NāSmṛ, 2, 7
Select a line for its word-by-word analysis.
स्तोलेन् गोओद्स्निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वापहृत्य वा । (१।१)
Stolen goodsnikṣiptaṃ vā paradravyaṃ naṣṭaṃ labdhvāpahṛtya vā |
विक्रीयते ऽसमक्षं यद् विज्ञेयो ऽस्वामिविक्रयः ॥ (१।२)
vikrīyate 'samakṣaṃ yad vijñeyo 'svāmivikrayaḥ ||
द्रव्यम् अस्वामिविक्रीतं प्राप्य स्वामी समाप्नुयात् । (२।१)
dravyam asvāmivikrītaṃ prāpya svāmī samāpnuyāt |
प्रकाशं क्रयतः शुद्धिः क्रेतुः स्तेयं रहः क्रयात् ॥ (२।२)
prakāśaṃ krayataḥ śuddhiḥ kretuḥ steyaṃ rahaḥ krayāt ||
हीनमूल्यम् अवेलायां क्रीणंस् तद्दोषभाग् भवेत् ॥ (३।२)
hīnamūlyam avelāyāṃ krīṇaṃs taddoṣabhāg bhavet ||
न गूहेतागमं क्रेता शुद्धिस् तस्य तदागमात् । (४।१)
na gūhetāgamaṃ kretā śuddhis tasya tadāgamāt |
विपर्यये तुल्यदोषः स्तेयदण्डं च सो ऽर्हति ॥ (४।२)
viparyaye tulyadoṣaḥ steyadaṇḍaṃ ca so 'rhati ||
विक्रेता स्वामिने ऽर्थं च क्रेतुर् मूल्यं च तत्कृतम् । (५।१)
vikretā svāmine 'rthaṃ ca kretur mūlyaṃ ca tatkṛtam |
दद्याद् दण्डं तथा राज्ञे विधिर् अस्वामिविक्रये ॥ (५।२)
dadyād daṇḍaṃ tathā rājñe vidhir asvāmivikraye ||
परेण निहितं लब्ध्वा राजन्य् उपहरेन् निधिम् । (६।१)
pareṇa nihitaṃ labdhvā rājany upaharen nidhim |
राजगामी निधिः सर्वः सर्वेषां ब्राह्मणाद् ऋते ॥ (६।२)
rājagāmī nidhiḥ sarvaḥ sarveṣāṃ brāhmaṇād ṛte ||
ब्राह्मणो ऽपि निधिं लब्ध्वा क्षिप्रं राज्ञे निवेदयेत् । (७।१)
brāhmaṇo 'pi nidhiṃ labdhvā kṣipraṃ rājñe nivedayet |
तेन दत्तं च भुञ्जीत स्तेनः स्याद् अनिवेदयन् ॥ (७।२)
tena dattaṃ ca bhuñjīta stenaḥ syād anivedayan ||
स्वम् अप्य् अर्थं तथा नष्टं लब्ध्वा राज्ञे निवेदयेत् । (८।१)
svam apy arthaṃ tathā naṣṭaṃ labdhvā rājñe nivedayet |
गृह्णीयात् तत्र तं शुद्धम् अशुद्धं स्यात् ततो ऽन्यथा ॥ (८।२)
gṛhṇīyāt tatra taṃ śuddham aśuddhaṃ syāt tato 'nyathā ||
Data courtesy of The Digital Corpus of Sanskrit.