नारदस्मृतिNāradasmṛti

NāSmṛ, 1, 1

1 of 22 · 130 verses

Select a line for its word-by-word analysis.

1.1१.१

धर्मैकतानाः पुरुषा यदासन् सत्यवादिनः । (१।१)

dharmaikatānāḥ puruṣā yadāsan satyavādinaḥ |

1.2१.२

तदा न व्यवहारो ऽभून् न द्वेषो नापि मत्सरः ॥ (१।२)

tadā na vyavahāro 'bhūn na dveṣo nāpi matsaraḥ ||

2.1२.१

नष्टे धर्मे मनुष्येषु व्यवहारः प्रवर्तते । (२।१)

naṣṭe dharme manuṣyeṣu vyavahāraḥ pravartate |

2.2२.२

द्रष्टा च व्यवहाराणां राजा दण्डधरः कृतः ॥ (२।२)

draṣṭā ca vyavahārāṇāṃ rājā daṇḍadharaḥ kṛtaḥ ||

3.1३.१

लिखितं साक्षिणश् चात्र द्वौ विधी संप्रकीर्तितौ । (३।१)

likhitaṃ sākṣiṇaś cātra dvau vidhī saṃprakīrtitau |

3.2३.२

संदिग्धार्थविशुद्ध्यर्थं द्वयोर् विवदमानयोः ॥ (३।२)

saṃdigdhārthaviśuddhyarthaṃ dvayor vivadamānayoḥ ||

4.1४.१

सोत्तरो ऽनुत्तरश् चैव स विज्ञेयो द्विलक्षणः । (४।१)

sottaro 'nuttaraś caiva sa vijñeyo dvilakṣaṇaḥ |

4.2४.२

सोत्तरो ऽभ्यधिको यत्र विलेखापूर्वकः पणः ॥ (४।२)

sottaro 'bhyadhiko yatra vilekhāpūrvakaḥ paṇaḥ ||

5.1५.१

विवादे सोत्तरपणे द्वयोर् यस् तत्र हीयते । (५।१)

vivāde sottarapaṇe dvayor yas tatra hīyate |

5.2५.२

स पणं स्वकृतं दाप्यो विनयं च पराजये ॥ (५।२)

sa paṇaṃ svakṛtaṃ dāpyo vinayaṃ ca parājaye ||

6.1६.१

सारस् तु व्यवहाराणां प्रतिज्ञा समुदाहृता । (६।१)

sāras tu vyavahārāṇāṃ pratijñā samudāhṛtā |

6.2६.२

तद्धानौ हीयते वादी तरंस् ताम् उत्तरो भवेत् ॥ (६।२)

taddhānau hīyate vādī taraṃs tām uttaro bhavet ||

7.1७.१

कुलानि श्रेणयश् चैव गणाश् चाधिकृतो नृपः । (७।१)

kulāni śreṇayaś caiva gaṇāś cādhikṛto nṛpaḥ |

7.2७.२

प्रतिष्ठा व्यवहाराणां गुर्वेभ्यस् तूत्तरोत्तरम् ॥ (७।२)

pratiṣṭhā vyavahārāṇāṃ gurvebhyas tūttarottaram ||

8.1८.१

स चतुष्पाच् चतुःस्थानश् चतुःसाधन एव च । (८।१)

sa catuṣpāc catuḥsthānaś catuḥsādhana eva ca |

8.2८.२

चतुर्हितश् चतुर्व्यापी चतुष्कारी च कीर्त्यते ॥ (८।२)

caturhitaś caturvyāpī catuṣkārī ca kīrtyate ||

9.1९.१

अष्टाङ्गो ऽष्टादशपदः शतशाखस् तथैव च । (९।१)

aṣṭāṅgo 'ṣṭādaśapadaḥ śataśākhas tathaiva ca |

9.2९.२

त्रियोनिर् द्व्यभियोगश् च द्विद्वारो द्विगतिस् तथा ॥ (९।२)

triyonir dvyabhiyogaś ca dvidvāro dvigatis tathā ||

10.1१०.१

धर्मश् च व्यवहारश् च चरित्रं राजशासनम् । (१०।१)

dharmaś ca vyavahāraś ca caritraṃ rājaśāsanam |

10.2१०.२

चतुष्पाद् व्यवहारो ऽयम् उत्तरः पूर्वबाधकः ॥ (१०।२)

catuṣpād vyavahāro 'yam uttaraḥ pūrvabādhakaḥ ||

11.1११.१

तत्र सत्ये स्थितो धर्मो व्यवहारस् तु साक्षिषु । (११।१)

tatra satye sthito dharmo vyavahāras tu sākṣiṣu |

11.2११.२

चरित्रं पुस्तकरणे राजाज्ञायां तु शासनम् ॥ (११।२)

caritraṃ pustakaraṇe rājājñāyāṃ tu śāsanam ||

12.1१२.१

सामाद्युपायसाध्यत्वाच् चतुःसाधन उच्यते । (१२।१)

sāmādyupāyasādhyatvāc catuḥsādhana ucyate |

12.2१२.२

चतुर्णाम् आश्रमाणां च रक्षणात् स चतुर्हितः ॥ (१२।२)

caturṇām āśramāṇāṃ ca rakṣaṇāt sa caturhitaḥ ||

13.1१३.१

कर्तॄन् अथो साक्षिणश् च सभ्यान् राजानम् एव च । (१३।१)

kartṝn atho sākṣiṇaś ca sabhyān rājānam eva ca |

13.2१३.२

व्याप्नोति पादशो यस्माच् चतुर्व्यापी ततः स्मृतः ॥ (१३।२)

vyāpnoti pādaśo yasmāc caturvyāpī tataḥ smṛtaḥ ||

14.1१४.१

धर्मस्यार्थस्य यशसो लोकपक्तेस् तथैव च । (१४।१)

dharmasyārthasya yaśaso lokapaktes tathaiva ca |

14.2१४.२

चतुर्णां करणाद् एषां चतुष्कारी प्रकीर्तितः ॥ (१४।२)

caturṇāṃ karaṇād eṣāṃ catuṣkārī prakīrtitaḥ ||

15.1१५.१

राजा सपुरुषः सभ्याः शास्त्रं गणकलेखकौ । (१५।१)

rājā sapuruṣaḥ sabhyāḥ śāstraṃ gaṇakalekhakau |

15.2१५.२

हिरण्यम् अग्निर् उदकम् अष्टाङ्गः स उदाहृतः ॥ (१५।२)

hiraṇyam agnir udakam aṣṭāṅgaḥ sa udāhṛtaḥ ||

16.1१६.१

ऋणादानं ह्य् उपनिधिः सम्भूयोत्थानम् एव च । (१६।१)

ṛṇādānaṃ hy upanidhiḥ sambhūyotthānam eva ca |

16.2१६.२

दत्तस्य पुनर् आदानम् अशुश्रूषाभ्युपेत्य च ॥ (१६।२)

dattasya punar ādānam aśuśrūṣābhyupetya ca ||

17.1१७.१

वेतनस्यानपाकर्म तथैवास्वामिविक्रयः । (१७।१)

vetanasyānapākarma tathaivāsvāmivikrayaḥ |

17.2१७.२

विक्रीयासंप्रदानं च क्रीत्वानुशय एव च ॥ (१७।२)

vikrīyāsaṃpradānaṃ ca krītvānuśaya eva ca ||

18.1१८.१

समयस्यानपाकर्म विवादः क्षेत्रजस् तथा । (१८।१)

samayasyānapākarma vivādaḥ kṣetrajas tathā |

18.2१८.२

स्त्रीपुंसयोश् च संबन्धो दायभागो ऽथ साहसम् ॥ (१८।२)

strīpuṃsayoś ca saṃbandho dāyabhāgo 'tha sāhasam ||

19.1१९.१

वाक्पारुष्यं तथैवोक्तं दण्डपारुष्यम् एव च । (१९।१)

vākpāruṣyaṃ tathaivoktaṃ daṇḍapāruṣyam eva ca |

19.2१९.२

द्यूतं प्रकीर्णकं चैवेत्य् अष्टादशपदः स्मृतः ॥ (१९।२)

dyūtaṃ prakīrṇakaṃ caivety aṣṭādaśapadaḥ smṛtaḥ ||

20.1२०.१

एषाम् एव प्रभेदो ऽन्यः शतम् अष्टोत्तरं स्मृतम् । (२०।१)

eṣām eva prabhedo 'nyaḥ śatam aṣṭottaraṃ smṛtam |

20.2२०.२

क्रियाभेदान् मनुष्याणां शतशाखो निगद्यते ॥ (२०।२)

kriyābhedān manuṣyāṇāṃ śataśākho nigadyate ||

21.1२१.१

कामात् क्रोधाच् च लोभाच् च त्रिभ्यो यस्मात् प्रवर्तते । (२१।१)

kāmāt krodhāc ca lobhāc ca tribhyo yasmāt pravartate |

21.2२१.२

त्रियोनिः कीर्त्यते तेन त्रयम् एतद् विवादकृत् ॥ (२१।२)

triyoniḥ kīrtyate tena trayam etad vivādakṛt ||

22.1२२.१

द्व्यभियोगस् तु विज्ञेयः शङ्कातत्त्वाभियोगतः । (२२।१)

dvyabhiyogas tu vijñeyaḥ śaṅkātattvābhiyogataḥ |

22.2२२.२

शङ्कासतां तु संसर्गात् तत्त्वं होढादिदर्शनात् ॥ (२२।२)

śaṅkāsatāṃ tu saṃsargāt tattvaṃ hoḍhādidarśanāt ||

23.1२३.१

पक्षद्वयाभिसंबन्धाद् द्विद्वारः समुदाहृतः । (२३।१)

pakṣadvayābhisaṃbandhād dvidvāraḥ samudāhṛtaḥ |

23.2२३.२

पूर्ववादस् तयोः पक्षः प्रतिपक्षस् तदुत्तरम् ॥ (२३।२)

pūrvavādas tayoḥ pakṣaḥ pratipakṣas taduttaram ||

24.1२४.१

भूतच्छलानुसारित्वाद् द्विगतिः स उदाहृतः । (२४।१)

bhūtacchalānusāritvād dvigatiḥ sa udāhṛtaḥ |

24.2२४.२

भूतं तत्त्वार्थसंयुक्तं प्रमादाभिहितं छलम् ॥ (२४।२)

bhūtaṃ tattvārthasaṃyuktaṃ pramādābhihitaṃ chalam ||

25.1२५.१

तत्र शिष्टं छलं राजा मर्षयेद् धर्मसाधनः । (२५।१)

tatra śiṣṭaṃ chalaṃ rājā marṣayed dharmasādhanaḥ |

25.2२५.२

भूतम् एव प्रपद्येत धर्ममूला यतः श्रियः ॥ (२५।२)

bhūtam eva prapadyeta dharmamūlā yataḥ śriyaḥ ||

26.1२६.१

धर्मेणोद्धरतो राज्ञो व्यवहारान् कृतात्मनः । (२६।१)

dharmeṇoddharato rājño vyavahārān kṛtātmanaḥ |

26.2२६.२

सम्भवन्ति गुणाः सप्त सप्त वह्नेर् इवार्चिषः ॥ (२६।२)

sambhavanti guṇāḥ sapta sapta vahner ivārciṣaḥ ||

27.1२७.१

धर्मश् चार्थश् च कीर्तिश् च लोकपक्तिर् उपग्रहः । (२७।१)

dharmaś cārthaś ca kīrtiś ca lokapaktir upagrahaḥ |

27.2२७.२

प्रजाभ्यो बहुमानश् च स्वर्गे स्थानं च शाश्वतम् ॥ (२७।२)

prajābhyo bahumānaś ca svarge sthānaṃ ca śāśvatam ||

28.1२८.१

तस्माद् धर्मासनं प्राप्य राजा विगतमत्सरः । (२८।१)

tasmād dharmāsanaṃ prāpya rājā vigatamatsaraḥ |

28.2२८.२

समः स्यात् सर्वभूतेषु बिभ्रद् वैवस्वतं व्रतम् ॥ (२८।२)

samaḥ syāt sarvabhūteṣu bibhrad vaivasvataṃ vratam ||

29.1२९.१

धर्मशास्त्रं पुरस्कृत्य प्राड्विवाकमते स्थितः । (२९।१)

dharmaśāstraṃ puraskṛtya prāḍvivākamate sthitaḥ |

29.2२९.२

समाहितमतिः पश्येद् व्यवहारान् अनुक्रमात् ॥ (२९।२)

samāhitamatiḥ paśyed vyavahārān anukramāt ||

30.1३०.१

आगमः प्रथमं कार्यो व्यवहारपदं ततः । (३०।१)

āgamaḥ prathamaṃ kāryo vyavahārapadaṃ tataḥ |

30.2३०.२

विवित्सा निर्णयश् चैव दर्शनं स्याच् चतुर्विधम् ॥ (३०।२)

vivitsā nirṇayaś caiva darśanaṃ syāc caturvidham ||

31.1३१.१

धर्मशास्त्रार्थशास्त्राभ्याम् अविरोधेन मार्गतः । (३१।१)

dharmaśāstrārthaśāstrābhyām avirodhena mārgataḥ |

31.2३१.२

समीक्षमाणो निपुणं व्यवहारगतिं नयेत् ॥ (३१।२)

samīkṣamāṇo nipuṇaṃ vyavahāragatiṃ nayet ||

32.1३२.१

यथा मृगस्य विद्धस्य व्याधो मृगपदं नयेत् । (३२।१)

yathā mṛgasya viddhasya vyādho mṛgapadaṃ nayet |

32.2३२.२

कक्षे शोणितलेशेन तथा धर्मपदं नयेत् ॥ (३२।२)

kakṣe śoṇitaleśena tathā dharmapadaṃ nayet ||

33.1३३.१

यत्र विप्रतिपत्तिः स्याद् धर्मशास्त्रार्थशास्त्रयोः । (३३।१)

yatra vipratipattiḥ syād dharmaśāstrārthaśāstrayoḥ |

33.2३३.२

अर्थशास्त्रोक्तम् उत्सृज्य धर्मशास्त्रोक्तम् आचरेत् ॥ (३३।२)

arthaśāstroktam utsṛjya dharmaśāstroktam ācaret ||

34.1३४.१

धर्मशास्त्रविरोधे तु युक्तियुक्तो ऽपि धर्मतः । (३४।१)

dharmaśāstravirodhe tu yuktiyukto 'pi dharmataḥ |

34.2३४.२

व्यवहारो हि बलवान् धर्मस् तेनावहीयते ॥ (३४।२)

vyavahāro hi balavān dharmas tenāvahīyate ||

35.1३५.१

सूक्ष्मो हि भगवान् धर्मः परोक्षो दुर्विचारणः । (३५।१)

sūkṣmo hi bhagavān dharmaḥ parokṣo durvicāraṇaḥ |

35.2३५.२

अतः प्रत्यक्षमार्गेण व्यवहारगतिं नयेत् ॥ (३५।२)

ataḥ pratyakṣamārgeṇa vyavahāragatiṃ nayet ||

36.1३६.१

यात्य् अचौरो ऽपि चौरत्वं चौरश् चायात्य् अचौरताम् । (३६।१)

yāty acauro 'pi cauratvaṃ cauraś cāyāty acauratām |

36.2३६.२

अचौरश् चौरतां प्राप्तो माण्डव्यो व्यवहारतः ॥ (३६।२)

acauraś cauratāṃ prāpto māṇḍavyo vyavahārataḥ ||

37.1३७.१

स्त्रीषु रात्रौ बहिर् ग्रामाद् अन्तर्वेश्मन्य् अरातिषु । (३७।१)

strīṣu rātrau bahir grāmād antarveśmany arātiṣu |

37.2३७.२

व्यवहारः कृतो ऽप्य् एषु पुनः कर्तव्यताम् इयात् ॥ (३७।२)

vyavahāraḥ kṛto 'py eṣu punaḥ kartavyatām iyāt ||

38.1३८.१

गहनत्वाद् विवादानाम् असामर्थ्यात् स्मृतेर् अपि । (३८।१)

gahanatvād vivādānām asāmarthyāt smṛter api |

38.2३८.२

ऋणादिषु हरेत् कालं कामं तत्त्वबुभुत्सया ॥ (३८।२)

ṛṇādiṣu haret kālaṃ kāmaṃ tattvabubhutsayā ||

39.1३९.१

गोभूहिरण्यस्त्रीस्तेयपारुष्यात्ययिकेषु च । (३९।१)

gobhūhiraṇyastrīsteyapāruṣyātyayikeṣu ca |

39.2३९.२

साहसेष्व् अभिशापे च सद्य एव विवादयेत् ॥ (३९।२)

sāhaseṣv abhiśāpe ca sadya eva vivādayet ||

40.1४०.१

अनावेद्य तु यो राज्ञे संदिग्धे ऽर्थे प्रवर्तते । (४०।१)

anāvedya tu yo rājñe saṃdigdhe 'rthe pravartate |

40.2४०.२

प्रसह्य स विनेयः स्यात् स चास्यार्थो न सिध्यति ॥ (४०।२)

prasahya sa vineyaḥ syāt sa cāsyārtho na sidhyati ||

41.1४१.१

वक्तव्ये ऽर्थे न तिष्ठन्तम् उत्क्रामन्तं च तद्वचः । (४१।१)

vaktavye 'rthe na tiṣṭhantam utkrāmantaṃ ca tadvacaḥ |

41.2४१.२

आसेधयेद् विवादार्थी यावद् आह्वानदर्शनम् ॥ (४१।२)

āsedhayed vivādārthī yāvad āhvānadarśanam ||

42.1४२.१

स्थानासेधः कालकृतः प्रवासात् कर्मणस् तथा । (४२।१)

sthānāsedhaḥ kālakṛtaḥ pravāsāt karmaṇas tathā |

42.2४२.२

चतुर्विधः स्याद् आसेधो नासिद्धस् तं विलङ्घयेत् ॥ (४२।२)

caturvidhaḥ syād āsedho nāsiddhas taṃ vilaṅghayet ||

43.1४३.१

नदीसंतारकान्तारदुर्देशोपप्लवादिषु । (४३।१)

nadīsaṃtārakāntāradurdeśopaplavādiṣu |

43.2४३.२

आसिद्धस् तं परासेधम् उत्क्रामन् नापराध्नुयात् ॥ (४३।२)

āsiddhas taṃ parāsedham utkrāman nāparādhnuyāt ||

44.1४४.१

आसेधकाल आसिद्ध आसेधम् यो व्यतिक्रमेत् । (४४।१)

āsedhakāla āsiddha āsedham yo vyatikramet |

44.2४४.२

स विनेयो ऽन्यथा कुर्वन्न् आसेद्धा दण्डभाग् भवेत् ॥ (४४।२)

sa vineyo 'nyathā kurvann āseddhā daṇḍabhāg bhavet ||

45.1४५.१

निर्वेष्टुकामो रोगार्तो यियक्षुर् व्यसने स्थितः । (४५।१)

nirveṣṭukāmo rogārto yiyakṣur vyasane sthitaḥ |

45.2४५.२

अभियुक्तस् तथान्येन राजकार्योद्यतस् तथा ॥ (४५।२)

abhiyuktas tathānyena rājakāryodyatas tathā ||

46.1४६.१

गवां प्रचारे गोपालाः सस्यबन्धे कृषीवलाः । (४६।१)

gavāṃ pracāre gopālāḥ sasyabandhe kṛṣīvalāḥ |

46.2४६.२

शिल्पिनः चापि तत्कालम् आयुधीयाश् च विग्रहे ॥ (४६।२)

śilpinaḥ cāpi tatkālam āyudhīyāś ca vigrahe ||

47.1४७.१

अप्राप्तव्यवहारश् च दूतो दानोन्मुखो व्रती । (४७।१)

aprāptavyavahāraś ca dūto dānonmukho vratī |

47.2४७.२

विषमस्थश् च नासेध्यो न चैनान् आह्वयेन् नृपः ॥ (४७।२)

viṣamasthaś ca nāsedhyo na cainān āhvayen nṛpaḥ ||

48.1४८.१

नाभियुक्तो ऽभियुञ्जीत तम् अतीर्त्वार्थम् अन्यतः । (४८।१)

nābhiyukto 'bhiyuñjīta tam atīrtvārtham anyataḥ |

48.2४८.२

न चाभियुक्तम् अन्येन न विद्धं वेद्धुम् अर्हति ॥ (४८।२)

na cābhiyuktam anyena na viddhaṃ veddhum arhati ||

49.1४९.१

यम् अर्थम् अभियुञ्जीत न तं विप्रकृतिं नयेत् । (४९।१)

yam artham abhiyuñjīta na taṃ viprakṛtiṃ nayet |

49.2४९.२

नान्यत् पक्षान्तरं गच्छेद् गच्छन् पूर्वात् स हीयते ॥ (४९।२)

nānyat pakṣāntaraṃ gacched gacchan pūrvāt sa hīyate ||

50.1५०.१

न च मिथ्याभियुञ्जीत दोषो मिथ्याभियोगिनः । (५०।१)

na ca mithyābhiyuñjīta doṣo mithyābhiyoginaḥ |

50.2५०.२

यस् तत्र विनयः प्रोक्तः सो ऽभियोक्तारम् आव्रजेत् ॥ (५०।२)

yas tatra vinayaḥ proktaḥ so 'bhiyoktāram āvrajet ||

51.1५१.१

सापदेशं हरन् कालम् अब्रुवंश् चापि संसदि । (५१।१)

sāpadeśaṃ haran kālam abruvaṃś cāpi saṃsadi |

51.2५१.२

उक्त्वा वचो विब्रुवंश् च हीयमानस्य लक्षणम् ॥ (५१।२)

uktvā vaco vibruvaṃś ca hīyamānasya lakṣaṇam ||

52.1५२.१

पलायते य आहूतः प्राप्तश् च विवदेन् न यः । (५२।१)

palāyate ya āhūtaḥ prāptaś ca vivaden na yaḥ |

52.2५२.२

विनेयः स भवेद् राज्ञा हीन एव स वादतः ॥ (५२।२)

vineyaḥ sa bhaved rājñā hīna eva sa vādataḥ ||

53.1५३.१

निर्णिक्तव्यवहारेषु प्रमाणम् अफलं भवेत् । (५३।१)

nirṇiktavyavahāreṣu pramāṇam aphalaṃ bhavet |

53.2५३.२

लिखितं साक्षिणो वापि पूर्वम् आवेदितं न चेत् ॥ (५३।२)

likhitaṃ sākṣiṇo vāpi pūrvam āveditaṃ na cet ||

54.1५४.१

यथा पक्वेषु धान्येषु निष्फलाः प्रावृषो गुणाः । (५४।१)

yathā pakveṣu dhānyeṣu niṣphalāḥ prāvṛṣo guṇāḥ |

54.2५४.२

निर्णिक्तव्यवहाराणां प्रमाणम् अफलं तथा ॥ (५४।२)

nirṇiktavyavahārāṇāṃ pramāṇam aphalaṃ tathā ||

55.1५५.१

अभूतम् अप्य् अभिहितं प्राप्तकालं परीक्ष्यते । (५५।१)

abhūtam apy abhihitaṃ prāptakālaṃ parīkṣyate |

55.2५५.२

यत् तु प्रमादान् नोच्येत तद् भूतम् अपि हीयते ॥ (५५।२)

yat tu pramādān nocyeta tad bhūtam api hīyate ||

56.1५६.१

तीरितं चानुशिष्टं च यो मन्येत विधर्मतः । (५६।१)

tīritaṃ cānuśiṣṭaṃ ca yo manyeta vidharmataḥ |

56.2५६.२

द्विगुणं दण्डम् आस्थाय तत् कार्यं पुनर् उद्धरेत् ॥ (५६।२)

dviguṇaṃ daṇḍam āsthāya tat kāryaṃ punar uddharet ||

57.1५७.१

दुर्दृष्टे व्यवहारे तु सभ्यास् तं दण्डम् आप्नुयुः । (५७।१)

durdṛṣṭe vyavahāre tu sabhyās taṃ daṇḍam āpnuyuḥ |

57.2५७.२

न हि जातु विना दण्डं कश्चिन् मार्गे ऽवतिष्ठते ॥ (५७।२)

na hi jātu vinā daṇḍaṃ kaścin mārge 'vatiṣṭhate ||

58.1५८.१

रागाद् अज्ञानतो वापि लोभाद् वा यो ऽन्यथा वदेत् । (५८।१)

rāgād ajñānato vāpi lobhād vā yo 'nyathā vadet |

58.2५८.२

सभ्यो ऽसभ्यः स विज्ञेयस् तं राजा विनयेद् भृशम् ॥ (५८।२)

sabhyo 'sabhyaḥ sa vijñeyas taṃ rājā vinayed bhṛśam ||

59.1५९.१

किंतु राज्ञा विशेषेण स्वधर्मम् अनुरक्षता । (५९।१)

kiṃtu rājñā viśeṣeṇa svadharmam anurakṣatā |

59.2५९.२

मनुष्यचित्तवैचित्र्यात् परीक्ष्या साध्वसाधुता ॥ (५९।२)

manuṣyacittavaicitryāt parīkṣyā sādhvasādhutā ||

60.1६०.१

पुरुषाः सन्ति ये लोभात् प्रब्रूयुः साक्ष्यम् अन्यथा । (६०।१)

puruṣāḥ santi ye lobhāt prabrūyuḥ sākṣyam anyathā |

60.2६०.२

सन्ति चान्ये दुरात्मानः कूटलेख्यकृतो जनाः ॥ (६०।२)

santi cānye durātmānaḥ kūṭalekhyakṛto janāḥ ||

61.1६१.१

अतः परीक्ष्यम् उभयम् एतद् राज्ञा विशेषतः । (६१।१)

ataḥ parīkṣyam ubhayam etad rājñā viśeṣataḥ |

61.2६१.२

लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः ॥ (६१।२)

lekhyācāreṇa likhitaṃ sākṣyācāreṇa sākṣiṇaḥ ||

62.1६२.१

असत्याः सत्यसंकाशाः सत्याश् चासत्यदर्शनाः । (६२।१)

asatyāḥ satyasaṃkāśāḥ satyāś cāsatyadarśanāḥ |

62.2६२.२

दृश्यन्ते विविधा भावास् तस्माद् युक्तं परीक्षणम् ॥ (६२।२)

dṛśyante vividhā bhāvās tasmād yuktaṃ parīkṣaṇam ||

63.1६३.१

तलवद् दृश्यते व्योम खद्योतो हव्यवाड् इव । (६३।१)

talavad dṛśyate vyoma khadyoto havyavāḍ iva |

63.2६३.२

न तलं विद्यते व्योम्नि न खद्योते हुताशनः ॥ (६३।२)

na talaṃ vidyate vyomni na khadyote hutāśanaḥ ||

64.1६४.१

तस्मात् प्रत्यक्षदृष्टो ऽपि युक्तम् अर्थः परीक्षितुम् । (६४।१)

tasmāt pratyakṣadṛṣṭo 'pi yuktam arthaḥ parīkṣitum |

64.2६४.२

परीक्ष्य ज्ञापयन् अर्थान् न धर्मात् परिहीयते ॥ (६४।२)

parīkṣya jñāpayan arthān na dharmāt parihīyate ||

65.1६५.१

एवं पश्यन् सदा राजा व्यवहारान् समाहितः । (६५।१)

evaṃ paśyan sadā rājā vyavahārān samāhitaḥ |

65.2६५.२

वितत्येह यशो दीप्तं ब्रध्नस्याप्नोति विष्टपम् ॥ (६५।२)

vitatyeha yaśo dīptaṃ bradhnasyāpnoti viṣṭapam ||

Data courtesy of The Digital Corpus of Sanskrit.

NāSmṛ, 1, 1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit