NāSmṛ, 2, 6
Select a line for its word-by-word analysis.
भृताय वेतनं दद्यात् कर्मस्वामी यथाक्रमम् । (२।१)
bhṛtāya vetanaṃ dadyāt karmasvāmī yathākramam |
आदौ मध्ये ऽवसाने वा कर्मणो यद् विनिश्चितम् ॥ (२।२)
ādau madhye 'vasāne vā karmaṇo yad viniścitam ||
कर्मोपकरणं चैषां क्रियां प्रति यद् आहृतम् । (४।१)
karmopakaraṇaṃ caiṣāṃ kriyāṃ prati yad āhṛtam |
कर्माकुर्वन् प्रतिश्रुत्य कार्यो दत्त्वा भृतिं बलात् । (५।१)
karmākurvan pratiśrutya kāryo dattvā bhṛtiṃ balāt |
भृतिं गृहीत्वाकुर्वाणो द्विगुणां भृतिम् आवहेत् ॥ (५।२)
bhṛtiṃ gṛhītvākurvāṇo dviguṇāṃ bhṛtim āvahet ||
काले ऽपूर्णे त्यजेत् कर्म भृतिनाशो ऽस्य चार्हति । (६।१)
kāle 'pūrṇe tyajet karma bhṛtināśo 'sya cārhati |
स्वामिदोषाद् अपाक्रामन् यावत् कृतम् अवाप्नुयात् ॥ (६।२)
svāmidoṣād apākrāman yāvat kṛtam avāpnuyāt ||
भृतिषड्भागम् आभाष्य पथि युग्यकृतं त्यजन् । (७।१)
bhṛtiṣaḍbhāgam ābhāṣya pathi yugyakṛtaṃ tyajan |
अददत् कारयित्वा तु कर्मैवं सोदयां भृतिम् ॥ (७।२)
adadat kārayitvā tu karmaivaṃ sodayāṃ bhṛtim ||
दाप्यो भृतिचतुर्भागं समम् अर्धपथे त्यजन् ॥ (८।२)
dāpyo bhṛticaturbhāgaṃ samam ardhapathe tyajan ||
अनयन् वाहको ऽप्य् एवं भृतिहानिम् अवाप्नुयात् । (९।१)
anayan vāhako 'py evaṃ bhṛtihānim avāpnuyāt |
द्विगुणां तु भृतिं दाप्यः प्रस्थाने विघ्नम् आचरन् ॥ (९।२)
dviguṇāṃ tu bhṛtiṃ dāpyaḥ prasthāne vighnam ācaran ||
भाण्डं व्यसनम् आगच्छेद् यदि वाहकदोषतः । (१०।१)
bhāṇḍaṃ vyasanam āgacched yadi vāhakadoṣataḥ |
दाप्यो यत् तत्र नष्टं स्याद् दैवराजकृताद् ऋते ॥ (१०।२)
dāpyo yat tatra naṣṭaṃ syād daivarājakṛtād ṛte ||
गवां शताद् वत्सतरी धेनुः स्याद् द्विशताद् भृतिः । (११।१)
gavāṃ śatād vatsatarī dhenuḥ syād dviśatād bhṛtiḥ |
प्रति संवत्सरं गोपे सदोहश् चाष्टमे ऽहनि ॥ (११।२)
prati saṃvatsaraṃ gope sadohaś cāṣṭame 'hani ||
चीर्णाः पीताश् च ता गोपः सायाह्ने प्रत्युपानयेत् ॥ (१२।२)
cīrṇāḥ pītāś ca tā gopaḥ sāyāhne pratyupānayet ||
स्याच् चेद् गोव्यसनं गोपो व्यायच्छेत् तत्र शक्तितः । (१३।१)
syāc ced govyasanaṃ gopo vyāyacchet tatra śaktitaḥ |
अशक्तस् तूर्णम् आगम्य स्वामिने तन् निवेदयेत् ॥ (१३।२)
aśaktas tūrṇam āgamya svāmine tan nivedayet ||
अव्यायच् छन्नविक्रोशन् स्वामिने चानिवेदयन् । (१४।१)
avyāyac channavikrośan svāmine cānivedayan |
वोढुम् अर्हति गोपस् तां विनयं चापि राजनि ॥ (१४।२)
voḍhum arhati gopas tāṃ vinayaṃ cāpi rājani ||
नष्टविनष्टं कृमिभिः श्वहतं विषमे मृतम् । (१५।१)
naṣṭavinaṣṭaṃ kṛmibhiḥ śvahataṃ viṣame mṛtam |
अजाविके तथारुद्धे वृकैः पाले त्व् अनायति । (१६।१)
ajāvike tathāruddhe vṛkaiḥ pāle tv anāyati |
यत् प्रसह्य वृको हन्यात् पाले तत्किल्बिषम् भवेत् ॥ (१६।२)
yat prasahya vṛko hanyāt pāle tatkilbiṣam bhavet ||
तासां चैवानिरुद्धानां चरन्तीनां मिथो वने । (१७।१)
tāsāṃ caivāniruddhānāṃ carantīnāṃ mitho vane |
याम् उत्पत्य वृको हन्यान् न पालस् तत्र किल्बिषी ॥ (१७।२)
yām utpatya vṛko hanyān na pālas tatra kilbiṣī ||
विघुष्य तु हृतं चौरैर् न पालो दातुम् अर्हति । (१८।१)
vighuṣya tu hṛtaṃ caurair na pālo dātum arhati |
यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥ (१८।२)
yadi deśe ca kāle ca svāminaḥ svasya śaṃsati ||
मृतेषु च विशुद्धिः स्यात् पालस्याङ्कादिदर्शनात् ॥ (१९।२)
mṛteṣu ca viśuddhiḥ syāt pālasyāṅkādidarśanāt ||
शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विस् तद् आवहेत् । (२०।१)
śulkaṃ gṛhītvā paṇyastrī necchantī dvis tad āvahet |
अप्रयच्छंस् तदा शुल्कम् अनुभूय पुमान् स्त्रियम् ॥ (२०।२)
aprayacchaṃs tadā śulkam anubhūya pumān striyam ||
अयोनौ क्रमते यस् तु बहुभिर् वापि वासयेत् । (२१।१)
ayonau kramate yas tu bahubhir vāpi vāsayet |
शुल्कम् अष्टगुणं दाप्यो विनयस् तावद् एव च ॥ (२१।२)
śulkam aṣṭaguṇaṃ dāpyo vinayas tāvad eva ca ||
पराजिरे गृहं कृत्वा स्तोमं दत्त्वा वसेत् तु यः । (२२।१)
parājire gṛhaṃ kṛtvā stomaṃ dattvā vaset tu yaḥ |
स तद् गृहीत्वा निर्गच्छेत् तृणकाष्ठेष्टकादिकम् ॥ (२२।२)
sa tad gṛhītvā nirgacchet tṛṇakāṣṭheṣṭakādikam ||
स्तोमवाहीनि भाण्डानि पूर्णकालान्य् उपानयेत् । (२३।१)
stomavāhīni bhāṇḍāni pūrṇakālāny upānayet |
ग्रहीतुर् आभवेद् भग्नं नष्टं चान्यत्र संप्लवात् ॥ (२३।२)
grahītur ābhaved bhagnaṃ naṣṭaṃ cānyatra saṃplavāt ||
Data courtesy of The Digital Corpus of Sanskrit.