्तताम् । (६८।१)

??nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām |

68.2६८.२

वापितं पीततां तीक्ष्णं कान्तस्थां कालिकां विषम् ॥ (६८।२)

vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam ||

69.0६९.०

तारबीजहेमबीजमिति प्रोक्तं तारबीजमतः शृणु ॥ (६९।०)

tārabījahemabījamiti proktaṃ tārabījamataḥ śṛṇu ||

70.1७०.१

तीक्ष्णाभ्रताप्यविमलरसकं समभागिकम् । (७०।१)

tīkṣṇābhratāpyavimalarasakaṃ samabhāgikam |

70.2७०.२

वङ्गभागास्तु चत्वारः सर्वं ध्मातं विचूर्णितम् ॥ (७०।२)

vaṅgabhāgāstu catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam ||

71.1७१.१

पुटेन निहतं कार्यं व्यूढं तारं तु वेधयेत् । (७१।१)

puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet |

71.2७१.२

द्वात्रिंशत्सद्गुणं तारे वङ्गे ताप्यं हतं वहेत् । (७१।२)

dvātriṃśatsadguṇaṃ tāre vaṅge tāpyaṃ hataṃ vahet |

71.3७१.३

वङ्गबीजत्रिंशद्गुणात् तालवापात् वङ्गबीजमुदाहृतम् ॥ (७१।३)

vaṅgabījatriṃśadguṇāt tālavāpāt vaṅgabījamudāhṛtam ||

72.1७२.१

कुटिलं विमलं तीक्ष्णं खसत्त्वं चापि वाहयेत् । (७२।१)

kuṭilaṃ vimalaṃ tīkṣṇaṃ khasattvaṃ cāpi vāhayet |

72.2७२.२

वङ्गाभ्रं ताप्यसत्त्वं वा तालमाक्षिकवापतः । (७२।२)

vaṅgābhraṃ tāpyasattvaṃ vā tālamākṣikavāpataḥ |

72.3७२.३

शुक्लपुष्पगणैः सेकं स्नेहयुक्तैस्तु कारयेत् ॥ (७२।३)

śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet ||

73.0७३.०

बीजरञ्जनौक्तानि तारबीजानि बीजानां रञ्जनं शृणु ॥ (७३।०)

bījarañjanauktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu ||

74.1७४.१

तीक्ष्णादिबीजरञ्जनतीक्ष्णमाक्षिकशुल्वं च नागं चपलमारितम् । (७४।१)

tīkṣṇādibījarañjanatīkṣṇamākṣikaśulvaṃ ca nāgaṃ capalamāritam |

74.2७४.२

सिन्दूरसंनिभं यावत् तेन बीजानि रञ्जयेत् ॥ (७४।२)

sindūrasaṃnibhaṃ yāvat tena bījāni rañjayet ||

75.1७५.१

निधाय खर्परे नागं ब्रह्मबीजदलैः सह । (७५।१)

nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha |

75.2७५.२

दग्धमग्निमधो दत्त्वा वह्निवर्णं यदा भवेत् ॥ (७५।२)

dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet ||

76.1७६.१

वासकेन विभीतेन शाककिंशुकशिग्रुभिः । (७६।१)

vāsakena vibhītena śākakiṃśukaśigrubhiḥ |

76.2७६.२

कोरण्डकस्य पुष्पेण बकुलस्यार्जुनस्य च ॥ (७६।२)

koraṇḍakasya puṣpeṇa bakulasyārjunasya ca ||

77.1७७.१

अहिमारेण नागिन्या कुमार्या नागकन्यया । (७७।१)

ahimāreṇa nāginyā kumāryā nāgakanyayā |

77.2७७.२

शिलया च त्रिगुणया क्वथितेनाजवारिणा ॥ (७७।२)

śilayā ca triguṇayā kvathitenājavāriṇā ||

78.1७८.१

भावितं खर्परस्थं च प्लावयित्वा पुनः पुनः । (७८।१)

bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ |

78.2७८.२

सप्तभिर्दिवसैरेव मारितं सुरवन्दिते ॥ (७८।२)

saptabhirdivasaireva māritaṃ suravandite ||

79.1७९.१

पुटयेद् गन्धकेनादाव् आम्लैश्च तदनन्तरम् । (७९।१)

puṭayed gandhakenādāv āmlaiśca tadanantaram |

79.2७९.२

इदं दलानां बीजानां रसराजस्य रञ्जने । (७९।२)

idaṃ dalānāṃ bījānāṃ rasarājasya rañjane |

79.3७९.३

उद्घाटे क्रामणे योज्यं पिष्टीस्तम्भे विशेषतः ॥ (७९।३)

udghāṭe krāmaṇe yojyaṃ piṣṭīstambhe viśeṣataḥ ||

80.1८०.१

बीजरञ्जनतैलमञ्जिष्ठाकिंशुकरसे खदिरं रक्तचन्दनम् । (८०।१)

bījarañjanatailamañjiṣṭhākiṃśukarase khadiraṃ raktacandanam |

80.2८०.२

करवीरं देवदारुं सरलं रजनीद्वयम् ॥ (८०।२)

karavīraṃ devadāruṃ saralaṃ rajanīdvayam ||

81.1८१.१

अन्यानि रक्तपुष्पाणि पिष्ट्वा लाक्षारसेन तु । (८१।१)

anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu |

81.2८१.२

तैलं विपाचयेद्देवि तेन बीजानि रञ्जयेत् ॥ (८१।२)

tailaṃ vipācayeddevi tena bījāni rañjayet ||

82.1८२.१

द्विगुणे रक्तपुष्पाणां रक्तपीतगणस्य च । (८२।१)

dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca |

82.2८२.२

क्वाथे चतुर्गुणे क्षीरे तैलमेकं सुरेश्वरि ॥ (८२।२)

kvāthe caturguṇe kṣīre tailamekaṃ sureśvari ||

83.1८३.१

सारणातैलज्योतिष्मतीकरञ्जाख्यकटुतुम्बीसमुद्भवम् । (८३।१)

sāraṇātailajyotiṣmatīkarañjākhyakaṭutumbīsamudbhavam |

83.2८३.२

पाटलीपिप्पलीकामकाकतुण्डीरसान्वितम् ॥ (८३।२)

pāṭalīpippalīkāmakākatuṇḍīrasānvitam ||

84.1८४.१

भेकशूकरमेषाहिमत्स्यकूर्मजलौकसाम् । (८४।१)

bhekaśūkarameṣāhimatsyakūrmajalaukasām |

84.2८४.२

वसया चैकया युक्तं षोडशांशैः सुपेषितैः ॥ (८४।२)

vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ ||

85.1८५.१

भूलतामलमाक्षीकद्वंद्वमेलापनौषधैः । (८५।१)

bhūlatāmalamākṣīkadvaṃdvamelāpanauṣadhaiḥ |

85.2८५.२

पाचितं गालितं चैतत् सारणातैलमुच्यते ॥ (८५।२)

pācitaṃ gālitaṃ caitat sāraṇātailamucyate ||

86.1८६.१

??रसतुल्यं यथा बीजं गतं गर्भद्रुतिं प्रिये । (८६।१)

??rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye |

86.2८६.२

व्यापकत्वेन सर्वे च समभागास्तथेष्यते ॥ (८६।२)

vyāpakatvena sarve ca samabhāgāstatheṣyate ||

87.0८७.०

पक्वं श्रेष्ठं समं गर्भे यद्द्रवेद्रञ्जयेच्च तम् ॥ (८७।०)

pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam ||

88.1८८.१

एवमुक्तानि बीजानि जारयेद्विडयोगतः । (८८।१)

evamuktāni bījāni jārayedviḍayogataḥ |

88.2८८.२

तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥ (८८।२)

tanmamācakṣva deveśi kimanyacchrotumicchasi ||

Data courtesy of The Digital Corpus of Sanskrit.

RArṇ, 8

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit