नारदस्मृतिNāradasmṛti

NāSmṛ, 2, 17

20 of 22 · 104 verses

Select a line for its word-by-word analysis.

1.1१.१

प्रकीर्णके पुनर् ज्ञेया व्यवहारा नृपाश्रयाः । (१।१)

prakīrṇake punar jñeyā vyavahārā nṛpāśrayāḥ |

1.2१.२

राज्ञाम् आज्ञाप्रतीघातस् तत्कर्मकरणं तथा ॥ (१।२)

rājñām ājñāpratīghātas tatkarmakaraṇaṃ tathā ||

2.1२.१

पुरप्रदानं संभेदः प्रकृतीनां तथैव च । (२।१)

purapradānaṃ saṃbhedaḥ prakṛtīnāṃ tathaiva ca |

2.2२.२

पाषण्डनैगमश्रेणीगणधर्मविपर्ययाः ॥ (२।२)

pāṣaṇḍanaigamaśreṇīgaṇadharmaviparyayāḥ ||

3.1३.१

पितृपुत्रविवादश् च प्रायश्चित्तव्यतिक्रमः । (३।१)

pitṛputravivādaś ca prāyaścittavyatikramaḥ |

3.2३.२

प्रतिग्रहविलोपश् च कोप आश्रमिणाम् अपि ॥ (३।२)

pratigrahavilopaś ca kopa āśramiṇām api ||

4.1४.१

वर्णसंकरदोषश् च तद्वृत्तिनियमस् तथा । (४।१)

varṇasaṃkaradoṣaś ca tadvṛttiniyamas tathā |

4.2४.२

न दृष्टं यच् च पूर्वेषु तत् सर्वं स्यात् प्रकीर्णके ॥ (४।२)

na dṛṣṭaṃ yac ca pūrveṣu tat sarvaṃ syāt prakīrṇake ||

5.1५.१

राजा त्व् अवहितः सर्वान् आश्रमान् परिपालयेत् । (५।१)

rājā tv avahitaḥ sarvān āśramān paripālayet |

5.2५.२

उपायैः शास्त्रविहितैश् चतुर्भिः प्रकृतैस् तथा ॥ (५।२)

upāyaiḥ śāstravihitaiś caturbhiḥ prakṛtais tathā ||

6.1६.१

यो यो वर्णो ऽवहीयेत यो वोद्रेकम् अनुव्रजेत् । (६।१)

yo yo varṇo 'vahīyeta yo vodrekam anuvrajet |

6.2६.२

तं तं दृष्ट्वा स्वतो मार्गात् प्रच्युतं स्थापयेत् पथि ॥ (६।२)

taṃ taṃ dṛṣṭvā svato mārgāt pracyutaṃ sthāpayet pathi ||

7.1७.१

अशास्त्रोक्तेषु चान्येषु पापयुक्तेषु कर्मसु । (७।१)

aśāstrokteṣu cānyeṣu pāpayukteṣu karmasu |

7.2७.२

प्रसमीक्ष्यात्मनो राजा दण्डं दण्ड्येषु पातयेत् ॥ (७।२)

prasamīkṣyātmano rājā daṇḍaṃ daṇḍyeṣu pātayet ||

8.1८.१

श्रुतिस्मृतिविरुद्धं च जनानाम् अहितं च यत् । (८।१)

śrutismṛtiviruddhaṃ ca janānām ahitaṃ ca yat |

8.2८.२

न तत् प्रवर्तयेद् राजा प्रवृत्तं च निवर्तयेत् ॥ (८।२)

na tat pravartayed rājā pravṛttaṃ ca nivartayet ||

9.1९.१

न्यायापेतं यद् अन्येन राज्ञाज्ञानकृतं च यत् । (९।१)

nyāyāpetaṃ yad anyena rājñājñānakṛtaṃ ca yat |

9.2९.२

तद् अप्य् अन्यायविहितं पुनर् न्याये निवेशयेत् ॥ (९।२)

tad apy anyāyavihitaṃ punar nyāye niveśayet ||

10.1१०.१

राज्ञा प्रवर्तितान् धर्मान् यो नरो नानुपालयेत् । (१०।१)

rājñā pravartitān dharmān yo naro nānupālayet |

10.2१०.२

दण्ड्यः स पापो वध्यश् च लोपयन् राजशासनम् ॥ (१०।२)

daṇḍyaḥ sa pāpo vadhyaś ca lopayan rājaśāsanam ||

11.1११.१

आयुधान्य् आयुधीयानां वाह्यादीन् वाह्यजीविनाम् । (११।१)

āyudhāny āyudhīyānāṃ vāhyādīn vāhyajīvinām |

11.2११.२

वेश्यास्त्रीणाम् अलंकारं वाद्यातोद्यानि तद्विदाम् ॥ (११।२)

veśyāstrīṇām alaṃkāraṃ vādyātodyāni tadvidām ||

12.1१२.१

यच् च यस्योपकरणं येन जीवन्ति कारुकाः । (१२।१)

yac ca yasyopakaraṇaṃ yena jīvanti kārukāḥ |

12.2१२.२

सर्वस्वहरणे ऽप्य् एतान् न राजा हर्तुम् अर्हति ॥ (१२।२)

sarvasvaharaṇe 'py etān na rājā hartum arhati ||

13.1१३.१

अनादिश् चाप्य् अनन्तश् च द्विपदां पृथिवीपतिः । (१३।१)

anādiś cāpy anantaś ca dvipadāṃ pṛthivīpatiḥ |

13.2१३.२

दीप्तिमत्त्वाच्छुचित्वाच् च यदि न स्यात् पथश् च्युतः ॥ (१३।२)

dīptimattvācchucitvāc ca yadi na syāt pathaś cyutaḥ ||

14.1१४.१

यदि राजा न सर्वेषां वर्णानां दण्डधारणम् । (१४।१)

yadi rājā na sarveṣāṃ varṇānāṃ daṇḍadhāraṇam |

14.2१४.२

कुर्यात् पथो व्यपेतानां विनश्येयुर् इमाः प्रजाः ॥ (१४।२)

kuryāt patho vyapetānāṃ vinaśyeyur imāḥ prajāḥ ||

15.1१५.१

ब्राह्मण्यं ब्राह्मणो जह्यात् क्षत्रियः क्षात्रम् उत्सृजेत् । (१५।१)

brāhmaṇyaṃ brāhmaṇo jahyāt kṣatriyaḥ kṣātram utsṛjet |

15.2१५.२

स्वकर्म जह्याद् वैश्यस् तु शूद्रः सर्वान् विशेषयेत् ॥ (१५।२)

svakarma jahyād vaiśyas tu śūdraḥ sarvān viśeṣayet ||

16.1१६.१

राजानश् चेन् नाभविष्यन् पृथिव्यां दण्डधारणम् । (१६।१)

rājānaś cen nābhaviṣyan pṛthivyāṃ daṇḍadhāraṇam |

16.2१६.२

शूले मत्स्यान् इवापक्ष्यन् दुर्बलान् बलवत्तराः ॥ (१६।२)

śūle matsyān ivāpakṣyan durbalān balavattarāḥ ||

17.1१७.१

सताम् अनुग्रहो नित्यम् असतां निग्रहस् तथा । (१७।१)

satām anugraho nityam asatāṃ nigrahas tathā |

17.2१७.२

एष धर्मः स्मृतो राज्ञाम् अर्थश् चामित्रपीडनात् ॥ (१७।२)

eṣa dharmaḥ smṛto rājñām arthaś cāmitrapīḍanāt ||

18.1१८.१

न लिप्यते यथा वह्निर् दहञ्छश्वद् इमाः प्रजाः । (१८।१)

na lipyate yathā vahnir dahañchaśvad imāḥ prajāḥ |

18.2१८.२

न लिप्यते तथा राजा दण्डं दण्ड्येषु पातयन् ॥ (१८।२)

na lipyate tathā rājā daṇḍaṃ daṇḍyeṣu pātayan ||

19.1१९.१

आज्ञा तेजः पार्थिवानां सा च वाचि प्रतिष्ठिता । (१९।१)

ājñā tejaḥ pārthivānāṃ sā ca vāci pratiṣṭhitā |

19.2१९.२

ते यद् ब्रूयुर् असत् सद् वा स धर्मो व्यवहारिणाम् ॥ (१९।२)

te yad brūyur asat sad vā sa dharmo vyavahāriṇām ||

20.1२०.१

राजा नाम चरत्य् एष भूमौ साक्षात् सहस्रदृक् । (२०।१)

rājā nāma caraty eṣa bhūmau sākṣāt sahasradṛk |

20.2२०.२

न तस्याज्ञाम् अतिक्रम्य संतिष्ठेरन् प्रजाः क्वचित् ॥ (२०।२)

na tasyājñām atikramya saṃtiṣṭheran prajāḥ kvacit ||

21.1२१.१

रक्षाधिकाराद् ईशत्वाद् भूतानुग्रहदर्शनात् । (२१।१)

rakṣādhikārād īśatvād bhūtānugrahadarśanāt |

21.2२१.२

यद् एव राजा कुरुते तत् प्रमाणम् इति स्थितिः ॥ (२१।२)

yad eva rājā kurute tat pramāṇam iti sthitiḥ ||

22.1२२.१

निर्गुणो ऽपि यथा स्त्रीणां पूज्य एव पतिः सदा । (२२।१)

nirguṇo 'pi yathā strīṇāṃ pūjya eva patiḥ sadā |

22.2२२.२

प्रजानां विगुणो ऽप्य् एवं पूज्य एव नराधिपः ॥ (२२।२)

prajānāṃ viguṇo 'py evaṃ pūjya eva narādhipaḥ ||

23.1२३.१

तपःक्रीताः प्रजा राज्ञा प्रभुर् आसां ततो नृपः । (२३।१)

tapaḥkrītāḥ prajā rājñā prabhur āsāṃ tato nṛpaḥ |

23.2२३.२

ततस् तद्वचसि स्थेयं वार्ता चासां तदाश्रया ॥ (२३।२)

tatas tadvacasi stheyaṃ vārtā cāsāṃ tadāśrayā ||

24.1२४.१

पञ्च रूपाणि राजानो धारयन्त्य् अमितौजसः । (२४।१)

pañca rūpāṇi rājāno dhārayanty amitaujasaḥ |

24.2२४.२

अग्नेर् इन्द्रस्य सोमस्य यमस्य धनदस्य च ॥ (२४।२)

agner indrasya somasya yamasya dhanadasya ca ||

25.1२५.१

कारणाद् अनिमित्तं वा यदा क्रोधवशं गतः । (२५।१)

kāraṇād animittaṃ vā yadā krodhavaśaṃ gataḥ |

25.2२५.२

प्रजा दहति भूपालस् तदाग्निर् अभिधीयते ॥ (२५।२)

prajā dahati bhūpālas tadāgnir abhidhīyate ||

26.1२६.१

यदा तेजः समालम्ब्य विजिगीषुर् उदायुधः । (२६।१)

yadā tejaḥ samālambya vijigīṣur udāyudhaḥ |

26.2२६.२

अभियाति परान् राजा तदेन्द्रः स उदाहृतः ॥ (२६।२)

abhiyāti parān rājā tadendraḥ sa udāhṛtaḥ ||

27.1२७.१

विगतक्रोधसंतापो हृष्टरूपो यदा नृपः । (२७।१)

vigatakrodhasaṃtāpo hṛṣṭarūpo yadā nṛpaḥ |

27.2२७.२

प्रजानां दर्शनं याति सोम इत्य् उच्यते तदा ॥ (२७।२)

prajānāṃ darśanaṃ yāti soma ity ucyate tadā ||

28.1२८.१

धर्मासनगतः श्रीमान् दण्डं धत्ते यदा नृपः । (२८।१)

dharmāsanagataḥ śrīmān daṇḍaṃ dhatte yadā nṛpaḥ |

28.2२८.२

समः सर्वेषु भूतेषु तदा वैवस्वतः यमः ॥ (२८।२)

samaḥ sarveṣu bhūteṣu tadā vaivasvataḥ yamaḥ ||

29.1२९.१

यदा त्व् अर्थिगुरुप्राज्ञभृत्यादीन् अवनीपतिः । (२९।१)

yadā tv arthiguruprājñabhṛtyādīn avanīpatiḥ |

29.2२९.२

अनुगृह्णाति दानेन तदा स धनदः स्मृतः ॥ (२९।२)

anugṛhṇāti dānena tadā sa dhanadaḥ smṛtaḥ ||

30.1३०.१

तस्मात् तं नावजानीयान् नाक्रोशेन् न विशेषयेत् । (३०।१)

tasmāt taṃ nāvajānīyān nākrośen na viśeṣayet |

30.2३०.२

आज्ञायां चास्य तिष्ठेत मृत्युः स्यात् तद्व्यतिक्रमात् ॥ (३०।२)

ājñāyāṃ cāsya tiṣṭheta mṛtyuḥ syāt tadvyatikramāt ||

31.1३१.१

तस्य वृत्तिः प्रजारक्षा वृद्धप्राज्ञोपसेवनम् । (३१।१)

tasya vṛttiḥ prajārakṣā vṛddhaprājñopasevanam |

31.2३१.२

दर्शनं व्यवहाराणाम् आत्मनश् चाभिरक्षणम् ॥ (३१।२)

darśanaṃ vyavahārāṇām ātmanaś cābhirakṣaṇam ||

32.1३२.१

ब्राह्मणान् उपसेवेत नित्यं राजा समाहितः । (३२।१)

brāhmaṇān upaseveta nityaṃ rājā samāhitaḥ |

32.2३२.२

संयुक्तं ब्राह्मणैः क्षत्रं मूलं लोकाभिरक्षणे ॥ (३२।२)

saṃyuktaṃ brāhmaṇaiḥ kṣatraṃ mūlaṃ lokābhirakṣaṇe ||

33.1३३.१

ब्राह्मणस्यापरीहारो राजन्यासनम् अग्रतः । (३३।१)

brāhmaṇasyāparīhāro rājanyāsanam agrataḥ |

33.2३३.२

प्रथमं दर्शनं प्रातः सर्वेभ्यश् चाभिवादनम् ॥ (३३।२)

prathamaṃ darśanaṃ prātaḥ sarvebhyaś cābhivādanam ||

34.1३४.१

अग्रं नवेभ्यः सस्येभ्यो मार्गदानं च गच्छतः । (३४।१)

agraṃ navebhyaḥ sasyebhyo mārgadānaṃ ca gacchataḥ |

34.2३४.२

भैक्षहेतोः परागारे प्रवेशस् त्व् अनिवारितः ॥ (३४।२)

bhaikṣahetoḥ parāgāre praveśas tv anivāritaḥ ||

35.1३५.१

समित्पुष्पोदकादानेष्व् अस्तेयं सपरिग्रहात् । (३५।१)

samitpuṣpodakādāneṣv asteyaṃ saparigrahāt |

35.2३५.२

अनाक्षेपः परेभ्यश् च संभाषश् च परस्त्रिया ॥ (३५।२)

anākṣepaḥ parebhyaś ca saṃbhāṣaś ca parastriyā ||

36.1३६.१

नदीष्व् अवेतनस् तारः पूर्वम् उत्तरणं तथा । (३६।१)

nadīṣv avetanas tāraḥ pūrvam uttaraṇaṃ tathā |

36.2३६.२

तरेष्व् अशुल्कदानं च न चेद् वाणिज्यम् अस्य तत् ॥ (३६।२)

tareṣv aśulkadānaṃ ca na ced vāṇijyam asya tat ||

37.1३७.१

वर्तमानो ऽध्वनि श्रान्तो गृह्णन्न् अनिवसन् स्वयम् । (३७।१)

vartamāno 'dhvani śrānto gṛhṇann anivasan svayam |

37.2३७.२

ब्राह्मणो नापराध्नोति द्वाव् इक्षू पञ्च मूलकान् ॥ (३७।२)

brāhmaṇo nāparādhnoti dvāv ikṣū pañca mūlakān ||

38.1३८.१

नाभिशस्तान् न पतितान् न द्विषो न च नास्तिकात् । (३८।१)

nābhiśastān na patitān na dviṣo na ca nāstikāt |

38.2३८.२

न सोपधान् नानिमित्तं न दातारं प्रपीड्य च ॥ (३८।२)

na sopadhān nānimittaṃ na dātāraṃ prapīḍya ca ||

39.1३९.१

अर्थानां भूरिभावाच् च देयत्वाच्च महात्मनाम् । (३९।१)

arthānāṃ bhūribhāvāc ca deyatvācca mahātmanām |

39.2३९.२

श्रेयान् प्रतिग्रहो राज्ञां अन्येषां ब्राह्मणाद् ऋते ॥ (३९।२)

śreyān pratigraho rājñāṃ anyeṣāṃ brāhmaṇād ṛte ||

40.1४०.१

ब्राह्मणश् चैव राजा च द्वावप्येतौ धृतव्रतौ । (४०।१)

brāhmaṇaś caiva rājā ca dvāvapyetau dhṛtavratau |

40.2४०.२

नैतयोर् अन्तरं किंचित् प्रजाधर्माभिरक्षणात् ॥ (४०।२)

naitayor antaraṃ kiṃcit prajādharmābhirakṣaṇāt ||

41.1४१.१

धर्मज्ञस्य कृतज्ञस्य रक्षार्थं शासतो ऽशुचीन् । (४१।१)

dharmajñasya kṛtajñasya rakṣārthaṃ śāsato 'śucīn |

41.2४१.२

मेध्यम् एव धनं प्राहुस् तीक्ष्णस्यापि महीपतेः ॥ (४१।२)

medhyam eva dhanaṃ prāhus tīkṣṇasyāpi mahīpateḥ ||

42.1४२.१

शुचीनाम् अशुचीनां च संनिपातो यथाम्भसाम् । (४२।१)

śucīnām aśucīnāṃ ca saṃnipāto yathāmbhasām |

42.2४२.२

समुद्रे समतां याति तद्वद् राज्ञो धनागमः ॥ (४२।२)

samudre samatāṃ yāti tadvad rājño dhanāgamaḥ ||

43.1४३.१

यथा चाग्नौ स्थितं दीप्ते शुद्धिम् आयाति काञ्चनम् । (४३।१)

yathā cāgnau sthitaṃ dīpte śuddhim āyāti kāñcanam |

43.2४३.२

एवम् एवागमा सर्वे शुद्धिम् आयान्ति राजसु ॥ (४३।२)

evam evāgamā sarve śuddhim āyānti rājasu ||

44.1४४.१

य एव कश्चित् स्वद्रव्यं ब्राह्मणेभ्यः प्रयच्छति । (४४।१)

ya eva kaścit svadravyaṃ brāhmaṇebhyaḥ prayacchati |

44.2४४.२

तद् राज्ञाप्य् अनुमन्तव्यम् एष धर्मः सनातनः ॥ (४४।२)

tad rājñāpy anumantavyam eṣa dharmaḥ sanātanaḥ ||

45.1४५.१

अन्यप्रकाराद् उचिताद् भूमेः षड्भागसंज्ञितात् । (४५।१)

anyaprakārād ucitād bhūmeḥ ṣaḍbhāgasaṃjñitāt |

45.2४५.२

बलिः स तस्य विहितः प्रजापालनवेतनम् ॥ (४५।२)

baliḥ sa tasya vihitaḥ prajāpālanavetanam ||

46.1४६.१

शक्यं तत् पुनर् आदातुं यद् अब्राह्मणसात्कृतम् । (४६।१)

śakyaṃ tat punar ādātuṃ yad abrāhmaṇasātkṛtam |

46.2४६.२

ब्राह्मणाय तु यद् दत्तं न तस्य हरणं पुनः ॥ (४६।२)

brāhmaṇāya tu yad dattaṃ na tasya haraṇaṃ punaḥ ||

47.1४७.१

दानम् अध्ययनं यज्ञस् तस्य कर्म त्रिलक्षणम् । (४७।१)

dānam adhyayanaṃ yajñas tasya karma trilakṣaṇam |

47.2४७.२

याजनाध्यापने वृत्तिस् तृतीयस् तु प्रतिग्रहः ॥ (४७।२)

yājanādhyāpane vṛttis tṛtīyas tu pratigrahaḥ ||

48.1४८.१

स्वकर्मणि द्विजस् तिष्ठेद् वृत्तिम् आहारयेत् कृताम् । (४८।१)

svakarmaṇi dvijas tiṣṭhed vṛttim āhārayet kṛtām |

48.2४८.२

नासद्भ्यः प्रतिगृह्णीयाद् वर्णेभ्यो नियमे ऽसति ॥ (४८।२)

nāsadbhyaḥ pratigṛhṇīyād varṇebhyo niyame 'sati ||

49.1४९.१

अशुचिर् वचनाद् यस्य शुचिर् भवति पुरुषः । (४९।१)

aśucir vacanād yasya śucir bhavati puruṣaḥ |

49.2४९.२

शुचिश् चैवाशुचिः सद्यः कथं राजा न दैवतम् ॥ (४९।२)

śuciś caivāśuciḥ sadyaḥ kathaṃ rājā na daivatam ||

50.1५०.१

विदुर् य एव देवत्वं राज्ञो ह्य् अमिततेजसः । (५०।१)

vidur ya eva devatvaṃ rājño hy amitatejasaḥ |

50.2५०.२

तस्य ते प्रतिगृह्णन्तो न लिप्यन्ते द्विजातयः ॥ (५०।२)

tasya te pratigṛhṇanto na lipyante dvijātayaḥ ||

51.1५१.१

लोके ऽस्मिन् मङ्गलान्य् अष्टौ ब्राह्मणो गौर् हुताशनः । (५१।१)

loke 'smin maṅgalāny aṣṭau brāhmaṇo gaur hutāśanaḥ |

51.2५१.२

हिरण्यं सर्पिर् आदित्य आपो राजा तथाष्टमः ॥ (५१।२)

hiraṇyaṃ sarpir āditya āpo rājā tathāṣṭamaḥ ||

52.1५२.१

एतानि सततं पश्येन् नमस्येद् अर्चयेच् च तान् । (५२।१)

etāni satataṃ paśyen namasyed arcayec ca tān |

52.2५२.२

प्रदक्षिणं च कुर्वीत तथा ह्य् आयुर् न हीयते ॥ (५२।२)

pradakṣiṇaṃ ca kurvīta tathā hy āyur na hīyate ||

Data courtesy of The Digital Corpus of Sanskrit.

NāSmṛ, 2, 17

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit