तन्त्रालोकTantrāloka

TĀ, 17

13 of 19 · 243 verses

Select a line for its word-by-word analysis.

1.1१.१

अथ भैरवतादात्म्यदायिनीं प्रक्रियां ब्रुवे । (१।१)

atha bhairavatādātmyadāyinīṃ prakriyāṃ bruve |

1.2१.२

एवं मण्डलकुम्भाग्निशिष्यस्वात्मसु पञ्चसु ॥ (१।२)

evaṃ maṇḍalakumbhāgniśiṣyasvātmasu pañcasu ||

2.1२.१

गृहीत्वा व्याप्तिमैक्येन न्यस्याध्वानं च शिष्यगम् । (२।१)

gṛhītvā vyāptimaikyena nyasyādhvānaṃ ca śiṣyagam |

2.2२.२

कर्ममायाणुमलिनत्रयं बाहौ गले तथा ॥ (२।२)

karmamāyāṇumalinatrayaṃ bāhau gale tathā ||

3.1३.१

शिखायां च क्षिपेत्सूत्रग्रन्थियोगेन दैशिकः । (३।१)

śikhāyāṃ ca kṣipetsūtragranthiyogena daiśikaḥ |

3.2३.२

तस्यातद्रूपताभानं मलो ग्रन्थिः स कीर्त्यते ॥ (३।२)

tasyātadrūpatābhānaṃ malo granthiḥ sa kīrtyate ||

4.1४.१

इतिप्रतीतिदार्ढ्यार्थं बहिर्ग्रन्थ्युपकल्पनम् । (४।१)

itipratītidārḍhyārthaṃ bahirgranthyupakalpanam |

4.2४.२

बाहू कर्मास्पदं विष्णुर्मायात्मा गलसंश्रितः ॥ (४।२)

bāhū karmāspadaṃ viṣṇurmāyātmā galasaṃśritaḥ ||

5.1५.१

अधोवहा शिखाणुत्वं तेनेत्थं कल्पना कृता । (५।१)

adhovahā śikhāṇutvaṃ tenetthaṃ kalpanā kṛtā |

5.2५.२

नरशक्तिशिवाख्यस्य त्रयस्य बहुभेदताम् ॥ (५।२)

naraśaktiśivākhyasya trayasya bahubhedatām ||

6.1६.१

वक्तुं त्रिस्त्रिगुणं सूत्रं ग्रन्थये परिकल्पयेत् । (६।१)

vaktuṃ tristriguṇaṃ sūtraṃ granthaye parikalpayet |

6.2६.२

तेजोजलान्नत्रितयं त्रेधा प्रत्येकमप्यदः ॥ (६।२)

tejojalānnatritayaṃ tredhā pratyekamapyadaḥ ||

7.1७.१

श्रुत्यन्ते के ऽप्यतः शुक्लकृष्णरक्तं प्रपेदिरे । (७।१)

śrutyante ke 'pyataḥ śuklakṛṣṇaraktaṃ prapedire |

7.2७.२

ततो ऽग्नौ तर्पिताशेषमन्त्रे चिद्व्योममात्रके ॥ (७।२)

tato 'gnau tarpitāśeṣamantre cidvyomamātrake ||

8.1८.१

सामान्यरूपे तत्त्वानां क्रमाच्छुद्धिं समाचरेत् । (८।१)

sāmānyarūpe tattvānāṃ kramācchuddhiṃ samācaret |

8.2८.२

तत्र स्वमन्त्रयोगेन धरामावाहयेत्पुरा ॥ (८।२)

tatra svamantrayogena dharāmāvāhayetpurā ||

9.1९.१

इष्ट्वा पुष्पादिभिः सर्पिस्तिलाद्यैरथ तर्पयेत् । (९।१)

iṣṭvā puṣpādibhiḥ sarpistilādyairatha tarpayet |

9.2९.२

तत्तत्त्वव्यापिकां पश्चान्मायातत्त्वाधिदेवताम् ॥ (९।२)

tattattvavyāpikāṃ paścānmāyātattvādhidevatām ||

10.1१०.१

मायाशक्तिं स्वमन्त्रेणावाह्याभ्यर्च्य प्रतर्पयेत् । (१०।१)

māyāśaktiṃ svamantreṇāvāhyābhyarcya pratarpayet |

10.2१०.२

आवाहने मातृकार्णं मालिन्यर्णं च पूजने ॥ (१०।२)

āvāhane mātṛkārṇaṃ mālinyarṇaṃ ca pūjane ||

11.1११.१

कुर्यादिति गुरुः प्राह स्वरूपाप्यायनद्वयात् । (११।१)

kuryāditi guruḥ prāha svarūpāpyāyanadvayāt |

11.2११.२

तारो वर्णो ऽथ संबुद्धिपदं त्वामित्यतः परम् ॥ (११।२)

tāro varṇo 'tha saṃbuddhipadaṃ tvāmityataḥ param ||

12.1१२.१

उत्तमैकयुतं कर्मपदं दीपकमप्यतः । (१२।१)

uttamaikayutaṃ karmapadaṃ dīpakamapyataḥ |

12.2१२.२

तुभ्यं नाम चतुर्थ्यन्तं ततो ऽप्युचितदीपकम् ॥ (१२।२)

tubhyaṃ nāma caturthyantaṃ tato 'pyucitadīpakam ||

13.1१३.१

इत्यूहमन्त्रयोगेन तत्तत्कर्म प्रवर्तयेत् । (१३।१)

ityūhamantrayogena tattatkarma pravartayet |

13.2१३.२

आवाहनानन्तरं हि कर्म सर्वं निगद्यते ॥ (१३।२)

āvāhanānantaraṃ hi karma sarvaṃ nigadyate ||

14.1१४.१

आवाहनं च संबोधः स्वस्वभावव्यवस्थितेः । (१४।१)

āvāhanaṃ ca saṃbodhaḥ svasvabhāvavyavasthiteḥ |

14.2१४.२

भावस्याहंमयस्वात्मतादात्म्यावेश्यमानता ॥ (१४।२)

bhāvasyāhaṃmayasvātmatādātmyāveśyamānatā ||

15.1१५.१

शाक्ती भूमिश्च सैवोक्ता यस्यां मुख्यास्ति पूज्यता । (१५।१)

śāktī bhūmiśca saivoktā yasyāṃ mukhyāsti pūjyatā |

15.2१५.२

अभातत्वाद् अभेदाच्च नह्यसौ नृशिवात्मनोः ॥ (१५।२)

abhātatvād abhedācca nahyasau nṛśivātmanoḥ ||

16.1१६.१

जडाभासेषु तत्त्वेषु संवित्स्थित्यै ततो गुरुः । (१६।१)

jaḍābhāseṣu tattveṣu saṃvitsthityai tato guruḥ |

16.2१६.२

आवाहनविभक्तिं प्राक् कृत्वा तुर्यविभक्तितः ॥ (१६।२)

āvāhanavibhaktiṃ prāk kṛtvā turyavibhaktitaḥ ||

17.1१७.१

नमस्कारान्ततायोगात्पूर्णां सत्तां प्रकल्पयेत् । (१७।१)

namaskārāntatāyogātpūrṇāṃ sattāṃ prakalpayet |

17.2१७.२

ततः पूर्णस्वभावत्वं तद्रूपोद्रेकयोगतः ॥ (१७।२)

tataḥ pūrṇasvabhāvatvaṃ tadrūpodrekayogataḥ ||

18.1१८.१

ध्येयोद्रेको भवेद् ध्यातृप्रह्वीभाववशाद् यतः । (१८।१)

dhyeyodreko bhaved dhyātṛprahvībhāvavaśād yataḥ |

18.2१८.२

आवाह्येष्ट्वा प्रतर्प्येति श्रीस्वच्छन्दे निरूपितम् ॥ (१८।२)

āvāhyeṣṭvā pratarpyeti śrīsvacchande nirūpitam ||

19.1१९.१

अनेनैव पथानेयमित्यस्मद्गुरवो जगुः । (१९।१)

anenaiva pathāneyamityasmadguravo jaguḥ |

19.2१९.२

परत्वेन तु यत्पूज्यं तत्स्वतन्त्रचिदात्मकम् ॥ (१९।२)

paratvena tu yatpūjyaṃ tatsvatantracidātmakam ||

20.1२०.१

अनवच्छित्प्रकाशत्वान्न प्रकाश्यं तु कुत्रचित् । (२०।१)

anavacchitprakāśatvānna prakāśyaṃ tu kutracit |

20.2२०.२

तस्य ह्येतत् प्रपूज्यत्वध्येयत्वादि यदुल्लसेत् ॥ (२०।२)

tasya hyetat prapūjyatvadhyeyatvādi yadullaset ||

21.1२१.१

तस्यैव तत्स्वतन्त्रत्वं यातिदुर्घटकारिता । (२१।१)

tasyaiva tatsvatantratvaṃ yātidurghaṭakāritā |

21.2२१.२

संबोधरूपे तत्तस्मिन् कथं संबोधना भवेत् ॥ (२१।२)

saṃbodharūpe tattasmin kathaṃ saṃbodhanā bhavet ||

22.1२२.१

प्रकाशनायां न स्यात्प्रकाशस्य प्रकाशता । (२२।१)

prakāśanāyāṃ na syātprakāśasya prakāśatā |

22.2२२.२

संबोधनविभक्त्यैव विना कर्मादिशक्तिताम् ॥ (२२।२)

saṃbodhanavibhaktyaiva vinā karmādiśaktitām ||

23.1२३.१

स्वातन्त्र्यात्तं दर्शयितुं तत्रोहमिममाचरेत् । (२३।१)

svātantryāttaṃ darśayituṃ tatrohamimamācaret |

23.2२३.२

देवमावाहयामीति ततो देवाय दीपकम् ॥ (२३।२)

devamāvāhayāmīti tato devāya dīpakam ||

24.1२४.१

प्राग्युक्त्या पूर्णतादायि नमःस्वाहादिकं भवेत् । (२४।१)

prāgyuktyā pūrṇatādāyi namaḥsvāhādikaṃ bhavet |

24.2२४.२

नुतिः पूर्णत्वम् अग्नीन्दुसंघट्टाप्यायता परम् ॥ (२४।२)

nutiḥ pūrṇatvam agnīndusaṃghaṭṭāpyāyatā param ||

25.1२५.१

आप्यायकं च प्रोच्छालं वौषडादि प्रदीपयेत् । (२५।१)

āpyāyakaṃ ca procchālaṃ vauṣaḍādi pradīpayet |

25.2२५.२

तत्र बाह्ये ऽपि तादात्म्यप्रसिद्धं कर्म चोद्यते ॥ (२५।२)

tatra bāhye 'pi tādātmyaprasiddhaṃ karma codyate ||

26.1२६.१

यदि कर्मपदं तन्नो गुरुर् अभ्यूहयेत् क्वचित् । (२६।१)

yadi karmapadaṃ tanno gurur abhyūhayet kvacit |

26.2२६.२

अनाभासिततद्वस्तुभासनाय नियुज्यते ॥ (२६।२)

anābhāsitatadvastubhāsanāya niyujyate ||

27.1२७.१

मन्त्रः किं तेन तत्र स्यात्स्फुटं यत्रावभासि तत् । (२७।१)

mantraḥ kiṃ tena tatra syātsphuṭaṃ yatrāvabhāsi tat |

27.2२७.२

तेन प्रोक्षणसंसेकजपादिविधिषु ध्रुवम् ॥ (२७।२)

tena prokṣaṇasaṃsekajapādividhiṣu dhruvam ||

28.1२८.१

तत्कर्माभ्यूहनं कुर्यात्प्रत्युत व्यवधातृताम् । (२८।१)

tatkarmābhyūhanaṃ kuryātpratyuta vyavadhātṛtām |

28.2२८.२

बहिस्तथात्मताभावे कार्यं कर्मपदोहनम् ॥ (२८।२)

bahistathātmatābhāve kāryaṃ karmapadohanam ||

29.1२९.१

तृप्तावाहुतिहुतभुक्पाशप्लोषच्छिदादिषु । (२९।१)

tṛptāvāhutihutabhukpāśaploṣacchidādiṣu |

29.2२९.२

यत्रोद्दिष्टे विधौ पश्चात्तदनन्तैः क्रियात्मकैः ॥ (२९।२)

yatroddiṣṭe vidhau paścāttadanantaiḥ kriyātmakaiḥ ||

30.1३०.१

अंशैः साध्यं न तत्रोहो दीक्षणादिविधिष्विव । (३०।१)

aṃśaiḥ sādhyaṃ na tatroho dīkṣaṇādividhiṣviva |

30.2३०.२

ततः शिष्यस्य तत्तत्त्वस्थाने ऽस्त्रेण प्रताडनम् ॥ (३०।२)

tataḥ śiṣyasya tattattvasthāne 'streṇa pratāḍanam ||

31.1३१.१

कृत्वाथ शिवहस्तेन हृदयं परिमर्शयेत् । (३१।१)

kṛtvātha śivahastena hṛdayaṃ parimarśayet |

31.2३१.२

ततः स्वनाडीमार्गेण हृदयं प्राप्य वै शिशोः ॥ (३१।२)

tataḥ svanāḍīmārgeṇa hṛdayaṃ prāpya vai śiśoḥ ||

32.1३२.१

शिष्यात्मना सहैकत्वं गत्वादाय च तं हृदा । (३२।१)

śiṣyātmanā sahaikatvaṃ gatvādāya ca taṃ hṛdā |

32.2३२.२

पुटितं हंसरूपाख्यं तत्र संहारमुद्रया ॥ (३२।२)

puṭitaṃ haṃsarūpākhyaṃ tatra saṃhāramudrayā ||

33.1३३.१

कुर्यादात्मीयहृदयस्थितमप्यवभासकम् । (३३।१)

kuryādātmīyahṛdayasthitamapyavabhāsakam |

33.2३३.२

शिष्यदेहस्य तेजोभी रश्मिमात्रावियोगतः ॥ (३३।२)

śiṣyadehasya tejobhī raśmimātrāviyogataḥ ||

34.1३४.१

स्वबन्धस्थानचलनात् स्वतन्त्रस्थानलाभतः । (३४।१)

svabandhasthānacalanāt svatantrasthānalābhataḥ |

34.2३४.२

स्वकर्मापरतन्त्रत्वात् सर्वत्रोत्पत्तिमर्हति ॥ (३४।२)

svakarmāparatantratvāt sarvatrotpattimarhati ||

35.1३५.१

तेनात्महृदयानीतं प्राक्कृत्वा पुद्गलं ततः । (३५।१)

tenātmahṛdayānītaṃ prākkṛtvā pudgalaṃ tataḥ |

35.2३५.२

मायायां तद्धरातत्त्वशरीराण्यस्य संसृजेत् ॥ (३५।२)

māyāyāṃ taddharātattvaśarīrāṇyasya saṃsṛjet ||

36.1३६.१

तत्रास्य गर्भाधानं च युक्तं पुंसवनादिभिः । (३६।१)

tatrāsya garbhādhānaṃ ca yuktaṃ puṃsavanādibhiḥ |

36.2३६.२

गर्भनिष्क्रामपर्यन्तैरेकां कुर्वीत संस्क्रियाम् ॥ (३६।२)

garbhaniṣkrāmaparyantairekāṃ kurvīta saṃskriyām ||

37.1३७.१

जननं भोगभोक्तृत्वं मिलित्वैकाथ संस्क्रिया । (३७।१)

jananaṃ bhogabhoktṛtvaṃ militvaikātha saṃskriyā |

37.2३७.२

ततो ऽस्य तेषु भोगेषु कुर्यात्तन्मयतां लयम् ॥ (३७।२)

tato 'sya teṣu bhogeṣu kuryāttanmayatāṃ layam ||

38.1३८.१

ततस्तत्तत्त्वपाशानां विच्छेदं समुपाचरेत् । (३८।१)

tatastattattvapāśānāṃ vicchedaṃ samupācaret |

38.2३८.२

संस्काराणां चतुष्के ऽस्मिन् अपरां च परापराम् ॥ (३८।२)

saṃskārāṇāṃ catuṣke 'smin aparāṃ ca parāparām ||

39.1३९.१

मन्त्राणां पञ्चदशकं परां वा योजयेत्क्रमात् । (३९।१)

mantrāṇāṃ pañcadaśakaṃ parāṃ vā yojayetkramāt |

39.2३९.२

पिवन्याद्यष्टकं शस्त्रादिकं षट्कं परा तथा ॥ (३९।२)

pivanyādyaṣṭakaṃ śastrādikaṃ ṣaṭkaṃ parā tathā ||

40.1४०.१

इति पञ्चदशैते स्युः क्रमाल्लीनत्वसंस्कृतौ । (४०।१)

iti pañcadaśaite syuḥ kramāllīnatvasaṃskṛtau |

40.2४०.२

अपरामन्त्रमुक्त्वा प्रागमुकात्मन इत्यथ ॥ (४०।२)

aparāmantramuktvā prāgamukātmana ityatha ||

41.1४१.१

गर्भाधानं करोमीति पुनर्मन्त्रं तमेव च । (४१।१)

garbhādhānaṃ karomīti punarmantraṃ tameva ca |

41.2४१.२

स्वाहान्तमुच्चरन्दद्यादाहुतित्रितयं गुरुः ॥ (४१।२)

svāhāntamuccarandadyādāhutitritayaṃ guruḥ ||

42.1४२.१

परं परापरामन्त्रममुकात्मन इत्यथ । (४२।१)

paraṃ parāparāmantramamukātmana ityatha |

42.2४२.२

जातस्य भोगभोक्तृत्वं करोम्यथ परापराम् ॥ (४२।२)

jātasya bhogabhoktṛtvaṃ karomyatha parāparām ||

43.1४३.१

अन्ते स्वाहेति प्रोच्चार्य वितरेत्तिस्र आहुतीः । (४३।१)

ante svāheti proccārya vitarettisra āhutīḥ |

43.2४३.२

उच्चार्य पिवनीमन्त्रममुकात्मन इत्यथ ॥ (४३।२)

uccārya pivanīmantramamukātmana ityatha ||

44.1४४.१

भोगे लयं करोमीति पुनर्मन्त्रं तमेव च । (४४।१)

bhoge layaṃ karomīti punarmantraṃ tameva ca |

44.2४४.२

स्वाहान्तमाहुतीस्तिस्रो दद्यादाज्यतिलादिभिः ॥ (४४।२)

svāhāntamāhutīstisro dadyādājyatilādibhiḥ ||

45.1४५.१

एष एव वमन्यादौ विधिः पञ्चदशान्तके । (४५।१)

eṣa eva vamanyādau vidhiḥ pañcadaśāntake |

45.2४५.२

पूर्वं परात्मकं मन्त्रममुकात्मन इत्यथ ॥ (४५।२)

pūrvaṃ parātmakaṃ mantramamukātmana ityatha ||

46.1४६.१

पाशाच्छेदं करोमीति परामन्त्रः पुनस्ततः । (४६।१)

pāśācchedaṃ karomīti parāmantraḥ punastataḥ |

46.2४६.२

हुं स्वाहा फट् समुच्चार्य दद्यात्तिस्रो ऽप्यथाहुतीः ॥ (४६।२)

huṃ svāhā phaṭ samuccārya dadyāttisro 'pyathāhutīḥ ||

47.1४७.१

संस्काराणां चतुष्के ऽस्मिन्ये मन्त्राः कथिता मया । (४७।१)

saṃskārāṇāṃ catuṣke 'sminye mantrāḥ kathitā mayā |

47.2४७.२

तेषु कर्मपदात्पूर्वं धरातत्त्वपदं वदेत् ॥ (४७।२)

teṣu karmapadātpūrvaṃ dharātattvapadaṃ vadet ||

48.1४८.१

ततो धरातत्त्वपतिमामन्त्र्येष्ट्वा प्रतर्प्य च । (४८।१)

tato dharātattvapatimāmantryeṣṭvā pratarpya ca |

48.2४८.२

शिवाभिमानसंरब्धो गुरुरेवं समादिशेत् ॥ (४८।२)

śivābhimānasaṃrabdho gururevaṃ samādiśet ||

49.1४९.१

तत्त्वेश्वर त्वया नास्य पुत्रकस्य शिवाज्ञया । (४९।१)

tattveśvara tvayā nāsya putrakasya śivājñayā |

49.2४९.२

प्रतिबन्धः प्रकर्तव्यो यातुः पदमनामयम् ॥ (४९।२)

pratibandhaḥ prakartavyo yātuḥ padamanāmayam ||

50.1५०.१

ततो यदि समीहेत धरातत्त्वान्तरालगम् । (५०।१)

tato yadi samīheta dharātattvāntarālagam |

50.2५०.२

पृथक् शोधयितुं मन्त्री भुवनाद्यध्वपञ्चकम् ॥ (५०।२)

pṛthak śodhayituṃ mantrī bhuvanādyadhvapañcakam ||

51.1५१.१

अपरामन्त्रतः प्राग्वत्तिस्रस्तिस्रस्तदाहुतीः । (५१।१)

aparāmantrataḥ prāgvattisrastisrastadāhutīḥ |

51.2५१.२

दद्यात्पुरं शोधयामीत्यूहयुक्तं प्रसन्नधीः ॥ (५१।२)

dadyātpuraṃ śodhayāmītyūhayuktaṃ prasannadhīḥ ||

52.1५२.१

एवं कलामन्त्रपदवर्णेष्वपि विचक्षणः । (५२।१)

evaṃ kalāmantrapadavarṇeṣvapi vicakṣaṇaḥ |

52.2५२.२

तिस्रस्तिस्रो हुतीर्दद्यात् पृथक् सामस्त्यतो ऽपिवा ॥ (५२।२)

tisrastisro hutīrdadyāt pṛthak sāmastyato 'pivā ||

53.1५३.१

ततः पूर्णाहुतिं दत्त्वा परया वौषडन्तया । (५३।१)

tataḥ pūrṇāhutiṃ dattvā parayā vauṣaḍantayā |

53.2५३.२

अपरामन्त्रतः शिष्यमुद्धृत्यात्महृदं नयेत् ॥ (५३।२)

aparāmantrataḥ śiṣyamuddhṛtyātmahṛdaṃ nayet ||

54.1५४.१

यदा त्वेकेन शुद्धेन तदन्तर्भावचिन्तनात् । (५४।१)

yadā tvekena śuddhena tadantarbhāvacintanāt |

54.2५४.२

न पृथक् शोधयेत्तत्त्वनाथसंश्रवणात्परम् ॥ (५४।२)

na pṛthak śodhayettattvanāthasaṃśravaṇātparam ||

55.1५५.१

तदा पूर्णां वितीर्याणुमुत्क्षिप्यात्मनि योजयेत् । (५५।१)

tadā pūrṇāṃ vitīryāṇumutkṣipyātmani yojayet |

55.2५५.२

तात्स्थ्यात्मसंस्थ्ययोगाय तयैवापरयाहुतीः ॥ (५५।२)

tātsthyātmasaṃsthyayogāya tayaivāparayāhutīḥ ||

56.1५६.१

सकर्मपदया दद्यादिति केचित्तु मन्वते । (५६।१)

sakarmapadayā dadyāditi kecittu manvate |

56.2५६.२

अन्ये तु गुरवः प्राहुर्भावनामयमीदृशम् ॥ (५६।२)

anye tu guravaḥ prāhurbhāvanāmayamīdṛśam ||

57.1५७.१

नात्र बाह्याहुतिर्देया दैशिकस्य पृथक् पुनः । (५७।१)

nātra bāhyāhutirdeyā daiśikasya pṛthak punaḥ |

57.2५७.२

दद्याद्वा यदि नो दोषः स्यादुपायः स भावने ॥ (५७।२)

dadyādvā yadi no doṣaḥ syādupāyaḥ sa bhāvane ||

58.1५८.१

एवं प्राक्तनतात्स्थ्यात्मसंस्थत्वे योजयेद्गुरुः । (५८।१)

evaṃ prāktanatātsthyātmasaṃsthatve yojayedguruḥ |

58.2५८.२

ततः शिष्यहृदं नेयः स आत्मा तावतो ऽध्वनः ॥ (५८।२)

tataḥ śiṣyahṛdaṃ neyaḥ sa ātmā tāvato 'dhvanaḥ ||

59.1५९.१

शुद्धस्तद्दार्ढ्यसिद्ध्यै च पूर्णा स्यात्परया पुनः । (५९।१)

śuddhastaddārḍhyasiddhyai ca pūrṇā syātparayā punaḥ |

59.2५९.२

महापाशुपतं पूर्वं विलोमस्य विशुद्धये ॥ (५९।२)

mahāpāśupataṃ pūrvaṃ vilomasya viśuddhaye ||

60.1६०.१

जुहोमि पुनरस्त्रेण वौषडन्त इति क्षिपेत् । (६०।१)

juhomi punarastreṇa vauṣaḍanta iti kṣipet |

60.2६०.२

पुनः पूर्णां ततो मायामभ्यर्च्याथ विसर्जयेत् ॥ (६०।२)

punaḥ pūrṇāṃ tato māyāmabhyarcyātha visarjayet ||

61.1६१.१

धरातत्त्वं विशुद्धं सज्जलेन शुद्धरूपिणा । (६१।१)

dharātattvaṃ viśuddhaṃ sajjalena śuddharūpiṇā |

61.2६१.२

भावयेन्मिश्रितं वारि शुद्धियोग्यं ततो भवेत् ॥ (६१।२)

bhāvayenmiśritaṃ vāri śuddhiyogyaṃ tato bhavet ||

62.1६२.१

तथा तत्तत्पुरातत्त्वमिश्रणादुत्तरोत्तरम् । (६२।१)

tathā tattatpurātattvamiśraṇāduttarottaram |

62.2६२.२

सर्वा शिवीभवेत्तत्त्वावली शुद्धान्यथा पृथक् ॥ (६२।२)

sarvā śivībhavettattvāvalī śuddhānyathā pṛthak ||

63.1६३.१

पृथक्त्वं च मलो मायाभिधानस्तस्य संभवे । (६३।१)

pṛthaktvaṃ ca malo māyābhidhānastasya saṃbhave |

63.2६३.२

कर्मक्षये ऽपि नो मुक्तिर्भवेद्विद्येश्वरादिवत् ॥ (६३।२)

karmakṣaye 'pi no muktirbhavedvidyeśvarādivat ||

64.1६४.१

ततो ऽपि जलतत्त्वस्य वह्नौ व्योम्नि चिदात्मके । (६४।१)

tato 'pi jalatattvasya vahnau vyomni cidātmake |

64.2६४.२

आह्वानाद्यखिलं यावत्तेजस्यस्य विमिश्रणम् ॥ (६४।२)

āhvānādyakhilaṃ yāvattejasyasya vimiśraṇam ||

65.1६५.१

एवं क्रमात्कलातत्त्वे शुद्धे पाशं भुजाश्रितम् । (६५।१)

evaṃ kramātkalātattve śuddhe pāśaṃ bhujāśritam |

65.2६५.२

छिन्द्यात्कला हि सा किंचित्कर्तृत्वोन्मीलनात्मिका ॥ (६५।२)

chindyātkalā hi sā kiṃcitkartṛtvonmīlanātmikā ||

66.1६६.१

कर्माख्यमलजृम्भात्मा तं च ग्रन्थिं स्रुगग्रगम् । (६६।१)

karmākhyamalajṛmbhātmā taṃ ca granthiṃ srugagragam |

66.2६६.२

पूर्णाहुत्या समं वह्निमन्त्रतेजसि निर्दहेत् ॥ (६६।२)

pūrṇāhutyā samaṃ vahnimantratejasi nirdahet ||

67.1६७.१

मन्त्रो हि विश्वरूपः सन्नुपाश्रयवशात्तथा । (६७।१)

mantro hi viśvarūpaḥ sannupāśrayavaśāttathā |

67.2६७.२

व्यक्तरूपस्ततो वह्नौ पाशप्लोषविधायकः ॥ (६७।२)

vyaktarūpastato vahnau pāśaploṣavidhāyakaḥ ||

68.1६८.१

प्लुष्टो लीनस्वभावो ऽसौ पाशस्तं प्रति शम्भुवत् । (६८।१)

pluṣṭo līnasvabhāvo 'sau pāśastaṃ prati śambhuvat |

68.2६८.२

परमेशमहातेजःशेषमात्रत्वम् अश्नुते ॥ (६८।२)

parameśamahātejaḥśeṣamātratvam aśnute ||

69.1६९.१

कर्मपाशे ऽत्र होतव्ये पूर्णयास्य शुभाशुभम् । (६९।१)

karmapāśe 'tra hotavye pūrṇayāsya śubhāśubham |

69.2६९.२

अशुभं वा भवद्भूतं भावि वाथ समस्तकम् ॥ (६९।२)

aśubhaṃ vā bhavadbhūtaṃ bhāvi vātha samastakam ||

70.1७०.१

दहामि फट्त्रयं वौषडिति पूर्णां विनिक्षिपेत् । (७०।१)

dahāmi phaṭtrayaṃ vauṣaḍiti pūrṇāṃ vinikṣipet |

70.2७०.२

एवं मायान्तसंशुद्धौ कण्ठपाशं च होमयेत् ॥ (७०।२)

evaṃ māyāntasaṃśuddhau kaṇṭhapāśaṃ ca homayet ||

71.1७१.१

पूर्णस्य तस्य मायाख्यं पाशभेदप्रथात्मकम् । (७१।१)

pūrṇasya tasya māyākhyaṃ pāśabhedaprathātmakam |

71.2७१.२

दहामि फट्त्रयं वौषडिति पूर्णां क्षिपेद्गुरुः ॥ (७१।२)

dahāmi phaṭtrayaṃ vauṣaḍiti pūrṇāṃ kṣipedguruḥ ||

72.1७२.१

निर्बीजा यदि कार्या तु तदात्रैवापरां क्षिपेत् । (७२।१)

nirbījā yadi kāryā tu tadātraivāparāṃ kṣipet |

72.2७२.२

पूर्णां समयपाशाख्यबीजदाहपदान्विताम् ॥ (७२।२)

pūrṇāṃ samayapāśākhyabījadāhapadānvitām ||

73.1७३.१

गुरौ देवे तथा शास्त्रे भक्तिः कार्यास्य नह्यसौ । (७३।१)

gurau deve tathā śāstre bhaktiḥ kāryāsya nahyasau |

73.2७३.२

समयः शक्तिपातस्य स्वभावो ह्येष नो पृथक् ॥ (७३।२)

samayaḥ śaktipātasya svabhāvo hyeṣa no pṛthak ||

74.1७४.१

मायान्ते शुद्धिमायाते वागीशी या पुराभवत् । (७४।१)

māyānte śuddhimāyāte vāgīśī yā purābhavat |

74.2७४.२

माया शक्तिमयी सैव विद्याशक्तित्वमश्नुते ॥ (७४।२)

māyā śaktimayī saiva vidyāśaktitvamaśnute ||

75.1७५.१

तच्छुद्धविद्यामाहूय विद्याशक्तिं नियोजयेत् । (७५।१)

tacchuddhavidyāmāhūya vidyāśaktiṃ niyojayet |

75.2७५.२

एवं क्रमेण संशुद्धे सदाशिवपदे ऽप्यलम् ॥ (७५।२)

evaṃ krameṇa saṃśuddhe sadāśivapade 'pyalam ||

76.1७६.१

शिखां ग्रन्थियुतां छित्त्वा मलमाणवकं दहेत् । (७६।१)

śikhāṃ granthiyutāṃ chittvā malamāṇavakaṃ dahet |

76.2७६.२

यतो ऽधिकारभोगाख्यौ द्वौ पाशौ तु सदाशिवे ॥ (७६।२)

yato 'dhikārabhogākhyau dvau pāśau tu sadāśive ||

77.1७७.१

इत्युक्त्याणवपाशो ऽत्र मायीयस्तु निशावधिः । (७७।१)

ityuktyāṇavapāśo 'tra māyīyastu niśāvadhiḥ |

77.2७७.२

शिष्यो यथोचितं स्नायादाचामेद्दैशिकः स्वयम् ॥ (७७।२)

śiṣyo yathocitaṃ snāyādācāmeddaiśikaḥ svayam ||

78.1७८.१

आणवाख्ये विनिर्दग्धे ह्यधोवाहिशिखामले । (७८।१)

āṇavākhye vinirdagdhe hyadhovāhiśikhāmale |

78.2७८.२

ततः प्रागुक्तसकलप्रमेयं परिचिन्तयन् ॥ (७८।२)

tataḥ prāguktasakalaprameyaṃ paricintayan ||

79.1७९.१

शिष्यदेहादिमात्मीयदेहप्राणादियोजितम् । (७९।१)

śiṣyadehādimātmīyadehaprāṇādiyojitam |

79.2७९.२

कृत्वात्मदेहप्राणादेर्विश्वमन्तरनुस्मरेत् ॥ (७९।२)

kṛtvātmadehaprāṇāderviśvamantaranusmaret ||

80.1८०.१

उक्तप्रक्रियया चैवं दृढबुद्धिर् अनन्यधीः । (८०।१)

uktaprakriyayā caivaṃ dṛḍhabuddhir ananyadhīḥ |

80.2८०.२

प्राणस्थं देशकालाध्वयुगं प्राणं च शक्तिगम् ॥ (८०।२)

prāṇasthaṃ deśakālādhvayugaṃ prāṇaṃ ca śaktigam ||

81.1८१.१

तां च संविद्गतां शुद्धां संविदं शिवरूपिणीम् । (८१।१)

tāṃ ca saṃvidgatāṃ śuddhāṃ saṃvidaṃ śivarūpiṇīm |

81.2८१.२

शिष्यसंविदभिन्नां च मन्त्रवह्न्याद्यभेदिनीम् ॥ (८१।२)

śiṣyasaṃvidabhinnāṃ ca mantravahnyādyabhedinīm ||

82.1८२.१

ध्यायन् प्राग्वत्प्रयोगेण शिवं सकलनिष्कलम् । (८२।१)

dhyāyan prāgvatprayogeṇa śivaṃ sakalaniṣkalam |

82.2८२.२

द्व्यात्मकं वा क्षिपेत्पूर्णां प्रशान्तकरणेन तु ॥ (८२।२)

dvyātmakaṃ vā kṣipetpūrṇāṃ praśāntakaraṇena tu ||

83.1८३.१

उक्तं त्रैशिरसे तन्त्रे सर्वसंपूरणात्मकम् । (८३।१)

uktaṃ traiśirase tantre sarvasaṃpūraṇātmakam |

83.2८३.२

मूलादुदयगत्या तु शिवेन्दुपरिसंप्लुतम् ॥ (८३।२)

mūlādudayagatyā tu śivenduparisaṃplutam ||

84.1८४.१

जन्मान्तमध्यकुहरमूलस्रोतःसमुत्थितम् । (८४।१)

janmāntamadhyakuharamūlasrotaḥsamutthitam |

84.2८४.२

शिवार्करश्मिभिस्तीव्रैः क्षुब्धं ज्ञानामृतं तु यत् ॥ (८४।२)

śivārkaraśmibhistīvraiḥ kṣubdhaṃ jñānāmṛtaṃ tu yat ||

85.1८५.१

तेन संतर्पयेत्सम्यक् प्रशान्तकरणेन तु । (८५।१)

tena saṃtarpayetsamyak praśāntakaraṇena tu |

85.2८५.२

शून्यधामाब्जमध्यस्थप्रभाकिरणभास्वरः ॥ (८५।२)

śūnyadhāmābjamadhyasthaprabhākiraṇabhāsvaraḥ ||

86.1८६.१

आधेयाधारनिःस्पन्दबोधशास्त्रपरिग्रहः । (८६।१)

ādheyādhāraniḥspandabodhaśāstraparigrahaḥ |

86.2८६.२

जन्माधेयप्रपञ्चैकस्फोटसंघट्टघट्टनः ॥ (८६।२)

janmādheyaprapañcaikasphoṭasaṃghaṭṭaghaṭṭanaḥ ||

87.1८७.१

मूलस्थानात्समारभ्य कृत्वा सोमेशमन्तगम् । (८७।१)

mūlasthānātsamārabhya kṛtvā someśamantagam |

87.2८७.२

खमिवातिष्ठते यावत्प्रशान्तं तावदुच्यते ॥ (८७।२)

khamivātiṣṭhate yāvatpraśāntaṃ tāvaducyate ||

88.1८८.१

उक्तं श्रीपूर्वशास्त्रे च स्रुचमापूर्य सर्पिषा । (८८।१)

uktaṃ śrīpūrvaśāstre ca srucamāpūrya sarpiṣā |

88.2८८.२

कृत्वा शिष्यं तथात्मस्थं मूलमन्त्रमनुस्मरन् ॥ (८८।२)

kṛtvā śiṣyaṃ tathātmasthaṃ mūlamantramanusmaran ||

89.1८९.१

शिवं शक्तिं तथात्मानं शिष्यं सर्पिस्तथानलम् । (८९।१)

śivaṃ śaktiṃ tathātmānaṃ śiṣyaṃ sarpistathānalam |

89.2८९.२

एकीकुर्वञ्छनैर् गच्छेद् द्वादशान्तम् अनन्यधीः ॥ (८९।२)

ekīkurvañchanair gacched dvādaśāntam ananyadhīḥ ||

90.1९०.१

तत्र कुम्भकमास्थाय ध्यायन्सकलनिष्कलम् । (९०।१)

tatra kumbhakamāsthāya dhyāyansakalaniṣkalam |

90.2९०.२

तिष्ठेत्तावदनुद्विग्नो यावदाज्यक्षयो भवेत् ॥ (९०।२)

tiṣṭhettāvadanudvigno yāvadājyakṣayo bhavet ||

91.1९१.१

एवं युक्तः परे तत्त्वे गुरुणा शिवमूर्तिना । (९१।१)

evaṃ yuktaḥ pare tattve guruṇā śivamūrtinā |

91.2९१.२

न भूयः पशुतामेति दग्धमायानिबन्धनः ॥ (९१।२)

na bhūyaḥ paśutāmeti dagdhamāyānibandhanaḥ ||

92.1९२.१

देहपाते पुनः प्रेप्सेद् यदि तत्त्वेषु कुत्रचित् । (९२।१)

dehapāte punaḥ prepsed yadi tattveṣu kutracit |

92.2९२.२

भोगान् समस्तव्यस्तत्वभेदैरन्ते परं पदम् ॥ (९२।२)

bhogān samastavyastatvabhedairante paraṃ padam ||

93.1९३.१

तदा तत्तत्त्वभूमौ तु तत्संख्यायाम् अनन्यधीः । (९३।१)

tadā tattattvabhūmau tu tatsaṃkhyāyām ananyadhīḥ |

93.2९३.२

पुनर्योजनिकां कुर्यात्पूर्णाहुत्यन्तरेण तु ॥ (९३।२)

punaryojanikāṃ kuryātpūrṇāhutyantareṇa tu ||

94.1९४.१

मुक्तिप्रदा भोगमोक्षप्रदा वा या प्रकीर्तिता । (९४।१)

muktipradā bhogamokṣapradā vā yā prakīrtitā |

94.2९४.२

दीक्षा सा स्यात् सबीजत्वनिर्बीजात्मतया द्विधा ॥ (९४।२)

dīkṣā sā syāt sabījatvanirbījātmatayā dvidhā ||

95.1९५.१

बाले निर्ज्ञातमरणे त्वशक्ते वा जरादिभिः । (९५।१)

bāle nirjñātamaraṇe tvaśakte vā jarādibhiḥ |

95.2९५.२

कार्या निर्बीजिका दीक्षा शक्तिपातबलोदये ॥ (९५।२)

kāryā nirbījikā dīkṣā śaktipātabalodaye ||

96.1९६.१

निर्बीजायां सामयांस्तु पाशानपि विशोधयेत् । (९६।१)

nirbījāyāṃ sāmayāṃstu pāśānapi viśodhayet |

96.2९६.२

कृतनिर्बीजदीक्षस्तु देवाग्निगुरुभक्तिभाक् ॥ (९६।२)

kṛtanirbījadīkṣastu devāgnigurubhaktibhāk ||

97.1९७.१

इयतैव शिवं यायात् सद्यो भोगान् विभुज्य वा । (९७।१)

iyataiva śivaṃ yāyāt sadyo bhogān vibhujya vā |

97.2९७.२

श्रीमद्दीक्षोत्तरे चोक्तं चारे षट्त्रिंशदङ्गुले ॥ (९७।२)

śrīmaddīkṣottare coktaṃ cāre ṣaṭtriṃśadaṅgule ||

98.1९८.१

तत्त्वान्य् आपादमूर्धान्तं भुवनानि त्यजेत्क्रमात् । (९८।१)

tattvāny āpādamūrdhāntaṃ bhuvanāni tyajetkramāt |

98.2९८.२

तुटिमात्रं निष्कलं तददेहं तद् अहंपरम् ॥ (९८।२)

tuṭimātraṃ niṣkalaṃ tadadehaṃ tad ahaṃparam ||

99.1९९.१

शक्त्या तत्र क्षिपाम्येनमिति ध्यायंस्तु दीक्षयेत् । (९९।१)

śaktyā tatra kṣipāmyenamiti dhyāyaṃstu dīkṣayet |

99.2९९.२

सबीजायां तु दीक्षायां समयान्न विशोधयेत् ॥ (९९।२)

sabījāyāṃ tu dīkṣāyāṃ samayānna viśodhayet ||

100.1१००.१

विशेषस्त्वयमेतस्यां यावज्जीवं शिशोर्गुरुः । (१००।१)

viśeṣastvayametasyāṃ yāvajjīvaṃ śiśorguruḥ |

100.2१००.२

शेषवृत्त्यै शुद्धतत्त्वसृष्टिं कुर्वीत पूर्णया ॥ (१००।२)

śeṣavṛttyai śuddhatattvasṛṣṭiṃ kurvīta pūrṇayā ||

101.1१०१.१

अभिन्नाच्छिवसंबोधजलधेर्युगपत्स्फुरत् । (१०१।१)

abhinnācchivasaṃbodhajaladheryugapatsphurat |

101.2१०१.२

पूर्णां क्षिपंस्तत्त्वजालं ध्यायेद्भारूपकं सृतम् ॥ (१०१।२)

pūrṇāṃ kṣipaṃstattvajālaṃ dhyāyedbhārūpakaṃ sṛtam ||

102.1१०२.१

विशुद्धतत्त्वसृष्टिं वा कुर्यात्कुम्भाभिषेचनात् । (१०२।१)

viśuddhatattvasṛṣṭiṃ vā kuryātkumbhābhiṣecanāt |

102.2१०२.२

तथा ध्यानबलादेव यद्वा पूर्णाभिषेचनैः ॥ (१०२।२)

tathā dhyānabalādeva yadvā pūrṇābhiṣecanaiḥ ||

103.1१०३.१

पृथिवी स्थिररूपास्य शिवरूपेण भाविता । (१०३।१)

pṛthivī sthirarūpāsya śivarūpeṇa bhāvitā |

103.2१०३.२

स्थिरीकरोति तामेव भावनामिति शुध्यति ॥ (१०३।२)

sthirīkaroti tāmeva bhāvanāmiti śudhyati ||

104.1१०४.१

जलमाप्याययत्येनां तेजो भास्वरतां नयेत् । (१०४।१)

jalamāpyāyayatyenāṃ tejo bhāsvaratāṃ nayet |

104.2१०४.२

मरुदानन्दसंस्पर्शं व्योम वैतत्यमावहेत् ॥ (१०४।२)

marudānandasaṃsparśaṃ vyoma vaitatyamāvahet ||

105.1१०५.१

एवं तन्मात्रवर्गो ऽपि शिवतामय इष्यते । (१०५।१)

evaṃ tanmātravargo 'pi śivatāmaya iṣyate |

105.2१०५.२

परानन्दमहाव्याप्तिर् अशेषमलविच्युतिः ॥ (१०५।२)

parānandamahāvyāptir aśeṣamalavicyutiḥ ||

106.1१०६.१

शिवे गन्तृत्वमादानमुपादेयशिवस्तुतिः । (१०६।१)

śive gantṛtvamādānamupādeyaśivastutiḥ |

106.2१०६.२

शिवामोदभरास्वाददर्शनस्पर्शनान्यलम् ॥ (१०६।२)

śivāmodabharāsvādadarśanasparśanānyalam ||

107.1१०७.१

तदाकर्णनमित्येवमिन्द्रियाणां विशुद्धता । (१०७।१)

tadākarṇanamityevamindriyāṇāṃ viśuddhatā |

107.2१०७.२

संकल्पाध्यवसामानाः प्रकाशो रक्तिसंस्थिती ॥ (१०७।२)

saṃkalpādhyavasāmānāḥ prakāśo raktisaṃsthitī ||

108.1१०८.१

शिवात्मत्वेन यत्सेयं शुद्धता मानसादिके । (१०८।१)

śivātmatvena yatseyaṃ śuddhatā mānasādike |

108.2१०८.२

नियमो रञ्जनं कर्तृभावः कलनया सह ॥ (१०८।२)

niyamo rañjanaṃ kartṛbhāvaḥ kalanayā saha ||

109.1१०९.१

वेदनं हेयवस्त्वंशविषये सुप्तकल्पता । (१०९।१)

vedanaṃ heyavastvaṃśaviṣaye suptakalpatā |

109.2१०९.२

इत्थं शिवैक्यरूढस्य षट्कञ्चुकगणो ऽप्ययम् ॥ (१०९।२)

itthaṃ śivaikyarūḍhasya ṣaṭkañcukagaṇo 'pyayam ||

110.1११०.१

शुद्ध एव पुमान् प्राप्तशिवभावो विशुध्यति । (११०।१)

śuddha eva pumān prāptaśivabhāvo viśudhyati |

110.2११०.२

विद्येशादिषु तत्त्वेषु नैव काचिदशुद्धता ॥ (११०।२)

vidyeśādiṣu tattveṣu naiva kācidaśuddhatā ||

111.1१११.१

इत्येवं शुद्धतत्त्वानां सृष्ट्या शिष्यो ऽपि तन्मयः । (१११।१)

ityevaṃ śuddhatattvānāṃ sṛṣṭyā śiṣyo 'pi tanmayaḥ |

111.2१११.२

भवेद्ध्येतत्सूचितं श्रीमालिनीविजयोत्तरे ॥ (१११।२)

bhaveddhyetatsūcitaṃ śrīmālinīvijayottare ||

112.1११२.१

बन्धमोक्षावुभावेताविन्द्रियाणि जगुर्बुधाः । (११२।१)

bandhamokṣāvubhāvetāvindriyāṇi jagurbudhāḥ |

112.2११२.२

निगृहीतानि बन्धाय विमुक्तानि विमुक्तये ॥ (११२।२)

nigṛhītāni bandhāya vimuktāni vimuktaye ||

113.1११३.१

एतानि व्यापके भावे यदा स्युर्मनसा सह । (११३।१)

etāni vyāpake bhāve yadā syurmanasā saha |

113.2११३.२

मुक्तानि क्वापि विषये रोधाद्बन्धाय तानि तु ॥ (११३।२)

muktāni kvāpi viṣaye rodhādbandhāya tāni tu ||

114.1११४.१

इत्येवं द्विविधो भावः शुद्धाशुद्धप्रभेदतः । (११४।१)

ityevaṃ dvividho bhāvaḥ śuddhāśuddhaprabhedataḥ |

114.2११४.२

इन्द्रियाणां समाख्यातः सिद्धयोगीश्वरे मते ॥ (११४।२)

indriyāṇāṃ samākhyātaḥ siddhayogīśvare mate ||

115.1११५.१

श्रीमान् विद्यागुरुस्त्वाह प्रमाणस्तुतिदर्शने । (११५।१)

śrīmān vidyāgurustvāha pramāṇastutidarśane |

115.2११५.२

समस्तमन्त्रैर्दीक्षायां नियमस्त्वेष कथ्यते ॥ (११५।२)

samastamantrairdīkṣāyāṃ niyamastveṣa kathyate ||

116.1११६.१

मायान्तशुद्धौ सर्वाः स्युः क्रिया ह्यपरया सदा । (११६।१)

māyāntaśuddhau sarvāḥ syuḥ kriyā hyaparayā sadā |

116.2११६.२

द्व्यात्मया सकलान्ते तु निष्कले परयैव तु ॥ (११६।२)

dvyātmayā sakalānte tu niṣkale parayaiva tu ||

117.1११७.१

ईशान्ते च पिवन्यादि सकलान्ते ऽङ्गपञ्चकम् । (११७।१)

īśānte ca pivanyādi sakalānte 'ṅgapañcakam |

117.2११७.२

इत्येवं विधिमालोच्य कर्म कुर्याद्गुरूत्तमः ॥ (११७।२)

ityevaṃ vidhimālocya karma kuryādgurūttamaḥ ||

118.1११८.१

पुराध्वनि हुतीनां या संख्येयं तत्त्ववर्णयोः । (११८।१)

purādhvani hutīnāṃ yā saṃkhyeyaṃ tattvavarṇayoḥ |

118.2११८.२

तामेव द्विगुणीकुर्यात् पदाध्वनि चतुर्गुणाम् ॥ (११८।२)

tāmeva dviguṇīkuryāt padādhvani caturguṇām ||

119.1११९.१

क्रमान्मन्त्रकलामार्गे द्विगुणा द्विगुणा क्रमात् । (११९।१)

kramānmantrakalāmārge dviguṇā dviguṇā kramāt |

119.2११९.२

यावत्त्रितत्त्वसंशुद्धौ स्याद्विंशतिगुणा ततः ॥ (११९।२)

yāvattritattvasaṃśuddhau syādviṃśatiguṇā tataḥ ||

120.1१२०.१

प्रतिकर्म भवेत्षष्टिराहुतीनां त्रितत्त्वके । (१२०।१)

pratikarma bhavetṣaṣṭirāhutīnāṃ tritattvake |

120.2१२०.२

एकतत्त्वे शतं प्राहुराहुतीनां तु साष्टकम् ॥ (१२०।२)

ekatattve śataṃ prāhurāhutīnāṃ tu sāṣṭakam ||

121.1१२१.१

विलोमकर्मणा साकं याः पूर्णाहुतयः स्मृताः । (१२१।१)

vilomakarmaṇā sākaṃ yāḥ pūrṇāhutayaḥ smṛtāḥ |

121.2१२१.२

तासां सर्वाध्वसंशुद्धौ संख्यान्यत्वं न किंचन ॥ (१२१।२)

tāsāṃ sarvādhvasaṃśuddhau saṃkhyānyatvaṃ na kiṃcana ||

122.1१२२.१

इत्येषा कथिता दीक्षा जननादिसमन्विता ॥ (१२२।१)

ityeṣā kathitā dīkṣā jananādisamanvitā ||

Data courtesy of The Digital Corpus of Sanskrit.

TĀ, 17

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit