NāSmṛ, 2, 9
Select a line for its word-by-word analysis.
क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते । (१।१)
krītvā mūlyena yaḥ paṇyaṃ kretā na bahu manyate |
क्रीत्वा मूल्येन यत् पण्यं दुष्क्रीतं मन्यते क्रयी । (२।१)
krītvā mūlyena yat paṇyaṃ duṣkrītaṃ manyate krayī |
विक्रेतुः प्रतिदेयं तत् तस्मिन् एवाह्न्य् अविक्षतम् ॥ (२।२)
vikretuḥ pratideyaṃ tat tasmin evāhny avikṣatam ||
द्वितीये ऽह्नि ददत् क्रेता मूल्यात् त्रिंशांशम् आवहेत् । (३।१)
dvitīye 'hni dadat kretā mūlyāt triṃśāṃśam āvahet |
द्विगुणं तत् तृतीये ऽह्नि परतः क्रेतुर् एव तत् ॥ (३।२)
dviguṇaṃ tat tṛtīye 'hni parataḥ kretur eva tat ||
क्रेता पण्यं परीक्षेत प्राक् स्वयं गुणदोषतः । (४।१)
kretā paṇyaṃ parīkṣeta prāk svayaṃ guṇadoṣataḥ |
परीक्ष्याभिमतं क्रीतं विक्रेतुर् न भवेत् पुनः ॥ (४।२)
parīkṣyābhimataṃ krītaṃ vikretur na bhavet punaḥ ||
त्र्यहाद् दोह्यं परीक्षेत पञ्चाहाद् वाह्यम् एव तु । (५।१)
tryahād dohyaṃ parīkṣeta pañcāhād vāhyam eva tu |
मुक्तावज्रप्रवालानां सप्ताहं स्यात् परीक्षणम् ॥ (५।२)
muktāvajrapravālānāṃ saptāhaṃ syāt parīkṣaṇam ||
द्विपदाम् अर्धमासं स्यात् पुंसां तद्द्विगुणं स्त्रियाः । (६।१)
dvipadām ardhamāsaṃ syāt puṃsāṃ taddviguṇaṃ striyāḥ |
परिभुक्तं च यद् वासः क्लिष्टरूपं मलीमसम् । (७।१)
paribhuktaṃ ca yad vāsaḥ kliṣṭarūpaṃ malīmasam |
सदोषम् अपि विक्रीतं विक्रेतुर् न भवेत् पुनः ॥ (७।२)
sadoṣam api vikrītaṃ vikretur na bhavet punaḥ ||
द्विः पादस् त्रिस् त्रिभागस् तु चतुःकृत्वो ऽर्धम् एव च ॥ (८।२)
dviḥ pādas tris tribhāgas tu catuḥkṛtvo 'rdham eva ca ||
यावत् क्षीणदशं जीर्णं जीर्णस्यानियमः क्षये ॥ (९।२)
yāvat kṣīṇadaśaṃ jīrṇaṃ jīrṇasyāniyamaḥ kṣaye ||
लोहानाम् अपि सर्वेषां हेतुर् अग्निक्रियाविधौ । (१०।१)
lohānām api sarveṣāṃ hetur agnikriyāvidhau |
क्षयः संस्क्रियमाणानां तेषां दृष्टो ऽग्निसंगमात् ॥ (१०।२)
kṣayaḥ saṃskriyamāṇānāṃ teṣāṃ dṛṣṭo 'gnisaṃgamāt ||
सुवर्णस्य क्षयो नास्ति रजते द्विपलं शतम् । (११।१)
suvarṇasya kṣayo nāsti rajate dvipalaṃ śatam |
शतम् अष्टपलं ज्ञेयं क्षयः स्यात् त्रपुसीसयोः ॥ (११।२)
śatam aṣṭapalaṃ jñeyaṃ kṣayaḥ syāt trapusīsayoḥ ||
ताम्रे पञ्चपलं विद्याद् विकारा ये च तन्मयाः । (१२।१)
tāmre pañcapalaṃ vidyād vikārā ye ca tanmayāḥ |
तद्धातूनाम् अनेकत्वाद् अयसो ऽनियमः क्षये ॥ (१२।२)
taddhātūnām anekatvād ayaso 'niyamaḥ kṣaye ||
तान्तवस्य च संस्कारे क्षयवृद्धी उदाहृते । (१३।१)
tāntavasya ca saṃskāre kṣayavṛddhī udāhṛte |
सूत्रकार्पासिकोर्णानां वृद्धिर् दशपलं शतम् ॥ (१३।२)
sūtrakārpāsikorṇānāṃ vṛddhir daśapalaṃ śatam ||
स्थूलसूत्रवतां तेषां मध्यानां पञ्चकं शतम् । (१४।१)
sthūlasūtravatāṃ teṣāṃ madhyānāṃ pañcakaṃ śatam |
त्रिपलं तु सुसूक्ष्माणाम् अन्तःक्षय उदाहृतः ॥ (१४।२)
tripalaṃ tu susūkṣmāṇām antaḥkṣaya udāhṛtaḥ ||
त्रिंशांशो रोमविद्धस्य क्षयः कर्मकृतस्य तु । (१५।१)
triṃśāṃśo romaviddhasya kṣayaḥ karmakṛtasya tu |
कौशेयवल्कलानां तु नैव वृद्धिर् न च क्षयः ॥ (१५।२)
kauśeyavalkalānāṃ tu naiva vṛddhir na ca kṣayaḥ ||
क्रीत्वा नानुशयं कुर्याद् वणिक् पण्यविचक्षणः । (१६।१)
krītvā nānuśayaṃ kuryād vaṇik paṇyavicakṣaṇaḥ |
वृद्धिक्षयौ तु जानीयात् पण्यानाम् आगमं तथा ॥ (१६।२)
vṛddhikṣayau tu jānīyāt paṇyānām āgamaṃ tathā ||
Data courtesy of The Digital Corpus of Sanskrit.