नारदस्मृतिNāradasmṛti

NāSmṛ, 2, 18

21 of 22 · 138 verses

Select a line for its word-by-word analysis.

1.1१.१

द्विविधास् तस्करा ज्ञेयाः परद्रव्यापहारिणः । (१।१)

dvividhās taskarā jñeyāḥ paradravyāpahāriṇaḥ |

1.2१.२

प्रकाशाश् चाप्रकाशाश् च तान् विद्याद् आत्मवान् नृपः ॥ (१।२)

prakāśāś cāprakāśāś ca tān vidyād ātmavān nṛpaḥ ||

2.1२.१

प्रकाशवञ्चकास् तत्र कूटमानतुलाश्रिताः । (२।१)

prakāśavañcakās tatra kūṭamānatulāśritāḥ |

2.2२.२

उत्कोटकाः साहसिकाः कितवाः पण्ययोषितः ॥ (२।२)

utkoṭakāḥ sāhasikāḥ kitavāḥ paṇyayoṣitaḥ ||

3.1३.१

प्रतिरूपकराश् चैव मङ्गलोद्देशवृत्तयः । (३।१)

pratirūpakarāś caiva maṅgaloddeśavṛttayaḥ |

3.2३.२

इत्य् एवमादयो ज्ञेयाः प्रकाशलोकवञ्चकाः ॥ (३।२)

ity evamādayo jñeyāḥ prakāśalokavañcakāḥ ||

4.1४.१

अप्रकाशाश् च विज्ञेया बहिरभ्यन्तराश्रिताः । (४।१)

aprakāśāś ca vijñeyā bahirabhyantarāśritāḥ |

4.2४.२

सुप्तान् प्रमत्तांश् च नरा मुष्णन्त्य् आक्रम्य चैव ते ॥ (४।२)

suptān pramattāṃś ca narā muṣṇanty ākramya caiva te ||

5.1५.१

देशग्रामगृहघ्नाश् च पथिघ्ना ग्रन्थिमोचकाः । (५।१)

deśagrāmagṛhaghnāś ca pathighnā granthimocakāḥ |

5.2५.२

इत्य् एवमादयो ज्ञेया अप्रकाशाश् च तस्कराः ॥ (५।२)

ity evamādayo jñeyā aprakāśāś ca taskarāḥ ||

6.1६.१

तान् विदित्वा सुकुशलैश् चारैस् तत्कर्मकारिभिः । (६।१)

tān viditvā sukuśalaiś cārais tatkarmakāribhiḥ |

6.2६.२

अनुसृत्य गृहीतव्या गूढप्रणिहितैर् नरैः ॥ (६।२)

anusṛtya gṛhītavyā gūḍhapraṇihitair naraiḥ ||

7.1७.१

सभाप्रपापूपशालावेशमद्यान्नविक्रयाः । (७।१)

sabhāprapāpūpaśālāveśamadyānnavikrayāḥ |

7.2७.२

चतुष्पथाश् चैत्यवृक्षाः समाजाः प्रेक्षणानि च ॥ (७।२)

catuṣpathāś caityavṛkṣāḥ samājāḥ prekṣaṇāni ca ||

8.1८.१

शून्यागाराण्य् अरण्यानि देवतायतनानि च । (८।१)

śūnyāgārāṇy araṇyāni devatāyatanāni ca |

8.2८.२

चारैर् विनेयान्य् एतानि चौरग्रहणतत्परैः ॥ (८।२)

cārair vineyāny etāni cauragrahaṇatatparaiḥ ||

9.1९.१

तथैवान्ये प्रणिहिताः श्रद्धेयाश् चित्रवादिनः । (९।१)

tathaivānye praṇihitāḥ śraddheyāś citravādinaḥ |

9.2९.२

चरा ह्य् उत्साहयेयुस् तांस् तस्करान् पूर्वतस्कराः ॥ (९।२)

carā hy utsāhayeyus tāṃs taskarān pūrvataskarāḥ ||

10.1१०.१

अन्नपानसमादानैः समाजोत्सवदर्शनैः । (१०।१)

annapānasamādānaiḥ samājotsavadarśanaiḥ |

10.2१०.२

तथा चौर्यापदेशैश् च कुर्युस् तेषां समागमम् ॥ (१०।२)

tathā cauryāpadeśaiś ca kuryus teṣāṃ samāgamam ||

11.1११.१

ये तत्र नोपसर्पन्ति सृताः प्रणिहिता अपि । (११।१)

ye tatra nopasarpanti sṛtāḥ praṇihitā api |

11.2११.२

ते ऽभिसार्य गृहीतव्याः सपुत्रपशुबान्धवाः ॥ (११।२)

te 'bhisārya gṛhītavyāḥ saputrapaśubāndhavāḥ ||

12.1१२.१

यांस् तत्र चौरान् गृह्णीयात् तान् विताड्य विडम्ब्य च । (१२।१)

yāṃs tatra caurān gṛhṇīyāt tān vitāḍya viḍambya ca |

12.2१२.२

अवघुष्य च सर्वत्र वध्याश् चित्रवधेन ते ॥ (१२।२)

avaghuṣya ca sarvatra vadhyāś citravadhena te ||

13.1१३.१

न त्व् अहोढान्विताश् चौरा राज्ञा वध्या ह्यनागमाः । (१३।१)

na tv ahoḍhānvitāś caurā rājñā vadhyā hyanāgamāḥ |

13.2१३.२

सहोढान् सोपकरणान् क्षिप्रं चौरान् प्रशासयेत् ॥ (१३।२)

sahoḍhān sopakaraṇān kṣipraṃ caurān praśāsayet ||

14.1१४.१

स्वदेशघातिनो ये स्युस् तथा पन्थावरोधिनः । (१४।१)

svadeśaghātino ye syus tathā panthāvarodhinaḥ |

14.2१४.२

तेषां सर्वस्वम् आदाय भूयो निन्दां प्रकल्पयेत् ॥ (१४।२)

teṣāṃ sarvasvam ādāya bhūyo nindāṃ prakalpayet ||

15.1१५.१

अहोढान् विमृशेच् चौरान् गृहीतान् परिशङ्कया । (१५।१)

ahoḍhān vimṛśec caurān gṛhītān pariśaṅkayā |

15.2१५.२

भयोपधाभिश् चित्राभिर् ब्रूयुस् तथा यथाकृतम् ॥ (१५।२)

bhayopadhābhiś citrābhir brūyus tathā yathākṛtam ||

16.1१६.१

देशं कालं दिशं जातिं नाम वा संप्रतिश्रयम् । (१६।१)

deśaṃ kālaṃ diśaṃ jātiṃ nāma vā saṃpratiśrayam |

16.2१६.२

कृत्यं कर्मकरा वा स्युः प्रष्टव्यास् ते विनिग्रहे ॥ (१६।२)

kṛtyaṃ karmakarā vā syuḥ praṣṭavyās te vinigrahe ||

17.1१७.१

वर्णस्वराकारभेदात् ससंदिग्धनिवेदनात् । (१७।१)

varṇasvarākārabhedāt sasaṃdigdhanivedanāt |

17.2१७.२

अदेशकालदृष्टत्वाद् वासस्याप्य् अविशोधनात् ॥ (१७।२)

adeśakāladṛṣṭatvād vāsasyāpy aviśodhanāt ||

18.1१८.१

असद्व्ययात् पूर्वचौर्याद् असत्संसर्गकारणात् । (१८।१)

asadvyayāt pūrvacauryād asatsaṃsargakāraṇāt |

18.2१८.२

लेशैर् अप्य् अवगन्तव्या न होढेनैव केवलम् ॥ (१८।२)

leśair apy avagantavyā na hoḍhenaiva kevalam ||

19.1१९.१

दस्युवृत्ते यदि नरे शङ्का स्यात् तस्करे ऽपि वा । (१९।१)

dasyuvṛtte yadi nare śaṅkā syāt taskare 'pi vā |

19.2१९.२

यदि स्पृश्येत लेशेन कार्यः स्याच्छपथः ततः ॥ (१९।२)

yadi spṛśyeta leśena kāryaḥ syācchapathaḥ tataḥ ||

20.1२०.१

चौराणां भक्तदा ये स्युस् तथाग्न्युदकदायकाः । (२०।१)

caurāṇāṃ bhaktadā ye syus tathāgnyudakadāyakāḥ |

20.2२०.२

आवासदा देशिकदास् तथैवोत्तरदायकाः ॥ (२०।२)

āvāsadā deśikadās tathaivottaradāyakāḥ ||

21.1२१.१

क्रेतारश् चैव भाण्डानां प्रतिग्राहिण एव च । (२१।१)

kretāraś caiva bhāṇḍānāṃ pratigrāhiṇa eva ca |

21.2२१.२

समदण्डाः स्मृता ह्य् एते ये च प्रच्छादयन्ति तान् ॥ (२१।२)

samadaṇḍāḥ smṛtā hy ete ye ca pracchādayanti tān ||

22.1२२.१

राष्ट्रेषु राष्ट्राधिकृताः सामन्ताश् चैव चोदिताः । (२२।१)

rāṣṭreṣu rāṣṭrādhikṛtāḥ sāmantāś caiva coditāḥ |

22.2२२.२

अभ्याघातेषु मध्यस्था यथा चौरास् तथैव ते ॥ (२२।२)

abhyāghāteṣu madhyasthā yathā caurās tathaiva te ||

23.1२३.१

गोचरे यस्य मुष्येत तेन चौराः प्रयत्नतः । (२३।१)

gocare yasya muṣyeta tena caurāḥ prayatnataḥ |

23.2२३.२

मृग्या दाप्यो ऽन्यथा मोषं पदं यदि न निर्गतम् ॥ (२३।२)

mṛgyā dāpyo 'nyathā moṣaṃ padaṃ yadi na nirgatam ||

24.1२४.१

निर्गते तु पदे तस्मिन् नष्टे ऽन्यत्र निपातिते । (२४।१)

nirgate tu pade tasmin naṣṭe 'nyatra nipātite |

24.2२४.२

सामन्तान् मार्गपालांश् च दिक्पालांश् चैव दापयेत् ॥ (२४।२)

sāmantān mārgapālāṃś ca dikpālāṃś caiva dāpayet ||

25.1२५.१

गृहे वै मुषिते राजा चौरग्राहांस् तु दापयेत् । (२५।१)

gṛhe vai muṣite rājā cauragrāhāṃs tu dāpayet |

25.2२५.२

आरक्षकान् राष्ट्रिकांश् च यदि चौरो न लभ्यते ॥ (२५।२)

ārakṣakān rāṣṭrikāṃś ca yadi cauro na labhyate ||

26.1२६.१

यदि वा दाप्यमानानां तस्मिन् मोषे तु संशयः । (२६।१)

yadi vā dāpyamānānāṃ tasmin moṣe tu saṃśayaḥ |

26.2२६.२

मुषितः शपथं शाप्यो मोषे वैशोध्यकारणात् ॥ (२६।२)

muṣitaḥ śapathaṃ śāpyo moṣe vaiśodhyakāraṇāt ||

27.1२७.१

अचौरे दापिते मोषं चौर्यवैशोध्यकारणात् । (२७।१)

acaure dāpite moṣaṃ cauryavaiśodhyakāraṇāt |

27.2२७.२

चौरे लब्धे लभेयुस् ते द्विगुणं प्रतिपादिताः ॥ (२७।२)

caure labdhe labheyus te dviguṇaṃ pratipāditāḥ ||

28.1२८.१

चौरहृतं प्रयत्नेन सरूपं प्रतिपादयेत् । (२८।१)

caurahṛtaṃ prayatnena sarūpaṃ pratipādayet |

28.2२८.२

तदभावे तु मूल्यं स्याद् दण्डं दाप्यश् च तत्समम् ॥ (२८।२)

tadabhāve tu mūlyaṃ syād daṇḍaṃ dāpyaś ca tatsamam ||

29.1२९.१

काष्ठकाण्डतृणादीनां मृन्मयानां तथैव च । (२९।१)

kāṣṭhakāṇḍatṛṇādīnāṃ mṛnmayānāṃ tathaiva ca |

29.2२९.२

वेणुवैणवभाण्डानां वेत्रस्नाय्वस्थिचर्मणाम् ॥ (२९।२)

veṇuvaiṇavabhāṇḍānāṃ vetrasnāyvasthicarmaṇām ||

30.1३०.१

शाकहरितमूलानां हरणे फलपुष्पयोः । (३०।१)

śākaharitamūlānāṃ haraṇe phalapuṣpayoḥ |

30.2३०.२

गोरसेक्षुविकाराणां तथा लवणतैलयोः ॥ (३०।२)

gorasekṣuvikārāṇāṃ tathā lavaṇatailayoḥ ||

31.1३१.१

पक्वान्नानां कृतान्नानां मद्यानाम् आमिषस्य च । (३१।१)

pakvānnānāṃ kṛtānnānāṃ madyānām āmiṣasya ca |

31.2३१.२

सर्वेषाम् अल्पमूल्यानां मूल्यात् पञ्चगुणो दमः ॥ (३१।२)

sarveṣām alpamūlyānāṃ mūlyāt pañcaguṇo damaḥ ||

32.1३२.१

तुलाधरिममेयानां गणिमानां च सर्वशः । (३२।१)

tulādharimameyānāṃ gaṇimānāṃ ca sarvaśaḥ |

32.2३२.२

एभ्यस् तूत्कृष्टमूल्यानां मूल्याद् दशगुणो दमः ॥ (३२।२)

ebhyas tūtkṛṣṭamūlyānāṃ mūlyād daśaguṇo damaḥ ||

33.1३३.१

धान्यं दशभ्यः कुम्भेभ्यो हरतो ऽभ्यधिकं वधः । (३३।१)

dhānyaṃ daśabhyaḥ kumbhebhyo harato 'bhyadhikaṃ vadhaḥ |

33.2३३.२

न्यूनं त्व् एकादशगुणं दण्डं दाप्यो ऽब्रवीन् मनुः ॥ (३३।२)

nyūnaṃ tv ekādaśaguṇaṃ daṇḍaṃ dāpyo 'bravīn manuḥ ||

34.1३४.१

सुवर्णरजतादीनाम् उत्तमानां च वाससाम् । (३४।१)

suvarṇarajatādīnām uttamānāṃ ca vāsasām |

34.2३४.२

रत्नानां चैव मुख्यानां शताद् अभ्यधिकं वधः ॥ (३४।२)

ratnānāṃ caiva mukhyānāṃ śatād abhyadhikaṃ vadhaḥ ||

35.1३५.१

पुरुषं हरतः पात्यो दण्ड उत्तमसाहसः । (३५।१)

puruṣaṃ harataḥ pātyo daṇḍa uttamasāhasaḥ |

35.2३५.२

सर्वस्वं स्त्रीं तु हरतः कन्यां तु हरतो वधः ॥ (३५।२)

sarvasvaṃ strīṃ tu harataḥ kanyāṃ tu harato vadhaḥ ||

36.1३६.१

महापशून् स्तेनयतो दण्ड उत्तमसाहसः । (३६।१)

mahāpaśūn stenayato daṇḍa uttamasāhasaḥ |

36.2३६.२

मध्यमो मध्यमपशुं पूर्वः क्षुद्रपशुं हरन् ॥ (३६।२)

madhyamo madhyamapaśuṃ pūrvaḥ kṣudrapaśuṃ haran ||

37.1३७.१

चतुर्विंशावरः पूर्वः परः षण्णवतिर् भवेत् । (३७।१)

caturviṃśāvaraḥ pūrvaḥ paraḥ ṣaṇṇavatir bhavet |

37.2३७.२

शतानि पञ्च तु परो मध्यमो द्विशतावरः ॥ (३७।२)

śatāni pañca tu paro madhyamo dviśatāvaraḥ ||

38.1३८.१

सहस्रं तूत्तमो ज्ञेयः परः पञ्चशतावरः । (३८।१)

sahasraṃ tūttamo jñeyaḥ paraḥ pañcaśatāvaraḥ |

38.2३८.२

त्रिविधः साहसेष्व् एव दण्डः प्रोक्तः स्वयंभुवा ॥ (३८।२)

trividhaḥ sāhaseṣv eva daṇḍaḥ proktaḥ svayaṃbhuvā ||

39.1३९.१

प्रथमे ग्रन्थिभेदानाम् अङ्गुल्यङ्गुष्ठयोर् वधः । (३९।१)

prathame granthibhedānām aṅgulyaṅguṣṭhayor vadhaḥ |

39.2३९.२

द्वितीये चैव तच्छेषं दण्डः पूर्वश् च साहसः ॥ (३९।२)

dvitīye caiva taccheṣaṃ daṇḍaḥ pūrvaś ca sāhasaḥ ||

40.1४०.१

गोषु ब्राह्मणसंस्थासु स्थूरायाश् छेदनं भवेत् । (४०।१)

goṣu brāhmaṇasaṃsthāsu sthūrāyāś chedanaṃ bhavet |

40.2४०.२

दासीं तु हरतो नित्यम् अर्धपादविकर्तनम् ॥ (४०।२)

dāsīṃ tu harato nityam ardhapādavikartanam ||

41.1४१.१

येन येन विशेषेण स्तेनाङ्गेन विचेष्टते । (४१।१)

yena yena viśeṣeṇa stenāṅgena viceṣṭate |

41.2४१.२

तत् तद् एवास्य छेत्तव्यं तन् मनोर् अनुशासनम् ॥ (४१।२)

tat tad evāsya chettavyaṃ tan manor anuśāsanam ||

42.1४२.१

गरीयसि गरीयांसम् अगरीयसि वा पुनः । (४२।१)

garīyasi garīyāṃsam agarīyasi vā punaḥ |

42.2४२.२

स्तेने निपातयेद् दण्डं न यथा प्रथमे तथा ॥ (४२।२)

stene nipātayed daṇḍaṃ na yathā prathame tathā ||

43.1४३.१

दश स्थानानि दण्डस्य मनुः स्वायंभुवो ऽब्रवीत् । (४३।१)

daśa sthānāni daṇḍasya manuḥ svāyaṃbhuvo 'bravīt |

43.2४३.२

त्रिषु वर्णेषु यानि स्युर् ब्राह्मणो रक्षितः सदा ॥ (४३।२)

triṣu varṇeṣu yāni syur brāhmaṇo rakṣitaḥ sadā ||

44.1४४.१

उपस्थम् उदरं जिह्वा हस्तौ पादौ च पञ्चमम् । (४४।१)

upastham udaraṃ jihvā hastau pādau ca pañcamam |

44.2४४.२

चक्षुर् नासा च कर्णौ च धनं देहस् तथैव च ॥ (४४।२)

cakṣur nāsā ca karṇau ca dhanaṃ dehas tathaiva ca ||

45.1४५.१

अपराधं परिज्ञाय देशकालौ च तत्त्वतः । (४५।१)

aparādhaṃ parijñāya deśakālau ca tattvataḥ |

45.2४५.२

सारानुबन्धाव् आलोक्य दण्डान् एतान् प्रकल्पयेत् ॥ (४५।२)

sārānubandhāv ālokya daṇḍān etān prakalpayet ||

46.1४६.१

न मित्रकारणाद् राज्ञा विपुलाद् वा धनागमात् । (४६।१)

na mitrakāraṇād rājñā vipulād vā dhanāgamāt |

46.2४६.२

उत्स्रष्टव्यः साहसिकस् त्यक्तात्मा मनुर् अब्रवीत् ॥ (४६।२)

utsraṣṭavyaḥ sāhasikas tyaktātmā manur abravīt ||

47.1४७.१

यावान् अवध्यस्य वधे तावान् वध्यस्य मोक्षणे । (४७।१)

yāvān avadhyasya vadhe tāvān vadhyasya mokṣaṇe |

47.2४७.२

भवत्य् अधर्मो नृपतेर् धर्मस् तु विनियच्छतः ॥ (४७।२)

bhavaty adharmo nṛpater dharmas tu viniyacchataḥ ||

48.1४८.१

न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अपि स्थितम् । (४८।१)

na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv api sthitam |

48.2४८.२

निर्वासं कारयेत् कामम् इति धर्मो व्यवस्थितः ॥ (४८।२)

nirvāsaṃ kārayet kāmam iti dharmo vyavasthitaḥ ||

49.1४९.१

सर्वस्वं वा हरेद् राजा चतुर्थं वावशेषयेत् । (४९।१)

sarvasvaṃ vā hared rājā caturthaṃ vāvaśeṣayet |

49.2४९.२

भृत्येभ्यो ऽनुस्मरन् धर्मं प्राजापत्यम् इति स्थितिः ॥ (४९।२)

bhṛtyebhyo 'nusmaran dharmaṃ prājāpatyam iti sthitiḥ ||

50.1५०.१

ब्राह्मणस्यापराधे तु चतुर्ष्व् अङ्को विधीयते । (५०।१)

brāhmaṇasyāparādhe tu caturṣv aṅko vidhīyate |

50.2५०.२

गुरुतल्पे सुरापाने स्तेये ब्राह्मणहिंसने ॥ (५०।२)

gurutalpe surāpāne steye brāhmaṇahiṃsane ||

51.1५१.१

गुरुतल्पे भगः कार्यः सुरापाने ध्वजः स्मृतः । (५१।१)

gurutalpe bhagaḥ kāryaḥ surāpāne dhvajaḥ smṛtaḥ |

51.2५१.२

स्तेये तु श्वपदं कृत्वा शिखिपित्तेन कूटयेत् ॥ (५१।२)

steye tu śvapadaṃ kṛtvā śikhipittena kūṭayet ||

52.1५२.१

विशिराः पुरुषः कार्यो ललाटे भ्रूणघातिनः । (५२।१)

viśirāḥ puruṣaḥ kāryo lalāṭe bhrūṇaghātinaḥ |

52.2५२.२

असंभाष्यश् च कर्तव्यस् तन् मनोर् अनुशासनम् ॥ (५२।२)

asaṃbhāṣyaś ca kartavyas tan manor anuśāsanam ||

53.1५३.१

राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता । (५३।१)

rājā stenena gantavyo muktakeśena dhāvatā |

53.2५३.२

आचक्षाणेन तत्स्तेयम् एवं कर्तास्मि शाधि माम् ॥ (५३।२)

ācakṣāṇena tatsteyam evaṃ kartāsmi śādhi mām ||

54.1५४.१

अनेना भवति स्तेनः स्वकर्मप्रतिपादनात् । (५४।१)

anenā bhavati stenaḥ svakarmapratipādanāt |

54.2५४.२

राजानं तत् स्पृशेद् एन उत्सृजन्तं सकिल्बिषम् ॥ (५४।२)

rājānaṃ tat spṛśed ena utsṛjantaṃ sakilbiṣam ||

55.1५५.१

राजभिर् धृतदण्डास् तु कृत्वा पापानि मानवाः । (५५।१)

rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ |

55.2५५.२

निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनो यथा ॥ (५५।२)

nirmalāḥ svargam āyānti santaḥ sukṛtino yathā ||

56.1५६.१

शासनाद् वा विमोक्षाद् वा स्तेनो मुच्यते किल्बिषात् । (५६।१)

śāsanād vā vimokṣād vā steno mucyate kilbiṣāt |

56.2५६.२

अशासनात् तु तद् राजा स्तेनस्याप्नोति किल्बिषम् ॥ (५६।२)

aśāsanāt tu tad rājā stenasyāpnoti kilbiṣam ||

57.1५७.१

गुरुर् आत्मवतां शास्ता शास्ता राजा दुरात्मनाम् । (५७।१)

gurur ātmavatāṃ śāstā śāstā rājā durātmanām |

57.2५७.२

अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ (५७।२)

atha pracchannapāpānāṃ śāstā vaivasvato yamaḥ ||

58.1५८.१

अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् । (५८।१)

aṣṭāpādyaṃ tu śūdrasya steye bhavati kilbiṣam |

58.2५८.२

द्विर् अष्टापाद्यं वैश्यस्य द्वात्रिंशत् क्षत्रियस्य तु ॥ (५८।२)

dvir aṣṭāpādyaṃ vaiśyasya dvātriṃśat kṣatriyasya tu ||

59.1५९.१

ब्राह्मणस्य चतुःषष्टीत्य् एवं स्वायंभुवो ऽब्रवीत् । (५९।१)

brāhmaṇasya catuḥṣaṣṭīty evaṃ svāyaṃbhuvo 'bravīt |

59.2५९.२

तत्रापि च विशेषेण विद्वत्स्व् अभ्यधिकं भवेत् ॥ (५९।२)

tatrāpi ca viśeṣeṇa vidvatsv abhyadhikaṃ bhavet ||

60.1६०.१

शारीरश् चार्थदण्डश् च दण्डस् तु द्विविधः स्मृतः । (६०।१)

śārīraś cārthadaṇḍaś ca daṇḍas tu dvividhaḥ smṛtaḥ |

60.2६०.२

शारीरा दशधा प्रोक्ता अर्थदण्डास् त्व् अनेकधा ॥ (६०।२)

śārīrā daśadhā proktā arthadaṇḍās tv anekadhā ||

61.1६१.१

काकण्यादिस् त्व् अर्थदण्डः सर्वस्वान्तस् तथैव च । (६१।१)

kākaṇyādis tv arthadaṇḍaḥ sarvasvāntas tathaiva ca |

61.2६१.२

शारीरस् त्व् अवरोधादिर् जीवितान्तस् तथैव च ॥ (६१।२)

śārīras tv avarodhādir jīvitāntas tathaiva ca ||

62.1६२.१

काकण्यादिस् तु यो दण्डः स तु माषापरः स्मृतः । (६२।१)

kākaṇyādis tu yo daṇḍaḥ sa tu māṣāparaḥ smṛtaḥ |

62.2६२.२

माषावराद्यो यः प्रोक्तः कार्षापणपरस् तु सः ॥ (६२।२)

māṣāvarādyo yaḥ proktaḥ kārṣāpaṇaparas tu saḥ ||

63.1६३.१

कार्षापणापराद्यस् तु चतुःकार्षापणः परः । (६३।१)

kārṣāpaṇāparādyas tu catuḥkārṣāpaṇaḥ paraḥ |

63.2६३.२

द्व्यवरो ऽष्टापरश् चान्यस् त्र्यवरो द्वादशोत्तरः ॥ (६३।२)

dvyavaro 'ṣṭāparaś cānyas tryavaro dvādaśottaraḥ ||

64.1६४.१

कार्षापणाद्या ये प्रोक्ताः सर्वे ते स्युश् चतुर्गुणाः । (६४।१)

kārṣāpaṇādyā ye proktāḥ sarve te syuś caturguṇāḥ |

64.2६४.२

एवम् अन्ये तु विज्ञेयाः प्राक् च ते पूर्वसाहसात् ॥ (६४।२)

evam anye tu vijñeyāḥ prāk ca te pūrvasāhasāt ||

65.1६५.१

कार्षापणो दक्षिणस्यां दिशि रौप्यः प्रवर्तते । (६५।१)

kārṣāpaṇo dakṣiṇasyāṃ diśi raupyaḥ pravartate |

65.2६५.२

पणैर् निबद्धः पूर्वस्यां षोडशैव पणाः स तु ॥ (६५।२)

paṇair nibaddhaḥ pūrvasyāṃ ṣoḍaśaiva paṇāḥ sa tu ||

66.1६६.१

माषो विंशतिभागस् तु ज्ञेयः कार्षापणस्य तु । (६६।१)

māṣo viṃśatibhāgas tu jñeyaḥ kārṣāpaṇasya tu |

66.2६६.२

काकणी तु चतुर्भागो माषस्य च पणस्य च ॥ (६६।२)

kākaṇī tu caturbhāgo māṣasya ca paṇasya ca ||

67.1६७.१

पाञ्चनद्याः प्रदेशे तु संज्ञा या व्यावहारिकी । (६७।१)

pāñcanadyāḥ pradeśe tu saṃjñā yā vyāvahārikī |

67.2६७.२

कार्षापणप्रमाणं तु निबद्धम् इह वै तया ॥ (६७।२)

kārṣāpaṇapramāṇaṃ tu nibaddham iha vai tayā ||

68.1६८.१

कार्षापणो ऽण्डिका ज्ञेयाश् चतस्रस् तास् तु धानकः । (६८।१)

kārṣāpaṇo 'ṇḍikā jñeyāś catasras tās tu dhānakaḥ |

68.2६८.२

तद्द्वादश सुवर्णस्य दीनारश् चित्रकः स्मृतः ॥ (६८।२)

taddvādaśa suvarṇasya dīnāraś citrakaḥ smṛtaḥ ||

69.1६९.१

वार्त्तां त्रयीं चाप्य् अथ दण्डनीतिम् राजानुवर्तेत् संतताप्रमत्तः । (६९।१)

vārttāṃ trayīṃ cāpy atha daṇḍanītim rājānuvartet saṃtatāpramattaḥ |

69.2६९.२

हन्याद् उपायैर् निपुणैर् गृहीतान् पुरे च राष्ट्रे निगृह्णीयात् पापान् ॥ (६९।२)

hanyād upāyair nipuṇair gṛhītān pure ca rāṣṭre nigṛhṇīyāt pāpān ||

Data courtesy of The Digital Corpus of Sanskrit.

NāSmṛ, 2, 18

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit