NāSmṛ, 2, 12
Select a line for its word-by-word analysis.
विवाहादिविधिः स्त्रीणां यत्र पुंसां च कीर्त्यते । (१।१)
vivāhādividhiḥ strīṇāṃ yatra puṃsāṃ ca kīrtyate |
वरणस्त्रीपुंसयोस् तु संबन्धाद् वरणं प्राग् विधीयते । (२।१)
varaṇastrīpuṃsayos tu saṃbandhād varaṇaṃ prāg vidhīyate |
वरणाद् ग्रहणं पाणेः संस्कारो ऽथ द्विलक्षणः ॥ (२।२)
varaṇād grahaṇaṃ pāṇeḥ saṃskāro 'tha dvilakṣaṇaḥ ||
ब्राह्मणक्षत्रियविशां शूद्राणां च परिग्रहे । (४।१)
brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca parigrahe |
स्वजात्या श्रेयसी भार्या स्वजात्यश् च पतिः स्त्रियाः ॥ (४।२)
svajātyā śreyasī bhāryā svajātyaś ca patiḥ striyāḥ ||
ब्राह्मणस्यानुलोम्येन स्त्रियो ऽन्यास् तिस्र एव तु । (५।१)
brāhmaṇasyānulomyena striyo 'nyās tisra eva tu |
शूद्रायाः प्रातिलोम्येन तथान्ये पतयस् त्रयः ॥ (५।२)
śūdrāyāḥ prātilomyena tathānye patayas trayaḥ ||
द्वे भार्ये क्षत्रियस्यान्ये वैश्यस्यैका प्रकीर्तिता । (६।१)
dve bhārye kṣatriyasyānye vaiśyasyaikā prakīrtitā |
वैश्याया द्वौ पती ज्ञेयाव् एको ऽन्यः क्षत्रियापतिः ॥ (६।२)
vaiśyāyā dvau patī jñeyāv eko 'nyaḥ kṣatriyāpatiḥ ||
आ सप्तमात् पञ्चमाद् वा बन्धुभ्यः पितृमातृताः । (७।१)
ā saptamāt pañcamād vā bandhubhyaḥ pitṛmātṛtāḥ |
अविवाह्याः सगोत्राः स्युः समानप्रवरास् तथा ॥ (७।२)
avivāhyāḥ sagotrāḥ syuḥ samānapravarās tathā ||
सिग्न्स् ओड़् अ सुइतब्ले हुस्बन्द्परीक्ष्यः पुरुषः पुंस्त्वे निजैर् एवाङ्गलक्षणैः । (८।१)
Signs of a suitable husbandparīkṣyaḥ puruṣaḥ puṃstve nijair evāṅgalakṣaṇaiḥ |
पुमांश् चेद् अविकल्पेन स कन्यां लब्धुम् अर्हति ॥ (८।२)
pumāṃś ced avikalpena sa kanyāṃ labdhum arhati ||
विट् चास्य प्लवते नाप्सु ह्लादि मूत्रं च फेनिलम् । (१०।१)
viṭ cāsya plavate nāpsu hlādi mūtraṃ ca phenilam |
पुमान् स्यांल् लक्षणैर् एतैर् विपरीतैस् तु पण्डकः ॥ (१०।२)
pumān syāṃl lakṣaṇair etair viparītais tu paṇḍakaḥ ||
चतुर्दशविधः शास्त्रे स तु दृष्टो मनीषिभिः । (११।१)
caturdaśavidhaḥ śāstre sa tu dṛṣṭo manīṣibhiḥ |
चिकित्स्यश् चाचिकित्स्यश् च तेषाम् उक्तो विधिः क्रमात् ॥ (११।२)
cikitsyaś cācikitsyaś ca teṣām ukto vidhiḥ kramāt ||
निसर्गपण्डो वध्रिश् च पक्षपण्डस् तथैव च । (१२।१)
nisargapaṇḍo vadhriś ca pakṣapaṇḍas tathaiva ca |
अभिशापाद् गुरो रोगाद् देवक्रोधात् तथैव च ॥ (१२।२)
abhiśāpād guro rogād devakrodhāt tathaiva ca ||
ईर्ष्यापण्डश् च सेव्यश् च वातरेता मुखेभगः । (१३।१)
īrṣyāpaṇḍaś ca sevyaś ca vātaretā mukhebhagaḥ |
आक्षिप्तो मोघबीजश् च शालीनो ऽन्यपतिस् तथा ॥ (१३।२)
ākṣipto moghabījaś ca śālīno 'nyapatis tathā ||
तत्राद्याव् अप्रतीकरौ पक्षाख्यो मासम् आचरेत् । (१४।१)
tatrādyāv apratīkarau pakṣākhyo māsam ācaret |
अनुक्रमात् त्रयस्यास्य कालः संवत्सरः स्मृतः ॥ (१४।२)
anukramāt trayasyāsya kālaḥ saṃvatsaraḥ smṛtaḥ ||
ईर्ष्यापण्डादयो ये ऽन्ये चत्वारः समुदाहृताः । (१५।१)
īrṣyāpaṇḍādayo ye 'nye catvāraḥ samudāhṛtāḥ |
संत्यक्तव्याः पतितवत् क्षतयोन्या अपि स्त्रियाः ॥ (१५।२)
saṃtyaktavyāḥ patitavat kṣatayonyā api striyāḥ ||
आक्षिप्तमोघबीजाभ्याम् पत्याव् अप्रतिकर्मणि । (१६।१)
ākṣiptamoghabījābhyām patyāv apratikarmaṇi |
पतिर् अन्यः स्मृतो नार्या वत्सरं संप्रतीक्ष्य तु ॥ (१६।२)
patir anyaḥ smṛto nāryā vatsaraṃ saṃpratīkṣya tu ||
शालीनस्यापि धृष्टस्त्रीसंयोगाद् भज्यते ध्वजः । (१७।१)
śālīnasyāpi dhṛṣṭastrīsaṃyogād bhajyate dhvajaḥ |
तं हीनवेगम् अन्यस्त्रीबालाद्याभिर् उपक्रमेत् ॥ (१७।२)
taṃ hīnavegam anyastrībālādyābhir upakramet ||
अन्यस्याम् यो मनुष्यः स्याद् अमनुष्यः स्वयोषिति । (१८।१)
anyasyām yo manuṣyaḥ syād amanuṣyaḥ svayoṣiti |
लभेत सान्यं भर्तारम् एतत् कार्यं प्रजापतेः ॥ (१८।२)
labheta sānyaṃ bhartāram etat kāryaṃ prajāpateḥ ||
अपत्यार्थं स्त्रियः सृष्टाः स्त्री क्षेत्रं बीजिनः प्रजाः । (१९।१)
apatyārthaṃ striyaḥ sṛṣṭāḥ strī kṣetraṃ bījinaḥ prajāḥ |
क्षेत्रं बीजवते देयं नाबीजी क्षेत्रम् अर्हति ॥ (१९।२)
kṣetraṃ bījavate deyaṃ nābījī kṣetram arhati ||
पिता दद्यात् स्वयं कन्याम् भ्राता वानुमते पितुः । (२०।१)
pitā dadyāt svayaṃ kanyām bhrātā vānumate pituḥ |
मातामहो मातुलश् च सकुल्या बान्धवास् तथा ॥ (२०।२)
mātāmaho mātulaś ca sakulyā bāndhavās tathā ||
माताभावे तु सर्वेषां प्रकृतौ यदि वर्तते । (२१।१)
mātābhāve tu sarveṣāṃ prakṛtau yadi vartate |
तस्याम् अप्रकृतिस्थायां दद्युः कन्यां स्वजातयः ॥ (२१।२)
tasyām aprakṛtisthāyāṃ dadyuḥ kanyāṃ svajātayaḥ ||
यदा तु नैव कश्चित् स्यात् कन्या राजानम् आव्रजेत् । (२२।१)
yadā tu naiva kaścit syāt kanyā rājānam āvrajet |
अनुज्ञया तस्य वरं प्रतीत्य वरयेत् स्वयम् ॥ (२२।२)
anujñayā tasya varaṃ pratītya varayet svayam ||
सह धर्मं चरेत् तेन पुत्रांश् चोत्पादयेत् ततः ॥ (२३।२)
saha dharmaṃ caret tena putrāṃś cotpādayet tataḥ ||
प्रतिगृह्य च यः कन्यां नरो देशान्तरं व्रजेत् । (२४।१)
pratigṛhya ca yaḥ kanyāṃ naro deśāntaraṃ vrajet |
त्रीन् ऋतून् समतिक्रम्य कन्यान्यं वरयेद् वरम् ॥ (२४।२)
trīn ṛtūn samatikramya kanyānyaṃ varayed varam ||
कन्या नर्तुम् उपेक्षेत बान्धवेभ्यो निवेदयेत् । (२५।१)
kanyā nartum upekṣeta bāndhavebhyo nivedayet |
ते चेन् न दद्युस् तां भर्त्रे ते स्युर् भ्रूणहभिः समाः ॥ (२५।२)
te cen na dadyus tāṃ bhartre te syur bhrūṇahabhiḥ samāḥ ||
यावन्तश् चर्तवस् तस्याः समतीता पतिं विना । (२६।१)
yāvantaś cartavas tasyāḥ samatītā patiṃ vinā |
तावत्यो भ्रूणहत्याः स्युस् तस्य यो न ददाति ताम् ॥ (२६।२)
tāvatyo bhrūṇahatyāḥ syus tasya yo na dadāti tām ||
अतो ऽप्रवृत्ते रजसि कन्यां दद्यात् पिता सकृत् । (२७।१)
ato 'pravṛtte rajasi kanyāṃ dadyāt pitā sakṛt |
महद् एनः स्पृशेद् एनम् अन्यथैष विधिः सताम् ॥ (२७।२)
mahad enaḥ spṛśed enam anyathaiṣa vidhiḥ satām ||
सकृद् आह ददानीति त्रीण्य् एतानि सकृत् सकृत् ॥ (२८।२)
sakṛd āha dadānīti trīṇy etāni sakṛt sakṛt ||
ब्राह्मादिषु विवाहेषु पञ्चस्व् एषु विधिः स्मृतः । (२९।१)
brāhmādiṣu vivāheṣu pañcasv eṣu vidhiḥ smṛtaḥ |
गुणापेक्षं भवेद् दानम् आसुरादिषु च त्रिषु ॥ (२९।२)
guṇāpekṣaṃ bhaved dānam āsurādiṣu ca triṣu ||
कन्यायाम् प्राप्तशुल्कायां ज्यायांश् चेद् वर आव्रजेत् । (३०।१)
kanyāyām prāptaśulkāyāṃ jyāyāṃś ced vara āvrajet |
धर्मार्थकामसंयुक्तं वाच्यं तत्रानृतं भवेत् ॥ (३०।२)
dharmārthakāmasaṃyuktaṃ vācyaṃ tatrānṛtaṃ bhavet ||
विर्गिनित्य्नादुष्टां दूषयेत् कन्यां नादुष्टं दूषयेद् वरम् । (३१।१)
virginitynāduṣṭāṃ dūṣayet kanyāṃ nāduṣṭaṃ dūṣayed varam |
दोषे तु सति नागः स्याद् अन्योन्यं त्यजतोस् तयोः ॥ (३१।२)
doṣe tu sati nāgaḥ syād anyonyaṃ tyajatos tayoḥ ||
दत्त्वा न्यायेन यः कन्यां वराय न ददाति ताम् । (३२।१)
dattvā nyāyena yaḥ kanyāṃ varāya na dadāti tām |
अदुष्टश् चेद् वरो राज्ञा स दण्ड्यस् तत्र चोरवत् ॥ (३२।२)
aduṣṭaś ced varo rājñā sa daṇḍyas tatra coravat ||
यस् तु दोषवतीं कन्याम् अनाख्याय प्रयच्छति । (३३।१)
yas tu doṣavatīṃ kanyām anākhyāya prayacchati |
तस्य कुर्यान् नृपो दण्डं पूर्वसाहसचोदितम् ॥ (३३।२)
tasya kuryān nṛpo daṇḍaṃ pūrvasāhasacoditam ||
अकन्येति तु यः कन्यां ब्रूयाद् द्वेषेण मानवः । (३४।१)
akanyeti tu yaḥ kanyāṃ brūyād dveṣeṇa mānavaḥ |
स शतं प्राप्नुयाद् दण्डं तस्या दोषम् अदर्शयन् ॥ (३४।२)
sa śataṃ prāpnuyād daṇḍaṃ tasyā doṣam adarśayan ||
प्रतिगृह्य तु यः कन्याम् अदुष्टाम् उत्सृजेद् वरः । (३५।१)
pratigṛhya tu yaḥ kanyām aduṣṭām utsṛjed varaḥ |
विनेयः सो ऽप्य् अकामो ऽपि कन्यां ताम् एव चोद्वहेत् ॥ (३५।२)
vineyaḥ so 'py akāmo 'pi kanyāṃ tām eva codvahet ||
कन्यादोषदीर्घकुत्सितरोगार्ता व्यङ्गा संसृष्टमैथुना । (३६।१)
kanyādoṣadīrghakutsitarogārtā vyaṅgā saṃsṛṣṭamaithunā |
धृष्टान्यगतभावा च कन्यादोषाः प्रकीर्तिताः ॥ (३६।२)
dhṛṣṭānyagatabhāvā ca kanyādoṣāḥ prakīrtitāḥ ||
वरदोषौन्मत्तः पतितः क्लीबो दुर्भगस् त्यक्तबान्धवः । (३७।१)
varadoṣaunmattaḥ patitaḥ klībo durbhagas tyaktabāndhavaḥ |
त्य्पेस् ओड़् मर्रिअगेअष्टौ विवाहा वर्णानां संस्कारार्थं प्रकीर्तिताः । (३८।१)
Types of marriageaṣṭau vivāhā varṇānāṃ saṃskārārthaṃ prakīrtitāḥ |
ब्राह्मस् तु प्रथमस् तेषां प्राजापत्यस् तथैव च ॥ (३८।२)
brāhmas tu prathamas teṣāṃ prājāpatyas tathaiva ca ||
आर्षश् चैवाथ दैवश् च गान्धर्वश् चासुरस् तथा । (३९।१)
ārṣaś caivātha daivaś ca gāndharvaś cāsuras tathā |
राक्षसो ऽनन्तरस् तस्मात् पैशाचस् त्व् अष्टमः स्मृतः ॥ (३९।२)
rākṣaso 'nantaras tasmāt paiśācas tv aṣṭamaḥ smṛtaḥ ||
सत्कृत्याहूय कन्यां तु ब्राह्मे दद्यात्त्व् अलंकृताम् । (४०।१)
satkṛtyāhūya kanyāṃ tu brāhme dadyāttv alaṃkṛtām |
सह धर्मं चरेत्य् उक्त्वा प्राजापत्यो विधीयते ॥ (४०।२)
saha dharmaṃ carety uktvā prājāpatyo vidhīyate ||
वस्त्रगोमिथुने दत्त्वा विवाहस् त्व् आर्ष उच्यते । (४१।१)
vastragomithune dattvā vivāhas tv ārṣa ucyate |
अन्तर्वेद्यां तु दैवः स्याद् ऋत्विजे कर्म कुर्वते ॥ (४१।२)
antarvedyāṃ tu daivaḥ syād ṛtvije karma kurvate ||
इच्छन्तीम् इच्छते प्राहुर् गान्धर्वो नाम पञ्चमम् । (४२।१)
icchantīm icchate prāhur gāndharvo nāma pañcamam |
विवाहस् त्व् आसुरो ज्ञेयः शुल्कसंव्यवहारतः ॥ (४२।२)
vivāhas tv āsuro jñeyaḥ śulkasaṃvyavahārataḥ ||
प्रसह्य हरणाद् उक्तो विवाहो राक्षसस् तथा । (४३।१)
prasahya haraṇād ukto vivāho rākṣasas tathā |
सुप्तमत्तोपगमनात् पैशाचस् त्व् अष्टमो ऽधमः ॥ (४३।२)
suptamattopagamanāt paiśācas tv aṣṭamo 'dhamaḥ ||
एषां तु धर्म्याश् चत्वारो ब्राह्माद्याः समुदाहृताः । (४४।१)
eṣāṃ tu dharmyāś catvāro brāhmādyāḥ samudāhṛtāḥ |
साधारणः स्याद् गान्धर्वस् त्रयो ऽधर्म्यास् त्व् अतः परे ॥ (४४।२)
sādhāraṇaḥ syād gāndharvas trayo 'dharmyās tv ataḥ pare ||
परपूर्वाः स्त्रियस् त्व् अन्याः सप्त प्रोक्ता यथाक्रमम् । (४५।१)
parapūrvāḥ striyas tv anyāḥ sapta proktā yathākramam |
पुनर्भूस् त्रिविधा तासां स्वैरिणी तु चतुर्विधा ॥ (४५।२)
punarbhūs trividhā tāsāṃ svairiṇī tu caturvidhā ||
पुनर्भूः प्रथमा सोक्ता पुनः संस्कारम् अर्हति ॥ (४६।२)
punarbhūḥ prathamā soktā punaḥ saṃskāram arhati ||
कौमारं पतिम् उत्सृज्य यान्यं पुरुषम् आश्रिता । (४७।१)
kaumāraṃ patim utsṛjya yānyaṃ puruṣam āśritā |
पुनः पत्युर् गृहम् यायात् सा द्वितीया प्रकीर्तिता ॥ (४७।२)
punaḥ patyur gṛham yāyāt sā dvitīyā prakīrtitā ||
असत्सु देवरेषु स्त्री बान्धवैर् या प्रदीयते । (४८।१)
asatsu devareṣu strī bāndhavair yā pradīyate |
स्वैरिणीस्त्री प्रसूताप्रसूता वा पत्याव् एव तु जीवति । (४९।१)
svairiṇīstrī prasūtāprasūtā vā patyāv eva tu jīvati |
कामात् समाश्रयेद् अन्यं प्रथमा स्वैरिणी तु सा ॥ (४९।२)
kāmāt samāśrayed anyaṃ prathamā svairiṇī tu sā ||
मृते भर्तरि या प्राप्तान् देवरान् अप्य् अपास्य तु । (५०।१)
mṛte bhartari yā prāptān devarān apy apāsya tu |
उपगच्छेत् परं कामात् सा द्वितीया प्रकीर्तिता ॥ (५०।२)
upagacchet paraṃ kāmāt sā dvitīyā prakīrtitā ||
प्राप्ता देशाद् धनक्रीता क्षुत्पिपासातुरा च या । (५१।१)
prāptā deśād dhanakrītā kṣutpipāsāturā ca yā |
तवाहम् इत्य् उपगता सा तृतीया प्रकीर्तिता ॥ (५१।२)
tavāham ity upagatā sā tṛtīyā prakīrtitā ||
देशधर्मान् अपेक्ष्य स्त्री गुरुभिर् या प्रदीयते । (५२।१)
deśadharmān apekṣya strī gurubhir yā pradīyate |
उत्पन्नसाहसान्यस्मै सान्त्या वै स्वैरिणी स्मृता ॥ (५२।२)
utpannasāhasānyasmai sāntyā vai svairiṇī smṛtā ||
पुनर्भुवां एष विधिः स्वैरिणीनां च कीर्तितः । (५३।१)
punarbhuvāṃ eṣa vidhiḥ svairiṇīnāṃ ca kīrtitaḥ |
पूर्वा पूर्वा जघन्यासां श्रेयसी तूत्तरोत्तरा ॥ (५३।२)
pūrvā pūrvā jaghanyāsāṃ śreyasī tūttarottarā ||
अपत्यम् उत्पादयितुस् तासां या शुल्कतो हृता । (५४।१)
apatyam utpādayitus tāsāṃ yā śulkato hṛtā |
अशुल्कोपनतायां तु क्षेत्रिकस्यैव तत् फलम् ॥ (५४।२)
aśulkopanatāyāṃ tu kṣetrikasyaiva tat phalam ||
क्षेत्रिकस्य यद् अज्ञातं क्षेत्रे बीजं प्रदीयते । (५५।१)
kṣetrikasya yad ajñātaṃ kṣetre bījaṃ pradīyate |
न तत्र बीजिनो भागः क्षेत्रिकस्यैव तद् भवेत् ॥ (५५।२)
na tatra bījino bhāgaḥ kṣetrikasyaiva tad bhavet ||
फलभुग् यस्य तत् क्षेत्रं न बीजी फलभाग् भवेत् ॥ (५६।२)
phalabhug yasya tat kṣetraṃ na bījī phalabhāg bhavet ||
महोक्षो जनयेद् वत्सान् यस्य गोषु व्रजे चरन् । (५७।१)
mahokṣo janayed vatsān yasya goṣu vraje caran |
तस्य ते यस्य ता गावो मोघं स्यन्दितम् आर्षभम् ॥ (५७।२)
tasya te yasya tā gāvo moghaṃ syanditam ārṣabham ||
क्षेत्रिकानुमतं बीजं यस्य क्षेत्रे प्रमुच्यते । (५८।१)
kṣetrikānumataṃ bījaṃ yasya kṣetre pramucyate |
तदपत्यं द्वयोर् एव बीजिक्षेत्रिकयोर् मतम् ॥ (५८।२)
tadapatyaṃ dvayor eva bījikṣetrikayor matam ||
नर्ते क्षेत्रं भवेत् सस्यं न च बीजं विनास्ति तत् । (५९।१)
narte kṣetraṃ bhavet sasyaṃ na ca bījaṃ vināsti tat |
अतो ऽपत्यं द्वयोर् इष्टं पितुर् मातुश् च धर्मतः ॥ (५९।२)
ato 'patyaṃ dvayor iṣṭaṃ pitur mātuś ca dharmataḥ ||
नाथवत्या परगृहे संयुक्तस्य स्त्रिया सह । (६०।१)
nāthavatyā paragṛhe saṃyuktasya striyā saha |
दृष्टं संग्रहणं तज्ज्ञैर् नागतायाः स्वयं गृहे ॥ (६०।२)
dṛṣṭaṃ saṃgrahaṇaṃ tajjñair nāgatāyāḥ svayaṃ gṛhe ||
प्रदुष्टत्यक्तदारस्य क्लीबस्य क्षमकस्य च । (६१।१)
praduṣṭatyaktadārasya klībasya kṣamakasya ca |
स्वेच्छयोपेयुषो दारान् न दोषः साहसो भवेत् ॥ (६१।२)
svecchayopeyuṣo dārān na doṣaḥ sāhaso bhavet ||
स्थानसंभाषणामोदास् त्रयः संग्रहणक्रमाः ॥ (६२।२)
sthānasaṃbhāṣaṇāmodās trayaḥ saṃgrahaṇakramāḥ ||
नदीनां संगमे तीर्थेष्व् आरामेषु वनेषु च । (६३।१)
nadīnāṃ saṃgame tīrtheṣv ārāmeṣu vaneṣu ca |
स्त्री पुमांश् च समेयातां ग्राह्यं संग्रहणं भवेत् ॥ (६३।२)
strī pumāṃś ca sameyātāṃ grāhyaṃ saṃgrahaṇaṃ bhavet ||
दूतीप्रस्थापनैश् चैव लेखासंप्रेषणैर् अपि । (६४।१)
dūtīprasthāpanaiś caiva lekhāsaṃpreṣaṇair api |
अन्यैर् अपि व्यभिचारैः सर्वं संग्रहणं स्मृतम् ॥ (६४।२)
anyair api vyabhicāraiḥ sarvaṃ saṃgrahaṇaṃ smṛtam ||
स्त्रियं स्पृशेद् अदेशे यः स्पृष्टो वा मर्शयेत् तथा । (६५।१)
striyaṃ spṛśed adeśe yaḥ spṛṣṭo vā marśayet tathā |
परस्परस्यानुमते तच् च संग्रहणं भवेत् ॥ (६५।२)
parasparasyānumate tac ca saṃgrahaṇaṃ bhavet ||
भक्षैर् वा यदि वा भोज्यैर् वस्त्रैर् माल्यैस् तथैव च । (६६।१)
bhakṣair vā yadi vā bhojyair vastrair mālyais tathaiva ca |
संप्रेष्यमानैर् गन्धैश् च सर्वं संग्रहणं स्मृतम् ॥ (६६।२)
saṃpreṣyamānair gandhaiś ca sarvaṃ saṃgrahaṇaṃ smṛtam ||
दर्पाद् वा यदि वा मोहाच्छ्लाघया वा स्वयं वदेत् । (६७।१)
darpād vā yadi vā mohācchlāghayā vā svayaṃ vadet |
ममेयं भुक्तपूर्वेति सर्वं संग्रहणं स्मृतम् ॥ (६७।२)
mameyaṃ bhuktapūrveti sarvaṃ saṃgrahaṇaṃ smṛtam ||
पाणौ यश् च निगृह्णीयाद् वेण्यां वस्त्रान्तरे ऽपि वा । (६८।१)
pāṇau yaś ca nigṛhṇīyād veṇyāṃ vastrāntare 'pi vā |
तिष्ठ तिष्ठेति वा ब्रूयात् सर्वं संग्रहणं स्मृतम् ॥ (६८।२)
tiṣṭha tiṣṭheti vā brūyāt sarvaṃ saṃgrahaṇaṃ smṛtam ||
स्वजात्यतिक्रमे पुंसां उक्तम् उत्तमसाहसम् । (६९।१)
svajātyatikrame puṃsāṃ uktam uttamasāhasam |
विपर्यये मध्यमस् तु प्रातिलोमे प्रमापणम् ॥ (६९।२)
viparyaye madhyamas tu prātilome pramāpaṇam ||
कन्यायाम् असकामायां द्व्यङ्गुलस्यावकर्तनम् । (७०।१)
kanyāyām asakāmāyāṃ dvyaṅgulasyāvakartanam |
उत्तमायां वधस् त्व् एव सर्वस्वहरणं तथा ॥ (७०।२)
uttamāyāṃ vadhas tv eva sarvasvaharaṇaṃ tathā ||
सकामायां तु कन्यायां सवर्णे नास्त्य् अतिक्रमः । (७१।१)
sakāmāyāṃ tu kanyāyāṃ savarṇe nāsty atikramaḥ |
किंत्व् अलंकृत्य सत्कृत्य स एवैनां समुद्वहेत् ॥ (७१।२)
kiṃtv alaṃkṛtya satkṛtya sa evaināṃ samudvahet ||
गुरुतल्पमाता मातृष्वसा श्वश्रूर् मातुलानी पितृष्वसा । (७२।१)
gurutalpamātā mātṛṣvasā śvaśrūr mātulānī pitṛṣvasā |
पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥ (७२।२)
pitṛvyasakhiśiṣyastrī bhaginī tatsakhī snuṣā ||
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥ (७३।२)
rājñī pravrajitā dhātrī sādhvī varṇottamā ca yā ||
शिश्नस्योत्कर्तनं दण्डो नान्यस् तत्र विधीयते ॥ (७४।२)
śiśnasyotkartanaṃ daṇḍo nānyas tatra vidhīyate ||
पशुयोन्याम् अतिक्रामन् विनेयः स दमं शतम् । (७५।१)
paśuyonyām atikrāman vineyaḥ sa damaṃ śatam |
मध्यमं साहसं गोषु तद् एवान्त्यावसायिषु ॥ (७५।२)
madhyamaṃ sāhasaṃ goṣu tad evāntyāvasāyiṣu ||
अगम्यागामिनः शास्ति दण्डो राज्ञा प्रचोदितः । (७६।१)
agamyāgāminaḥ śāsti daṇḍo rājñā pracoditaḥ |
प्रायश्चित्तविधाव् अत्र प्रायश्चित्तं विशोधनम् ॥ (७६।२)
prāyaścittavidhāv atra prāyaścittaṃ viśodhanam ||
स्वैरिण्य् अब्राह्मणी वेश्या दासी निष्कासिनी च या । (७७।१)
svairiṇy abrāhmaṇī veśyā dāsī niṣkāsinī ca yā |
गम्याः स्युर् आनुलोम्येन स्त्रियो न प्रतिलोमतः ॥ (७७।२)
gamyāḥ syur ānulomyena striyo na pratilomataḥ ||
आस्व् एव तु भुजिष्यासु दोषः स्यात् परदारवत् । (७८।१)
āsv eva tu bhujiṣyāsu doṣaḥ syāt paradāravat |
गम्या अपि हि नोपेयास् ताश् चेद् अन्यपरिग्रहाः ॥ (७८।२)
gamyā api hi nopeyās tāś ced anyaparigrahāḥ ||
अनुत्पन्नप्रजायास् तु पतिः प्रेयाद् यदि स्त्रियाः । (७९।१)
anutpannaprajāyās tu patiḥ preyād yadi striyāḥ |
नियुक्ता गुरुभिर् गच्छेद् देवरं पुत्रकाम्यया ॥ (७९।२)
niyuktā gurubhir gacched devaraṃ putrakāmyayā ||
स च तां प्रतिपद्येत तथैव पुत्रजन्मतः । (८०।१)
sa ca tāṃ pratipadyeta tathaiva putrajanmataḥ |
पुत्रे जाते निवर्तेत विप्लवः स्याद् अतो ऽन्यथा ॥ (८०।२)
putre jāte nivarteta viplavaḥ syād ato 'nyathā ||
मुखान् मुखं परिहरन् गात्रैर् गात्राण्य् असंस्पृशन् ॥ (८१।२)
mukhān mukhaṃ pariharan gātrair gātrāṇy asaṃspṛśan ||
स्त्रियं पुत्रवतीं वन्ध्यां नीरजस्काम् अनिच्छन्तीम् । (८२।१)
striyaṃ putravatīṃ vandhyāṃ nīrajaskām anicchantīm |
न गच्छेद् गर्भिणीं निन्द्याम् अनियुक्तां च बन्धुभिः ॥ (८२।२)
na gacched garbhiṇīṃ nindyām aniyuktāṃ ca bandhubhiḥ ||
अनियुक्ता तु या नारी देवराज् जनयेत् सुतम् । (८३।१)
aniyuktā tu yā nārī devarāj janayet sutam |
जारजातम् अरिक्थीयं तम् आहुर् धर्मवादिनः ॥ (८३।२)
jārajātam arikthīyaṃ tam āhur dharmavādinaḥ ||
तथानियुक्तो भार्यायां यवीयाञ् ज्यायसो व्रजेत् । (८४।१)
tathāniyukto bhāryāyāṃ yavīyāñ jyāyaso vrajet |
यवीयसो वा यो ज्यायान् उभौ तौ गुरुतल्पगौ ॥ (८४।२)
yavīyaso vā yo jyāyān ubhau tau gurutalpagau ||
नियुक्तो गुरुभिर् गच्छेद् भ्रातृभार्यां यवीयसः ॥ (८५।२)
niyukto gurubhir gacched bhrātṛbhāryāṃ yavīyasaḥ ||
अविद्यमाने तु गुरौ राज्ञो वाच्यः कुलक्षयः । (८६।१)
avidyamāne tu gurau rājño vācyaḥ kulakṣayaḥ |
ततस् तद्वचनाद् गच्छेद् अनुशिष्य स्त्रिया सह ॥ (८६।२)
tatas tadvacanād gacched anuśiṣya striyā saha ||
पूर्वोक्तेनैव विधिना स्नातां पुंसवने शुचिः । (८७।१)
pūrvoktenaiva vidhinā snātāṃ puṃsavane śuciḥ |
सकृद् आ गर्भाधानाद् वा कृते गर्भे स्नुषैव सा ॥ (८७।२)
sakṛd ā garbhādhānād vā kṛte garbhe snuṣaiva sā ||
अतो ऽन्यथा वर्तमानः पुमान् स्त्री वापि कामतः । (८८।१)
ato 'nyathā vartamānaḥ pumān strī vāpi kāmataḥ |
विनेयौ सुभृशं राज्ञा किल्बिषी स्याद् अनिग्रहात् ॥ (८८।२)
vineyau subhṛśaṃ rājñā kilbiṣī syād anigrahāt ||
अन्योन्यं त्यजतोर् नागः स्याद् अन्योन्यविरुद्धयोः । (९०।१)
anyonyaṃ tyajator nāgaḥ syād anyonyaviruddhayoḥ |
स्त्रीपुंसयोर् निगूढाया व्यभिचाराद् ऋते स्त्रियाः ॥ (९०।२)
strīpuṃsayor nigūḍhāyā vyabhicārād ṛte striyāḥ ||
व्यभिचारे स्त्रिया मौण्ड्यम् अधःशयनम् एव च । (९१।१)
vyabhicāre striyā mauṇḍyam adhaḥśayanam eva ca |
कदन्नं वा कुवासश् च कर्म चावस्करोञ्झनम् ॥ (९१।२)
kadannaṃ vā kuvāsaś ca karma cāvaskaroñjhanam ||
स्त्रीधनभ्रष्टसर्वस्वां गर्भविस्रंसिनीं तथा । (९२।१)
strīdhanabhraṣṭasarvasvāṃ garbhavisraṃsinīṃ tathā |
भर्तुश् च वधम् इच्छन्तीं स्त्रियं निर्वासयेद् गृहात् ॥ (९२।२)
bhartuś ca vadham icchantīṃ striyaṃ nirvāsayed gṛhāt ||
पूर्वाशिनीं च या भर्तुः स्त्रियं निर्वासयेद् बुधः ॥ (९३।२)
pūrvāśinīṃ ca yā bhartuḥ striyaṃ nirvāsayed budhaḥ ||
वन्ध्यां स्त्रीजननीं निन्द्यां प्रतिकुलां च सर्वदा । (९४।१)
vandhyāṃ strījananīṃ nindyāṃ pratikulāṃ ca sarvadā |
कामतो नाभिनन्देत कुर्वन्न् एवं स दोषभाक् ॥ (९४।२)
kāmato nābhinandeta kurvann evaṃ sa doṣabhāk ||
अनुकूलाम् अवाग्दुष्टां दक्षां साध्वीं प्रजावतीम् । (९५।१)
anukūlām avāgduṣṭāṃ dakṣāṃ sādhvīṃ prajāvatīm |
त्यजन् भार्याम् अवस्थाप्यो राज्ञा दण्डेन भूयसा ॥ (९५।२)
tyajan bhāryām avasthāpyo rājñā daṇḍena bhūyasā ||
अज्ञातदोषेणोढा या निर्गता नान्यम् आश्रिता । (९६।१)
ajñātadoṣeṇoḍhā yā nirgatā nānyam āśritā |
बन्धुभिः सा नियोक्तव्या निर्बन्धुः स्वयम् आश्रयेत् ॥ (९६।२)
bandhubhiḥ sā niyoktavyā nirbandhuḥ svayam āśrayet ||
नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ । (९७।१)
naṣṭe mṛte pravrajite klībe ca patite patau |
पञ्चस्व् आपत्सु नारीणां पतिर् अन्यो विधीयते ॥ (९७।२)
pañcasv āpatsu nārīṇāṃ patir anyo vidhīyate ||
अष्टौ वर्षाण्य् उदीक्षेत ब्राह्मणी प्रोषितं पतिम् । (९८।१)
aṣṭau varṣāṇy udīkṣeta brāhmaṇī proṣitaṃ patim |
अप्रसूता तु चत्वारि परतो ऽन्यं समाश्रयेत् ॥ (९८।२)
aprasūtā tu catvāri parato 'nyaṃ samāśrayet ||
क्षत्रिया षट् समास् तिष्ठेद् अप्रसूता समात्रयम् । (९९।१)
kṣatriyā ṣaṭ samās tiṣṭhed aprasūtā samātrayam |
वैश्या प्रसूता चत्वारि द्वे समे त्व् इतरा वसेत् ॥ (९९।२)
vaiśyā prasūtā catvāri dve same tv itarā vaset ||
न शूद्रायाः स्मृतः कालो न च धर्मव्यतिक्रमः । (१००।१)
na śūdrāyāḥ smṛtaḥ kālo na ca dharmavyatikramaḥ |
विशेषतो ऽप्रसूतायाः संवत्सरपरा स्थितिः ॥ (१००।२)
viśeṣato 'prasūtāyāḥ saṃvatsaraparā sthitiḥ ||
अप्रवृत्तौ स्मृतः धर्म एष प्रोषितयोषिताम् । (१०१।१)
apravṛttau smṛtaḥ dharma eṣa proṣitayoṣitām |
जीवति श्रूयमाणे तु स्याद् एष द्विगुणो विधिः ॥ (१०१।२)
jīvati śrūyamāṇe tu syād eṣa dviguṇo vidhiḥ ||
प्रजाप्रवृत्तौ भूतानां सृष्टिर् एषा प्रजापतेः । (१०२।१)
prajāpravṛttau bhūtānāṃ sṛṣṭir eṣā prajāpateḥ |
अतो ऽन्यगमने स्त्रीणाम् एवं दोषो न विद्यते ॥ (१०२।२)
ato 'nyagamane strīṇām evaṃ doṣo na vidyate ||
आनुलोम्येन वर्णानां यज् जन्म स विधिः स्मृतः । (१०३।१)
ānulomyena varṇānāṃ yaj janma sa vidhiḥ smṛtaḥ |
प्रातिलोम्येन यज् जन्म स ज्ञेयो वर्णसंकरः ॥ (१०३।२)
prātilomyena yaj janma sa jñeyo varṇasaṃkaraḥ ||
अनन्तरः स्मृतः पुत्रः पुत्र एकान्तरस् तथा । (१०४।१)
anantaraḥ smṛtaḥ putraḥ putra ekāntaras tathā |
द्व्यन्तरश् चानुलोम्येन तथैव प्रतिलोमतः ॥ (१०४।२)
dvyantaraś cānulomyena tathaiva pratilomataḥ ||
उत्तमेभ्यस् त्रयस् त्रिभ्यः शूद्रापुत्राः प्रकीर्तिताः ॥ (१०५।२)
uttamebhyas trayas tribhyaḥ śūdrāputrāḥ prakīrtitāḥ ||
अपरेभ्यस् त्रयस् त्रिभ्यो विज्ञेयः प्रतिलोमतः ॥ (१०६।२)
aparebhyas trayas tribhyo vijñeyaḥ pratilomataḥ ||
अम्बष्ठो मागधश् चैव क्षत्ता च क्षत्रियासुताः । (१०७।१)
ambaṣṭho māgadhaś caiva kṣattā ca kṣatriyāsutāḥ |
आनुलोम्येन तत्रैको द्वौ ज्ञेयौ प्रतिलोमतः ॥ (१०७।२)
ānulomyena tatraiko dvau jñeyau pratilomataḥ ||
वैश्यापुत्रास् तु दौष्षन्तयवनायोगवा अपि । (१०८।१)
vaiśyāputrās tu dauṣṣantayavanāyogavā api |
प्रातिलोम्येन यत्रैको द्वौ ज्ञेयौ चानुलोमजौ ॥ (१०८।२)
prātilomyena yatraiko dvau jñeyau cānulomajau ||
सूताद्याः प्रतिलोमास् तु ये जातिप्रतिलोमजाः । (१०९।१)
sūtādyāḥ pratilomās tu ye jātipratilomajāḥ |
ते संकराः श्वपाकाद्यास् तेषां त्रिः सप्तको गणः ॥ (१०९।२)
te saṃkarāḥ śvapākādyās teṣāṃ triḥ saptako gaṇaḥ ||
सवर्णो ब्राह्मणीपुत्रः क्षत्रियायाम् अनन्तरः । (११०।१)
savarṇo brāhmaṇīputraḥ kṣatriyāyām anantaraḥ |
अम्बष्ठोग्रौ तथा पुत्राव् एवं क्षत्रियवैश्ययोः ॥ (११०।२)
ambaṣṭhograu tathā putrāv evaṃ kṣatriyavaiśyayoḥ ||
एकान्तरस् तु दौष्षन्तो वैश्यायां ब्राह्मणात् सुतः । (१११।१)
ekāntaras tu dauṣṣanto vaiśyāyāṃ brāhmaṇāt sutaḥ |
शूद्रायां क्षत्रियात् तद्वन् निषादो नाम जायते ॥ (१११।२)
śūdrāyāṃ kṣatriyāt tadvan niṣādo nāma jāyate ||
शूद्रा पारशवं सूते ब्राह्मणाद् उत्तरं सुतम् । (११२।१)
śūdrā pāraśavaṃ sūte brāhmaṇād uttaraṃ sutam |
आनुलोम्येन वर्णानां पुत्रा ह्य् एते प्रकीर्तिताः ॥ (११२।२)
ānulomyena varṇānāṃ putrā hy ete prakīrtitāḥ ||
सूतश् च मागधश् चैव पुत्राव् आयोगवस् तथा । (११३।१)
sūtaś ca māgadhaś caiva putrāv āyogavas tathā |
प्रातिलोम्येन वर्णानां तद्वद् एते ऽप्य् अनन्तराः ॥ (११३।२)
prātilomyena varṇānāṃ tadvad ete 'py anantarāḥ ||
अनन्तरः स्मृतः सूतो ब्राह्मण्यां क्षत्रियात् सुतः । (११४।१)
anantaraḥ smṛtaḥ sūto brāhmaṇyāṃ kṣatriyāt sutaḥ |
मागधायोगवौ तद्वद् द्वी पुत्रौ वैश्यशूद्रयोः ॥ (११४।२)
māgadhāyogavau tadvad dvī putrau vaiśyaśūdrayoḥ ||
ब्राह्मण्य् एकान्तरं वैश्यात् सूते वैदेहकं सुतम् । (११५।१)
brāhmaṇy ekāntaraṃ vaiśyāt sūte vaidehakaṃ sutam |
क्षत्तारं क्षत्रिया शूद्रात् पुत्रम् एकान्तरं तथा ॥ (११५।२)
kṣattāraṃ kṣatriyā śūdrāt putram ekāntaraṃ tathā ||
द्व्यन्तरः प्रातिलोम्येन पापिष्ठः सति संकरे । (११६।१)
dvyantaraḥ prātilomyena pāpiṣṭhaḥ sati saṃkare |
चाण्डालो जायते शूद्राद् ब्राह्मणी यत्र मुह्यति ॥ (११६।२)
cāṇḍālo jāyate śūdrād brāhmaṇī yatra muhyati ||
राज्ञा परीक्ष्यं न यथा जायते वर्णसंकरः । (११७।१)
rājñā parīkṣyaṃ na yathā jāyate varṇasaṃkaraḥ |
तस्माद् राज्ञा विशेषेण त्रयी रक्ष्या तु संकरात् ॥ (११७।२)
tasmād rājñā viśeṣeṇa trayī rakṣyā tu saṃkarāt ||
Data courtesy of The Digital Corpus of Sanskrit.