नारदस्मृतिNāradasmṛti

NāSmṛ, 2, 4

7 of 22 · 22 verses

Select a line for its word-by-word analysis.

1.1१.१

दत्त्वा द्रव्यम् असम्यग् यः पुनर् आदातुम् इच्छति । (१।१)

dattvā dravyam asamyag yaḥ punar ādātum icchati |

1.2१.२

दत्ताप्रदानिकं नाम तद् विवादपदं स्मृतम् ॥ (१।२)

dattāpradānikaṃ nāma tad vivādapadaṃ smṛtam ||

2.1२.१

अदेयम् अथ देयं च दत्तं चादत्तम् एव च । (२।१)

adeyam atha deyaṃ ca dattaṃ cādattam eva ca |

2.2२.२

व्यवहारेषु विज्ञेयो दानमार्गश् चतुर्विधः ॥ (२।२)

vyavahāreṣu vijñeyo dānamārgaś caturvidhaḥ ||

3.1३.१

तत्र ह्यष्टाव् अदेयानि देयम् एकविधं स्मृतम् । (३।१)

tatra hyaṣṭāv adeyāni deyam ekavidhaṃ smṛtam |

3.2३.२

दत्तं सप्तविधं विद्याद् अदत्तं षोडशात्मकम् ॥ (३।२)

dattaṃ saptavidhaṃ vidyād adattaṃ ṣoḍaśātmakam ||

4.1४.१

अन्वाहितं याचितकम् आधिः साधारणं च यत् । (४।१)

anvāhitaṃ yācitakam ādhiḥ sādhāraṇaṃ ca yat |

4.2४.२

निक्षेपः पुत्रदारं च सर्वस्वं चान्वये सति ॥ (४।२)

nikṣepaḥ putradāraṃ ca sarvasvaṃ cānvaye sati ||

5.1५.१

आपत्स्व् अपि हि कष्टासु वर्तमानेन देहिना । (५।१)

āpatsv api hi kaṣṭāsu vartamānena dehinā |

5.2५.२

अदेयान्य् आहुर् आचार्या यच् चान्यस्मै प्रतिश्रुतम् ॥ (५।२)

adeyāny āhur ācāryā yac cānyasmai pratiśrutam ||

6.1६.१

कुटुम्बभरणाद् द्रव्यं यत्किंचिद् अतिरिच्यते । (६।१)

kuṭumbabharaṇād dravyaṃ yatkiṃcid atiricyate |

6.2६.२

तद् देयम् उपहृत्यान्यद् ददद् दोषम् अवाप्नुयात् ॥ (६।२)

tad deyam upahṛtyānyad dadad doṣam avāpnuyāt ||

7.1७.१

पण्यमूल्यं भृतिस् तुष्ट्या स्नेहात् प्रत्युपकारतः । (७।१)

paṇyamūlyaṃ bhṛtis tuṣṭyā snehāt pratyupakārataḥ |

7.2७.२

स्त्रीशुल्कानुग्रहार्थं च दत्तं दानविदो विदुः ॥ (७।२)

strīśulkānugrahārthaṃ ca dattaṃ dānavido viduḥ ||

8.1८.१

अदत्तं तु भयक्रोधशोकवेगरुजान्वितैः । (८।१)

adattaṃ tu bhayakrodhaśokavegarujānvitaiḥ |

8.2८.२

तथोत्कोचपरीहासव्यत्यासच्छलयोगतः ॥ (८।२)

tathotkocaparīhāsavyatyāsacchalayogataḥ ||

9.1९.१

बालमूढास्वतन्त्रार्तमत्तोन्मत्तापवर्जितम् । (९।१)

bālamūḍhāsvatantrārtamattonmattāpavarjitam |

9.2९.२

कर्ता ममायं कर्मेति प्रतिलाभेच्छया च यत् ॥ (९।२)

kartā mamāyaṃ karmeti pratilābhecchayā ca yat ||

10.1१०.१

अपात्रे पात्रम् इत्य् उक्ते कार्ये चाधर्मसंहिते । (१०।१)

apātre pātram ity ukte kārye cādharmasaṃhite |

10.2१०.२

यद् दत्तं स्याद् अविज्ञानाद् अदत्तं तद् अपि स्मृतम् ॥ (१०।२)

yad dattaṃ syād avijñānād adattaṃ tad api smṛtam ||

11.1११.१

गृह्णात्य् अदत्तं यो लोभाद् यश् चादेयं प्रयच्छति । (११।१)

gṛhṇāty adattaṃ yo lobhād yaś cādeyaṃ prayacchati |

11.2११.२

अदत्तादायको दण्ड्यस् तथादेयस्य दायकः ॥ (११।२)

adattādāyako daṇḍyas tathādeyasya dāyakaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

NāSmṛ, 2, 4

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit