TĀ, 19
Select a line for its word-by-word analysis.
अथ सद्यःसमुत्क्रान्तिप्रदा दीक्षा निरूप्यते । (१।१)
atha sadyaḥsamutkrāntipradā dīkṣā nirūpyate |
तत्क्षणाच्चोपभोगाद्वा देहपाते शिवं व्रजेत् । (१।२)
tatkṣaṇāccopabhogādvā dehapāte śivaṃ vrajet |
इत्युक्त्या मालिनीशास्त्रे सूचितासौ महेशिना ॥ (१।३)
ityuktyā mālinīśāstre sūcitāsau maheśinā ||
आसाद्य शांकरीं दीक्षां तस्माद्दीक्षाक्षणात्परम् ॥ (२।२)
āsādya śāṃkarīṃ dīkṣāṃ tasmāddīkṣākṣaṇātparam ||
शिवं व्रजेदित्यर्थो ऽत्र पूर्वापरविवेचनात् । (३।१)
śivaṃ vrajedityartho 'tra pūrvāparavivecanāt |
व्याख्यातः श्रीमतास्माकं गुरुणा शम्भुमूर्तिना ॥ (३।२)
vyākhyātaḥ śrīmatāsmākaṃ guruṇā śambhumūrtinā ||
तत्र मन्दे ऽथ गुर्वादिसेवयायुः क्षयं व्रजेत् ॥ (४।२)
tatra mande 'tha gurvādisevayāyuḥ kṣayaṃ vrajet ||
अथवा बन्धुमित्रादिद्वारा सास्य विभोः पतेत् । (५।१)
athavā bandhumitrādidvārā sāsya vibhoḥ patet |
पूर्वं वा समयी नैव परां दीक्षामवाप्तवान् ॥ (५।२)
pūrvaṃ vā samayī naiva parāṃ dīkṣāmavāptavān ||
आप्तदीक्षो ऽपि वा प्राणाञ्जिहासुः क्लेशवर्जितम् । (६।१)
āptadīkṣo 'pi vā prāṇāñjihāsuḥ kleśavarjitam |
अन्त्यान्गुरुस्तदा कुर्यात् सद्य उत्क्रान्तिदीक्षणम् ॥ (६।२)
antyāngurustadā kuryāt sadya utkrāntidīkṣaṇam ||
कुर्यादुत्क्रमणं श्रीमद्गह्वरे च निरूपितम् ॥ (७।२)
kuryādutkramaṇaṃ śrīmadgahvare ca nirūpitam ||
दृष्ट्वा शिष्यं जराग्रस्तं व्याधिना परिपीडितम् । (८।१)
dṛṣṭvā śiṣyaṃ jarāgrastaṃ vyādhinā paripīḍitam |
उत्क्रमय्य ततस्त्वेनं परतत्त्वे नियोजयेत् ॥ (८।२)
utkramayya tatastvenaṃ paratattve niyojayet ||
पूर्वोक्तमर्थजातं श्रीशम्भुनात्र निरूपितम् ॥ (९।२)
pūrvoktamarthajātaṃ śrīśambhunātra nirūpitam ||
विधिं पूर्वोदितं सर्वं कृत्वा समयशुद्धितः । (१०।१)
vidhiṃ pūrvoditaṃ sarvaṃ kṛtvā samayaśuddhitaḥ |
क्षुरिकामस्य विन्यस्येज्ज्वलन्तीं मर्मकर्तरीम् ॥ (१०।२)
kṣurikāmasya vinyasyejjvalantīṃ marmakartarīm ||
कृत्वा पूर्वोदितं न्यासं कालानलसमप्रभम् । (११।१)
kṛtvā pūrvoditaṃ nyāsaṃ kālānalasamaprabham |
संहृतिक्रमतः सार्धं सृक्छिन्दियुगलेन तु ॥ (११।२)
saṃhṛtikramataḥ sārdhaṃ sṛkchindiyugalena tu ||
आग्नेयीं धारणां कृत्वा सर्वमर्मप्रतापनीम् । (१२।१)
āgneyīṃ dhāraṇāṃ kṛtvā sarvamarmapratāpanīm |
पूरयेद्वायुना देहमङ्गुष्ठान्मस्तकान्तकम् ॥ (१२।२)
pūrayedvāyunā dehamaṅguṣṭhānmastakāntakam ||
तमुत्कृष्य ततो ऽङ्गुष्ठादूर्ध्वान्तं वक्ष्यमाणया । (१३।१)
tamutkṛṣya tato 'ṅguṣṭhādūrdhvāntaṃ vakṣyamāṇayā |
कृन्तेन्मर्माणि रन्ध्रान्तात् कालरात्र्या विसर्जयेत् ॥ (१३।२)
kṛntenmarmāṇi randhrāntāt kālarātryā visarjayet ||
समय्यप्येति तां दीक्षामिति श्रीमालिनीमते ॥ (१४।२)
samayyapyeti tāṃ dīkṣāmiti śrīmālinīmate ||
प्रविश्य मूलं कन्दादेश्छिन्दन्नैक्यविभावनात् । (१६।१)
praviśya mūlaṃ kandādeśchindannaikyavibhāvanāt |
पूर्णाहुतिप्रयोगेण स्वेष्टे धाम्नि नियोजयेत् ॥ (१६।२)
pūrṇāhutiprayogeṇa sveṣṭe dhāmni niyojayet ||
ज्ञानत्रिशूलं संदीप्तं दीप्तचक्रत्रयोज्ज्वलम् । (१७।१)
jñānatriśūlaṃ saṃdīptaṃ dīptacakratrayojjvalam |
चिन्तयित्वामुना तस्य वेदनं बोधनं भ्रमम् ॥ (१७।२)
cintayitvāmunā tasya vedanaṃ bodhanaṃ bhramam ||
द्वादशान्ते ततः कृत्वा बिन्दुयुग्मगते क्षिपेत् । (१९।१)
dvādaśānte tataḥ kṛtvā binduyugmagate kṣipet |
निर्लक्ष्ये वा परे धाम्नि संयुक्तः परमेश्वरः ॥ (१९।२)
nirlakṣye vā pare dhāmni saṃyuktaḥ parameśvaraḥ ||
न तस्य कुर्यात्संस्कारं कंचिदित्याह गह्वरे । (२०।१)
na tasya kuryātsaṃskāraṃ kaṃcidityāha gahvare |
देवः किमस्य पूर्णस्य श्राद्धाद्यैरिति भावितः ॥ (२०।२)
devaḥ kimasya pūrṇasya śrāddhādyairiti bhāvitaḥ ||
श्रीमद्दीक्षोत्तरे त्वेष विधिर्वह्निपुटीकृतः । (२१।१)
śrīmaddīkṣottare tveṣa vidhirvahnipuṭīkṛtaḥ |
हंसः पुमानधस्तस्य रुद्रबिन्दुसमन्वितः ॥ (२१।२)
haṃsaḥ pumānadhastasya rudrabindusamanvitaḥ ||
शिष्यदेहे नियोज्यैतदनुद्विग्नः शतं जपेत् । (२२।१)
śiṣyadehe niyojyaitadanudvignaḥ śataṃ japet |
उत्क्रम्योर्ध्वनिमेषेण शिष्य इत्थं परं व्रजेत् ॥ (२२।२)
utkramyordhvanimeṣeṇa śiṣya itthaṃ paraṃ vrajet ||
इयम् उत्क्रामणी दीक्षा कर्तव्या योगिनो गुरोः ॥ (२३।२)
iyam utkrāmaṇī dīkṣā kartavyā yogino guroḥ ||
वक्ष्यमाणां ब्रह्मविद्यां सकलां निष्कलोम्भिताम् ॥ (२४।२)
vakṣyamāṇāṃ brahmavidyāṃ sakalāṃ niṣkalombhitām ||
कर्णे ऽस्य वा पठेद्भूयो भूयो वाप्यथ पाठयेत् । (२५।१)
karṇe 'sya vā paṭhedbhūyo bhūyo vāpyatha pāṭhayet |
स्वयं च कर्म कुर्वीत तत्त्वशुद्ध्यादिकं गुरुः ॥ (२५।२)
svayaṃ ca karma kurvīta tattvaśuddhyādikaṃ guruḥ ||
मन्त्रक्रियाबलात्पूर्णाहुत्येत्थं योजयेत्परे । (२६।१)
mantrakriyābalātpūrṇāhutyetthaṃ yojayetpare |
योगाभ्यासम् अकृत्वापि सद्य उत्क्रान्तिदां गुरुः ॥ (२६।२)
yogābhyāsam akṛtvāpi sadya utkrāntidāṃ guruḥ ||
ज्ञानमन्त्रक्रियाध्यानबलात्कर्तुं भवेत्प्रभुः । (२७।१)
jñānamantrakriyādhyānabalātkartuṃ bhavetprabhuḥ |
अनयोत्क्रम्यते शिष्यो बलादेवैककं क्षणम् ॥ (२७।२)
anayotkramyate śiṣyo balādevaikakaṃ kṣaṇam ||
कालस्योल्लङ्घ्य भोगो हि क्षणिको ऽस्यास्तु किं ततः । (२८।१)
kālasyollaṅghya bhogo hi kṣaṇiko 'syāstu kiṃ tataḥ |
सद्य उत्क्रान्तिदा चान्या यस्यां पूर्णाहुतिं तदा ॥ (२८।२)
sadya utkrāntidā cānyā yasyāṃ pūrṇāhutiṃ tadā ||
दद्याद्यदास्य प्राणाः स्युर्ध्रुवं निष्क्रमणेच्छवः । (२९।१)
dadyādyadāsya prāṇāḥ syurdhruvaṃ niṣkramaṇecchavaḥ |
विनापि क्रियया भाविब्रह्मविद्याबलाद्गुरुः ॥ (२९।२)
vināpi kriyayā bhāvibrahmavidyābalādguruḥ ||
तत्त्वे वा यत्र कुत्रापि योजयेत्पुद्गलं क्रमात् । (३१।१)
tattve vā yatra kutrāpi yojayetpudgalaṃ kramāt |
समयी पुत्रको वापि पठेद्विद्यामिमां तथा ॥ (३१।२)
samayī putrako vāpi paṭhedvidyāmimāṃ tathā ||
तत्पाठात्तु समय्युक्तां रुद्रांशापत्तिमश्नुते । (३२।१)
tatpāṭhāttu samayyuktāṃ rudrāṃśāpattimaśnute |
पठतोस्त्वनयोर्वस्तुस्वभावात्तस्य सा गतिः ॥ (३३।२)
paṭhatostvanayorvastusvabhāvāttasya sā gatiḥ ||
यथा निषिद्धभूतादिकर्मा मन्त्रं स्मरन्स्वयम् । (३४।१)
yathā niṣiddhabhūtādikarmā mantraṃ smaransvayam |
आविष्टे ऽपि क्वचिन्नैति लोपं कर्तृत्ववर्जनात् ॥ (३४।२)
āviṣṭe 'pi kvacinnaiti lopaṃ kartṛtvavarjanāt ||
यथा च वाचयञ्शास्त्रं समयी शून्यवेश्मनि । (३५।१)
yathā ca vācayañśāstraṃ samayī śūnyaveśmani |
तथा स्वयं पठन्नेष विद्यां वस्तुस्वभावतः । (३६।१)
tathā svayaṃ paṭhanneṣa vidyāṃ vastusvabhāvataḥ |
तस्मिन्मुक्ते न लुप्येत यतः किंचित्करो ऽत्र सः ॥ (३६।२)
tasminmukte na lupyeta yataḥ kiṃcitkaro 'tra saḥ ||
ननु चादीक्षिताग्रे स नोच्चरेच्छास्त्रपद्धतिम् ॥ (३७।१)
nanu cādīkṣitāgre sa noccarecchāstrapaddhatim ||
हन्त कुड्याग्रतो ऽप्यस्य निषेधस्त्वथ कथ्यते । (३८।१)
hanta kuḍyāgrato 'pyasya niṣedhastvatha kathyate |
तर्हि पाषाणतुल्यो ऽसौ विलीनेन्द्रियवृत्तिकः ॥ (३९।२)
tarhi pāṣāṇatulyo 'sau vilīnendriyavṛttikaḥ ||
तस्याग्रे पठतस्तस्य निषेधोल्लङ्घना कथम् । (४०।१)
tasyāgre paṭhatastasya niṣedhollaṅghanā katham |
स तु वस्तुस्वभावेन गलिताक्षो ऽपि बुध्यते ॥ (४०।२)
sa tu vastusvabhāvena galitākṣo 'pi budhyate ||
अक्षानपेक्षयैवान्तश्चिच्छक्त्या स्वप्रकाशया । (४१।१)
akṣānapekṣayaivāntaścicchaktyā svaprakāśayā |
प्राग्देहं किल तित्यक्षुर् नोत्तरं चाधितष्ठिवान् ॥ (४१।२)
prāgdehaṃ kila tityakṣur nottaraṃ cādhitaṣṭhivān ||
मध्ये प्रबोधकबलात् प्रतिबुध्येत् पुद्गलः । (४२।१)
madhye prabodhakabalāt pratibudhyet pudgalaḥ |
मन्त्राः शब्दमयाः शुद्धविमर्शात्मतया स्वयम् ॥ (४२।२)
mantrāḥ śabdamayāḥ śuddhavimarśātmatayā svayam ||
अर्थात्मना चावभान्तस् तदर्थप्रतिबोधकाः । (४३।१)
arthātmanā cāvabhāntas tadarthapratibodhakāḥ |
तेनास्य गलिताक्षस्य प्रबोधो जायते स्वयम् ॥ (४३।२)
tenāsya galitākṣasya prabodho jāyate svayam ||
जवी तथात्मा संसुप्तामर्शो ऽप्येवं प्रबुध्यते । (४५।१)
javī tathātmā saṃsuptāmarśo 'pyevaṃ prabudhyate |
प्रबुद्धः स च संजातो न चादीक्षित उच्यते ॥ (४५।२)
prabuddhaḥ sa ca saṃjāto na cādīkṣita ucyate ||
दीक्षा हि नाम संस्कारो न त्वन्यत्सो ऽस्ति चास्य हि । (४६।१)
dīkṣā hi nāma saṃskāro na tvanyatso 'sti cāsya hi |
तच्छ्रुत्वा को ऽपि धन्यश्चेन्मुच्यते नास्य सा क्षतिः । (४७।१)
tacchrutvā ko 'pi dhanyaścenmucyate nāsya sā kṣatiḥ |
शास्त्रनिन्दां मैष कार्षीद्द्वयोः पातित्यदायिनीम् ॥ (४७।२)
śāstranindāṃ maiṣa kārṣīddvayoḥ pātityadāyinīm ||
यथा च समयी काष्ठे लोष्टे वा मन्त्रयोजनाम् ॥ (४८।२)
yathā ca samayī kāṣṭhe loṣṭe vā mantrayojanām ||
कुर्वंस्तस्मिंश्चलत्येति न लोपं तद्वदत्र हि । (४९।१)
kurvaṃstasmiṃścalatyeti na lopaṃ tadvadatra hi |
यतो ऽस्य प्रत्ययप्राप्तिप्रेप्सोः समयिनस्तथा ॥ (४९।२)
yato 'sya pratyayaprāptiprepsoḥ samayinastathā ||
प्रवृत्तस्य स्वभावेन तस्मिन्मुक्ते न वै क्षतिः । (५०।१)
pravṛttasya svabhāvena tasminmukte na vai kṣatiḥ |
साधकस्तु सदा साध्ये फले नियतियन्त्रणात् ॥ (५०।२)
sādhakastu sadā sādhye phale niyatiyantraṇāt ||
मक्षिकाश्रुतमन्त्रो ऽपि प्रायश्चित्तौचितीं चरेत् । (५१।१)
makṣikāśrutamantro 'pi prāyaścittaucitīṃ caret |
इत्थं सद्यःसमुत्क्रान्तिर्योक्ता तामाज्ञया गुरोः ॥ (५१।२)
itthaṃ sadyaḥsamutkrāntiryoktā tāmājñayā guroḥ ||
समय्यादिरपि प्रोक्तकाले प्रोक्तार्थसिद्धये । (५२।१)
samayyādirapi proktakāle proktārthasiddhaye |
स्वयं वा गुरुणा वाथ कार्यत्वेन महेशिना ॥ (५४।२)
svayaṃ vā guruṇā vātha kāryatvena maheśinā ||
सर्वं भोगं विरूपं तु मत्वा देहं त्यजेद्यदि । (५५।१)
sarvaṃ bhogaṃ virūpaṃ tu matvā dehaṃ tyajedyadi |
उक्तेयं सद्य उत्क्रान्तिर्या गोप्या प्राणवद्बुधैः ॥ (५६।१)
ukteyaṃ sadya utkrāntiryā gopyā prāṇavadbudhaiḥ ||
Data courtesy of The Digital Corpus of Sanskrit.