TĀ, 16
Select a line for its word-by-word analysis.
अथ पुत्रकत्वसिद्ध्यै निरूप्यते शिवनिरूपितो ऽत्र विधिः । (१।१)
atha putrakatvasiddhyai nirūpyate śivanirūpito 'tra vidhiḥ |
गुरुत्वे साधकत्वे वा कर्तुमिच्छति दैशिकः ॥ (१।३)
gurutve sādhakatve vā kartumicchati daiśikaḥ ||
तदाधिवासं कृत्वाह्नि द्वितीये मण्डलं लिखेत् । (२।१)
tadādhivāsaṃ kṛtvāhni dvitīye maṇḍalaṃ likhet |
चक्रपञ्चकमाख्यातं शास्त्रे श्रीपूर्वसंज्ञिते ॥ (३।२)
cakrapañcakamākhyātaṃ śāstre śrīpūrvasaṃjñite ||
द्वात्रिंशत्तद्द्विगुणितं श्रीमत्त्रैशिरसे मते । (४।१)
dvātriṃśattaddviguṇitaṃ śrīmattraiśirase mate |
असंख्यचक्रसंबन्धः श्रीसिद्धादौ निरूपितः ॥ (४।२)
asaṃkhyacakrasaṃbandhaḥ śrīsiddhādau nirūpitaḥ ||
मध्यसव्यान्यभेदेन पूर्णं सम्पूजितं भवेत् ॥ (६।२)
madhyasavyānyabhedena pūrṇaṃ sampūjitaṃ bhavet ||
आलिख्य मण्डलं गन्धवस्त्रेणैवास्य मार्जनम् ॥ (७।२)
ālikhya maṇḍalaṃ gandhavastreṇaivāsya mārjanam ||
कृत्वा स्नातो गुरुः प्राग्वन्मण्डलाग्रे ऽत्र देवताः । (८।१)
kṛtvā snāto guruḥ prāgvanmaṇḍalāgre 'tra devatāḥ |
आग्नेय्यन्तं गणेशादीन् क्षेत्रपान्तान्प्रपूजयेत् ॥ (९।२)
āgneyyantaṃ gaṇeśādīn kṣetrapāntānprapūjayet ||
गणपतिगुरुपरमाख्याः परमेष्ठी पूर्वसिद्धवाक्क्षेत्रपतिः । (१०।१)
gaṇapatiguruparamākhyāḥ parameṣṭhī pūrvasiddhavākkṣetrapatiḥ |
इति सप्तकमाख्यातं गुरुपङ्क्तिविधौ प्रपूज्यमस्मद्गुरुभिः ॥ (१०।२)
iti saptakamākhyātaṃ gurupaṅktividhau prapūjyamasmadgurubhiḥ ||
तत आज्ञां गृहीत्वा तु पुष्पधूपादिपूजितम् । (११।१)
tata ājñāṃ gṛhītvā tu puṣpadhūpādipūjitam |
पूज्यमाधारशक्त्यादि शूलमूलात्प्रभृत्यलम् ॥ (११।२)
pūjyamādhāraśaktyādi śūlamūlātprabhṛtyalam ||
शिवान्तं सितपद्मान्ते त्रिशूलानां त्रये क्रमात् । (१२।१)
śivāntaṃ sitapadmānte triśūlānāṃ traye kramāt |
मध्यशूले मध्यगः स्यात्सद्भावः परया सह ॥ (१२।२)
madhyaśūle madhyagaḥ syātsadbhāvaḥ parayā saha ||
त्रिशूले दक्षिणे मध्यशृङ्गस्थो रतिशेखरः ॥ (१३।२)
triśūle dakṣiṇe madhyaśṛṅgastho ratiśekharaḥ ||
स्यात्परे परया साकं वामारे संश्च भैरवः । (१५।१)
syātpare parayā sākaṃ vāmāre saṃśca bhairavaḥ |
इत्थं सर्वगतत्वे श्रीपरादेव्याः स्थिते सति ॥ (१५।२)
itthaṃ sarvagatatve śrīparādevyāḥ sthite sati ||
यागो भवेत् सुसम्पूर्णस्तदधिष्ठानमात्रतः । (१६।१)
yāgo bhavet susampūrṇastadadhiṣṭhānamātrataḥ |
एकशूले ऽप्यतो यागे चिन्तयेत्तदधिष्ठितम् ॥ (१६।२)
ekaśūle 'pyato yāge cintayettadadhiṣṭhitam ||
अविधिज्ञो विधानज्ञ इत्येवं त्रीशिकोदितम् । (१७।१)
avidhijño vidhānajña ityevaṃ trīśikoditam |
ततो मध्ये तथा दक्षे वामे शृङ्गे च सर्वतः ॥ (१७।२)
tato madhye tathā dakṣe vāme śṛṅge ca sarvataḥ ||
परत्वेन च सर्वासां देवतानां प्रपूजयेत् ॥ (१८।२)
paratvena ca sarvāsāṃ devatānāṃ prapūjayet ||
ततो ऽपि भोगयागेन विद्याङ्गं भैरवाष्टकम् ॥ (१९।२)
tato 'pi bhogayāgena vidyāṅgaṃ bhairavāṣṭakam ||
यामलं चक्रदेवीश्च स्वस्थाने पूजयेद्बहिः । (२०।१)
yāmalaṃ cakradevīśca svasthāne pūjayedbahiḥ |
पूजयेत्परया भक्त्या वित्तशाठ्यविवर्जितः । (२१।१)
pūjayetparayā bhaktyā vittaśāṭhyavivarjitaḥ |
ततः कुम्भास्त्रकलशीमण्डलस्थानलात्मनाम् ॥ (२१।२)
tataḥ kumbhāstrakalaśīmaṇḍalasthānalātmanām ||
ये तु तामद्वयव्याप्तिं न विन्दन्ति शिवात्मिकाम् ॥ (२२।२)
ye tu tāmadvayavyāptiṃ na vindanti śivātmikām ||
मन्त्रनाडीप्रयोगेण ते विशन्त्यद्वये पथि । (२३।१)
mantranāḍīprayogeṇa te viśantyadvaye pathi |
स्वदक्षिणेन निःसृत्य मण्डलस्थस्य वामतः ॥ (२३।२)
svadakṣiṇena niḥsṛtya maṇḍalasthasya vāmataḥ ||
प्रविश्यान्येन निःसृत्य कुम्भस्थे कर्करीगते । (२४।१)
praviśyānyena niḥsṛtya kumbhasthe karkarīgate |
वह्निस्थे च क्रमेणेत्थं यावत्स्वस्मिन्स्ववामतः ॥ (२४।२)
vahnisthe ca krameṇetthaṃ yāvatsvasminsvavāmataḥ ||
इत्थमैक्यस्फुरत्तात्मा व्याप्तिसंवित्प्रकाशते ॥ (२५।२)
itthamaikyasphurattātmā vyāptisaṃvitprakāśate ||
या शिवाद्वयतादृष्टिः सा शुद्धिः परमीकृतिः ॥ (२७।२)
yā śivādvayatādṛṣṭiḥ sā śuddhiḥ paramīkṛtiḥ ||
निवेदयेद्विभोरग्रे जीवान्धातूंस्तदुत्थितान् । (२८।१)
nivedayedvibhoragre jīvāndhātūṃstadutthitān |
सिद्धानसिद्धान्व्यामिश्रान् यद्वा किंचिच्चराचरम् ॥ (२८।२)
siddhānasiddhānvyāmiśrān yadvā kiṃciccarācaram ||
दृष्टप्रोक्षितसंद्रष्टृप्रालब्धोपात्तयोजितः । (२९।१)
dṛṣṭaprokṣitasaṃdraṣṭṛprālabdhopāttayojitaḥ |
निर्वापितो वीरपशुः सो ऽष्टधोत्तरतोत्तमः ॥ (२९।२)
nirvāpito vīrapaśuḥ so 'ṣṭadhottaratottamaḥ ||
शिवोपयुक्तं हि हविर्न सर्वो भोक्तुमर्हति ॥ (३०।२)
śivopayuktaṃ hi havirna sarvo bhoktumarhati ||
यस्तु दीक्षाविहीनो ऽपि शिवेच्छाविधिचोदितः । (३१।१)
yastu dīkṣāvihīno 'pi śivecchāvidhicoditaḥ |
भक्त्याश्नाति स सम्पूर्णः समयी स्यात्सुभावितः ॥ (३१।२)
bhaktyāśnāti sa sampūrṇaḥ samayī syātsubhāvitaḥ ||
प्रोक्षितः केवलं ह्यर्घपात्रविप्रुड्भिरुक्षितः ॥ (३२।२)
prokṣitaḥ kevalaṃ hyarghapātravipruḍbhirukṣitaḥ ||
प्रालब्ध उक्तत्रितयसंस्कृतः सो ऽपि धूनयेत् ॥ (३३।२)
prālabdha uktatritayasaṃskṛtaḥ so 'pi dhūnayet ||
कम्पेत प्रस्रवेत्स्तब्धः प्रलीनो वा यथोत्तरम् । (३४।१)
kampeta prasravetstabdhaḥ pralīno vā yathottaram |
उपात्तो यागसान्निध्ये शमितः शस्त्रमारुतैः ॥ (३४।२)
upātto yāgasānnidhye śamitaḥ śastramārutaiḥ ||
निर्वापितः कृताभ्यासगुरुप्राणमनोऽर्पणात् ॥ (३५।२)
nirvāpitaḥ kṛtābhyāsaguruprāṇamano'rpaṇāt ||
पशोर्वामेन चन्द्रांशुजालं तापेन गालयेत् ॥ (३७।२)
paśorvāmena candrāṃśujālaṃ tāpena gālayet ||
नाभिचक्रे ऽथ विश्राम्येत्प्राणरश्मिगणैः सह । (३८।१)
nābhicakre 'tha viśrāmyetprāṇaraśmigaṇaiḥ saha |
परो भूत्वा स्वशक्त्यात्र जीवं जीवेन वेष्टयेत् ॥ (३८।२)
paro bhūtvā svaśaktyātra jīvaṃ jīvena veṣṭayet ||
स्वचित्सूर्येण संताप्य द्रावयेत् कलां कलाम् । (३९।१)
svacitsūryeṇa saṃtāpya drāvayet kalāṃ kalām |
ततो द्रुतं कलाजालं प्रापय्यैकत्वमात्मनि ॥ (३९।२)
tato drutaṃ kalājālaṃ prāpayyaikatvamātmani ||
उन्मूलयेत संरम्भात्कर्मबद्धममुं रसात् ॥ (४०।२)
unmūlayeta saṃrambhātkarmabaddhamamuṃ rasāt ||
निःसृत्य झटिति स्वात्मवाममार्गेण संविशेत् । (४४।१)
niḥsṛtya jhaṭiti svātmavāmamārgeṇa saṃviśet |
स्थितं तद्देवताचक्रं तेन सारेण तर्पयेत् । (४५।१)
sthitaṃ taddevatācakraṃ tena sāreṇa tarpayet |
केवलं त्वथवाग्नीन्दुरविसंघट्टमध्यगम् ॥ (४६।२)
kevalaṃ tvathavāgnīnduravisaṃghaṭṭamadhyagam ||
ज्योतीरूपमथ प्राणशक्त्याख्यं जीवमाहरेत् । (४७।१)
jyotīrūpamatha prāṇaśaktyākhyaṃ jīvamāharet |
तदेव तर्पणं मुख्यं भोग्यभोक्त्रात्मतैव सा । (४८।१)
tadeva tarpaṇaṃ mukhyaṃ bhogyabhoktrātmataiva sā |
अग्निसंपुटफुल्लार्णत्र्यश्रकालात्मको महान् ॥ (४८।२)
agnisaṃpuṭaphullārṇatryaśrakālātmako mahān ||
इत्थं विश्रान्तियोगेन घटिकार्धक्रमे सति ॥ (४९।२)
itthaṃ viśrāntiyogena ghaṭikārdhakrame sati ||
कृत्वा कतिपयं कालं तत्राभ्यासम् अनन्यधीः ॥ (५०।२)
kṛtvā katipayaṃ kālaṃ tatrābhyāsam ananyadhīḥ ||
यथा चिन्तामणौ प्रोक्तं तेन रूपेण योगवित् । (५१।१)
yathā cintāmaṇau proktaṃ tena rūpeṇa yogavit |
निःशङ्कः सिद्धिमाप्नोति गोप्यं तत्प्राणवत्स्फुटम् ॥ (५१।२)
niḥśaṅkaḥ siddhimāpnoti gopyaṃ tatprāṇavatsphuṭam ||
परोक्षे ऽपि पशावेवं विधिः स्याद्योजनं प्रति । (५२।१)
parokṣe 'pi paśāvevaṃ vidhiḥ syādyojanaṃ prati |
यस्त्वन्यत्रापि निहतः सामस्त्येनांशतो ऽपिवा ॥ (५३।२)
yastvanyatrāpi nihataḥ sāmastyenāṃśato 'pivā ||
राज्यं लाभो ऽथ तत्स्थैर्यं शिवे भक्तिस्तदात्मता ॥ (५४।२)
rājyaṃ lābho 'tha tatsthairyaṃ śive bhaktistadātmatā ||
शिवज्ञानं मन्त्रलोकप्राप्तिस्तत्परिवारता । (५५।१)
śivajñānaṃ mantralokaprāptistatparivāratā |
तत्सायुज्यं पशोः साम्याद्बाह्यादेर् वीरधर्मणः ॥ (५५।२)
tatsāyujyaṃ paśoḥ sāmyādbāhyāder vīradharmaṇaḥ ||
यागेनैवानुगृह्णाति किं किं यन्न चराचरम् । (५७।१)
yāgenaivānugṛhṇāti kiṃ kiṃ yanna carācaram |
तेनावीरो ऽपि शङ्कादियुक्तः कारुणिको ऽपिच ॥ (५७।२)
tenāvīro 'pi śaṅkādiyuktaḥ kāruṇiko 'pica ||
न हिंसाबुद्धिमादध्यात्पशुकर्मणि जातुचित् । (५८।१)
na hiṃsābuddhimādadhyātpaśukarmaṇi jātucit |
पशोर्महोपकारो ऽयं तदात्वे ऽप्यप्रियं भवेत् ॥ (५८।२)
paśormahopakāro 'yaṃ tadātve 'pyapriyaṃ bhavet ||
श्रीमन्मृत्युञ्जये प्रोक्तं पाशच्छेदे कृते पशोः ॥ (५९।२)
śrīmanmṛtyuñjaye proktaṃ pāśacchede kṛte paśoḥ ||
धर्माधर्मौघविच्छेदाच्छरीरं च्यवते किल ॥ (६०।२)
dharmādharmaughavicchedāccharīraṃ cyavate kila ||
तेनैतन्मारणं नोक्तं दीक्षेयं चित्ररूपिणी । (६१।१)
tenaitanmāraṇaṃ noktaṃ dīkṣeyaṃ citrarūpiṇī |
रूढपाशस्य यः प्राणैर्वियोगो मारणं हि तत् ॥ (६१।२)
rūḍhapāśasya yaḥ prāṇairviyogo māraṇaṃ hi tat ||
तस्माद्देवोक्तिमाश्रित्य पशून्दद्याद्बहूनिति ॥ (६२।२)
tasmāddevoktimāśritya paśūndadyādbahūniti ||
षट्कृत्व इत्थं यः सो ऽत्र षड्जन्मा पशुरुत्तमः ॥ (६३।२)
ṣaṭkṛtva itthaṃ yaḥ so 'tra ṣaḍjanmā paśuruttamaḥ ||
यथा पाकक्रमाच्छुद्धं हेम तद्वत्स कीर्तितः । (६४।१)
yathā pākakramācchuddhaṃ hema tadvatsa kīrtitaḥ |
कां सिद्धिं नैव वितरेत्स्वयं किंवा न मुच्यते ॥ (६४।२)
kāṃ siddhiṃ naiva vitaretsvayaṃ kiṃvā na mucyate ||
उक्तं त्वानन्दशास्त्रे यो मन्त्रसंस्कारवांस्त्यजेत् । (६५।१)
uktaṃ tvānandaśāstre yo mantrasaṃskāravāṃstyajet |
समयान्कुत्सयेद्देवीर्दद्यान्मन्त्रान्विना नयात् ॥ (६५।२)
samayānkutsayeddevīrdadyānmantrānvinā nayāt ||
दीक्षामन्त्रादिकं प्राप्य त्यजेत्पुत्रादिमोहितः । (६६।१)
dīkṣāmantrādikaṃ prāpya tyajetputrādimohitaḥ |
इत्थमेकादिसप्तान्तजन्मासौ द्विविधो द्विपात् । (६७।१)
itthamekādisaptāntajanmāsau dvividho dvipāt |
चतुष्पाद्वा पशुर्देवीचरुकार्थं प्रजायते ॥ (६७।२)
catuṣpādvā paśurdevīcarukārthaṃ prajāyate ||
दात्रर्पितो ऽसौ तद्द्वारा याति सायुज्यतः शिवम् । (६८।१)
dātrarpito 'sau taddvārā yāti sāyujyataḥ śivam |
इति संभाव्य चित्रं तत्पशूनां प्रविचेष्टितम् ॥ (६८।२)
iti saṃbhāvya citraṃ tatpaśūnāṃ praviceṣṭitam ||
भोग्यीचिकीर्षितं नैव कुर्यादन्यत्र तं पशुम् । (६९।१)
bhogyīcikīrṣitaṃ naiva kuryādanyatra taṃ paśum |
नापि नैष भवेद्योग्य इति बुद्ध्वापसारयेत् ॥ (६९।२)
nāpi naiṣa bhavedyogya iti buddhvāpasārayet ||
तं पशुं किंतु काङ्क्षा चेद्विशेषे तं तु ढौकयेत् । (७०।१)
taṃ paśuṃ kiṃtu kāṅkṣā cedviśeṣe taṃ tu ḍhaukayet |
तावतस्तान्पशून्दद्यात्तथाचोक्तं महेशिना ॥ (७०।२)
tāvatastānpaśūndadyāttathācoktaṃ maheśinā ||
हृदन्त्रमुण्डांसयकृत्प्रधानं विनिवेदयेत् । (७२।१)
hṛdantramuṇḍāṃsayakṛtpradhānaṃ vinivedayet |
ततो ऽग्नौ तर्पणं कुर्यान्मन्त्रचक्रस्य दैशिकः । (७३।१)
tato 'gnau tarpaṇaṃ kuryānmantracakrasya daiśikaḥ |
तन्निवेद्य च देवाय ततो विज्ञापयेत्प्रभुम् ॥ (७३।२)
tannivedya ca devāya tato vijñāpayetprabhum ||
साक्षात् स्वप्नोपदेशाद् यैर्जपैर्गुरुमुखेन वा ॥ (७४।२)
sākṣāt svapnopadeśād yairjapairgurumukhena vā ||
अनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः । (७५।१)
anugrāhyāstvayā śiṣyāḥ śivaśaktipracoditāḥ |
तदेते तद्विधाः प्राप्तास्त्वमेभ्यः कुर्वनुग्रहम् ॥ (७५।२)
tadete tadvidhāḥ prāptāstvamebhyaḥ kurvanugraham ||
शिवाभिन्नमथात्मानं पञ्चकृत्यकरं स्मरेत् । (७७।१)
śivābhinnamathātmānaṃ pañcakṛtyakaraṃ smaret |
स्वात्मनः करणं मन्त्रान्मूर्तिं चानुजिघृक्षया ॥ (७७।२)
svātmanaḥ karaṇaṃ mantrānmūrtiṃ cānujighṛkṣayā ||
ततो बद्ध्वा सितोष्णीषं हस्तयोरर्चयेत्क्रमात् । (७८।१)
tato baddhvā sitoṣṇīṣaṃ hastayorarcayetkramāt |
अन्योन्यं पाशदाहाय शुद्धतत्त्वविसृष्टये ॥ (७८।२)
anyonyaṃ pāśadāhāya śuddhatattvavisṛṣṭaye ||
तेजोरूपेण मन्त्रांश्च शिवहस्ते समर्चयेत् । (७९।१)
tejorūpeṇa mantrāṃśca śivahaste samarcayet |
कृत्योपाधिवशाद्भिन्नं षोढाभिन्नं तु वस्तुतः ॥ (८०।२)
kṛtyopādhivaśādbhinnaṃ ṣoḍhābhinnaṃ tu vastutaḥ ||
मण्डलस्थो ऽहमेवायं साक्षी चाखिलकर्मणाम् । (८१।१)
maṇḍalastho 'hamevāyaṃ sākṣī cākhilakarmaṇām |
शुद्धा हि द्रष्टृता शम्भोर्मण्डले कल्पिता मया ॥ (८१।२)
śuddhā hi draṣṭṛtā śambhormaṇḍale kalpitā mayā ||
यदात्मतेद्धा मन्त्राः स्युः पाशप्लोषविधावलम् ॥ (८२।२)
yadātmateddhā mantrāḥ syuḥ pāśaploṣavidhāvalam ||
तर्पिताः श्राविताश्चाणोर्नाधिकारं प्रतन्वते ॥ (८३।२)
tarpitāḥ śrāvitāścāṇornādhikāraṃ pratanvate ||
आ यागान्तमहं कुम्भे संस्थितो विघ्नशान्तये । (८४।१)
ā yāgāntamahaṃ kumbhe saṃsthito vighnaśāntaye |
स हि स्वेच्छावशात्पाशान्विधुन्वन्निव वर्तते ॥ (८५।२)
sa hi svecchāvaśātpāśānvidhunvanniva vartate ||
साक्षात्स्वदेहसंस्थो ऽहं कर्तानुग्रहकर्मणाम् । (८६।१)
sākṣātsvadehasaṃstho 'haṃ kartānugrahakarmaṇām |
ज्ञानक्रियास्वतन्त्रत्वाद्दीक्षाकर्मणि पेशलः ॥ (८६।२)
jñānakriyāsvatantratvāddīkṣākarmaṇi peśalaḥ ||
भिन्नकार्याकृतिव्रातेन्द्रियचक्रानुसन्धिमान् । (८७।१)
bhinnakāryākṛtivrātendriyacakrānusandhimān |
एको यथाहं वह्न्यादिषड्रूपो ऽस्मि तथा स्फुटम् ॥ (८७।२)
eko yathāhaṃ vahnyādiṣaḍrūpo 'smi tathā sphuṭam ||
एवमालोच्य येनैषो ऽध्वना दीक्षां चिकीर्षति । (८८।१)
evamālocya yenaiṣo 'dhvanā dīkṣāṃ cikīrṣati |
कुर्यादत्यन्तमभ्यस्तमन्यान्तर्भावपूरितम् ॥ (८९।२)
kuryādatyantamabhyastamanyāntarbhāvapūritam ||
ततो ऽपि चिन्तया भूयो ऽनुसंदध्याच्छिवात्मताम् । (९०।१)
tato 'pi cintayā bhūyo 'nusaṃdadhyācchivātmatām |
अहमेव परं तत्त्वं नच तद्घटवत् क्वचित् ॥ (९०।२)
ahameva paraṃ tattvaṃ naca tadghaṭavat kvacit ||
कर्ताहमस्य तन्नान्याधीनं च मदधिष्ठितम् । (९२।१)
kartāhamasya tannānyādhīnaṃ ca madadhiṣṭhitam |
मत्समत्वं गतो जन्तुर्मुक्त इत्यभिधीयते । (९३।१)
matsamatvaṃ gato janturmukta ityabhidhīyate |
ततः पुरःस्थितं यद्वा पुरोभावितविग्रहम् ॥ (९४।२)
tataḥ puraḥsthitaṃ yadvā purobhāvitavigraham ||
परोक्षदीक्षणे यद्वा दर्भाद्यैः कल्पिते मृते । (९५।१)
parokṣadīkṣaṇe yadvā darbhādyaiḥ kalpite mṛte |
शिष्ये वीक्ष्यार्च्य पुष्पाद्यैर्न्यसेदध्वानमस्य तम् ॥ (९५।२)
śiṣye vīkṣyārcya puṣpādyairnyasedadhvānamasya tam ||
येनाध्वना मुख्यतया दीक्षामिच्छति दैशिकः । (९६।१)
yenādhvanā mukhyatayā dīkṣāmicchati daiśikaḥ |
तं देहे न्यस्य तत्रान्तर्भाव्यमन्यदिति स्थितिः ॥ (९६।२)
taṃ dehe nyasya tatrāntarbhāvyamanyaditi sthitiḥ ||
शोध्याध्वनि च विन्यस्ते तत्रैव परिशोधकम् । (९७।१)
śodhyādhvani ca vinyaste tatraiva pariśodhakam |
न्यसेद्यथेप्सितं मन्त्रं शोध्यौचित्यानुसारतः ॥ (९७।२)
nyasedyathepsitaṃ mantraṃ śodhyaucityānusārataḥ ||
क्वचिच्छोध्यं त्वविन्यस्य शोधकन्यासमात्रतः । (९८।१)
kvacicchodhyaṃ tvavinyasya śodhakanyāsamātrataḥ |
स्वयं शुध्यति संशोध्यं शोधकस्य प्रभावतः ॥ (९८।२)
svayaṃ śudhyati saṃśodhyaṃ śodhakasya prabhāvataḥ ||
तद्योजनानुसारेण श्रित्वा न्यासः षडध्वनः ॥ (९९।२)
tadyojanānusāreṇa śritvā nyāsaḥ ṣaḍadhvanaḥ ||
ललाटान्तं वेदवसौ रन्ध्रान्तं रसरन्ध्रके । (१००।१)
lalāṭāntaṃ vedavasau randhrāntaṃ rasarandhrake |
वसुखेन्दौ द्वादशान्तमित्येष त्रिविधो विधिः ॥ (१००।२)
vasukhendau dvādaśāntamityeṣa trividho vidhiḥ ||
क्रमेण कथ्यते दृष्टः शास्त्रे श्रीपूर्वसंज्ञिते । (१०१।१)
krameṇa kathyate dṛṣṭaḥ śāstre śrīpūrvasaṃjñite |
तत्र तत्त्वेषु विन्यासो गुल्फान्ते चतुरङ्गुले ॥ (१०१।२)
tatra tattveṣu vinyāso gulphānte caturaṅgule ||
धरा जलादिमूलान्तं प्रत्येकं द्व्यङ्गुलं क्रमात् । (१०२।१)
dharā jalādimūlāntaṃ pratyekaṃ dvyaṅgulaṃ kramāt |
रसश्रुत्यङ्गुलं नाभेरूर्ध्वमित्थं षडङ्गुले ॥ (१०२।२)
rasaśrutyaṅgulaṃ nābherūrdhvamitthaṃ ṣaḍaṅgule ||
पुंसः कलान्तं षट्तत्त्वीं प्रत्येकं त्र्यङ्गुले क्षिपेत् । (१०३।१)
puṃsaḥ kalāntaṃ ṣaṭtattvīṃ pratyekaṃ tryaṅgule kṣipet |
अष्टादशाङ्गुलं त्वेवं कण्ठकूपावसानकम् ॥ (१०३।२)
aṣṭādaśāṅgulaṃ tvevaṃ kaṇṭhakūpāvasānakam ||
शिवतत्त्वं ततः पश्चात्तेजोरूपमनाकुलम् । (१०५।१)
śivatattvaṃ tataḥ paścāttejorūpamanākulam |
सर्वेषां व्यापकत्वेन सबाह्याभ्यन्तरं स्मरेत् ॥ (१०५।२)
sarveṣāṃ vyāpakatvena sabāhyābhyantaraṃ smaret ||
जलाद्ध्यन्तं सार्धयुग्मं मूलं त्र्यङ्गुलमित्यतः । (१०६।१)
jalāddhyantaṃ sārdhayugmaṃ mūlaṃ tryaṅgulamityataḥ |
जलाद्ध्यन्तं त्र्यङ्गुले चेदव्यक्तं तु चतुष्टये । (१०७।१)
jalāddhyantaṃ tryaṅgule cedavyaktaṃ tu catuṣṭaye |
तच्चतुर्विंशत्याधिक्यात्परो ऽप्यष्टशते विधिः ॥ (१०७।२)
taccaturviṃśatyādhikyātparo 'pyaṣṭaśate vidhiḥ ||
त्रिविधोन्मानकं व्यक्तं वसुदिग्भ्यो रविक्षयात् । (१०८।१)
trividhonmānakaṃ vyaktaṃ vasudigbhyo ravikṣayāt |
मयतन्त्रे तथाचोक्तं तत्तत्स्वफलवाञ्छया ॥ (१०८।२)
mayatantre tathācoktaṃ tattatsvaphalavāñchayā ||
नवपञ्चचतुस्त्र्येकतत्त्वन्यासे स्वयं धिया । (१०९।१)
navapañcacatustryekatattvanyāse svayaṃ dhiyā |
न्यासं प्रकल्पयेत्तावत्तत्त्वान्तर्भावचिन्तनात् ॥ (१०९।२)
nyāsaṃ prakalpayettāvattattvāntarbhāvacintanāt ||
उक्तं च त्रिशिरस्तन्त्रे स्वाधारस्थं यथास्थितम् ॥ (११०।२)
uktaṃ ca triśirastantre svādhārasthaṃ yathāsthitam ||
द्वादशाङ्गुलमुत्थानं देहातीतं समं ततः । (१११।१)
dvādaśāṅgulamutthānaṃ dehātītaṃ samaṃ tataḥ |
द्वासप्ततिर्दश द्वे च देहस्थं शिरसो ऽन्ततः ॥ (१११।२)
dvāsaptatirdaśa dve ca dehasthaṃ śiraso 'ntataḥ ||
देहातीते ऽपि विश्रान्त्या संवित्तेः कल्पनावशात् ॥ (११२।२)
dehātīte 'pi viśrāntyā saṃvitteḥ kalpanāvaśāt ||
देहत्वमिति तस्मात्स्यादुत्थानं द्वादशाङ्गुलम् । (११३।१)
dehatvamiti tasmātsyādutthānaṃ dvādaśāṅgulam |
इति निर्णेतुमत्रैतदुक्तमष्टोत्तरं शतम् ॥ (११३।२)
iti nirṇetumatraitaduktamaṣṭottaraṃ śatam ||
पुरन्यासो ऽथ गुल्फान्तं भूः पुराण्यत्र षोडश । (११४।१)
puranyāso 'tha gulphāntaṃ bhūḥ purāṇyatra ṣoḍaśa |
तस्मादेकाङ्गुलव्याप्त्या प्रत्येकं लकुलादितः ॥ (११४।२)
tasmādekāṅgulavyāptyā pratyekaṃ lakulāditaḥ ||
द्विरण्डान्तं त्र्यङ्गुलं तु छगलाण्डमथाब्धिषु । (११५।१)
dviraṇḍāntaṃ tryaṅgulaṃ tu chagalāṇḍamathābdhiṣu |
देवयोगाष्टके द्वे हि प्रत्येकाङ्गुलपादतः ॥ (११५।२)
devayogāṣṭake dve hi pratyekāṅgulapādataḥ ||
इति प्रधानपर्यन्तं षट्चत्वारिंशदङ्गुलम् । (११६।१)
iti pradhānaparyantaṃ ṣaṭcatvāriṃśadaṅgulam |
षट्पञ्चाशत्पुराणीत्थं प्राग्धरायां तु षोडश ॥ (११६।२)
ṣaṭpañcāśatpurāṇītthaṃ prāgdharāyāṃ tu ṣoḍaśa ||
ततो ऽप्यर्धाङ्गुलव्याप्त्या षट्पुराण्यङ्गुलत्रये । (११७।१)
tato 'pyardhāṅgulavyāptyā ṣaṭpurāṇyaṅgulatraye |
चत्वारि युग्म एकस्मिन् एकं च पुरमङ्गुले ॥ (११७।२)
catvāri yugma ekasmin ekaṃ ca puramaṅgule ||
सरागे पुंस्पुराणीशसंख्यानीत्थं षडङ्गुले । (११८।१)
sarāge puṃspurāṇīśasaṃkhyānītthaṃ ṣaḍaṅgule |
क्रोधेशपुरमेकस्मिन्द्वये चाण्डमियं च वित् ॥ (११८।२)
krodheśapuramekasmindvaye cāṇḍamiyaṃ ca vit ||
संवर्तज्योतिषोरेवं कलातत्त्वगयोः क्रमात् । (११९।१)
saṃvartajyotiṣorevaṃ kalātattvagayoḥ kramāt |
श्रीपूर्वशास्त्रे तच्चोक्तं परमेशेन शंभुना । (१२०।१)
śrīpūrvaśāstre taccoktaṃ parameśena śaṃbhunā |
उत्तरादिक्रमाद्द्व्येकभेदो विद्यादिके त्रये ॥ (१२०।२)
uttarādikramāddvyekabhedo vidyādike traye ||
अथवान्योन्यसंज्ञाभ्यां तत्त्वयोर्व्यपदेश्यता ॥ (१२१।२)
athavānyonyasaṃjñābhyāṃ tattvayorvyapadeśyatā ||
एकवीरशिखेशश्रीकण्ठाः काले त्रयस्त्रये । (१२२।१)
ekavīraśikheśaśrīkaṇṭhāḥ kāle trayastraye |
कालस्य पूर्वं विन्यासो नियतेरभिधीयते ॥ (१२२।२)
kālasya pūrvaṃ vinyāso niyaterabhidhīyate ||
अथवान्योन्यसंज्ञाभिर्व्यपदेशो हि दृश्यते । (१२३।१)
athavānyonyasaṃjñābhirvyapadeśo hi dṛśyate |
एवं पुमादिषट्तत्त्वी विन्यस्ताष्टादशाङ्गुले ॥ (१२३।२)
evaṃ pumādiṣaṭtattvī vinyastāṣṭādaśāṅgule ||
ततो ऽप्यङ्गुष्ठमात्रान्तं मायातत्त्वस्थमष्टकम् । (१२४।१)
tato 'pyaṅguṣṭhamātrāntaṃ māyātattvasthamaṣṭakam |
प्रत्येकमर्धाङ्गुलतः स्यादङ्गुलचतुष्टये ॥ (१२४।२)
pratyekamardhāṅgulataḥ syādaṅgulacatuṣṭaye ||
इत्थं द्व्यक्ष्णि पुराण्यष्टाविंशतिः पुरुषान्निशि । (१२५।१)
itthaṃ dvyakṣṇi purāṇyaṣṭāviṃśatiḥ puruṣānniśi |
पुरत्रयं द्वयोस्त्र्यंशन्यूनाङ्गुलमिति क्रमात् ॥ (१२५।२)
puratrayaṃ dvayostryaṃśanyūnāṅgulamiti kramāt ||
द्वयोर्द्वयं पञ्चपुरी वैद्यीये चतुरङ्गुले । (१२६।१)
dvayordvayaṃ pañcapurī vaidyīye caturaṅgule |
तत ऐशपुराण्यष्टौ चतुष्के ऽर्धाङ्गुलक्रमात् ॥ (१२६।२)
tata aiśapurāṇyaṣṭau catuṣke 'rdhāṅgulakramāt ||
ततस्त्रीणि द्वये द्वे च द्वयोरित्थं चतुष्टये । (१२७।१)
tatastrīṇi dvaye dve ca dvayoritthaṃ catuṣṭaye |
सादाशिवं पञ्चकं स्यादित्थं वस्वेककं रवौ ॥ (१२७।२)
sādāśivaṃ pañcakaṃ syāditthaṃ vasvekakaṃ ravau ||
षोडशकं रसविशिखं वसुद्विकं वसुशशीति पुरवर्गाः । (१२८।१)
ṣoḍaśakaṃ rasaviśikhaṃ vasudvikaṃ vasuśaśīti puravargāḥ |
वेदा रसाब्धि युग्माक्षि च रवयस्तत्र चाङ्गुलाः क्रमशः ॥ (१२८।२)
vedā rasābdhi yugmākṣi ca ravayastatra cāṅgulāḥ kramaśaḥ ||
अष्टादशाधिकशतं पुराणि देहे ऽत्र चतुरशीतिमिते । (१२९।१)
aṣṭādaśādhikaśataṃ purāṇi dehe 'tra caturaśītimite |
विन्यस्तानि तदित्थं शेषे तु व्यापकं शिवं तत्त्वम् ॥ (१२९।२)
vinyastāni taditthaṃ śeṣe tu vyāpakaṃ śivaṃ tattvam ||
इति विधिरपरः कथितः परापराख्यो रसश्रुतिस्थाने । (१३०।१)
iti vidhiraparaḥ kathitaḥ parāparākhyo rasaśrutisthāne |
अष्टशरं संख्यानं खमुनिकृतं तत्परे विधौ ज्ञेयम् ॥ (१३०।२)
aṣṭaśaraṃ saṃkhyānaṃ khamunikṛtaṃ tatpare vidhau jñeyam ||
लकुलादेर्योगाष्टकपर्यन्तस्यात्र भुवनपूगस्य । (१३१।१)
lakulāderyogāṣṭakaparyantasyātra bhuvanapūgasya |
अधिकीकुर्याद्गणनावशेन भागं विधिद्वये क्रमशः ॥ (१३१।२)
adhikīkuryādgaṇanāvaśena bhāgaṃ vidhidvaye kramaśaḥ ||
पूर्वं दशपदी चोक्ता स्वतन्त्रा न्यस्यते यदा ॥ (१३२।२)
pūrvaṃ daśapadī coktā svatantrā nyasyate yadā ||
तयैव दीक्षा कार्या चेत्तदेयं न्यासकल्पना । (१३३।१)
tayaiva dīkṣā kāryā cettadeyaṃ nyāsakalpanā |
तत्त्वादिमुख्यतायोगाद्दीक्षायां तु पदावली ॥ (१३३।२)
tattvādimukhyatāyogāddīkṣāyāṃ tu padāvalī ||
तत्तत्त्वाद्यनुसारेण तत्रान्तर्भाव्यते तथा । (१३४।१)
tattattvādyanusāreṇa tatrāntarbhāvyate tathā |
स्वप्रधानत्वयोगे तु दीक्षायां पदपद्धतिम् ॥ (१३४।२)
svapradhānatvayoge tu dīkṣāyāṃ padapaddhatim ||
न्यस्येत्क्रमेण तत्त्वादिवदनानवलोकिनीम् । (१३५।१)
nyasyetkrameṇa tattvādivadanānavalokinīm |
चतुर्ष्वष्टासु चाष्टासु दशस्वथ दशस्वथ ॥ (१३५।२)
caturṣvaṣṭāsu cāṣṭāsu daśasvatha daśasvatha ||
योजयेद्व्याप्तृ दशमं पदं तु शिवसंज्ञितम् । (१३७।१)
yojayedvyāptṛ daśamaṃ padaṃ tu śivasaṃjñitam |
धरापदं वर्जयित्वा पञ्च यानि पदानि तु ॥ (१३७।२)
dharāpadaṃ varjayitvā pañca yāni padāni tu ||
विधिद्वयं स्यान्निक्षिप्य द्वादश द्वादशाङ्गुलान् । (१३८।१)
vidhidvayaṃ syānnikṣipya dvādaśa dvādaśāṅgulān |
मन्त्राध्वनो ऽप्येष एव विधिर्विन्यासयोजने ॥ (१३८।२)
mantrādhvano 'pyeṣa eva vidhirvinyāsayojane ||
व्याप्तिमात्रं हि भिद्येतेत्युक्तं प्रागेव तत्तथा । (१३९।१)
vyāptimātraṃ hi bhidyetetyuktaṃ prāgeva tattathā |
वर्णाध्वनो ऽथ विन्यासः कथ्यते ऽत्र विधित्रये ॥ (१३९।२)
varṇādhvano 'tha vinyāsaḥ kathyate 'tra vidhitraye ||
एकं चतुर्षु प्रत्येकं द्वयोरङ्गुलयोः क्रमात् । (१४०।१)
ekaṃ caturṣu pratyekaṃ dvayoraṅgulayoḥ kramāt |
त्रयोविंशतिवर्णी स्यात् षड्वर्ण्येकैकशस्त्रिषु ॥ (१४०।२)
trayoviṃśativarṇī syāt ṣaḍvarṇyekaikaśastriṣu ||
प्रत्येकमथ चत्वारश्चतुर्ष्विति विलोमतः । (१४१।१)
pratyekamatha catvāraścaturṣviti vilomataḥ |
मालिनीमातृकार्णाः स्युर्व्याप्तृ शैवं रसेन्दुतः ॥ (१४१।२)
mālinīmātṛkārṇāḥ syurvyāptṛ śaivaṃ rasendutaḥ ||
वर्जयित्वाद्यवर्णं तु तत्त्ववत्स्याद्रवीन्रवीन् । (१४२।१)
varjayitvādyavarṇaṃ tu tattvavatsyādravīnravīn |
तां त्रयोविंशतौ वर्णेष्वप्यन्यत्स्याद्विधिद्वयम् ॥ (१४२।२)
tāṃ trayoviṃśatau varṇeṣvapyanyatsyādvidhidvayam ||
श्रीपूर्वशास्त्रे तेनादौ तत्त्वेषूक्तं विधित्रयम् । (१४३।१)
śrīpūrvaśāstre tenādau tattveṣūktaṃ vidhitrayam |
अतिदिष्टं तु तद्भिन्नाभिन्नवर्णद्वये समम् ॥ (१४३।२)
atidiṣṭaṃ tu tadbhinnābhinnavarṇadvaye samam ||
द्विविधो ऽपि हि वर्णानां षड्विधो भेद उच्यते । (१४४।१)
dvividho 'pi hi varṇānāṃ ṣaḍvidho bheda ucyate |
तत्त्वमार्गविधानेन ज्ञातव्यः परमार्थतः ॥ (१४४।२)
tattvamārgavidhānena jñātavyaḥ paramārthataḥ ||
भूयो ऽतिदिष्टं तत्रैव शास्त्रे ऽस्मद्धृदयेश्वरे ॥ (१४५।२)
bhūyo 'tidiṣṭaṃ tatraiva śāstre 'smaddhṛdayeśvare ||
त्रितयत्वं प्रकुर्वीत तत्त्ववर्णोक्तवर्त्मना ॥ (१४६।२)
tritayatvaṃ prakurvīta tattvavarṇoktavartmanā ||
उक्तं तत्पदमन्त्रेषु कलास्वथ निरूप्यते । (१४७।१)
uktaṃ tatpadamantreṣu kalāsvatha nirūpyate |
चतुर्षु रसवेदे द्वाविंशतौ द्वादशस्वथ ॥ (१४७।२)
caturṣu rasavede dvāviṃśatau dvādaśasvatha ||
निवृत्त्याद्याश्चतस्रः स्युर्व्याप्त्री स्याच्छान्त्यतीतिका । (१४८।१)
nivṛttyādyāścatasraḥ syurvyāptrī syācchāntyatītikā |
द्वितीयस्यां कलायां तु द्वादश द्वादशाङ्गुलान् ॥ (१४८।२)
dvitīyasyāṃ kalāyāṃ tu dvādaśa dvādaśāṅgulān ||
क्रमात्क्षिप्त्वा विधिद्वैतं परापरपरात्मकम् । (१४९।१)
kramātkṣiptvā vidhidvaitaṃ parāparaparātmakam |
चतुरण्डविधिस्त्वादिशब्देनेह प्रगृह्यते ॥ (१४९।२)
caturaṇḍavidhistvādiśabdeneha pragṛhyate ||
कलाचतुष्कवत्तेन तस्मिन्वाच्यं विधित्रयम् । (१५०।१)
kalācatuṣkavattena tasminvācyaṃ vidhitrayam |
एवं षड्विधमध्वानं शोध्यशिष्यतनौ पुरा ॥ (१५०।२)
evaṃ ṣaḍvidhamadhvānaṃ śodhyaśiṣyatanau purā ||
न्यस्यैकतममुख्यत्वान्न्यस्येच्छोधकसंमतम् । (१५१।१)
nyasyaikatamamukhyatvānnyasyecchodhakasaṃmatam |
अध्वन्यासनमन्त्रौघः शोधको ह्येक आदितः ॥ (१५१।२)
adhvanyāsanamantraughaḥ śodhako hyeka āditaḥ ||
शब्दराशिर्मालिनी च समस्तव्यस्ततो द्विधा । (१५२।१)
śabdarāśirmālinī ca samastavyastato dvidhā |
पञ्चवक्त्री शक्तितद्वद्भेदात्षोढा पुनर्द्विधा । (१५३।१)
pañcavaktrī śaktitadvadbhedātṣoḍhā punardvidhā |
षडङ्गी सकलान्यत्वाद्द्विविधा वक्त्रवत्पुनः । (१५४।१)
ṣaḍaṅgī sakalānyatvāddvividhā vaktravatpunaḥ |
अघोराद्यष्टके द्वे च तृतीयं यामलोदयात् । (१५५।१)
aghorādyaṣṭake dve ca tṛtīyaṃ yāmalodayāt |
मातृसद्भावमन्त्रश्च केवलः श्रुतिचक्रगः ॥ (१५५।२)
mātṛsadbhāvamantraśca kevalaḥ śruticakragaḥ ||
अनामसंहृतिस्थैर्यसृष्टिचक्रं चतुर्विधम् । (१५७।१)
anāmasaṃhṛtisthairyasṛṣṭicakraṃ caturvidham |
देवताभिर्निजाभिस् तन्मातृसद्भावबृंहितम् ॥ (१५७।२)
devatābhirnijābhis tanmātṛsadbhāvabṛṃhitam ||
इत्थं शोधकवर्गो ऽयं मन्त्राणां सप्ततिः स्मृता । (१५८।१)
itthaṃ śodhakavargo 'yaṃ mantrāṇāṃ saptatiḥ smṛtā |
षडर्धशास्त्रेषु श्रीमत्सारशास्त्रे च कथ्यते ॥ (१५८।२)
ṣaḍardhaśāstreṣu śrīmatsāraśāstre ca kathyate ||
अथवैकाक्षरामन्त्रैर् अथवा मातृकाक्रमात् ॥ (१५९।२)
athavaikākṣarāmantrair athavā mātṛkākramāt ||
भैरवेण महादेवि त्वथ वक्त्राङ्गपञ्चकैः ॥ (१६०।२)
bhairaveṇa mahādevi tvatha vaktrāṅgapañcakaiḥ ||
येन येन हि मन्त्रेण तन्त्रे ऽस्मिन् उद्भवः कृतः । (१६१।१)
yena yena hi mantreṇa tantre 'smin udbhavaḥ kṛtaḥ |
तेनैव दीक्षयेन्मन्त्री इत्याज्ञा पारमेश्वरी ॥ (१६१।२)
tenaiva dīkṣayenmantrī ityājñā pārameśvarī ||
एवं शोधकभेदेन सप्ततिः कीर्तिता भिदः । (१६२।१)
evaṃ śodhakabhedena saptatiḥ kīrtitā bhidaḥ |
शोध्यन्यासं विना मन्त्रैरेतैर्दीक्षा यदा भवेत् ॥ (१६२।२)
śodhyanyāsaṃ vinā mantrairetairdīkṣā yadā bhavet ||
शोध्यभेदो ऽथ वक्तव्यः संक्षेपात्सो ऽपि कथ्यते ॥ (१६३।२)
śodhyabhedo 'tha vaktavyaḥ saṃkṣepātso 'pi kathyate ||
एकत्रिपञ्चषट्त्रिंशद्भेदात्तात्त्वश्चतुर्विधः । (१६४।१)
ekatripañcaṣaṭtriṃśadbhedāttāttvaścaturvidhaḥ |
पञ्चैकभेदाच्चाध्वानस्तथैवाण्डचतुष्टयम् ॥ (१६४।२)
pañcaikabhedāccādhvānastathaivāṇḍacatuṣṭayam ||
एवं दशविधं शोध्यं त्रिंशद्धा तद्विधित्रयात् । (१६५।१)
evaṃ daśavidhaṃ śodhyaṃ triṃśaddhā tadvidhitrayāt |
अत्रापि न्यासयोगेन शोध्ये ऽध्वनि तथाकृतेः । (१६६।१)
atrāpi nyāsayogena śodhye 'dhvani tathākṛteḥ |
शतैकविंशतिभिदा जननाद्युज्झिता भवेत् ॥ (१६६।२)
śataikaviṃśatibhidā jananādyujjhitā bhavet ||
स्यात्सप्तत्यधिका सापि द्रव्यविज्ञानभेदतः ॥ (१६७।२)
syātsaptatyadhikā sāpi dravyavijñānabhedataḥ ||
द्विधेति पञ्चाशीतिः स्याच्छतान्यधिकखाब्धिका । (१६८।१)
dvidheti pañcāśītiḥ syācchatānyadhikakhābdhikā |
भोगमोक्षानुसन्धानाद्द्विविधा सा प्रकीर्तिता ॥ (१६८।२)
bhogamokṣānusandhānāddvividhā sā prakīrtitā ||
अशुभस्यैव संशुद्ध्या शुभस्याप्यथ शोधनात् । (१६९।१)
aśubhasyaiva saṃśuddhyā śubhasyāpyatha śodhanāt |
द्विधा भोगः शुभे शुद्धिः कालत्रयविभेदिनि ॥ (१६९।२)
dvidhā bhogaḥ śubhe śuddhiḥ kālatrayavibhedini ||
एकद्विसामस्त्यवशात्सप्तधेत्यष्टधा भुजिः । (१७०।१)
ekadvisāmastyavaśātsaptadhetyaṣṭadhā bhujiḥ |
गुरुशिष्यक्रमात्सो ऽपि द्विधेत्येवं विभिद्यते ॥ (१७०।२)
guruśiṣyakramātso 'pi dvidhetyevaṃ vibhidyate ||
प्रत्यक्षदीक्षणे यस्माद्द्वयोरेकानुसंधितः । (१७१।१)
pratyakṣadīkṣaṇe yasmāddvayorekānusaṃdhitaḥ |
तादृग्दीक्षाफलं पूर्णं विसंवादे तु विप्लवः ॥ (१७१।२)
tādṛgdīkṣāphalaṃ pūrṇaṃ visaṃvāde tu viplavaḥ ||
क्रियाज्ञानमहिम्ना तं शिष्यं धाम्नीप्सिते नयेत् ॥ (१७२।२)
kriyājñānamahimnā taṃ śiṣyaṃ dhāmnīpsite nayet ||
अविभिन्ने क्रियाज्ञाने कर्मशुद्धौ तथैव ते । (१७३।१)
avibhinne kriyājñāne karmaśuddhau tathaiva te |
अनुसन्धिः पुनर्भिन्नः कर्म यस्मात्तदात्मकम् ॥ (१७३।२)
anusandhiḥ punarbhinnaḥ karma yasmāttadātmakam ||
श्रीमत्स्वच्छन्दशास्त्रे च वासनाभेदतः फलम् । (१७४।१)
śrīmatsvacchandaśāstre ca vāsanābhedataḥ phalam |
शिष्याणां च गुरोश्चोक्तमभिन्ने ऽपि क्रियादिके ॥ (१७४।२)
śiṣyāṇāṃ ca guroścoktamabhinne 'pi kriyādike ||
भोगस्य शोधकाच्छोध्यादनुसन्धेश्च तादृशात् । (१७५।१)
bhogasya śodhakācchodhyādanusandheśca tādṛśāt |
वैचित्र्यमस्ति भेदस्य वैचित्र्यप्राणता यतः ॥ (१७५।२)
vaicitryamasti bhedasya vaicitryaprāṇatā yataḥ ||
तथाहि वक्त्रैर्यस्याध्वा शुद्धस्तैरेव योजितः । (१७६।१)
tathāhi vaktrairyasyādhvā śuddhastaireva yojitaḥ |
भोक्तुमिष्टे क्वचित्तत्त्वे स भोक्ता तद्बलान्वितः ॥ (१७६।२)
bhoktumiṣṭe kvacittattve sa bhoktā tadbalānvitaḥ ||
शुभानां कर्मणां चात्र सद्भावे भोगचित्रता । (१७७।१)
śubhānāṃ karmaṇāṃ cātra sadbhāve bhogacitratā |
तादृगेव भवेत्कर्मशुद्धौ त्वन्यैव चित्रता ॥ (१७७।२)
tādṛgeva bhavetkarmaśuddhau tvanyaiva citratā ||
भोगश्च सद्य उत्क्रान्त्या देहेनैवाथ संगतः । (१७८।१)
bhogaśca sadya utkrāntyā dehenaivātha saṃgataḥ |
तदैवाभ्यासतो वापि देहान्ते वेत्यसौ चतुः ॥ (१७८।२)
tadaivābhyāsato vāpi dehānte vetyasau catuḥ ||
प्राक्तनाष्टभिदा योगाद्द्वात्रिंशद्भेद उच्यते । (१७९।१)
prāktanāṣṭabhidā yogāddvātriṃśadbheda ucyate |
मोक्ष एको ऽपि बीजस्य समयाख्यस्य तादृशम् ॥ (१७९।२)
mokṣa eko 'pi bījasya samayākhyasya tādṛśam ||
बालादिकं ज्ञातशीघ्रमरणं शक्तिवर्जितम् । (१८०।१)
bālādikaṃ jñātaśīghramaraṇaṃ śaktivarjitam |
वृद्धं वोद्दिश्य शक्तं वा शोधनाशोधनाद्द्विधा ॥ (१८०।२)
vṛddhaṃ voddiśya śaktaṃ vā śodhanāśodhanāddvidhā ||
सद्य उत्क्रान्तितस्त्रैधं सा चासन्नमृतौ गुरोः । (१८१।१)
sadya utkrāntitastraidhaṃ sā cāsannamṛtau guroḥ |
कार्येत्याज्ञा महेशस्य श्रीमद्गह्वरभाषिता ॥ (१८१।२)
kāryetyājñā maheśasya śrīmadgahvarabhāṣitā ||
दृष्ट्वा शिष्यं जराग्रस्तं व्याधिना परिपीडितम् । (१८२।१)
dṛṣṭvā śiṣyaṃ jarāgrastaṃ vyādhinā paripīḍitam |
उत्क्रमय्य ततस्त्वेनं परतत्त्वे नियोजयेत् ॥ (१८२।२)
utkramayya tatastvenaṃ paratattve niyojayet ||
पञ्चत्रिंशदमी भेदा गुरोर्वा गुरुशिष्ययोः । (१८३।१)
pañcatriṃśadamī bhedā gurorvā guruśiṣyayoḥ |
उक्तद्वैविध्यकलनात्सप्ततिः परिकीर्तिताः ॥ (१८३।२)
uktadvaividhyakalanātsaptatiḥ parikīrtitāḥ ||
एतैर्भेदैः पुरोक्तांस्तान्भेदान्दीक्षागतान्गुरुः । (१८४।१)
etairbhedaiḥ puroktāṃstānbhedāndīkṣāgatānguruḥ |
हत्वा वदेत्प्रसंख्यानं स्वभ्यस्तज्ञानसिद्धये ॥ (१८४।२)
hatvā vadetprasaṃkhyānaṃ svabhyastajñānasiddhaye ||
पञ्चाशीतिशती या चत्वारिंशत्समुत्तरा कथिता । (१८५।१)
pañcāśītiśatī yā catvāriṃśatsamuttarā kathitā |
तां सप्तत्या भित्त्वा दीक्षाभेदान्स्वयं कलयेत् ॥ (१८५।२)
tāṃ saptatyā bhittvā dīkṣābhedānsvayaṃ kalayet ||
पञ्चकमिह लक्षाणां च सप्तनवतिः सहस्रपरिसंख्या । (१८६।१)
pañcakamiha lakṣāṇāṃ ca saptanavatiḥ sahasraparisaṃkhyā |
अष्टौ शतानि दीक्षाभेदो ऽयं मालिनीतन्त्रे ॥ (१८६।२)
aṣṭau śatāni dīkṣābhedo 'yaṃ mālinītantre ||
सप्ततिधा शोद्धृगणस्त्रिंशद्धा शोध्य एकतत्त्वादिः । (१८७।१)
saptatidhā śoddhṛgaṇastriṃśaddhā śodhya ekatattvādiḥ |
साण्डः षडध्वरूपस्तथेतिकर्तव्यता चतुर्भेदा ॥ (१८७।२)
sāṇḍaḥ ṣaḍadhvarūpastathetikartavyatā caturbhedā ||
द्रव्यज्ञानमयी सा जननादिविवर्जिताथ तद्युक्ता । (१८८।१)
dravyajñānamayī sā jananādivivarjitātha tadyuktā |
पञ्चत्रिंशद्धा पुनरेषा भोगापवर्गसन्धानात् ॥ (१८८।२)
pañcatriṃśaddhā punareṣā bhogāpavargasandhānāt ||
यस्माद्द्वात्रिंशद्धा भोगः शुभशुद्ध्यशुद्धिकालभिदा । (१८९।१)
yasmāddvātriṃśaddhā bhogaḥ śubhaśuddhyaśuddhikālabhidā |
मोक्षस्त्रेधा द्विगुणा सप्ततिरितिकार्यताभेदाः ॥ (१८९।२)
mokṣastredhā dviguṇā saptatiritikāryatābhedāḥ ||
शोधनशोध्यविभेदादितिकर्तव्यत्वभेदतश्चैषा । (१९०।१)
śodhanaśodhyavibhedāditikartavyatvabhedataścaiṣā |
दीक्षा बहुधा भिन्ना शोध्यविहीना तु सप्ततिधा ॥ (१९०।२)
dīkṣā bahudhā bhinnā śodhyavihīnā tu saptatidhā ||
मन्त्राणां सकलेतरसाङ्गनिरङ्गादिभेदसंकलनात् । (१९१।१)
mantrāṇāṃ sakaletarasāṅganiraṅgādibhedasaṃkalanāt |
श्योध्यस्य च तत्त्वादेः पञ्चदशाद्युक्तभेदपरिगणनात् ॥ (१९१।२)
śyodhyasya ca tattvādeḥ pañcadaśādyuktabhedaparigaṇanāt ||
भेदानां परिगणना न शक्यते कर्तुमित्यसंकीर्णाः । (१९२।१)
bhedānāṃ parigaṇanā na śakyate kartumityasaṃkīrṇāḥ |
भेदाः संकीर्णाः पुनरन्ये भूयस्त्वकारिणो बहुधा ॥ (१९२।२)
bhedāḥ saṃkīrṇāḥ punaranye bhūyastvakāriṇo bahudhā ||
शोधकशोध्यादीनां द्वित्रादिविभेदसद्भावात् । (१९३।१)
śodhakaśodhyādīnāṃ dvitrādivibhedasadbhāvāt |
भोगे साध्ये यद्यद्बहु कर्तव्यं तदाश्रयेन्मतिमान् ॥ (१९३।२)
bhoge sādhye yadyadbahu kartavyaṃ tadāśrayenmatimān ||
कारणभूयस्त्वं किल फलभूयस्त्वाय किं चित्रम् । (१९४।१)
kāraṇabhūyastvaṃ kila phalabhūyastvāya kiṃ citram |
अपवर्गे नतु भेदस्तेनास्मिन्वासनादृढत्वजुषा ॥ (१९४।२)
apavarge natu bhedastenāsminvāsanādṛḍhatvajuṣā ||
अल्पाप्याश्रयणीया क्रियाथ विज्ञानमात्रे वा । (१९५।१)
alpāpyāśrayaṇīyā kriyātha vijñānamātre vā |
अभिनवगुप्तगुरुः पुनराह हि सति वित्तदेशकालादौ ॥ (१९५।२)
abhinavaguptaguruḥ punarāha hi sati vittadeśakālādau ||
अपवर्गे ऽपि हि विस्तीर्णकर्मविज्ञानसंग्रहः कार्यः । (१९६।१)
apavarge 'pi hi vistīrṇakarmavijñānasaṃgrahaḥ kāryaḥ |
चिद्वृत्तेर्वैचित्र्याच्चाञ्चल्ये ऽपि क्रमेण सन्धानात् ॥ (१९६।२)
cidvṛttervaicitryāccāñcalye 'pi krameṇa sandhānāt ||
तस्मिंस्तस्मिन्वस्तुनि रूढिरवश्यं शिवात्मिका भवति । (१९७।१)
tasmiṃstasminvastuni rūḍhiravaśyaṃ śivātmikā bhavati |
तत्त्वमिदमेतदात्मकम् एतस्मात् प्रोद्धृतो मया शिष्यः ॥ (१९७।२)
tattvamidametadātmakam etasmāt proddhṛto mayā śiṣyaḥ ||
इत्थं क्रमसंवित्तौ मूढो ऽपि शिवात्मको भवति । (१९८।१)
itthaṃ kramasaṃvittau mūḍho 'pi śivātmako bhavati |
क्रमिकतथाविधशिवतानुग्रहसुभगं च दैशिकं पश्यन् ॥ (१९८।२)
kramikatathāvidhaśivatānugrahasubhagaṃ ca daiśikaṃ paśyan ||
शिशुरपि तदभेददृशा भक्तिबलाच्चाभ्युपैति शिवभावम् । (१९९।१)
śiśurapi tadabhedadṛśā bhaktibalāccābhyupaiti śivabhāvam |
यद्यपि विकल्पवृत्तेरपि मोक्षं दीक्षयैव देहान्ते ॥ (१९९।२)
yadyapi vikalpavṛtterapi mokṣaṃ dīkṣayaiva dehānte ||
शास्त्रे प्रोवाच विभुस्तथापि दृढवासना युक्ता । (२००।१)
śāstre provāca vibhustathāpi dṛḍhavāsanā yuktā |
मोक्षे ऽप्यस्ति विशेषः क्रियाल्पभूयस्त्वजः सलोकादिः ॥ (२००।२)
mokṣe 'pyasti viśeṣaḥ kriyālpabhūyastvajaḥ salokādiḥ ||
इति केचित्तदयुक्तं स विचित्रो भोग एव कथितः स्यात् । (२०१।१)
iti kecittadayuktaṃ sa vicitro bhoga eva kathitaḥ syāt |
संस्कारशेषवर्तनजीवितमध्ये ऽस्य समयलोपाद्यम् ॥ (२०१।२)
saṃskāraśeṣavartanajīvitamadhye 'sya samayalopādyam ||
नायाति विघ्नजालं क्रियाबहुत्वं मुमुक्षोस्तत् । (२०२।१)
nāyāti vighnajālaṃ kriyābahutvaṃ mumukṣostat |
यस्मात् सबीजदीक्षासंस्कृतपुरुषस्य समयलोपाद्ये ॥ (२०२।२)
yasmāt sabījadīkṣāsaṃskṛtapuruṣasya samayalopādye ||
भुक्ते भोगान्मोक्षो नैवं निर्बीजदीक्षायाम् । (२०३।१)
bhukte bhogānmokṣo naivaṃ nirbījadīkṣāyām |
इति केचिन्मन्यन्ते युक्तं तच्चापि यत्स्मृतं शास्त्रे ॥ (२०३।२)
iti kecinmanyante yuktaṃ taccāpi yatsmṛtaṃ śāstre ||
समयोल्लङ्घनाद्देवि क्रव्यादत्वं शतं समाः ॥ (२०४।१)
samayollaṅghanāddevi kravyādatvaṃ śataṃ samāḥ ||
तस्मादुरुशिष्यमतौ शिवभावनिरूढिवितरणसमर्थम् । (२०५।१)
tasmāduruśiṣyamatau śivabhāvanirūḍhivitaraṇasamartham |
क्रमिकं तत्त्वोद्धरणादि कर्म मोक्षे ऽपि युक्तमतिविततम् ॥ (२०५।२)
kramikaṃ tattvoddharaṇādi karma mokṣe 'pi yuktamativitatam ||
यस्तु सदा भावनया स्वभ्यस्तज्ञानवान्गुरुः स शिशोः । (२०६।१)
yastu sadā bhāvanayā svabhyastajñānavānguruḥ sa śiśoḥ |
अपवर्गाय यथेच्छं यं कंचिदुपायमनुतिष्ठेत् ॥ (२०६।२)
apavargāya yathecchaṃ yaṃ kaṃcidupāyamanutiṣṭhet ||
एवं शिष्यतनौ शोध्यं न्यस्याध्वानं यथेप्सितम् । (२०७।१)
evaṃ śiṣyatanau śodhyaṃ nyasyādhvānaṃ yathepsitam |
शोधकं मन्त्रमुपरि न्यस्येत्तत्त्वानुसारतः ॥ (२०७।२)
śodhakaṃ mantramupari nyasyettattvānusārataḥ ||
द्वयोर्मातृकयोस्तत्त्वस्थित्या वर्णक्रमः पुरा । (२०८।१)
dvayormātṛkayostattvasthityā varṇakramaḥ purā |
कथितस्तं तथा न्यस्येत्तत्तत्तत्त्वविशुद्धये ॥ (२०८।२)
kathitastaṃ tathā nyasyettattattattvaviśuddhaye ||
वर्णाध्वा यद्यपि प्रोक्तः शोध्यः पाशात्मकस्तु सः । (२०९।१)
varṇādhvā yadyapi proktaḥ śodhyaḥ pāśātmakastu saḥ |
मायीयः शोधकस्त्वन्यः शिवात्मा परवाङ्मयः ॥ (२०९।२)
māyīyaḥ śodhakastvanyaḥ śivātmā paravāṅmayaḥ ||
उवाच सद्योज्योतिश्च वृत्तौ स्वायम्भुवस्य तत् । (२१०।१)
uvāca sadyojyotiśca vṛttau svāyambhuvasya tat |
बाढमेको हि पाशात्मा शब्दो ऽन्यश्च शिवात्मकः ॥ (२१०।२)
bāḍhameko hi pāśātmā śabdo 'nyaśca śivātmakaḥ ||
तस्मात्तस्यैव वर्णस्य युक्ता शोधकशोध्यता । (२११।१)
tasmāttasyaiva varṇasya yuktā śodhakaśodhyatā |
श्रीपूर्वशास्त्रे चाप्युक्तं ते तैरालिङ्गिता इति ॥ (२११।२)
śrīpūrvaśāstre cāpyuktaṃ te tairāliṅgitā iti ||
सद्योजातादिवक्त्राणि हृदाद्यङ्गानि पञ्च च । (२१२।१)
sadyojātādivaktrāṇi hṛdādyaṅgāni pañca ca |
षट्कृत्वो न्यस्य षट्त्रिंशन्न्यासं कुर्याद्धरादितः ॥ (२१२।२)
ṣaṭkṛtvo nyasya ṣaṭtriṃśannyāsaṃ kuryāddharāditaḥ ||
परापराया वैलोम्याद्धरायां स्यात्पदत्रयम् । (२१३।१)
parāparāyā vailomyāddharāyāṃ syātpadatrayam |
पदानि पञ्च धीमूलपुंरागाख्ये त्रये त्रयम् । (२१४।१)
padāni pañca dhīmūlapuṃrāgākhye traye trayam |
एकं त्वशुद्धवित्कालद्वये चैकं नियामके ॥ (२१४।२)
ekaṃ tvaśuddhavitkāladvaye caikaṃ niyāmake ||
सार्धं चैकं चैकं सार्धं द्वे द्वे शशी दृगथ युग्मम् ॥ (२१६।२)
sārdhaṃ caikaṃ caikaṃ sārdhaṃ dve dve śaśī dṛgatha yugmam ||
त्रीणि दृगब्धिश्चन्द्रः श्रुतिः शशी पञ्च विधुमहश्चन्द्राः । (२१७।१)
trīṇi dṛgabdhiścandraḥ śrutiḥ śaśī pañca vidhumahaścandrāḥ |
एकान्नविंशतौ स्यादक्षरसंख्या पदेष्वियं देव्याः ॥ (२१७।२)
ekānnaviṃśatau syādakṣarasaṃkhyā padeṣviyaṃ devyāḥ ||
हल्द्वययुतवसुचित्रगुपरिसंख्यातस्ववर्णायाः । (२१८।१)
haldvayayutavasucitraguparisaṃkhyātasvavarṇāyāḥ |
मूलान्तं सार्धवर्णं स्यान्मायान्तं वर्णमेककम् ॥ (२१८।२)
mūlāntaṃ sārdhavarṇaṃ syānmāyāntaṃ varṇamekakam ||
शक्त्यन्तमेकम् अपरान्यासे विधिरुदीरितः । (२१९।१)
śaktyantamekam aparānyāse vidhirudīritaḥ |
मायान्तं हल्ततः शक्तिपर्यन्ते स्वर उच्यते ॥ (२१९।२)
māyāntaṃ haltataḥ śaktiparyante svara ucyate ||
निष्कले शिवतत्त्वे वै परो न्यासः परोदितः । (२२०।१)
niṣkale śivatattve vai paro nyāsaḥ paroditaḥ |
मन्त्रास्तदनुसारेण तत्त्वेष्वेतद्द्वयं क्षिपेत् । (२२१।१)
mantrāstadanusāreṇa tattveṣvetaddvayaṃ kṣipet |
पिण्डाक्षराणां सर्वेषां वर्णसंख्या विभेदतः ॥ (२२१।२)
piṇḍākṣarāṇāṃ sarveṣāṃ varṇasaṃkhyā vibhedataḥ ||
अव्यक्तान्तं स्वरे न्यस्या शेषं शेषेषु योजयेत् । (२२२।१)
avyaktāntaṃ svare nyasyā śeṣaṃ śeṣeṣu yojayet |
बीजानि सर्वतत्त्वेषु व्याप्तृत्वेन प्रकल्पयेत् ॥ (२२२।२)
bījāni sarvatattveṣu vyāptṛtvena prakalpayet ||
पिण्डानां बीजवन्न्यासमन्ये तु प्रतिपेदिरे । (२२३।१)
piṇḍānāṃ bījavannyāsamanye tu pratipedire |
अकृते वाथ शोध्यस्य न्यासे वस्तुबलात् स्थितेः ॥ (२२३।२)
akṛte vātha śodhyasya nyāse vastubalāt sthiteḥ ||
शोधकन्यासमात्रेण सर्वं शोध्यं विशुध्यति । (२२४।१)
śodhakanyāsamātreṇa sarvaṃ śodhyaṃ viśudhyati |
श्रीमन्मृत्युञ्जयादौ च कथितं परमेष्ठिना ॥ (२२४।२)
śrīmanmṛtyuñjayādau ca kathitaṃ parameṣṭhinā ||
अधुना न्यासमात्रेण भूतशुद्धिः प्रजायते । (२२५।१)
adhunā nyāsamātreṇa bhūtaśuddhiḥ prajāyate |
देहशुद्ध्यर्थमप्येतत्तुल्यमेतेन वस्तुतः ॥ (२२५।२)
dehaśuddhyarthamapyetattulyametena vastutaḥ ||
अन्यप्रकरणोक्तं यद्युक्तं प्रकरणान्तरे । (२२६।१)
anyaprakaraṇoktaṃ yadyuktaṃ prakaraṇāntare |
ज्ञापकत्वेन साक्षाद्वा तत्किं नान्यत्र गृह्यते ॥ (२२६।२)
jñāpakatvena sākṣādvā tatkiṃ nānyatra gṛhyate ||
मालिनीमातृकाङ्गस्य न्यासो यो ऽर्चाविधौ पुरा । (२२७।१)
mālinīmātṛkāṅgasya nyāso yo 'rcāvidhau purā |
प्रोक्तः केवलसंशोद्धृमन्त्रन्यासे स एव तु ॥ (२२७।२)
proktaḥ kevalasaṃśoddhṛmantranyāse sa eva tu ||
त्रिपदी द्वयोर्द्वयोः स्यात्प्रत्येकमथाष्टसु श्रुतिपदानि । (२२८।१)
tripadī dvayordvayoḥ syātpratyekamathāṣṭasu śrutipadāni |
दिक्चन्द्रचन्द्ररसरविशरशरदृग्दृङ्मृगाङ्कशशिगणने ॥ (२२८।२)
dikcandracandrarasaraviśaraśaradṛgdṛṅmṛgāṅkaśaśigaṇane ||
अङ्गुलमाने देव्या अष्टादश वैभवेन पदमन्यत् । (२२९।१)
aṅgulamāne devyā aṣṭādaśa vaibhavena padamanyat |
अपरं मानमिदं स्यात् केवलशोधकमनुन्यासे ॥ (२२९।२)
aparaṃ mānamidaṃ syāt kevalaśodhakamanunyāse ||
तुर्यपदात्पदषट्के मानद्वितयं परापरपराख्यम् । (२३०।१)
turyapadātpadaṣaṭke mānadvitayaṃ parāparaparākhyam |
द्वादशकं द्वादशकं तत्त्वोपरि पूर्ववत्त्वन्यत् ॥ (२३०।२)
dvādaśakaṃ dvādaśakaṃ tattvopari pūrvavattvanyat ||
केवलशोधकमन्त्रन्यासाभिप्रायतो महादेवः । (२३१।१)
kevalaśodhakamantranyāsābhiprāyato mahādevaḥ |
तत्त्वक्रमोदितमपि न्यासं पुनराह तद्विरुद्धमपि ॥ (२३१।२)
tattvakramoditamapi nyāsaṃ punarāha tadviruddhamapi ||
निष्कले पदमेकार्णं यावत्त्रीणि तु पार्थिवे । (२३२।१)
niṣkale padamekārṇaṃ yāvattrīṇi tu pārthive |
पुनश्च मालिनीतन्त्रे वर्गविद्याविभेदतः । (२३३।१)
punaśca mālinītantre vargavidyāvibhedataḥ |
द्विधा पदानीत्युक्त्वाख्यन्न्यासमन्यादृशं विभुः ॥ (२३३।२)
dvidhā padānītyuktvākhyannyāsamanyādṛśaṃ vibhuḥ ||
एकैकं द्व्यङ्गुलं ज्ञेयं तत्र पूर्वं पदत्रयम् । (२३४।१)
ekaikaṃ dvyaṅgulaṃ jñeyaṃ tatra pūrvaṃ padatrayam |
अष्टाङ्गुलानि चत्वारि दशाङ्गुलमतः परम् ॥ (२३४।२)
aṣṭāṅgulāni catvāri daśāṅgulamataḥ param ||
द्व्यङ्गुले द्वे पदे चान्ये षडङ्गुलमतः परम् । (२३५।१)
dvyaṅgule dve pade cānye ṣaḍaṅgulamataḥ param |
द्वादशाङ्गुलमन्यच्च द्वे ऽन्ये पञ्चाङ्गुले पृथक् ॥ (२३५।२)
dvādaśāṅgulamanyacca dve 'nye pañcāṅgule pṛthak ||
पदद्वयं चतुष्पर्व तथान्ये द्वे द्विपर्वणी । (२३६।१)
padadvayaṃ catuṣparva tathānye dve dviparvaṇī |
एवं परापरादेव्याः स्वतन्त्रो न्यास उच्यते ॥ (२३६।२)
evaṃ parāparādevyāḥ svatantro nyāsa ucyate ||
विद्याद्वयं शिष्यतनौ व्याप्तृत्वेनैव योजयेत् । (२३७।१)
vidyādvayaṃ śiṣyatanau vyāptṛtvenaiva yojayet |
इति दर्शयितुं नास्य पृथङ्न्यासं न्यरूपयत् ॥ (२३७।२)
iti darśayituṃ nāsya pṛthaṅnyāsaṃ nyarūpayat ||
एवं शोधकमन्त्रस्य न्यासे तद्रश्मियोगतः । (२३८।१)
evaṃ śodhakamantrasya nyāse tadraśmiyogataḥ |
शोध्यतत्त्वे समस्तानां योनीनां तुल्यकालतः । (२३९।१)
śodhyatattve samastānāṃ yonīnāṃ tulyakālataḥ |
देहैस्तावद्भिरस्याणोश्चित्रं भोक्तुरपि स्फुटम् । (२४०।१)
dehaistāvadbhirasyāṇościtraṃ bhokturapi sphuṭam |
मनोऽनुसन्धिर्नो विश्वसंयोगप्रविभागवत् ॥ (२४०।२)
mano'nusandhirno viśvasaṃyogapravibhāgavat ||
नियत्या मनसो देहमात्रे वृत्तिस्ततः परम् । (२४१।१)
niyatyā manaso dehamātre vṛttistataḥ param |
नानुसन्धा यतः सैकस्वान्तयुक्ताक्षकल्पिता ॥ (२४१।२)
nānusandhā yataḥ saikasvāntayuktākṣakalpitā ||
प्रदेशवृत्ति च ज्ञानमात्मनस्तत्र तत्र तत् । (२४२।१)
pradeśavṛtti ca jñānamātmanastatra tatra tat |
भोग्यज्ञानं नान्यदेहेष्वनुसन्धानमर्हति ॥ (२४२।२)
bhogyajñānaṃ nānyadeheṣvanusandhānamarhati ||
यदा तु मनसस्तस्य देहवृत्तेरपि ध्रुवम् । (२४३।१)
yadā tu manasastasya dehavṛtterapi dhruvam |
योगमन्त्रक्रियादेः स्याद्वैमल्यं तद्विदा तदा ॥ (२४३।२)
yogamantrakriyādeḥ syādvaimalyaṃ tadvidā tadā ||
तथा प्रत्ययदीक्षायां तत्तद्भुवनदर्शनम् ॥ (२४४।२)
tathā pratyayadīkṣāyāṃ tattadbhuvanadarśanam ||
जननादिवियुक्तां तु यदा दीक्षां चिकीर्षति । (२४५।१)
jananādiviyuktāṃ tu yadā dīkṣāṃ cikīrṣati |
तदास्मादुद्धरामीति युक्तमूहप्रकल्पनम् ॥ (२४५।२)
tadāsmāduddharāmīti yuktamūhaprakalpanam ||
यदा शोध्यं विना शोद्धृन्यासस्तत्रापि मन्त्रतः । (२४६।१)
yadā śodhyaṃ vinā śoddhṛnyāsastatrāpi mantrataḥ |
जननादिक्रमं कुर्यात्तत्त्वसंश्लेषवर्जितम् ॥ (२४६।२)
jananādikramaṃ kuryāttattvasaṃśleṣavarjitam ||
तच्छोद्धृसंपुटं नाम केवलं परिकल्पयेत् ॥ (२४७।२)
tacchoddhṛsaṃpuṭaṃ nāma kevalaṃ parikalpayet ||
द्रव्ययोगेन दीक्षायां तिलाज्याक्षततण्डुलम् । (२४८।१)
dravyayogena dīkṣāyāṃ tilājyākṣatataṇḍulam |
तत्तन्मन्त्रेण जुहुयाज्जन्मयोगवियोगयोः ॥ (२४८।२)
tattanmantreṇa juhuyājjanmayogaviyogayoḥ ||
यदा विज्ञानदीक्षां तु कुर्याच्छिष्यं तदा भृशम् । (२४९।१)
yadā vijñānadīkṣāṃ tu kuryācchiṣyaṃ tadā bhṛśam |
तन्मन्त्रसंजल्पबलात् पश्येद् आ चाविकल्पकात् ॥ (२४९।२)
tanmantrasaṃjalpabalāt paśyed ā cāvikalpakāt ||
विकल्पः किल संजल्पमयो यत्स विमर्शकः । (२५०।१)
vikalpaḥ kila saṃjalpamayo yatsa vimarśakaḥ |
मन्त्रात्मासौ विमर्शश्च शुद्धो ऽपाशवतात्मकः ॥ (२५०।२)
mantrātmāsau vimarśaśca śuddho 'pāśavatātmakaḥ ||
तद्योगाद्दैशिकस्यापि विकल्पः शिवतां व्रजेत् ॥ (२५१।२)
tadyogāddaiśikasyāpi vikalpaḥ śivatāṃ vrajet ||
श्रीसारशास्त्रे तदिदं परमेशेन भाषितम् । (२५२।१)
śrīsāraśāstre tadidaṃ parameśena bhāṣitam |
अर्थस्य प्रतिपत्तिर्या ग्राह्यग्राहकरूपिणी ॥ (२५२।२)
arthasya pratipattiryā grāhyagrāhakarūpiṇī ||
सा एव मन्त्रशक्तिस्तु वितता मन्त्रसन्ततौ । (२५३।१)
sā eva mantraśaktistu vitatā mantrasantatau |
परामर्शस्वभावेत्थं मन्त्रशक्तिरुदाहृता ॥ (२५३।२)
parāmarśasvabhāvetthaṃ mantraśaktirudāhṛtā ||
परामर्शो द्विधा शुद्धाशुद्धत्वान्मन्त्रभेदकः । (२५४।१)
parāmarśo dvidhā śuddhāśuddhatvānmantrabhedakaḥ |
उक्तं श्रीपौष्करे ऽन्ये च ब्रह्मविष्ण्वादयो ऽण्डगाः ॥ (२५४।२)
uktaṃ śrīpauṣkare 'nye ca brahmaviṣṇvādayo 'ṇḍagāḥ ||
प्राधानिकाः साञ्जनास्ते सात्त्वराजसतामसाः । (२५५।१)
prādhānikāḥ sāñjanāste sāttvarājasatāmasāḥ |
तैरशुद्धपरामर्शात् तन्मयीभावितो गुरुः ॥ (२५५।२)
tairaśuddhaparāmarśāt tanmayībhāvito guruḥ ||
वैष्णवादिः पशुः प्रोक्तो न योग्यः पतिशासने । (२५६।१)
vaiṣṇavādiḥ paśuḥ prokto na yogyaḥ patiśāsane |
ये मन्त्राः शुद्धमार्गस्थाः शिवभट्टारकादयः ॥ (२५६।२)
ye mantrāḥ śuddhamārgasthāḥ śivabhaṭṭārakādayaḥ ||
श्रीमन्मतङ्गादिदृशा तन्मयो हि गुरुः शिवः । (२५७।१)
śrīmanmataṅgādidṛśā tanmayo hi guruḥ śivaḥ |
ननु स्वतन्त्रसंजल्पयोगादस्तु विमर्शिता ॥ (२५७।२)
nanu svatantrasaṃjalpayogādastu vimarśitā ||
प्राक्कुतः स विमर्शाच्चेत्कुतः सो ऽपि निरूपणे । (२५८।१)
prākkutaḥ sa vimarśāccetkutaḥ so 'pi nirūpaṇe |
आद्यस्तथाविकल्पत्वप्रदः स्यादुपदेष्टृतः ॥ (२५८।२)
ādyastathāvikalpatvapradaḥ syādupadeṣṭṛtaḥ ||
यः संक्रान्तो ऽभिजल्पः स्यात्तस्याप्यन्योपदेष्टृतः । (२५९।१)
yaḥ saṃkrānto 'bhijalpaḥ syāttasyāpyanyopadeṣṭṛtaḥ |
पूर्वपूर्वक्रमादित्थं य एवादिगुरोः पुरा ॥ (२५९।२)
pūrvapūrvakramāditthaṃ ya evādiguroḥ purā ||
संजल्पो ह्यभिसंक्रान्तः सो ऽद्याप्यस्तीति गृह्यताम् । (२६०।१)
saṃjalpo hyabhisaṃkrāntaḥ so 'dyāpyastīti gṛhyatām |
यस्तथाविधसंजल्पबलात्को ऽपि स्वतन्त्रकः ॥ (२६०।२)
yastathāvidhasaṃjalpabalātko 'pi svatantrakaḥ ||
विमर्शः कल्प्यते सो ऽपि तदात्मैव सुनिश्चितः । (२६१।१)
vimarśaḥ kalpyate so 'pi tadātmaiva suniścitaḥ |
घटकुम्भ इतीत्थं वा यदि भेदो निरूप्यते ॥ (२६१।२)
ghaṭakumbha itītthaṃ vā yadi bhedo nirūpyate ||
सो ऽप्यन्यकल्पनादायी ह्यनादृत्यः प्रयत्नतः । (२६२।१)
so 'pyanyakalpanādāyī hyanādṛtyaḥ prayatnataḥ |
पणायते करोतीति विकल्पस्योचितौ स्फुटम् ॥ (२६२।२)
paṇāyate karotīti vikalpasyocitau sphuṭam ||
करपाण्यभिजल्पौ तौ संकीर्येतां कथं किल । (२६३।१)
karapāṇyabhijalpau tau saṃkīryetāṃ kathaṃ kila |
शब्दाच्छब्दान्तरे तेन व्युत्पत्तिर्व्यवधानतः ॥ (२६३।२)
śabdācchabdāntare tena vyutpattirvyavadhānataḥ ||
व्यवहारात्तु सा साक्षाच्चित्रोपाख्याविमर्शिनी । (२६४।१)
vyavahārāttu sā sākṣāccitropākhyāvimarśinī |
तद्विमर्शोदयः प्राच्यस्वविमर्शमयः स्फुरेत् ॥ (२६४।२)
tadvimarśodayaḥ prācyasvavimarśamayaḥ sphuret ||
तेन तन्मन्त्रशब्दार्थविशेषोत्थं विकल्पनम् ॥ (२६५।२)
tena tanmantraśabdārthaviśeṣotthaṃ vikalpanam ||
शब्दान्तरोत्थाद्भेदेन पश्यता मन्त्र आदृतः । (२६६।१)
śabdāntarotthādbhedena paśyatā mantra ādṛtaḥ |
यच्चापि बीजपिण्डादेरुक्तं प्राग्बोधरूपकम् ॥ (२६६।२)
yaccāpi bījapiṇḍāderuktaṃ prāgbodharūpakam ||
तत्तस्यैव कुतो ऽन्यस्य तत्कस्मादन्यकल्पना । (२६७।१)
tattasyaiva kuto 'nyasya tatkasmādanyakalpanā |
एतदर्थं गुरोर्यत्नाल्लक्षणे तत्र तत्र तत् ॥ (२६७।२)
etadarthaṃ guroryatnāllakṣaṇe tatra tatra tat ||
लक्षणं कथितं ह्येष मन्त्रतन्त्रविशारदः । (२६८।१)
lakṣaṇaṃ kathitaṃ hyeṣa mantratantraviśāradaḥ |
तेन मन्त्रार्थसंबोधे मन्त्रवार्तिकमादरात् ॥ (२६८।२)
tena mantrārthasaṃbodhe mantravārtikamādarāt ||
मन्त्रार्थविदभावे तु सर्वथा मन्त्रतन्मयम् ॥ (२६९।२)
mantrārthavidabhāve tu sarvathā mantratanmayam ||
गुरुं कुर्यात् तदभ्यासात्तत्संकल्पमयो ह्यसौ । (२७०।१)
guruṃ kuryāt tadabhyāsāttatsaṃkalpamayo hyasau |
तत्समानाभिसंजल्पो यदा मन्त्रार्थभावनात् ॥ (२७०।२)
tatsamānābhisaṃjalpo yadā mantrārthabhāvanāt ||
गुरोर्भवेत्तदा सर्वसाम्ये को भेद उच्यताम् । (२७१।१)
gurorbhavettadā sarvasāmye ko bheda ucyatām |
अंशेनाप्यथ वैषम्ये न ततो ऽर्थक्रिया हि सा ॥ (२७१।२)
aṃśenāpyatha vaiṣamye na tato 'rthakriyā hi sā ||
संजल्पान्तरतो ऽप्यर्थक्रियां तामेव पश्यति ॥ (२७२।२)
saṃjalpāntarato 'pyarthakriyāṃ tāmeva paśyati ||
स यद्वक्ति तदेव स्यान्मन्त्रो भोगापवर्गदः ॥ (२७३।२)
sa yadvakti tadeva syānmantro bhogāpavargadaḥ ||
नैषो ऽभिनवगुप्तस्य पक्षो मन्त्रार्पितात्मनः । (२७४।१)
naiṣo 'bhinavaguptasya pakṣo mantrārpitātmanaḥ |
यो ऽर्थक्रियामाह भिन्नां कीटयोरपि तादृशोः ॥ (२७४।२)
yo 'rthakriyāmāha bhinnāṃ kīṭayorapi tādṛśoḥ ||
मन्त्रार्पितमनाः किंचिद्वदन्यत्तु विषं हरेत् । (२७५।१)
mantrārpitamanāḥ kiṃcidvadanyattu viṣaṃ haret |
तन्मन्त्र एव शब्दः स परं तत्र घटादिवत् ॥ (२७५।२)
tanmantra eva śabdaḥ sa paraṃ tatra ghaṭādivat ||
तत्संस्कृतो ऽप्यन्यदेष कुर्वन्स्वात्मनि तृप्यति ॥ (२७६।२)
tatsaṃskṛto 'pyanyadeṣa kurvansvātmani tṛpyati ||
तथा तन्मन्त्रसंजल्पभावितो ऽन्यदपि ब्रुवन् । (२७७।१)
tathā tanmantrasaṃjalpabhāvito 'nyadapi bruvan |
अनिच्छुरपि तद्रूपस्तथा कार्यकरो ध्रुवम् ॥ (२७७।२)
anicchurapi tadrūpastathā kāryakaro dhruvam ||
विकल्पयन्नप्येकार्थं यतो ऽन्यदपि पश्यति । (२७८।१)
vikalpayannapyekārthaṃ yato 'nyadapi paśyati |
विषापहारिमन्त्रादीत्युक्तं श्रीपूर्वशासने ॥ (२७८।२)
viṣāpahārimantrādītyuktaṃ śrīpūrvaśāsane ||
यदि वा विषनाशे ऽपि हेतुभेदाद्विचित्रता । (२७९।१)
yadi vā viṣanāśe 'pi hetubhedādvicitratā |
धात्वाप्यायादिकानन्तकार्यभेदाद्भविष्यति ॥ (२७९।२)
dhātvāpyāyādikānantakāryabhedādbhaviṣyati ||
भाव्यवस्तुस्फुटीभावः संजल्पह्रासयोगतः ॥ (२८०।२)
bhāvyavastusphuṭībhāvaḥ saṃjalpahrāsayogataḥ ||
वस्त्वेव भावयत्येष न संजल्पमिमं पुनः । (२८१।१)
vastveva bhāvayatyeṣa na saṃjalpamimaṃ punaḥ |
गृह्णाति भासनोपायं भाते तत्र तु तेन किम् ॥ (२८१।२)
gṛhṇāti bhāsanopāyaṃ bhāte tatra tu tena kim ||
एवं संजल्पनिर्ह्रासे सुपरिस्फुटतात्मकम् । (२८२।१)
evaṃ saṃjalpanirhrāse suparisphuṭatātmakam |
अकृत्त्रिमविमर्शात्म स्फुरेद्वस्त्वविकल्पकम् ॥ (२८२।२)
akṛttrimavimarśātma sphuredvastvavikalpakam ||
निर्विकल्पा च सा संविद्यद्यथा पश्यति स्फुटम् । (२८३।१)
nirvikalpā ca sā saṃvidyadyathā paśyati sphuṭam |
तत्तथैव तथात्मत्वाद्वस्तुनो ऽपि बहिःस्थितेः ॥ (२८३।२)
tattathaiva tathātmatvādvastuno 'pi bahiḥsthiteḥ ||
मोक्षे ऽभ्युपायः संजल्पो बन्धमोक्षौ ततः किल ॥ (२८४।२)
mokṣe 'bhyupāyaḥ saṃjalpo bandhamokṣau tataḥ kila ||
विकल्पे ऽपि गुरोः सम्यगभिन्नशिवताजुषः । (२८५।१)
vikalpe 'pi guroḥ samyagabhinnaśivatājuṣaḥ |
तद्विमर्शस्वभावा हि सा वाच्या मन्त्रदेवता । (२८६।१)
tadvimarśasvabhāvā hi sā vācyā mantradevatā |
महासंवित्समासन्नेत्युक्तं श्रीगमशासने ॥ (२८६।२)
mahāsaṃvitsamāsannetyuktaṃ śrīgamaśāsane ||
निकटस्था यथा राज्ञामन्येषां साधयन्त्यलम् । (२८७।१)
nikaṭasthā yathā rājñāmanyeṣāṃ sādhayantyalam |
सिद्धिं राजोपगां शीघ्रमेवं मन्त्रादयः पराम् ॥ (२८७।२)
siddhiṃ rājopagāṃ śīghramevaṃ mantrādayaḥ parām ||
उक्ताभिप्रायगर्भं तदुक्तं श्रीमालिनीमते । (२८८।१)
uktābhiprāyagarbhaṃ taduktaṃ śrīmālinīmate |
मन्त्राणां लक्षणं कस्मादित्युक्ते मुनिभिः किल ॥ (२८८।२)
mantrāṇāṃ lakṣaṇaṃ kasmādityukte munibhiḥ kila ||
योगमेकत्वमिच्छन्ति वस्तुनो ऽन्येन वस्तुना । (२८९।१)
yogamekatvamicchanti vastuno 'nyena vastunā |
तद्वस्तु ज्ञेयमित्युक्तं हेयत्वादिप्रसिद्धये ॥ (२८९।२)
tadvastu jñeyamityuktaṃ heyatvādiprasiddhaye ||
तत्प्रसिद्ध्यै शिवेनोक्तं ज्ञानं यदुपवर्णितम् । (२९०।१)
tatprasiddhyai śivenoktaṃ jñānaṃ yadupavarṇitam |
सबीजयोगसंसिद्ध्यै मन्त्रलक्षणमप्यलम् ॥ (२९०।२)
sabījayogasaṃsiddhyai mantralakṣaṇamapyalam ||
न चाधिकारिता दीक्षां विना योगे ऽस्ति शाङ्करे । (२९१।१)
na cādhikāritā dīkṣāṃ vinā yoge 'sti śāṅkare |
क्रियाज्ञानविभेदेन सा च द्वेधा निगद्यते ॥ (२९१।२)
kriyājñānavibhedena sā ca dvedhā nigadyate ||
द्विविधा सा प्रकर्तव्या तेन चैतदुदाहृतम् । (२९२।१)
dvividhā sā prakartavyā tena caitadudāhṛtam |
अपि मन्त्राधिकारित्वं मुक्तिश्च शिवदीक्षया । (२९३।१)
api mantrādhikāritvaṃ muktiśca śivadīkṣayā |
अनेनैतदपि प्रोक्तं योगी तत्त्वैक्यसिद्धये ॥ (२९३।२)
anenaitadapi proktaṃ yogī tattvaikyasiddhaye ||
मन्त्रमेवाश्रयेन्मूलं निर्विकल्पान्तमादृतः । (२९४।१)
mantramevāśrayenmūlaṃ nirvikalpāntamādṛtaḥ |
मन्त्राभ्यासेन भोगं वा मोक्षं वापि प्रसाधयन् ॥ (२९४।२)
mantrābhyāsena bhogaṃ vā mokṣaṃ vāpi prasādhayan ||
तत्राधिकारितालब्ध्यै दीक्षां गृह्णीत दैशिकात् । (२९५।१)
tatrādhikāritālabdhyai dīkṣāṃ gṛhṇīta daiśikāt |
तेन मन्त्रज्ञानयोगबलाद्यद्यत्प्रसाधयेत् ॥ (२९५।२)
tena mantrajñānayogabalādyadyatprasādhayet ||
तत्स्यादस्यान्यतत्त्वे ऽपि युक्तस्य गुरुणा शिशोः । (२९६।१)
tatsyādasyānyatattve 'pi yuktasya guruṇā śiśoḥ |
दीक्षा ह्यस्योपयुज्येत संस्क्रियायां स संस्कृतः ॥ (२९६।२)
dīkṣā hyasyopayujyeta saṃskriyāyāṃ sa saṃskṛtaḥ ||
स्वबलेनैव भोगं वा मोक्षं वा लभते बुधः । (२९७।१)
svabalenaiva bhogaṃ vā mokṣaṃ vā labhate budhaḥ |
तेन विज्ञानयोगादिबली प्राक् समयी भवन् ॥ (२९७।२)
tena vijñānayogādibalī prāk samayī bhavan ||
पुत्रको वा न तावान्स्यादपितु स्वबलोचितः । (२९८।१)
putrako vā na tāvānsyādapitu svabalocitaḥ |
यस्तु विज्ञानयोगादिवन्ध्यः सो ऽन्धो यथा पथि ॥ (२९८।२)
yastu vijñānayogādivandhyaḥ so 'ndho yathā pathi ||
दैशिकायत्त एव स्याद्भोगे मुक्तौ च सर्वथा । (२९९।१)
daiśikāyatta eva syādbhoge muktau ca sarvathā |
दीक्षा च केवला ज्ञानं विनापि निजमान्तरम् ॥ (२९९।२)
dīkṣā ca kevalā jñānaṃ vināpi nijamāntaram ||
मोचिकैवेति कथितं युक्त्या चागमतः पुरा । (३००।१)
mocikaiveti kathitaṃ yuktyā cāgamataḥ purā |
यस्तु दीक्षाकृतामेवापेक्ष्य योजनिकां शिशुः ॥ (३००।२)
yastu dīkṣākṛtāmevāpekṣya yojanikāṃ śiśuḥ ||
स्फुटीभूत्यै तदुचितं ज्ञानं योगमथाश्रितः । (३०१।१)
sphuṭībhūtyai taducitaṃ jñānaṃ yogamathāśritaḥ |
सो ऽपि यत्रैव युक्तः स्यात्तन्मयत्वं प्रपद्यते ॥ (३०१।२)
so 'pi yatraiva yuktaḥ syāttanmayatvaṃ prapadyate ||
गुरुदीक्षामन्त्रशास्त्राधीनसर्वस्थितिस् ततः । (३०२।१)
gurudīkṣāmantraśāstrādhīnasarvasthitis tataḥ |
दुष्टानामेव सर्वेषां भूतभव्यभविष्यताम् ॥ (३०२।२)
duṣṭānāmeva sarveṣāṃ bhūtabhavyabhaviṣyatām ||
कर्मणां शोधनं कार्यं बुभुक्षोर्न शुभात्मनाम् । (३०३।१)
karmaṇāṃ śodhanaṃ kāryaṃ bubhukṣorna śubhātmanām |
यः पुनर्लौकिकं भोगं राज्यस्वर्गादिकं शिशुः ॥ (३०३।२)
yaḥ punarlaukikaṃ bhogaṃ rājyasvargādikaṃ śiśuḥ ||
त्यक्त्वा लोकोत्तरं भोगमीप्सुस्तस्य शुभेष्वपि । (३०४।१)
tyaktvā lokottaraṃ bhogamīpsustasya śubheṣvapi |
तत्र द्रव्यमयीं दीक्षां कुर्वन्नाज्यतिलादिकैः ॥ (३०४।२)
tatra dravyamayīṃ dīkṣāṃ kurvannājyatilādikaiḥ ||
कर्मास्य शोधयामीति जुहुयाद्दैशिकोत्तमः । (३०५।१)
karmāsya śodhayāmīti juhuyāddaiśikottamaḥ |
ज्ञानमय्यां तु दीक्षायां तद् विशुध्यति संधितः ॥ (३०५।२)
jñānamayyāṃ tu dīkṣāyāṃ tad viśudhyati saṃdhitaḥ ||
गुरोः स्वसंविद्रूढस्य बलात्तत्प्रक्षयो भवेत् । (३०६।१)
guroḥ svasaṃvidrūḍhasya balāttatprakṣayo bhavet |
यदास्याशुभकर्माणि शुद्धानि स्युस्तदा शुभम् ॥ (३०६।२)
yadāsyāśubhakarmāṇi śuddhāni syustadā śubham ||
स्वतारतम्याश्रयणादध्वमध्ये प्रसूतिदम् । (३०७।१)
svatāratamyāśrayaṇādadhvamadhye prasūtidam |
यत्रैष योजितस्तत्स्थो भाविकर्मक्षये कृते । (३०८।१)
yatraiṣa yojitastatstho bhāvikarmakṣaye kṛte |
भाविनां चाद्यदेहस्थदेहान्तरविभेदिनाम् ॥ (३०८।२)
bhāvināṃ cādyadehasthadehāntaravibhedinām ||
अशुभांशविशुद्धौ स्याद् भोगस्यैवानुपक्षयः । (३०९।१)
aśubhāṃśaviśuddhau syād bhogasyaivānupakṣayaḥ |
भुञ्जानस्यास्य सततं भोगान्मायालयान्ततः ॥ (३०९।२)
bhuñjānasyāsya satataṃ bhogānmāyālayāntataḥ ||
न दुःखफलदं देहाद्यध्वमध्ये ऽपि किंचन । (३१०।१)
na duḥkhaphaladaṃ dehādyadhvamadhye 'pi kiṃcana |
इति प्रमेयं कथितं दीक्षा काले गुरोर्यथा ॥ (३११।२)
iti prameyaṃ kathitaṃ dīkṣā kāle guroryathā ||
Data courtesy of The Digital Corpus of Sanskrit.