नारदस्मृतिNāradasmṛti

NāSmṛ, 2, 1

4 of 22 · 448 verses

Select a line for its word-by-word analysis.

1.1१.१

देब्तृणं देयम् अदेयं च येन यत्र यथा च यत् । (१।१)

Debtṛṇaṃ deyam adeyaṃ ca yena yatra yathā ca yat |

1.2१.२

दानग्रहणधर्माच् च ऋणादानम् इति स्मृतम् ॥ (१।२)

dānagrahaṇadharmāc ca ṛṇādānam iti smṛtam ||

2.1२.१

पितर्य् उपरते पुत्रा ऋणं दद्युर् यथांशतः । (२।१)

pitary uparate putrā ṛṇaṃ dadyur yathāṃśataḥ |

2.2२.२

विभक्ता ह्य् अविभक्ता वा यस् ताम् उद्वहते धुरम् ॥ (२।२)

vibhaktā hy avibhaktā vā yas tām udvahate dhuram ||

3.1३.१

पितृव्येणाविभक्तेन भ्रात्रा वा यद् ऋणं कृतम् । (३।१)

pitṛvyeṇāvibhaktena bhrātrā vā yad ṛṇaṃ kṛtam |

3.2३.२

मात्रा वा यत् कुटुम्बार्थे दद्युस् तद् रिक्थिनो ऽखिलम् ॥ (३।२)

mātrā vā yat kuṭumbārthe dadyus tad rikthino 'khilam ||

4.1४.१

क्रमाद् अव्याहतं प्राप्तं पुत्रैर् यन् नर्णम् उद्धृतम् । (४।१)

kramād avyāhataṃ prāptaṃ putrair yan narṇam uddhṛtam |

4.2४.२

दद्युः पैतामहं पौत्रास् तच् चतुर्थान् निवर्तते ॥ (४।२)

dadyuḥ paitāmahaṃ pautrās tac caturthān nivartate ||

5.1५.१

इच्छन्ति पितरः पुत्रान् स्वार्थहेतोर् यतस् ततः । (५।१)

icchanti pitaraḥ putrān svārthahetor yatas tataḥ |

5.2५.२

उत्तमर्णाधमर्णेभ्यो माम् अयं मोचयिष्यति ॥ (५।२)

uttamarṇādhamarṇebhyo mām ayaṃ mocayiṣyati ||

6.1६.१

अतः पुत्रेण जातेन स्वार्थम् उत्सृज्य यत्नतः । (६।१)

ataḥ putreṇa jātena svārtham utsṛjya yatnataḥ |

6.2६.२

पिता मोक्षितव्य ऋणाद् यथा न नरकं पतेत् ॥ (६।२)

pitā mokṣitavya ṛṇād yathā na narakaṃ patet ||

7.1७.१

तपस्वी चाग्निहोत्री च ऋणवान् म्रियते यदि । (७।१)

tapasvī cāgnihotrī ca ṛṇavān mriyate yadi |

7.2७.२

तपश् चैवाग्निहोत्रं च सर्वं तद् धनिनां धनम् ॥ (७।२)

tapaś caivāgnihotraṃ ca sarvaṃ tad dhanināṃ dhanam ||

8.1८.१

न पुत्रर्णं पिता दद्याद् दद्यात् पुत्रस् तु पैतृकम् । (८।१)

na putrarṇaṃ pitā dadyād dadyāt putras tu paitṛkam |

8.2८.२

कामक्रोधसुराद्यूतप्रातिभाव्यकृतं विना ॥ (८।२)

kāmakrodhasurādyūtaprātibhāvyakṛtaṃ vinā ||

9.1९.१

पितुर् एव नियोगाद् यत् कुटुम्बभरणाय च । (९।१)

pitur eva niyogād yat kuṭumbabharaṇāya ca |

9.2९.२

कृतं वा यद् ऋणं कृच्छ्रे दद्यात् पुत्रस्य तत् पिता ॥ (९।२)

kṛtaṃ vā yad ṛṇaṃ kṛcchre dadyāt putrasya tat pitā ||

10.1१०.१

शिष्यान्तेवासिदासस्त्रीवैयावृत्त्यकरैश् च यत् । (१०।१)

śiṣyāntevāsidāsastrīvaiyāvṛttyakaraiś ca yat |

10.2१०.२

कुटुम्बहेतोर् उत्क्षिप्तं वोढव्यं तत् कुटुम्बिना ॥ (१०।२)

kuṭumbahetor utkṣiptaṃ voḍhavyaṃ tat kuṭumbinā ||

11.1११.१

नार्वाग् विंशतिमाद् वर्षात् पितरि प्रोषिते सुतः । (११।१)

nārvāg viṃśatimād varṣāt pitari proṣite sutaḥ |

11.2११.२

ऋणं दद्यात् पितृव्ये वा ज्येष्ठे भ्रातर्य् अथापि वा ॥ (११।२)

ṛṇaṃ dadyāt pitṛvye vā jyeṣṭhe bhrātary athāpi vā ||

12.1१२.१

दाप्यः परर्णम् एको ऽपि जीवत्स्व् अधिकृतैः कृतम् । (१२।१)

dāpyaḥ pararṇam eko 'pi jīvatsv adhikṛtaiḥ kṛtam |

12.2१२.२

प्रेतेषु तु न तत्पुत्रः परर्णं दातुम् अर्हति ॥ (१२।२)

preteṣu tu na tatputraḥ pararṇaṃ dātum arhati ||

13.1१३.१

न स्त्री पतिकृतं दद्याद् ऋणं पुत्रकृतं तथा । (१३।१)

na strī patikṛtaṃ dadyād ṛṇaṃ putrakṛtaṃ tathā |

13.2१३.२

अभ्युपेताद् ऋते यद्वा सह पत्या कृतं भवेत् ॥ (१३।२)

abhyupetād ṛte yadvā saha patyā kṛtaṃ bhavet ||

14.1१४.१

दद्याद् अपुत्रा विधवा नियुक्ता या मुमूर्षुणा । (१४।१)

dadyād aputrā vidhavā niyuktā yā mumūrṣuṇā |

14.2१४.२

यो वा तद्रिक्थम् आदद्याद् यतो रिक्थम् ऋणं ततः ॥ (१४।२)

yo vā tadriktham ādadyād yato riktham ṛṇaṃ tataḥ ||

15.1१५.१

न च भार्याकृतम् ऋणं कथंचित् पत्युर् आभवेत् । (१५।१)

na ca bhāryākṛtam ṛṇaṃ kathaṃcit patyur ābhavet |

15.2१५.२

आपत्कृताद् ऋते पुंसां कुटुम्बार्थो हि विस्तरः ॥ (१५।२)

āpatkṛtād ṛte puṃsāṃ kuṭumbārtho hi vistaraḥ ||

16.1१६.१

अन्यत्र रजकव्याधगोपशौण्डिकयोषिताम् । (१६।१)

anyatra rajakavyādhagopaśauṇḍikayoṣitām |

16.2१६.२

तेषां तत्प्रत्यया वृत्तिः कुटुम्बं च तदाश्रयम् ॥ (१६।२)

teṣāṃ tatpratyayā vṛttiḥ kuṭumbaṃ ca tadāśrayam ||

17.1१७.१

पुत्रिणी तु समुत्सृज्य पुत्रं स्त्री यान्यम् आश्रयेत् । (१७।१)

putriṇī tu samutsṛjya putraṃ strī yānyam āśrayet |

17.2१७.२

ऋक्थं तस्या हरेत् सर्वं निःस्वायाः पुत्र एव तु ॥ (१७।२)

ṛkthaṃ tasyā haret sarvaṃ niḥsvāyāḥ putra eva tu ||

18.1१८.१

या तु सप्रधनैव स्त्री सापत्या चान्यम् आश्रयेत् । (१८।१)

yā tu sapradhanaiva strī sāpatyā cānyam āśrayet |

18.2१८.२

सो ऽस्या दद्याद् ऋणं भर्तुर् उत्सृजेद् वा तथैव ताम् ॥ (१८।२)

so 'syā dadyād ṛṇaṃ bhartur utsṛjed vā tathaiva tām ||

19.1१९.१

अधनस्य ह्य् अपुत्रस्य मृतस्योपैति यः स्त्रियम् । (१९।१)

adhanasya hy aputrasya mṛtasyopaiti yaḥ striyam |

19.2१९.२

ऋणं वोढुः स भजते तद् एवास्य धनं स्मृतम् ॥ (१९।२)

ṛṇaṃ voḍhuḥ sa bhajate tad evāsya dhanaṃ smṛtam ||

20.1२०.१

धनस्त्रीहारिपुत्राणाम् ऋणभाग् यो धनं हरेत् । (२०।१)

dhanastrīhāriputrāṇām ṛṇabhāg yo dhanaṃ haret |

20.2२०.२

पुत्रो ऽसतोः स्त्रीधनिनोः स्त्रीहारी धनिपुत्रयोः ॥ (२०।२)

putro 'satoḥ strīdhaninoḥ strīhārī dhaniputrayoḥ ||

21.1२१.१

उत्तमा स्वैरिणी या स्याद् उत्तमा च पुनर्भुवाम् । (२१।१)

uttamā svairiṇī yā syād uttamā ca punarbhuvām |

21.2२१.२

ऋणं तयोः पतिकृतं दद्याद् यस् ताम् उपाश्नुते ॥ (२१।२)

ṛṇaṃ tayoḥ patikṛtaṃ dadyād yas tām upāśnute ||

22.1२२.१

स्त्रीकृतान्य् अप्रमाणानि कार्याण्य् आहुर् अनापदि । (२२।१)

strīkṛtāny apramāṇāni kāryāṇy āhur anāpadi |

22.2२२.२

विशेषतो गृहक्षेत्रदानाधमनविक्रयाः ॥ (२२।२)

viśeṣato gṛhakṣetradānādhamanavikrayāḥ ||

23.1२३.१

एतान्य् अपि प्रमाणानि भर्ता यद्य् अनुमन्यते । (२३।१)

etāny api pramāṇāni bhartā yady anumanyate |

23.2२३.२

पुत्रः पत्युर् अभावे वा राजा वा पतिपुत्रयोः ॥ (२३।२)

putraḥ patyur abhāve vā rājā vā patiputrayoḥ ||

24.1२४.१

भर्त्रा प्रीतेन यद् दत्तं स्त्रियै तस्मिन् मृते ऽपि तत् । (२४।१)

bhartrā prītena yad dattaṃ striyai tasmin mṛte 'pi tat |

24.2२४.२

सा यथाकामम् अश्नीयाद् दद्याद् वा स्थावराद् ऋते ॥ (२४।२)

sā yathākāmam aśnīyād dadyād vā sthāvarād ṛte ||

25.1२५.१

इन्देपेन्देन्चे, पेर्सोनल् ड़्रेएदोम्तथा दासकृतं कार्यम् अकृतं परिचक्षते । (२५।१)

independence, personal freedomtathā dāsakṛtaṃ kāryam akṛtaṃ paricakṣate |

25.2२५.२

अन्यत्र स्वामिसंदेशान् न दासः प्रभुर् आत्मनः ॥ (२५।२)

anyatra svāmisaṃdeśān na dāsaḥ prabhur ātmanaḥ ||

26.1२६.१

पुत्रेण च कृतं कार्यं यत् स्यात् पितुर् अनिच्छतः । (२६।१)

putreṇa ca kṛtaṃ kāryaṃ yat syāt pitur anicchataḥ |

26.2२६.२

तद् अप्य् अकृतम् एवाहुर् दासः पुत्रश् च तौ समौ ॥ (२६।२)

tad apy akṛtam evāhur dāsaḥ putraś ca tau samau ||

27.1२७.१

अप्राप्तव्यवहारश् चेत् स्वतन्त्रो ऽपि हि नर्णभाक् । (२७।१)

aprāptavyavahāraś cet svatantro 'pi hi narṇabhāk |

27.2२७.२

स्वातन्त्र्यं तु स्मृतं ज्येष्ठे ज्यैष्ठ्यं गुणवयःकृतम् ॥ (२७।२)

svātantryaṃ tu smṛtaṃ jyeṣṭhe jyaiṣṭhyaṃ guṇavayaḥkṛtam ||

28.1२८.१

त्रयः स्वतन्त्रा लोके ऽस्मिन् राजाचार्यस् तथैव च । (२८।१)

trayaḥ svatantrā loke 'smin rājācāryas tathaiva ca |

28.2२८.२

प्रति प्रति च वर्णानां सर्वेषां स्वगृहे गृही ॥ (२८।२)

prati prati ca varṇānāṃ sarveṣāṃ svagṛhe gṛhī ||

29.1२९.१

अस्वतन्त्राः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः । (२९।१)

asvatantrāḥ prajāḥ sarvāḥ svatantraḥ pṛthivīpatiḥ |

29.2२९.२

अस्वतन्त्रः स्मृतः शिष्य आचार्ये तु स्वतन्त्रता ॥ (२९।२)

asvatantraḥ smṛtaḥ śiṣya ācārye tu svatantratā ||

30.1३०.१

अस्वतन्त्राः स्त्रियः पुत्रा दासाश् च सपरिग्रहाः । (३०।१)

asvatantrāḥ striyaḥ putrā dāsāś ca saparigrahāḥ |

30.2३०.२

स्वतन्त्रस् तत्र तु गृही यस्य यत् स्यात् क्रमागतम् ॥ (३०।२)

svatantras tatra tu gṛhī yasya yat syāt kramāgatam ||

31.1३१.१

गर्भस्थैः सदृशो ज्ञेय आ वर्षाद् अष्टमाच्छिशुः । (३१।१)

garbhasthaiḥ sadṛśo jñeya ā varṣād aṣṭamācchiśuḥ |

31.2३१.२

बाल आ षोडशाज् ज्ञेयः पोगण्डश् चापि शब्द्यते ॥ (३१।२)

bāla ā ṣoḍaśāj jñeyaḥ pogaṇḍaś cāpi śabdyate ||

32.1३२.१

परतो व्यवहारज्ञः स्वतन्त्रः पितरौ विना । (३२।१)

parato vyavahārajñaḥ svatantraḥ pitarau vinā |

32.2३२.२

जीवतोर् अस्वतन्त्रः स्याज् जरयापि समन्वितः ॥ (३२।२)

jīvator asvatantraḥ syāj jarayāpi samanvitaḥ ||

33.1३३.१

तयोर् अपि पिता श्रेयान् बीजप्राधान्यदर्शनात् । (३३।१)

tayor api pitā śreyān bījaprādhānyadarśanāt |

33.2३३.२

अभावे बीजिनो माता तदभावे तु पूर्वजः ॥ (३३।२)

abhāve bījino mātā tadabhāve tu pūrvajaḥ ||

34.1३४.१

स्वतन्त्राः सर्व एवैते परतन्त्रेषु सर्वदा । (३४।१)

svatantrāḥ sarva evaite paratantreṣu sarvadā |

34.2३४.२

अनुशिष्टौ विसर्गे च विक्रये चेश्वरा मताः ॥ (३४।२)

anuśiṣṭau visarge ca vikraye ceśvarā matāḥ ||

35.1३५.१

यद् बालः कुरुते कार्यम् अस्वतन्त्रस् तथैव च । (३५।१)

yad bālaḥ kurute kāryam asvatantras tathaiva ca |

35.2३५.२

अकृतं तद् इति प्राहुः शास्त्रे शास्त्रविदो जनाः ॥ (३५।२)

akṛtaṃ tad iti prāhuḥ śāstre śāstravido janāḥ ||

36.1३६.१

स्वतन्त्रो ऽपि हि यत् कार्यं कुर्याद् अप्रकृतिं गतः । (३६।१)

svatantro 'pi hi yat kāryaṃ kuryād aprakṛtiṃ gataḥ |

36.2३६.२

तद् अप्य् अकृतम् एवाहुर् अस्वतन्त्रः स हेतुतः ॥ (३६।२)

tad apy akṛtam evāhur asvatantraḥ sa hetutaḥ ||

37.1३७.१

कामक्रोधाभियुक्तार्तभयव्यसनपीडिताः । (३७।१)

kāmakrodhābhiyuktārtabhayavyasanapīḍitāḥ |

37.2३७.२

रागद्वेषपरीताश् च ज्ञेयास् त्व् अप्रकृतिं गताः ॥ (३७।२)

rāgadveṣaparītāś ca jñeyās tv aprakṛtiṃ gatāḥ ||

38.1३८.१

कुले ज्येष्ठस् तथा श्रेष्ठः प्रकृतिस्थश् च यो भवेत् । (३८।१)

kule jyeṣṭhas tathā śreṣṭhaḥ prakṛtisthaś ca yo bhavet |

38.2३८.२

तत्कृतं स्यात् कृतं कार्यं नास्वतन्त्रकृतं कृतम् ॥ (३८।२)

tatkṛtaṃ syāt kṛtaṃ kāryaṃ nāsvatantrakṛtaṃ kṛtam ||

39.1३९.१

धनमूलाः क्रियाः सर्वा यत्नस् तत्साधने मतः । (३९।१)

dhanamūlāḥ kriyāḥ sarvā yatnas tatsādhane mataḥ |

39.2३९.२

रक्षणं वर्धनं भोग इति तस्य विधिः क्रमात् ॥ (३९।२)

rakṣaṇaṃ vardhanaṃ bhoga iti tasya vidhiḥ kramāt ||

40.1४०.१

तत् पुनस् त्रिविधं ज्ञेयं शुक्लं शबलम् एव च । (४०।१)

tat punas trividhaṃ jñeyaṃ śuklaṃ śabalam eva ca |

40.2४०.२

कृष्णं च तस्य विज्ञेयः प्रभेदः सप्तधा पृथक् ॥ (४०।२)

kṛṣṇaṃ ca tasya vijñeyaḥ prabhedaḥ saptadhā pṛthak ||

41.1४१.१

श्रुतशौर्यतपःकन्याशिष्ययाज्यान्वयागतम् । (४१।१)

śrutaśauryatapaḥkanyāśiṣyayājyānvayāgatam |

41.2४१.२

धनं सप्तविधं शुक्लम् उदयो ऽप्य् अस्य तद्विधः ॥ (४१।२)

dhanaṃ saptavidhaṃ śuklam udayo 'py asya tadvidhaḥ ||

42.1४२.१

कुसीदकृषिवाणिज्यशुल्कशिल्पानुवृत्तिभिः । (४२।१)

kusīdakṛṣivāṇijyaśulkaśilpānuvṛttibhiḥ |

42.2४२.२

कृतोपकाराद् आप्तं च शबलं समुदाहृतम् ॥ (४२।२)

kṛtopakārād āptaṃ ca śabalaṃ samudāhṛtam ||

43.1४३.१

पार्श्विकद्यूतदौत्यार्तिप्रतिरूपकसाहसैः । (४३।१)

pārśvikadyūtadautyārtipratirūpakasāhasaiḥ |

43.2४३.२

व्याजेनोपार्जितं यच् च तत् कृष्णं समुदाहृतम् ॥ (४३।२)

vyājenopārjitaṃ yac ca tat kṛṣṇaṃ samudāhṛtam ||

44.1४४.१

तेन क्रयो विक्रयश् च दानं ग्रहणम् एव च । (४४।१)

tena krayo vikrayaś ca dānaṃ grahaṇam eva ca |

44.2४४.२

विविधाश् च प्रवर्तन्ते क्रियाः संभोग एव च ॥ (४४।२)

vividhāś ca pravartante kriyāḥ saṃbhoga eva ca ||

45.1४५.१

यथाविधेन द्रव्येण यत् किंचित् कुरुते नरः । (४५।१)

yathāvidhena dravyeṇa yat kiṃcit kurute naraḥ |

45.2४५.२

तथाविधम् अवाप्नोति स फलं प्रेत्य चेह च ॥ (४५।२)

tathāvidham avāpnoti sa phalaṃ pretya ceha ca ||

46.1४६.१

तत् पुनर् द्वादशविधं प्रतिवर्णाश्रयात् स्मृतम् । (४६।१)

tat punar dvādaśavidhaṃ prativarṇāśrayāt smṛtam |

46.2४६.२

साधारणं स्यात् त्रिविधं शेषं नवविधं स्मृतम् ॥ (४६।२)

sādhāraṇaṃ syāt trividhaṃ śeṣaṃ navavidhaṃ smṛtam ||

47.1४७.१

क्रमागतं प्रीतिदायः प्राप्तं च सह भार्यया । (४७।१)

kramāgataṃ prītidāyaḥ prāptaṃ ca saha bhāryayā |

47.2४७.२

अविशेषेण वर्णानां सर्वेषां त्रिविधं धनम् ॥ (४७।२)

aviśeṣeṇa varṇānāṃ sarveṣāṃ trividhaṃ dhanam ||

48.1४८.१

वैशेषिकं धनं ज्ञेयं ब्राह्मणस्य त्रिलक्षणम् । (४८।१)

vaiśeṣikaṃ dhanaṃ jñeyaṃ brāhmaṇasya trilakṣaṇam |

48.2४८.२

प्रतिग्रहेण यल्लब्धं याज्यतः शिष्यतस् तथा ॥ (४८।२)

pratigraheṇa yallabdhaṃ yājyataḥ śiṣyatas tathā ||

49.1४९.१

त्रिविधं क्षत्रियस्यापि प्राहुर् वैशेषिकं धनम् । (४९।१)

trividhaṃ kṣatriyasyāpi prāhur vaiśeṣikaṃ dhanam |

49.2४९.२

युद्धोपलब्धं कारश् च दण्डश् च व्यवहारतः ॥ (४९।२)

yuddhopalabdhaṃ kāraś ca daṇḍaś ca vyavahārataḥ ||

50.1५०.१

वैशेषिकं धनं ज्ञेयं वैश्यस्यापि त्रिलक्षणम् । (५०।१)

vaiśeṣikaṃ dhanaṃ jñeyaṃ vaiśyasyāpi trilakṣaṇam |

50.2५०.२

कृषिगोरक्षवाणिज्यैः शूद्रस्यैभ्यस् त्व् अनुग्रहात् ॥ (५०।२)

kṛṣigorakṣavāṇijyaiḥ śūdrasyaibhyas tv anugrahāt ||

51.1५१.१

सर्वेषाम् एव वर्णानाम् एष धर्म्यो धनागमः । (५१।१)

sarveṣām eva varṇānām eṣa dharmyo dhanāgamaḥ |

51.2५१.२

विपर्ययाद् अधर्म्यः स्यान् न चेद् आपद् गरीयसी ॥ (५१।२)

viparyayād adharmyaḥ syān na ced āpad garīyasī ||

52.1५२.१

आपत्स्व् अनन्तरा वृत्तिर् ब्राह्मणस्य विधीयते । (५२।१)

āpatsv anantarā vṛttir brāhmaṇasya vidhīyate |

52.2५२.२

वैश्यवृत्तिस् ततश् चोक्ता न जघन्या कथंचन ॥ (५२।२)

vaiśyavṛttis tataś coktā na jaghanyā kathaṃcana ||

53.1५३.१

न कथंचन कुर्वीत ब्राह्मणः कर्म वार्षलम् । (५३।१)

na kathaṃcana kurvīta brāhmaṇaḥ karma vārṣalam |

53.2५३.२

वृषलः कर्म न ब्राह्मं पतनीये हि ते तयोः ॥ (५३।२)

vṛṣalaḥ karma na brāhmaṃ patanīye hi te tayoḥ ||

54.1५४.१

उत्कृष्टं चापकृष्टं च तयोः कर्म न विद्यते । (५४।१)

utkṛṣṭaṃ cāpakṛṣṭaṃ ca tayoḥ karma na vidyate |

54.2५४.२

मध्यमे कर्मणी हित्वा सर्वसाधारणे हि ते ॥ (५४।२)

madhyame karmaṇī hitvā sarvasādhāraṇe hi te ||

55.1५५.१

आपदं ब्राह्मणस् तीर्त्वा क्षत्रवृत्त्या हृतैर् धनैः । (५५।१)

āpadaṃ brāhmaṇas tīrtvā kṣatravṛttyā hṛtair dhanaiḥ |

55.2५५.२

उत्सृजेत् क्षत्रवृत्तिं तां कृत्वा पावनम् आत्मनः ॥ (५५।२)

utsṛjet kṣatravṛttiṃ tāṃ kṛtvā pāvanam ātmanaḥ ||

56.1५६.१

तस्याम् एव तु यो वृत्तौ ब्राह्मणो रमते रसात् । (५६।१)

tasyām eva tu yo vṛttau brāhmaṇo ramate rasāt |

56.2५६.२

काण्डपृष्ठश् च्युतो मार्गात् सो ऽपाङ्क्तेयः प्रकीर्तितः ॥ (५६।२)

kāṇḍapṛṣṭhaś cyuto mārgāt so 'pāṅkteyaḥ prakīrtitaḥ ||

57.1५७.१

वैश्यवृत्ताव् अविक्रेयं ब्राह्मणस्य पयो दधि । (५७।१)

vaiśyavṛttāv avikreyaṃ brāhmaṇasya payo dadhi |

57.2५७.२

घृतं मधु मधूच्छिष्टं लाक्षाक्षाररसासवाः ॥ (५७।२)

ghṛtaṃ madhu madhūcchiṣṭaṃ lākṣākṣārarasāsavāḥ ||

58.1५८.१

मांसौदनतिलक्षौमसोमपुष्पफलपलाः । (५८।१)

māṃsaudanatilakṣaumasomapuṣpaphalapalāḥ |

58.2५८.२

मनुष्यविषशस्त्राम्बुलवणापूपवीरुधः ॥ (५८।२)

manuṣyaviṣaśastrāmbulavaṇāpūpavīrudhaḥ ||

59.1५९.१

नीलीकौशेयचर्मास्थिकुतपैकशफा मृदः । (५९।१)

nīlīkauśeyacarmāsthikutapaikaśaphā mṛdaḥ |

59.2५९.२

उदश्वित्केशपिण्याकशाकाद्यौषधयस् तथा ॥ (५९।२)

udaśvitkeśapiṇyākaśākādyauṣadhayas tathā ||

60.1६०.१

ब्राह्मणस्य तु विक्रेयं शुष्कं दारु तृणानि च । (६०।१)

brāhmaṇasya tu vikreyaṃ śuṣkaṃ dāru tṛṇāni ca |

60.2६०.२

गन्धद्रव्यैरकावेत्रतूलमूलतुशाद् ऋते ॥ (६०।२)

gandhadravyairakāvetratūlamūlatuśād ṛte ||

61.1६१.१

स्वयं शीर्णं च विदलं फलानां बदरेङ्गुदे । (६१।१)

svayaṃ śīrṇaṃ ca vidalaṃ phalānāṃ badareṅgude |

61.2६१.२

रज्जुः कार्पासिकं सूत्रं तच् चेद् अविकृतं भवेत् ॥ (६१।२)

rajjuḥ kārpāsikaṃ sūtraṃ tac ced avikṛtaṃ bhavet ||

62.1६२.१

अशक्तौ भेषजस्यार्थे यज्ञहेतोस् तथैव च । (६२।१)

aśaktau bheṣajasyārthe yajñahetos tathaiva ca |

62.2६२.२

यद्य् अवश्यं तु विक्रेयास् तिला धान्येन तत्सामाः ॥ (६२।२)

yady avaśyaṃ tu vikreyās tilā dhānyena tatsāmāḥ ||

63.1६३.१

अविक्रेयाणि विक्रीणन् ब्राह्मणः प्रच्युतः पथः । (६३।१)

avikreyāṇi vikrīṇan brāhmaṇaḥ pracyutaḥ pathaḥ |

63.2६३.२

मार्गे पुनर् अवस्थाप्य राज्ञा दण्डेन भूयसा ॥ (६३।२)

mārge punar avasthāpya rājñā daṇḍena bhūyasā ||

64.1६४.१

प्रमाणानि प्रमाणस्थैः परिपाल्यानि यत्नतः । (६४।१)

pramāṇāni pramāṇasthaiḥ paripālyāni yatnataḥ |

64.2६४.२

सीदन्ति हि प्रमाणानि प्रमाणैर् अव्यवस्थितैः ॥ (६४।२)

sīdanti hi pramāṇāni pramāṇair avyavasthitaiḥ ||

65.1६५.१

तेस्तिमोन्य्लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतं । (६५।१)

Testimonylikhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ smṛtaṃ |

65.2६५.२

धनस्वीकरणे येन धनी धनम् उपाश्नुते ॥ (६५।२)

dhanasvīkaraṇe yena dhanī dhanam upāśnute ||

66.1६६.१

लिखितं बलवन् नित्यं जीवन्तस् त्व् एव साक्षिणः । (६६।१)

likhitaṃ balavan nityaṃ jīvantas tv eva sākṣiṇaḥ |

66.2६६.२

कालातिहरणाद् भुक्तिर् इति शास्त्रेषु निश्चयः ॥ (६६।२)

kālātiharaṇād bhuktir iti śāstreṣu niścayaḥ ||

67.1६७.१

त्रिविधस्यास्य दृष्टस्य प्रमाणस्य यथाक्रमम् । (६७।१)

trividhasyāsya dṛṣṭasya pramāṇasya yathākramam |

67.2६७.२

पूर्वं पूर्वं गुरु ज्ञेयं भुक्तिर् एभ्यो गरीयसी ॥ (६७।२)

pūrvaṃ pūrvaṃ guru jñeyaṃ bhuktir ebhyo garīyasī ||

68.1६८.१

विद्यमाने ऽपि लिखिते जीवत्स्व् अपि हि साक्षिषु । (६८।१)

vidyamāne 'pi likhite jīvatsv api hi sākṣiṣu |

68.2६८.२

विशेषतः स्थावराणां यन् न भुक्तं न तत् स्थिरम् ॥ (६८।२)

viśeṣataḥ sthāvarāṇāṃ yan na bhuktaṃ na tat sthiram ||

69.1६९.१

भुज्यमानान् परैर् अर्थान् यः स्वान् मौर्ख्याद् उपेक्षते । (६९।१)

bhujyamānān parair arthān yaḥ svān maurkhyād upekṣate |

69.2६९.२

समक्षं जीवतो ऽप्य् अस्य तान् भुक्तिः कुरुते वशे ॥ (६९।२)

samakṣaṃ jīvato 'py asya tān bhuktiḥ kurute vaśe ||

70.1७०.१

यत्किंचिद् दश वर्षाणि संनिधौ प्रेक्षते धनी । (७०।१)

yatkiṃcid daśa varṣāṇi saṃnidhau prekṣate dhanī |

70.2७०.२

भुज्यमानं परैस् तूष्णीं न स तल् लब्धुम् अर्हति ॥ (७०।२)

bhujyamānaṃ parais tūṣṇīṃ na sa tal labdhum arhati ||

71.1७१.१

उपेक्षां कुर्वतस् तस्य तूष्णीं भूतस्य तिष्ठतः । (७१।१)

upekṣāṃ kurvatas tasya tūṣṇīṃ bhūtasya tiṣṭhataḥ |

71.2७१.२

काले ऽतिपन्ने पूर्वोक्ते व्यवहारो न सिध्यति ॥ (७१।२)

kāle 'tipanne pūrvokte vyavahāro na sidhyati ||

72.1७२.१

अजडश् चेद् अपोगण्डो विषये चास्य भुज्यते । (७२।१)

ajaḍaś ced apogaṇḍo viṣaye cāsya bhujyate |

72.2७२.२

भुक्तं तद् व्यवहारेण भोक्ता तद् धनम् अर्हति ॥ (७२।२)

bhuktaṃ tad vyavahāreṇa bhoktā tad dhanam arhati ||

73.1७३.१

आधिः सीमा बालधनं निक्षेपोपनिधी स्त्रियः । (७३।१)

ādhiḥ sīmā bāladhanaṃ nikṣepopanidhī striyaḥ |

73.2७३.२

राजस्वं श्रोत्रियस्वं च नोपभोगेन जीर्यते ॥ (७३।२)

rājasvaṃ śrotriyasvaṃ ca nopabhogena jīryate ||

74.1७४.१

प्रत्यक्षपरिभोगाच् च स्वामिनो द्विदशाः समाः । (७४।१)

pratyakṣaparibhogāc ca svāmino dvidaśāḥ samāḥ |

74.2७४.२

आध्यादीन्य् अपि जीर्यन्ते स्त्रीनरेन्द्रधनाद् ऋते ॥ (७४।२)

ādhyādīny api jīryante strīnarendradhanād ṛte ||

75.1७५.१

स्त्रीधनं च नरेन्द्राणां न कदाचन जीर्यते । (७५।१)

strīdhanaṃ ca narendrāṇāṃ na kadācana jīryate |

75.2७५.२

अनागमं भुज्यमानं वत्सराणां शतैर् अपि ॥ (७५।२)

anāgamaṃ bhujyamānaṃ vatsarāṇāṃ śatair api ||

76.1७६.१

निर्भोगो यत्र दृश्येत न दृश्येतागमः क्वचित् । (७६।१)

nirbhogo yatra dṛśyeta na dṛśyetāgamaḥ kvacit |

76.2७६.२

आगमः कारणं तत्र न भोगस् तत्र कारणम् ॥ (७६।२)

āgamaḥ kāraṇaṃ tatra na bhogas tatra kāraṇam ||

77.1७७.१

अनागमं भुज्यते यन् न तद् भोगो ऽतिवर्तते । (७७।१)

anāgamaṃ bhujyate yan na tad bhogo 'tivartate |

77.2७७.२

प्रेते तु भोक्तरि धनं याति तद्वंश्यभोग्यताम् ॥ (७७।२)

prete tu bhoktari dhanaṃ yāti tadvaṃśyabhogyatām ||

78.1७८.१

आहर्तैवाभियुक्तः सन्न् अर्थानाम् उद्धरेत् पदम् । (७८।१)

āhartaivābhiyuktaḥ sann arthānām uddharet padam |

78.2७८.२

भुक्तिर् एव विशुद्धिः स्यात् प्राप्तानां पितृतः क्रमात् ॥ (७८।२)

bhuktir eva viśuddhiḥ syāt prāptānāṃ pitṛtaḥ kramāt ||

79.1७९.१

अन्वाहितं हृतं न्यस्तं बलावष्टब्धं याचितम् । (७९।१)

anvāhitaṃ hṛtaṃ nyastaṃ balāvaṣṭabdhaṃ yācitam |

79.2७९.२

अप्रत्यक्षं च यद् भुक्तं षड् एतान्य् आगमं विना ॥ (७९।२)

apratyakṣaṃ ca yad bhuktaṃ ṣaḍ etāny āgamaṃ vinā ||

80.1८०.१

तथारूढविवादस्य प्रेतस्य व्यवहारिणः । (८०।१)

tathārūḍhavivādasya pretasya vyavahāriṇaḥ |

80.2८०.२

पुत्रेण सो ऽर्थः संशोध्यो न तं भोगो ऽतिवर्तते ॥ (८०।२)

putreṇa so 'rthaḥ saṃśodhyo na taṃ bhogo 'tivartate ||

81.1८१.१

यद् विनागमम् अप्य् ऊर्ध्वं भुक्तं पूर्वैस् त्रिभिर् भवेत् । (८१।१)

yad vināgamam apy ūrdhvaṃ bhuktaṃ pūrvais tribhir bhavet |

81.2८१.२

न तच् छक्यम् अपाकर्तुं क्रमात् त्रिपुरुषागतम् ॥ (८१।२)

na tac chakyam apākartuṃ kramāt tripuruṣāgatam ||

82.1८२.१

सन्तो ऽपि न प्रमाणं स्युर् मृते धनिनि साक्षिणः । (८२।१)

santo 'pi na pramāṇaṃ syur mṛte dhanini sākṣiṇaḥ |

82.2८२.२

अन्यत्र श्रावितं यत् स्यात् स्वयम् आसन्नमृत्युना ॥ (८२।२)

anyatra śrāvitaṃ yat syāt svayam āsannamṛtyunā ||

83.1८३.१

न हि प्रत्यर्थिनि प्रेते प्रमाणं साक्षिणां वचः । (८३।१)

na hi pratyarthini prete pramāṇaṃ sākṣiṇāṃ vacaḥ |

83.2८३.२

साक्षिमत् करणं तत्र प्रमाणं स्याद् विनिश्चये ॥ (८३।२)

sākṣimat karaṇaṃ tatra pramāṇaṃ syād viniścaye ||

84.1८४.१

श्रावितस् त्व् आतुरेणापि यस् त्व् अर्थो धर्मसंहितः । (८४।१)

śrāvitas tv ātureṇāpi yas tv artho dharmasaṃhitaḥ |

84.2८४.२

मृते ऽपि तत्र साक्षी स्यात् षट्सु चान्वाहितादिषु ॥ (८४।२)

mṛte 'pi tatra sākṣī syāt ṣaṭsu cānvāhitādiṣu ||

85.1८५.१

क्रियर्णादिषु सर्वेषु बलवत्य् उत्तरोत्तरा । (८५।१)

kriyarṇādiṣu sarveṣu balavaty uttarottarā |

85.2८५.२

प्रतिग्रहाधिक्रीतेषु पूर्वा पूर्वा गरीयसी ॥ (८५।२)

pratigrahādhikrīteṣu pūrvā pūrvā garīyasī ||

86.1८६.१

स्थानलाभनिमित्तं हि दानग्रहणम् इष्यते । (८६।१)

sthānalābhanimittaṃ hi dānagrahaṇam iṣyate |

86.2८६.२

तत् कुसीदम् इति प्रोक्तं तेन वृत्तिः कुसीदिनाम् ॥ (८६।२)

tat kusīdam iti proktaṃ tena vṛttiḥ kusīdinām ||

87.1८७.१

कायिका कालिका चैव कारिता च तथा स्मृता । (८७।१)

kāyikā kālikā caiva kāritā ca tathā smṛtā |

87.2८७.२

चक्रवृद्धिश् च शास्त्रेषु तस्य वृद्धिश् चतुर्विधा ॥ (८७।२)

cakravṛddhiś ca śāstreṣu tasya vṛddhiś caturvidhā ||

88.1८८.१

कायाविरोधिनी शश्वत् पणपाद्या तु कायिका । (८८।१)

kāyāvirodhinī śaśvat paṇapādyā tu kāyikā |

88.2८८.२

प्रतिमासं स्रवति या वृद्धिः सा कालिका स्मृता ॥ (८८।२)

pratimāsaṃ sravati yā vṛddhiḥ sā kālikā smṛtā ||

89.1८९.१

वृद्धिः सा कारिता नाम यर्णिकेन स्वयंकृता । (८९।१)

vṛddhiḥ sā kāritā nāma yarṇikena svayaṃkṛtā |

89.2८९.२

वृद्धेर् अपि पुनर् वृद्धिश् चक्रवृद्धिर् उदाहृता ॥ (८९।२)

vṛddher api punar vṛddhiś cakravṛddhir udāhṛtā ||

90.1९०.१

ऋणानां सार्वभौमो ऽयं विधिर् वृद्धिकरः स्मृतः । (९०।१)

ṛṇānāṃ sārvabhaumo 'yaṃ vidhir vṛddhikaraḥ smṛtaḥ |

90.2९०.२

देशाचारविधिस् त्व् अन्यो यत्रर्णम् अवतिष्ठति ॥ (९०।२)

deśācāravidhis tv anyo yatrarṇam avatiṣṭhati ||

91.1९१.१

द्विगुणं त्रिगुणं चैव तथान्यस्मिंश् चतुर्गुणम् । (९१।१)

dviguṇaṃ triguṇaṃ caiva tathānyasmiṃś caturguṇam |

91.2९१.२

तथाष्टगुणम् अन्यस्मिन् देशे देशे ऽवतिष्ठते ॥ (९१।२)

tathāṣṭaguṇam anyasmin deśe deśe 'vatiṣṭhate ||

92.1९२.१

हिरण्यधान्यवस्त्राणां वृद्धिर् द्वित्रिचतुर्गुणा । (९२।१)

hiraṇyadhānyavastrāṇāṃ vṛddhir dvitricaturguṇā |

92.2९२.२

घृतस्याष्टगुणा वृद्धिः स्त्रीपशूनां च संततिः ॥ (९२।२)

ghṛtasyāṣṭaguṇā vṛddhiḥ strīpaśūnāṃ ca saṃtatiḥ ||

93.1९३.१

सूत्रकर्पासकिण्वानां त्रपुषः सीसकस्य च । (९३।१)

sūtrakarpāsakiṇvānāṃ trapuṣaḥ sīsakasya ca |

93.2९३.२

आयुधानां च सर्वेषां चर्मणस् ताम्रलोहयोः ॥ (९३।२)

āyudhānāṃ ca sarveṣāṃ carmaṇas tāmralohayoḥ ||

94.1९४.१

अन्येषां चैव सर्वेषाम् इष्टकानां तथैव च । (९४।१)

anyeṣāṃ caiva sarveṣām iṣṭakānāṃ tathaiva ca |

94.2९४.२

अक्षय्या वृद्धिर् एतेषां मनुर् आह प्रजापतिः ॥ (९४।२)

akṣayyā vṛddhir eteṣāṃ manur āha prajāpatiḥ ||

95.1९५.१

तैलानां चैव सर्वेषां मद्यानां मधुसर्पिषाम् । (९५।१)

tailānāṃ caiva sarveṣāṃ madyānāṃ madhusarpiṣām |

95.2९५.२

वृद्धिर् अष्टगुणा ज्ञेया गुडस्य लवणस्य च ॥ (९५।२)

vṛddhir aṣṭaguṇā jñeyā guḍasya lavaṇasya ca ||

96.1९६.१

न वृद्धिः प्रीतिदत्तानां स्याद् अनाकारिता क्वचित् । (९६।१)

na vṛddhiḥ prītidattānāṃ syād anākāritā kvacit |

96.2९६.२

अनाकारितम् अप्य् ऊर्ध्वं वत्सरार्धाद् विवर्धते ॥ (९६।२)

anākāritam apy ūrdhvaṃ vatsarārdhād vivardhate ||

97.1९७.१

एष वृद्धिविधिः प्रोक्तः प्रतिवृद्धस्य धर्मतः । (९७।१)

eṣa vṛddhividhiḥ proktaḥ prativṛddhasya dharmataḥ |

97.2९७.२

वृद्धिस् तु योक्ता धान्यानां वार्द्धुष्यं तद् उदाहृतम् ॥ (९७।२)

vṛddhis tu yoktā dhānyānāṃ vārddhuṣyaṃ tad udāhṛtam ||

98.1९८.१

आपदं निस्तरेद् वैश्यः कामं वार्द्धुषकर्मणा । (९८।१)

āpadaṃ nistared vaiśyaḥ kāmaṃ vārddhuṣakarmaṇā |

98.2९८.२

आपत्स्व् अपि हि कष्टासु ब्राह्मणस्य न वार्द्धुषम् ॥ (९८।२)

āpatsv api hi kaṣṭāsu brāhmaṇasya na vārddhuṣam ||

99.1९९.१

ब्राह्मणस्य तु यद् देयं सान्वयस्य न चास्ति सः । (९९।१)

brāhmaṇasya tu yad deyaṃ sānvayasya na cāsti saḥ |

99.2९९.२

स्वकुल्यस्यास्य निवपेत् तदभावे ऽस्य बन्धुषु ॥ (९९।२)

svakulyasyāsya nivapet tadabhāve 'sya bandhuṣu ||

100.1१००.१

यदा तु न स्वकुल्याः स्युर् न च संबन्धिबान्धवाः । (१००।१)

yadā tu na svakulyāḥ syur na ca saṃbandhibāndhavāḥ |

100.2१००.२

तदा दद्यात् स्वजातिभ्यस् तेष्व् असत्स्व् अप्सु निक्षिपेत् ॥ (१००।२)

tadā dadyāt svajātibhyas teṣv asatsv apsu nikṣipet ||

101.1१०१.१

गृहीत्वोपगतं दद्याद् ऋणिकायोदयं धनी । (१०१।१)

gṛhītvopagataṃ dadyād ṛṇikāyodayaṃ dhanī |

101.2१०१.२

अददद् याच्यमानस् तु शेषहानिम् अवाप्नुयात् ॥ (१०१।२)

adadad yācyamānas tu śeṣahānim avāpnuyāt ||

102.1१०२.१

लेख्यं दद्याद् ऋणे शुद्धे तदभावे प्रतिश्रवम् । (१०२।१)

lekhyaṃ dadyād ṛṇe śuddhe tadabhāve pratiśravam |

102.2१०२.२

धनिकर्णिकयोर् एवं विशुद्धिः स्यात् परस्परम् ॥ (१०२।२)

dhanikarṇikayor evaṃ viśuddhiḥ syāt parasparam ||

103.1१०३.१

विश्रम्भहेतू द्वाव् अत्र प्रतिभूर् आधिर् एव च । (१०३।१)

viśrambhahetū dvāv atra pratibhūr ādhir eva ca |

103.2१०३.२

लिखितं साक्षिणश् च द्वे प्रमाणे व्यक्तिकारके ॥ (१०३।२)

likhitaṃ sākṣiṇaś ca dve pramāṇe vyaktikārake ||

104.1१०४.१

उपस्थानाय दानाय प्रत्ययाय तथैव च । (१०४।१)

upasthānāya dānāya pratyayāya tathaiva ca |

104.2१०४.२

त्रिविधः प्रतिभूर् दृष्टस् त्रिष्व् एवार्थेषु सूरिभिः ॥ (१०४।२)

trividhaḥ pratibhūr dṛṣṭas triṣv evārtheṣu sūribhiḥ ||

105.1१०५.१

ऋणिष्व् अप्रतिकुर्वत्सु प्रत्यये वा विवादिते । (१०५।१)

ṛṇiṣv apratikurvatsu pratyaye vā vivādite |

105.2१०५.२

प्रतिभूस् तद् ऋणं दद्याद् अनुपस्थापयंस् तथा ॥ (१०५।२)

pratibhūs tad ṛṇaṃ dadyād anupasthāpayaṃs tathā ||

106.1१०६.१

बहवश् चेत् प्रतिभुवो दद्युस् ते ऽर्थं यथाकृतम् । (१०६।१)

bahavaś cet pratibhuvo dadyus te 'rthaṃ yathākṛtam |

106.2१०६.२

अर्थे ऽविशेषिते ह्य् एषु धनिनश् छन्दतः क्रिया ॥ (१०६।२)

arthe 'viśeṣite hy eṣu dhaninaś chandataḥ kriyā ||

107.1१०७.१

यं चार्थं प्रतिभूर् दद्याद् धनिकेनोपपीडितः । (१०७।१)

yaṃ cārthaṃ pratibhūr dadyād dhanikenopapīḍitaḥ |

107.2१०७.२

ऋणिकस् तं प्रतिभुवे द्विगुणं प्रतिपादयेत् ॥ (१०७।२)

ṛṇikas taṃ pratibhuve dviguṇaṃ pratipādayet ||

108.1१०८.१

अधिक्रियत इत्य् आधिः स विज्ञेयो द्विलक्षणः । (१०८।१)

adhikriyata ity ādhiḥ sa vijñeyo dvilakṣaṇaḥ |

108.2१०८.२

कृतकालोपनेयश् च यावद्देयोद्यतस् तथा ॥ (१०८।२)

kṛtakālopaneyaś ca yāvaddeyodyatas tathā ||

109.1१०९.१

स पुनर् द्विविधः प्रोक्तो गोप्यो भोग्यस् तथैव च । (१०९।१)

sa punar dvividhaḥ prokto gopyo bhogyas tathaiva ca |

109.2१०९.२

प्रतिदानं तथैवास्य लाभहानिर् विपर्यये ॥ (१०९।२)

pratidānaṃ tathaivāsya lābhahānir viparyaye ||

110.1११०.१

प्रमादाद् धनिनस् तद्वद् आधौ विकृतिम् आगते । (११०।१)

pramādād dhaninas tadvad ādhau vikṛtim āgate |

110.2११०.२

विनष्टे मूलनाशः स्याद् दैवराजकृताद् ऋते ॥ (११०।२)

vinaṣṭe mūlanāśaḥ syād daivarājakṛtād ṛte ||

111.1१११.१

रक्ष्यमाणो ऽपि यत्राधिः कालेनेयाद् असारताम् । (१११।१)

rakṣyamāṇo 'pi yatrādhiḥ kāleneyād asāratām |

111.2१११.२

आधिर् अन्यो ऽधिकर्तव्यो देयं वा धनिने धनम् ॥ (१११।२)

ādhir anyo 'dhikartavyo deyaṃ vā dhanine dhanam ||

112.1११२.१

अथ शक्तिविहीनः स्याद् ऋणी कालविपर्ययात् । (११२।१)

atha śaktivihīnaḥ syād ṛṇī kālaviparyayāt |

112.2११२.२

शक्यप्रेक्षम् ऋणं दाप्यः काले काले यथोदयम् ॥ (११२।२)

śakyaprekṣam ṛṇaṃ dāpyaḥ kāle kāle yathodayam ||

113.1११३.१

शक्तो वा यदि दौरात्म्यान् न दद्याद् धनिने धनम् । (११३।१)

śakto vā yadi daurātmyān na dadyād dhanine dhanam |

113.2११३.२

राज्ञा दापयितव्यः स्याद् गृहीत्वांशं तु विंशकम् ॥ (११३।२)

rājñā dāpayitavyaḥ syād gṛhītvāṃśaṃ tu viṃśakam ||

114.1११४.१

नश्येद् ऋणपरीमाणं कालेनेहर्णिकस्य चेत् । (११४।१)

naśyed ṛṇaparīmāṇaṃ kāleneharṇikasya cet |

114.2११४.२

जातिसंज्ञाधिवासानाम् आगमो लेख्यतः स्मृतः ॥ (११४।२)

jātisaṃjñādhivāsānām āgamo lekhyataḥ smṛtaḥ ||

115.1११५.१

लेख्यं तु द्विविधं ज्ञेयं स्वहस्तान्यकृतं तथा । (११५।१)

lekhyaṃ tu dvividhaṃ jñeyaṃ svahastānyakṛtaṃ tathā |

115.2११५.२

असाक्षिमत् साक्षिमच् च सिद्धिर् देशस्थितेस् तयोः ॥ (११५।२)

asākṣimat sākṣimac ca siddhir deśasthites tayoḥ ||

116.1११६.१

देशाचाराविरुद्धं यद् व्यक्ताधिकृतलक्षणम् । (११६।१)

deśācārāviruddhaṃ yad vyaktādhikṛtalakṣaṇam |

116.2११६.२

तत् प्रमाणं स्मृतं लेख्यम् अविलुप्तक्रमाक्षरम् ॥ (११६।२)

tat pramāṇaṃ smṛtaṃ lekhyam aviluptakramākṣaram ||

117.1११७.१

मत्ताभियुक्तस्त्रीबालबलात्कारकृतं च यत् । (११७।१)

mattābhiyuktastrībālabalātkārakṛtaṃ ca yat |

117.2११७.२

तद् अप्रमाणकरणं भीतोपधिकृतं तथा ॥ (११७।२)

tad apramāṇakaraṇaṃ bhītopadhikṛtaṃ tathā ||

118.1११८.१

मृताः स्युः साक्षिणो यत्र धनिकर्णिकलेखकाः । (११८।१)

mṛtāḥ syuḥ sākṣiṇo yatra dhanikarṇikalekhakāḥ |

118.2११८.२

तद् अप्य् अपार्थं लिखितम् ऋते त्व् आधेः स्थिराश्रयात् ॥ (११८।२)

tad apy apārthaṃ likhitam ṛte tv ādheḥ sthirāśrayāt ||

119.1११९.१

आधिर् यो द्विविधः प्रोक्तो जङ्गमः स्थावरस् तथा । (११९।१)

ādhir yo dvividhaḥ prokto jaṅgamaḥ sthāvaras tathā |

119.2११९.२

सिद्धिर् अत्रोभयस्यास्य भोगो यद्य् अस्ति नान्यथा ॥ (११९।२)

siddhir atrobhayasyāsya bhogo yady asti nānyathā ||

120.1१२०.१

दर्शितं प्रतिकालं यच् छ्रावितं श्रावितं च यत् । (१२०।१)

darśitaṃ pratikālaṃ yac chrāvitaṃ śrāvitaṃ ca yat |

120.2१२०.२

लेख्यं सिध्यति सर्वत्र मृतेष्व् अपि हि साक्षिषु ॥ (१२०।२)

lekhyaṃ sidhyati sarvatra mṛteṣv api hi sākṣiṣu ||

121.1१२१.१

अश्रुतार्थम् अदृष्टार्थं व्यवहारार्थम् एव च । (१२१।१)

aśrutārtham adṛṣṭārthaṃ vyavahārārtham eva ca |

121.2१२१.२

न लेख्यं सिद्धिम् आप्नोति जीवत्स्व् अपि हि साक्षिषु ॥ (१२१।२)

na lekhyaṃ siddhim āpnoti jīvatsv api hi sākṣiṣu ||

122.1१२२.१

लेख्ये देशान्तरन्यस्ते दग्धे दुर्लिखिते हृते । (१२२।१)

lekhye deśāntaranyaste dagdhe durlikhite hṛte |

122.2१२२.२

सतस् तत्कालकरणम् असतो दृष्टदर्शनम् ॥ (१२२।२)

satas tatkālakaraṇam asato dṛṣṭadarśanam ||

123.1१२३.१

यस्मिन् स्यात् संशयो लेख्ये भूताभूतकृते क्वचित् । (१२३।१)

yasmin syāt saṃśayo lekhye bhūtābhūtakṛte kvacit |

123.2१२३.२

तत्स्वहस्तक्रियाचिह्नप्राप्तियुक्तिभिर् उद्धरेत् ॥ (१२३।२)

tatsvahastakriyācihnaprāptiyuktibhir uddharet ||

124.1१२४.१

लेख्यं यच् चान्यनामाङ्कं हेत्वन्तरकृतं भवेत् । (१२४।१)

lekhyaṃ yac cānyanāmāṅkaṃ hetvantarakṛtaṃ bhavet |

124.2१२४.२

विप्रत्यये परीक्ष्यं तत् संबन्धागमहेतुभिः ॥ (१२४।२)

vipratyaye parīkṣyaṃ tat saṃbandhāgamahetubhiḥ ||

125.1१२५.१

लिखितं लिखितेनैव साक्षिमत् साक्षिभिर् हरेत् । (१२५।१)

likhitaṃ likhitenaiva sākṣimat sākṣibhir haret |

125.2१२५.२

साक्षिभ्यो लिखितं श्रेयो लिखितेन तु साक्षिणः ॥ (१२५।२)

sākṣibhyo likhitaṃ śreyo likhitena tu sākṣiṇaḥ ||

126.1१२६.१

छिन्नभिन्नहृतोन्मृष्टनष्टदुर्लिखितेषु च । (१२६।१)

chinnabhinnahṛtonmṛṣṭanaṣṭadurlikhiteṣu ca |

126.2१२६.२

कर्तव्यम् अन्यल् लेख्यं स्याद् एष लेख्यविधिः स्मृतः ॥ (१२६।२)

kartavyam anyal lekhyaṃ syād eṣa lekhyavidhiḥ smṛtaḥ ||

127.1१२७.१

संदिग्धेषु तु कार्येषु द्वयोर् विवदमानयोः । (१२७।१)

saṃdigdheṣu tu kāryeṣu dvayor vivadamānayoḥ |

127.2१२७.२

दृष्टश्रुतानुभूतत्वात् साक्षिभ्यो व्यक्तिदर्शनम् ॥ (१२७।२)

dṛṣṭaśrutānubhūtatvāt sākṣibhyo vyaktidarśanam ||

128.1१२८.१

समक्षदर्शनात् साक्षी विज्ञेयः श्रोत्रचक्षुषोः । (१२८।१)

samakṣadarśanāt sākṣī vijñeyaḥ śrotracakṣuṣoḥ |

128.2१२८.२

श्रोत्रस्य यत् परो ब्रूते चक्षुषः कायकर्म यत् ॥ (१२८।२)

śrotrasya yat paro brūte cakṣuṣaḥ kāyakarma yat ||

129.1१२९.१

एकादशविधः साक्षी स तु दृष्टो मनीषिभिः । (१२९।१)

ekādaśavidhaḥ sākṣī sa tu dṛṣṭo manīṣibhiḥ |

129.2१२९.२

कृतः पञ्चविधस् तेषां षड्विधो ऽकृत उच्यते ॥ (१२९।२)

kṛtaḥ pañcavidhas teṣāṃ ṣaḍvidho 'kṛta ucyate ||

130.1१३०.१

लिखितः स्मारितश् चैव यदृच्छाभिज्ञ एव च । (१३०।१)

likhitaḥ smāritaś caiva yadṛcchābhijña eva ca |

130.2१३०.२

गूढश् चोत्तरसाक्षी च साक्षी पञ्चविधः स्मृतः ॥ (१३०।२)

gūḍhaś cottarasākṣī ca sākṣī pañcavidhaḥ smṛtaḥ ||

131.1१३१.१

अकृतः षड्विधश् चापि सूरिभिः परिकीर्तितः । (१३१।१)

akṛtaḥ ṣaḍvidhaś cāpi sūribhiḥ parikīrtitaḥ |

131.2१३१.२

ग्रामश् च प्राड्विवाकश् च राजा च व्यवहारिणाम् ॥ (१३१।२)

grāmaś ca prāḍvivākaś ca rājā ca vyavahāriṇām ||

132.1१३२.१

कार्येष्व् अभ्यन्तरो यः स्याद् अर्थिना प्रहितश् च यः । (१३२।१)

kāryeṣv abhyantaro yaḥ syād arthinā prahitaś ca yaḥ |

132.2१३२.२

कुलं कुलविवादेषु भवेयुस् ते ऽपि साक्षिणः ॥ (१३२।२)

kulaṃ kulavivādeṣu bhaveyus te 'pi sākṣiṇaḥ ||

133.1१३३.१

कुलीना ऋजवः शुद्धा जन्मतः कर्मतो ऽर्थतः । (१३३।१)

kulīnā ṛjavaḥ śuddhā janmataḥ karmato 'rthataḥ |

133.2१३३.२

त्र्यवराः साक्षिणो ऽनिन्द्याः शुचयः स्युः सुबुद्धयः ॥ (१३३।२)

tryavarāḥ sākṣiṇo 'nindyāḥ śucayaḥ syuḥ subuddhayaḥ ||

134.1१३४.१

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाप्य् अनिन्दिताः । (१३४।१)

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāpy aninditāḥ |

134.2१३४.२

प्रतिवर्णं भवेयुस् ते सर्वे सर्वेषु वा पुनः ॥ (१३४।२)

prativarṇaṃ bhaveyus te sarve sarveṣu vā punaḥ ||

135.1१३५.१

श्रेणीषु श्रेणिपुरुषाः स्वेषु वर्गेषु वर्गिणः । (१३५।१)

śreṇīṣu śreṇipuruṣāḥ sveṣu vargeṣu vargiṇaḥ |

135.2१३५.२

बहिर्वासिषु बाह्याश् च स्त्रियः स्त्रीषु च साक्षिणः ॥ (१३५।२)

bahirvāsiṣu bāhyāś ca striyaḥ strīṣu ca sākṣiṇaḥ ||

136.1१३६.१

श्रेण्यादिषु तु वर्गेषु कश्चिच् चेद् द्वेष्यताम् इयात् । (१३६।१)

śreṇyādiṣu tu vargeṣu kaścic ced dveṣyatām iyāt |

136.2१३६.२

तेभ्य एव न साक्षी स्याद् द्वेष्टारः सर्व एव ते ॥ (१३६।२)

tebhya eva na sākṣī syād dveṣṭāraḥ sarva eva te ||

137.1१३७.१

असाक्षिनसाक्ष्य् अपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधैः । (१३७।१)

asākṣinasākṣy api hi śāstreṣu dṛṣṭaḥ pañcavidho budhaiḥ |

137.2१३७.२

वचनाद् दोषतो भेदात् स्वयमुक्तेर् मृतान्तरः ॥ (१३७।२)

vacanād doṣato bhedāt svayamukter mṛtāntaraḥ ||

138.1१३८.१

श्रोत्रियाद्या वचनतः स्तेनाद्या दोषदर्शनात् । (१३८।१)

śrotriyādyā vacanataḥ stenādyā doṣadarśanāt |

138.2१३८.२

भेदाद् विप्रतिपत्तिः स्याद् विवादे यत्र साक्षिणः ॥ (१३८।२)

bhedād vipratipattiḥ syād vivāde yatra sākṣiṇaḥ ||

139.1१३९.१

स्वयमुक्तेर् अनिर्दिष्टः स्वयम् एवैत्य यो वदेत् । (१३९।१)

svayamukter anirdiṣṭaḥ svayam evaitya yo vadet |

139.2१३९.२

मृतान्तरो ऽर्थिनि प्रेते मुमूर्षुश्राविताद् ऋते ॥ (१३९।२)

mṛtāntaro 'rthini prete mumūrṣuśrāvitād ṛte ||

140.1१४०.१

श्रोत्रियास् तापसा वृद्धा ये च प्रव्रजिता नराः । (१४०।१)

śrotriyās tāpasā vṛddhā ye ca pravrajitā narāḥ |

140.2१४०.२

असाक्षिणस् ते वचनान् नात्र हेतुर् उदाहृतः ॥ (१४०।२)

asākṣiṇas te vacanān nātra hetur udāhṛtaḥ ||

141.1१४१.१

स्तेनाः साहसिकाश् चण्डाः कितवा वधकास् तथा । (१४१।१)

stenāḥ sāhasikāś caṇḍāḥ kitavā vadhakās tathā |

141.2१४१.२

असाक्षिणस् ते दुष्टत्वात् तेषु सत्यं न विद्यते ॥ (१४१।२)

asākṣiṇas te duṣṭatvāt teṣu satyaṃ na vidyate ||

142.1१४२.१

राज्ञा परिगृहीतेषु साक्षिष्व् एकार्थनिश्चये । (१४२।१)

rājñā parigṛhīteṣu sākṣiṣv ekārthaniścaye |

142.2१४२.२

वचनं यत्र भिद्यते ते स्युर् भेदाद् असाक्षिणः ॥ (१४२।२)

vacanaṃ yatra bhidyate te syur bhedād asākṣiṇaḥ ||

143.1१४३.१

अनिर्दिष्टस् तु साक्षित्वे स्वयम् एवैत्य यो वदेत् । (१४३।१)

anirdiṣṭas tu sākṣitve svayam evaitya yo vadet |

143.2१४३.२

सूचीत्य् उक्तः स शास्त्रेषु न स साक्षित्वम् अर्हति ॥ (१४३।२)

sūcīty uktaḥ sa śāstreṣu na sa sākṣitvam arhati ||

144.1१४४.१

यो ऽर्थः श्रावयितव्यः स्यात् तस्मिन्न् असति चार्थिनि । (१४४।१)

yo 'rthaḥ śrāvayitavyaḥ syāt tasminn asati cārthini |

144.2१४४.२

क्व तद् वदतु साक्षित्वम् इत्य् असाक्षी मृतान्तरः ॥ (१४४।२)

kva tad vadatu sākṣitvam ity asākṣī mṛtāntaraḥ ||

145.1१४५.१

द्वयोर् विवदतोर् अर्थे द्वयोः सत्सु च साक्षिषु । (१४५।१)

dvayor vivadator arthe dvayoḥ satsu ca sākṣiṣu |

145.2१४५.२

पूर्वपक्षो भवेद् यस्य भवेयुस् तस्य साक्षिणः ॥ (१४५।२)

pūrvapakṣo bhaved yasya bhaveyus tasya sākṣiṇaḥ ||

146.1१४६.१

आधर्यं पूर्वपक्षस्य यस्मिन्न् अर्थे वशाद् भवेत् । (१४६।१)

ādharyaṃ pūrvapakṣasya yasminn arthe vaśād bhavet |

146.2१४६.२

प्रष्टव्याः साक्षिणस् तत्र विवादे प्रतिवादिनः ॥ (१४६।२)

praṣṭavyāḥ sākṣiṇas tatra vivāde prativādinaḥ ||

147.1१४७.१

न परेण समुद्दिष्टम् उपेयात् साक्षिणं रहः । (१४७।१)

na pareṇa samuddiṣṭam upeyāt sākṣiṇaṃ rahaḥ |

147.2१४७.२

भेदयेत् तं न चान्येन हीयेतैवं समाचरन् ॥ (१४७।२)

bhedayet taṃ na cānyena hīyetaivaṃ samācaran ||

148.1१४८.१

साक्ष्य् उद्दिष्टो यदि प्रेयाद् गच्छेद् वापि दिगन्तरम् । (१४८।१)

sākṣy uddiṣṭo yadi preyād gacched vāpi digantaram |

148.2१४८.२

तच्छ्रोतारः प्रमाणं स्युः प्रमाणं ह्य् उत्तरक्रिया ॥ (१४८।२)

tacchrotāraḥ pramāṇaṃ syuḥ pramāṇaṃ hy uttarakriyā ||

149.1१४९.१

सुदीर्घेणापि कालेन लिखितं सिद्धिम् आप्नुयात् । (१४९।१)

sudīrgheṇāpi kālena likhitaṃ siddhim āpnuyāt |

149.2१४९.२

जानता चात्मना लेख्यं अजानानस् तु लेखयेत् ॥ (१४९।२)

jānatā cātmanā lekhyaṃ ajānānas tu lekhayet ||

150.1१५०.१

सिद्धिर् उक्ताष्टमाद् वर्षात् स्मारितस्येह साक्षिणः । (१५०।१)

siddhir uktāṣṭamād varṣāt smāritasyeha sākṣiṇaḥ |

150.2१५०.२

आ पञ्चमात् तथा सिद्धिर् यदृच्छोपगतस्य तु ॥ (१५०।२)

ā pañcamāt tathā siddhir yadṛcchopagatasya tu ||

151.1१५१.१

आ तृतीयात् तथा वर्षात् सिद्धिर् गूढस्य साक्षिणः । (१५१।१)

ā tṛtīyāt tathā varṣāt siddhir gūḍhasya sākṣiṇaḥ |

151.2१५१.२

आ वै संवत्सरात् सिद्धिं वदन्त्य् उत्तरसाक्षिणः ॥ (१५१।२)

ā vai saṃvatsarāt siddhiṃ vadanty uttarasākṣiṇaḥ ||

152.1१५२.१

अथवा कालनियमो न दृष्टः साक्षिणं प्रति । (१५२।१)

athavā kālaniyamo na dṛṣṭaḥ sākṣiṇaṃ prati |

152.2१५२.२

स्मृत्यपेक्षं हि साक्षित्वम् आहुः शास्त्रविदो जनाः ॥ (१५२।२)

smṛtyapekṣaṃ hi sākṣitvam āhuḥ śāstravido janāḥ ||

153.1१५३.१

यस्य नोपहता पुंसः स्मृतिः श्रोत्रं च नित्यशः । (१५३।१)

yasya nopahatā puṃsaḥ smṛtiḥ śrotraṃ ca nityaśaḥ |

153.2१५३.२

सुदीर्घेणापि कालेन स साक्षी साक्ष्यम् अर्हति ॥ (१५३।२)

sudīrgheṇāpi kālena sa sākṣī sākṣyam arhati ||

154.1१५४.१

असाक्षिप्रत्ययास् त्व् अन्ये षड्विवादाः प्रकीर्तिताः । (१५४।१)

asākṣipratyayās tv anye ṣaḍvivādāḥ prakīrtitāḥ |

154.2१५४.२

लक्षणान्य् एव साक्षित्वं एषाम् आहुर् मनीषिणः ॥ (१५४।२)

lakṣaṇāny eva sākṣitvaṃ eṣām āhur manīṣiṇaḥ ||

155.1१५५.१

उल्काहस्तो ऽग्निदो ज्ञेयः शस्त्रपाणिस् तु घातकः । (१५५।१)

ulkāhasto 'gnido jñeyaḥ śastrapāṇis tu ghātakaḥ |

155.2१५५.२

केशाकेशिगृहीतश् च युगपत् पारदारिकः ॥ (१५५।२)

keśākeśigṛhītaś ca yugapat pāradārikaḥ ||

156.1१५६.१

कुद्दालपाणिर् विज्ञेयः सेतुभेत्ता समीपगः । (१५६।१)

kuddālapāṇir vijñeyaḥ setubhettā samīpagaḥ |

156.2१५६.२

तथा कुठारपाणिश् च वनछेत्ता प्रकीर्तितः ॥ (१५६।२)

tathā kuṭhārapāṇiś ca vanachettā prakīrtitaḥ ||

157.1१५७.१

अभ्यग्रचिह्नो विज्ञेयो दण्डपारुष्यकृन् नरः । (१५७।१)

abhyagracihno vijñeyo daṇḍapāruṣyakṛn naraḥ |

157.2१५७.२

असाक्षिप्रत्यया ह्य् एते पारुष्ये तु परीक्षणम् ॥ (१५७।२)

asākṣipratyayā hy ete pāruṣye tu parīkṣaṇam ||

158.1१५८.१

कश्चित् कृत्वात्मनश् चिह्नं द्वेषात् परम् उपद्रवेत् । (१५८।१)

kaścit kṛtvātmanaś cihnaṃ dveṣāt param upadravet |

158.2१५८.२

हेत्वर्थगतिसामर्थ्यैस् तत्र युक्तं परीक्षणम् ॥ (१५८।२)

hetvarthagatisāmarthyais tatra yuktaṃ parīkṣaṇam ||

159.1१५९.१

नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः । (१५९।१)

nārthasaṃbandhino nāptā na sahāyā na vairiṇaḥ |

159.2१५९.२

न दृष्टदोषाः प्रष्टव्या न व्याध्यार्ता न दूषिताः ॥ (१५९।२)

na dṛṣṭadoṣāḥ praṣṭavyā na vyādhyārtā na dūṣitāḥ ||

160.1१६०.१

दासनैकृतिकाश्रद्धवृद्धस्त्रीबालचाक्रिकाः । (१६०।१)

dāsanaikṛtikāśraddhavṛddhastrībālacākrikāḥ |

160.2१६०.२

मत्तोन्मत्तप्रमत्तार्तकितवग्रामयाजकाः ॥ (१६०।२)

mattonmattapramattārtakitavagrāmayājakāḥ ||

161.1१६१.१

महापथिकसामुद्रवणिक्प्रव्रजितातुराः । (१६१।१)

mahāpathikasāmudravaṇikpravrajitāturāḥ |

161.2१६१.२

लुब्धकश्रोत्रियाचारहीनक्लीबकुशीलवाः ॥ (१६१।२)

lubdhakaśrotriyācārahīnaklībakuśīlavāḥ ||

162.1१६२.१

नास्तिकव्रात्यदाराग्नित्यागिनो ऽयाज्ययाजकाः । (१६२।१)

nāstikavrātyadārāgnityāgino 'yājyayājakāḥ |

162.2१६२.२

एकस्थालीसहायारिचरज्ञातिसनाभयः ॥ (१६२।२)

ekasthālīsahāyāricarajñātisanābhayaḥ ||

163.1१६३.१

प्राग्दृष्टदोषशैलूषविषजीव्यहितुण्डिकाः । (१६३।१)

prāgdṛṣṭadoṣaśailūṣaviṣajīvyahituṇḍikāḥ |

163.2१६३.२

गरदाग्निदकीनाशशूद्रापुत्रोपपातिकाः ॥ (१६३।२)

garadāgnidakīnāśaśūdrāputropapātikāḥ ||

164.1१६४.१

क्लान्तसाहसिकश्रान्तनिर्धनान्त्यावसायिनः । (१६४।१)

klāntasāhasikaśrāntanirdhanāntyāvasāyinaḥ |

164.2१६४.२

भिन्नवृत्तासमावृत्तजडतैलिकमूलिकाः ॥ (१६४।२)

bhinnavṛttāsamāvṛttajaḍatailikamūlikāḥ ||

165.1१६५.१

भूताविष्टनृपद्विष्टवर्षनक्षत्रसूचकाः । (१६५।१)

bhūtāviṣṭanṛpadviṣṭavarṣanakṣatrasūcakāḥ |

165.2१६५.२

अघशंस्यात्मविक्रेतृहीनाङ्गभगवृत्तयः ॥ (१६५।२)

aghaśaṃsyātmavikretṛhīnāṅgabhagavṛttayaḥ ||

166.1१६६.१

कुनखी श्यावदन् श्वित्रिमित्रध्रुक् शठशौण्डिकाः । (१६६।१)

kunakhī śyāvadan śvitrimitradhruk śaṭhaśauṇḍikāḥ |

166.2१६६.२

ऐन्द्रजालिकलुब्धोग्रश्रेणीगणविरोधिनः ॥ (१६६।२)

aindrajālikalubdhograśreṇīgaṇavirodhinaḥ ||

167.1१६७.१

वधकृच् चित्रकृन् मङ्खः पतितः कूटकारकः । (१६७।१)

vadhakṛc citrakṛn maṅkhaḥ patitaḥ kūṭakārakaḥ |

167.2१६७.२

कुहकः प्रत्यवसितस् तस्करो राजपूरुषः ॥ (१६७।२)

kuhakaḥ pratyavasitas taskaro rājapūruṣaḥ ||

168.1१६८.१

मनुष्यविषशस्त्राम्बुलवणापूपवीरुधाम् । (१६८।१)

manuṣyaviṣaśastrāmbulavaṇāpūpavīrudhām |

168.2१६८.२

विक्रेता ब्राह्मणश् चैव द्विजो वार्धुषिकश् च यः ॥ (१६८।२)

vikretā brāhmaṇaś caiva dvijo vārdhuṣikaś ca yaḥ ||

169.1१६९.१

च्युतः स्वधर्मात् कुलिकः स्तावको हीनसेवकः । (१६९।१)

cyutaḥ svadharmāt kulikaḥ stāvako hīnasevakaḥ |

169.2१६९.२

पित्रा विवदमानश् च भेदकृच् चेत्य् असाक्षिणः ॥ (१६९।२)

pitrā vivadamānaś ca bhedakṛc cety asākṣiṇaḥ ||

170.1१७०.१

असाक्षिणो ये निर्दिष्टा दासनैकृतिकादयः । (१७०।१)

asākṣiṇo ye nirdiṣṭā dāsanaikṛtikādayaḥ |

170.2१७०.२

कार्यगौरवम् आसाद्य भवेयुस् ते ऽपि साक्षिणः ॥ (१७०।२)

kāryagauravam āsādya bhaveyus te 'pi sākṣiṇaḥ ||

171.1१७१.१

साहसेषु च सर्वेषु स्तेयसंग्रहणेषु च । (१७१।१)

sāhaseṣu ca sarveṣu steyasaṃgrahaṇeṣu ca |

171.2१७१.२

पारुष्ययोश् चाप्य् उभयोर् न परीक्षेत साक्षिणः ॥ (१७१।२)

pāruṣyayoś cāpy ubhayor na parīkṣeta sākṣiṇaḥ ||

172.1१७२.१

तेषाम् अपि न बालः स्यान् नैको न स्त्री न कूटकृत् । (१७२।१)

teṣām api na bālaḥ syān naiko na strī na kūṭakṛt |

172.2१७२.२

न बान्धवो न चारातिर् ब्रूयुस् ते साक्ष्यम् अन्यथा ॥ (१७२।२)

na bāndhavo na cārātir brūyus te sākṣyam anyathā ||

173.1१७३.१

बालो ऽज्ञानाद् असत्यात् स्त्री पापाभ्यासाच् च कूटकृत् । (१७३।१)

bālo 'jñānād asatyāt strī pāpābhyāsāc ca kūṭakṛt |

173.2१७३.२

विब्रूयाद् बान्धवः स्नेहाद् वैरनिर्यातनाद् अरिः ॥ (१७३।२)

vibrūyād bāndhavaḥ snehād vairaniryātanād ariḥ ||

174.1१७४.१

अथवानुमतो यः स्याद् द्वयोर् विवदमानयोः । (१७४।१)

athavānumato yaḥ syād dvayor vivadamānayoḥ |

174.2१७४.२

असाक्ष्य् एको ऽपि साक्षित्वे प्रष्टव्यः स्यात् स संसदि ॥ (१७४।२)

asākṣy eko 'pi sākṣitve praṣṭavyaḥ syāt sa saṃsadi ||

175.1१७५.१

ओउतेर् इन्दिचतिओन्स् ड़ोर् ल्यिन्ग्यस् त्व् आत्मदोषभिन्नत्वाद् अस्वस्थ इव लक्ष्यते । (१७५।१)

Outer indications for lyingyas tv ātmadoṣabhinnatvād asvastha iva lakṣyate |

175.2१७५.२

स्थानात् स्थानान्तरं गच्छेद् एकैकं चोपधावति ॥ (१७५।२)

sthānāt sthānāntaraṃ gacched ekaikaṃ copadhāvati ||

176.1१७६.१

कासते ऽनिभृतो ऽकस्माद् अभीक्ष्णं निश्वसत्य् अपि । (१७६।१)

kāsate 'nibhṛto 'kasmād abhīkṣṇaṃ niśvasaty api |

176.2१७६.२

भूमिं लिखति पादाभ्यां बाहुवासो धुनोति च ॥ (१७६।२)

bhūmiṃ likhati pādābhyāṃ bāhuvāso dhunoti ca ||

177.1१७७.१

भिद्यते मुखवर्णो ऽस्य ललाटं स्विद्यते तथा । (१७७।१)

bhidyate mukhavarṇo 'sya lalāṭaṃ svidyate tathā |

177.2१७७.२

शोषम् आगच्छतश् चोष्ठाव् ऊर्ध्वं तिर्यक् च वीक्षते ॥ (१७७।२)

śoṣam āgacchataś coṣṭhāv ūrdhvaṃ tiryak ca vīkṣate ||

178.1१७८.१

त्वरमाण इवाबद्धम् अपृष्टो बहु भाषते । (१७८।१)

tvaramāṇa ivābaddham apṛṣṭo bahu bhāṣate |

178.2१७८.२

कूटसाक्षी स विज्ञेयस् तं पापं विनयेन् नृपः ॥ (१७८।२)

kūṭasākṣī sa vijñeyas taṃ pāpaṃ vinayen nṛpaḥ ||

179.1१७९.१

श्रावयित्वा च यो ऽन्येभ्यः साक्षित्वं तद् विनिह्नुते । (१७९।१)

śrāvayitvā ca yo 'nyebhyaḥ sākṣitvaṃ tad vinihnute |

179.2१७९.२

स विनेयो भृशतरं कूटसाक्ष्यधिको हि सः ॥ (१७९।२)

sa vineyo bhṛśataraṃ kūṭasākṣyadhiko hi saḥ ||

180.1१८०.१

आहूय साक्षिणः पृच्छेन् नियम्य शपथैर् भृशम् । (१८०।१)

āhūya sākṣiṇaḥ pṛcchen niyamya śapathair bhṛśam |

180.2१८०.२

समस्तान् विदिताचारान् विज्ञातार्थान् पृथक् पृथक् ॥ (१८०।२)

samastān viditācārān vijñātārthān pṛthak pṛthak ||

181.1१८१.१

सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः । (१८१।१)

satyena śāpayed vipraṃ kṣatriyaṃ vāhanāyudhaiḥ |

181.2१८१.२

गोबीजकाञ्चनैर् वैश्यं शूद्रं सर्वैस् तु पातकैः ॥ (१८१।२)

gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ ||

182.1१८२.१

पुराणैर् धर्मवचनैः सत्यमाहात्म्यकीर्तनैः । (१८२।१)

purāṇair dharmavacanaiḥ satyamāhātmyakīrtanaiḥ |

182.2१८२.२

अनृतस्यापवादैश् च भृशम् उत्त्रास्य साक्षिणः ॥ (१८२।२)

anṛtasyāpavādaiś ca bhṛśam uttrāsya sākṣiṇaḥ ||

183.1१८३.१

थे इम्पोर्तन्चे ओड़् त्रुथ्नग्नो मुण्डः कपालेन भिक्षार्थी क्षुत्पिपासितः । (१८३।१)

The importance of truthnagno muṇḍaḥ kapālena bhikṣārthī kṣutpipāsitaḥ |

183.2१८३.२

दीनः शत्रुगृहं गच्छेद् यः साक्ष्यम् अनृतं वदेत् ॥ (१८३।२)

dīnaḥ śatrugṛhaṃ gacched yaḥ sākṣyam anṛtaṃ vadet ||

184.1१८४.१

नगरे प्रतिरुद्धः सन् बहिर्द्वारे बुभुक्षितः । (१८४।१)

nagare pratiruddhaḥ san bahirdvāre bubhukṣitaḥ |

184.2१८४.२

अमित्रान् भूयशः पश्येद् यः साक्ष्यम् अनृतं वदेत् ॥ (१८४।२)

amitrān bhūyaśaḥ paśyed yaḥ sākṣyam anṛtaṃ vadet ||

185.1१८५.१

यां रात्रिम् अधिविन्ना स्त्री यां चैवाक्षपराजितः । (१८५।१)

yāṃ rātrim adhivinnā strī yāṃ caivākṣaparājitaḥ |

185.2१८५.२

यां च भाराभितप्ताङ्गो दुर्विवक्ता स तां वसेत् ॥ (१८५।२)

yāṃ ca bhārābhitaptāṅgo durvivaktā sa tāṃ vaset ||

186.1१८६.१

साक्षी साक्ष्यसमुद्देशे गोकर्णशिथिलं चरन् । (१८६।१)

sākṣī sākṣyasamuddeśe gokarṇaśithilaṃ caran |

186.2१८६.२

सहस्रं वारुणान् पाशान् आत्मनि प्रतिमुञ्चति ॥ (१८६।२)

sahasraṃ vāruṇān pāśān ātmani pratimuñcati ||

187.1१८७.१

तस्य वर्षशते पूर्णे पाशम् एकं प्रमुच्यते । (१८७।१)

tasya varṣaśate pūrṇe pāśam ekaṃ pramucyate |

187.2१८७.२

एवं स बन्धनात् तस्मान् मुच्यते नियुताः समाः ॥ (१८७।२)

evaṃ sa bandhanāt tasmān mucyate niyutāḥ samāḥ ||

188.1१८८.१

यावतो बान्धवान् यस्मिन् हन्ति साक्ष्ये ऽनृतं वदन् । (१८८।१)

yāvato bāndhavān yasmin hanti sākṣye 'nṛtaṃ vadan |

188.2१८८.२

तावतः संख्यया तस्मिन् शृणु सौम्यानुपूर्वशः ॥ (१८८।२)

tāvataḥ saṃkhyayā tasmin śṛṇu saumyānupūrvaśaḥ ||

189.1१८९.१

पञ्च पश्वनृते हन्ति दश हन्ति गवानृते । (१८९।१)

pañca paśvanṛte hanti daśa hanti gavānṛte |

189.2१८९.२

शतम् अश्वानृते हन्ति सहस्रं पुरुषानृते ॥ (१८९।२)

śatam aśvānṛte hanti sahasraṃ puruṣānṛte ||

190.1१९०.१

हन्ति जातान् अजातांश् च हिरण्यार्थे ऽनृतं वदन् । (१९०।१)

hanti jātān ajātāṃś ca hiraṇyārthe 'nṛtaṃ vadan |

190.2१९०.२

सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः ॥ (१९०।२)

sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadīḥ ||

191.1१९१.१

एकम् एवाद्वितीयं तत् प्राहुः पावनम् आत्मनः । (१९१।१)

ekam evādvitīyaṃ tat prāhuḥ pāvanam ātmanaḥ |

191.2१९१.२

सत्यं स्वर्गस्य सोपानं पारावारस्य नौर् इव ॥ (१९१।२)

satyaṃ svargasya sopānaṃ pārāvārasya naur iva ||

192.1१९२.१

अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । (१९२।१)

aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam |

192.2१९२.२

अश्वमेधसहस्राद्धि सत्यम् एव विशिष्यते ॥ (१९२।२)

aśvamedhasahasrāddhi satyam eva viśiṣyate ||

193.1१९३.१

वरं कूपशताद् वापि वरं वापीशतात् क्रतुः । (१९३।१)

varaṃ kūpaśatād vāpi varaṃ vāpīśatāt kratuḥ |

193.2१९३.२

वरं क्रतुशतात् पुत्रः सत्यं पुत्रशताद् वरम् ॥ (१९३।२)

varaṃ kratuśatāt putraḥ satyaṃ putraśatād varam ||

194.1१९४.१

भूर् धारयति सत्येन सत्येनोदेति भास्करः । (१९४।१)

bhūr dhārayati satyena satyenodeti bhāskaraḥ |

194.2१९४.२

सत्येन वायुः पवते सत्येनापः स्रवन्ति च ॥ (१९४।२)

satyena vāyuḥ pavate satyenāpaḥ sravanti ca ||

195.1१९५.१

सत्यम् एव परं दानं सत्यम् एव परं तपः । (१९५।१)

satyam eva paraṃ dānaṃ satyam eva paraṃ tapaḥ |

195.2१९५.२

सत्यम् एव परो धर्मो लोकानाम् इति नः श्रुतम् ॥ (१९५।२)

satyam eva paro dharmo lokānām iti naḥ śrutam ||

196.1१९६.१

सत्यं देवाः समासेन मनुष्यास् त्व् अनृतं स्मृतम् । (१९६।१)

satyaṃ devāḥ samāsena manuṣyās tv anṛtaṃ smṛtam |

196.2१९६.२

इहैव तस्य देवत्वं यस्य सत्ये स्थिता मतिः ॥ (१९६।२)

ihaiva tasya devatvaṃ yasya satye sthitā matiḥ ||

197.1१९७.१

सत्यं ब्रूह्य् अनृतं त्यक्त्वा सत्येन स्वर्गम् एष्यसि । (१९७।१)

satyaṃ brūhy anṛtaṃ tyaktvā satyena svargam eṣyasi |

197.2१९७.२

उक्त्वानृतं महाघोरं नरकं प्रतिपत्स्यते ॥ (१९७।२)

uktvānṛtaṃ mahāghoraṃ narakaṃ pratipatsyate ||

198.1१९८.१

निरयेषु च ते शश्वज् जिह्वाम् उत्कृत्य दारुणाः । (१९८।१)

nirayeṣu ca te śaśvaj jihvām utkṛtya dāruṇāḥ |

198.2१९८.२

असिभिः शातयिष्यन्ति बलिनो यमकिंकराः ॥ (१९८।२)

asibhiḥ śātayiṣyanti balino yamakiṃkarāḥ ||

199.1१९९.१

शूलैर् भेत्स्यन्ति चाक्रुद्धाः क्रोशन्तम् अपरायणम् । (१९९।१)

śūlair bhetsyanti cākruddhāḥ krośantam aparāyaṇam |

199.2१९९.२

अवाक्शिरसम् उत्क्षिप्य क्षेप्स्यन्त्य् अग्निह्रदेषु च ॥ (१९९।२)

avākśirasam utkṣipya kṣepsyanty agnihradeṣu ca ||

200.1२००.१

अनुभूय च दुःखास् ताश् चिरं नरकवेदनाः । (२००।१)

anubhūya ca duḥkhās tāś ciraṃ narakavedanāḥ |

200.2२००.२

इह यास्यस्य् अभव्यासु गृध्रकाकादियोनिषु ॥ (२००।२)

iha yāsyasy abhavyāsu gṛdhrakākādiyoniṣu ||

201.1२०१.१

ज्ञात्वैतान् अनृते दोषाञ् ज्ञात्वा सत्ये च सद्गुणान् । (२०१।१)

jñātvaitān anṛte doṣāñ jñātvā satye ca sadguṇān |

201.2२०१.२

सत्यं वदोद्धरात्मानं मात्मानं पातयिष्यसि ॥ (२०१।२)

satyaṃ vadoddharātmānaṃ mātmānaṃ pātayiṣyasi ||

202.1२०२.१

न बान्धवा न सुहृदो न धनानि महान्त्य् अपि । (२०२।१)

na bāndhavā na suhṛdo na dhanāni mahānty api |

202.2२०२.२

अलं तारयितुं शक्तास् तमस्य् उग्रे निमज्जतः ॥ (२०२।२)

alaṃ tārayituṃ śaktās tamasy ugre nimajjataḥ ||

203.1२०३.१

पितरस् त्व् अवलम्बन्ते त्वयि साक्षित्वम् आगते । (२०३।१)

pitaras tv avalambante tvayi sākṣitvam āgate |

203.2२०३.२

तारयिष्यति किंवास्मान् आत्मानं पातयिष्यति ॥ (२०३।२)

tārayiṣyati kiṃvāsmān ātmānaṃ pātayiṣyati ||

204.1२०४.१

सत्यम् आत्मा मनुष्यस्य सत्ये सर्वं प्रतिष्ठितम् । (२०४।१)

satyam ātmā manuṣyasya satye sarvaṃ pratiṣṭhitam |

204.2२०४.२

सर्वथैवात्मनात्मानं श्रेयसा योजयिष्यसि ॥ (२०४।२)

sarvathaivātmanātmānaṃ śreyasā yojayiṣyasi ||

205.1२०५.१

यां च रात्रिम् अजनिष्ठा यां रात्रिं च मरिष्यसि । (२०५।१)

yāṃ ca rātrim ajaniṣṭhā yāṃ rātriṃ ca mariṣyasi |

205.2२०५.२

वृथा तदन्तरं ते स्यात् कुर्याश् चेत् सत्यम् अन्यथा ॥ (२०५।२)

vṛthā tadantaraṃ te syāt kuryāś cet satyam anyathā ||

206.1२०६.१

नास्ति सत्यात् परो धर्मो नानृतात् पातकं परम् । (२०६।१)

nāsti satyāt paro dharmo nānṛtāt pātakaṃ param |

206.2२०६.२

साक्षिधर्मे विशेषेण सत्यम् एव वदेत् ततः ॥ (२०६।२)

sākṣidharme viśeṣeṇa satyam eva vadet tataḥ ||

207.1२०७.१

यः परार्थे प्रहरति स्वां वाचं पुरुषाधमः । (२०७।१)

yaḥ parārthe praharati svāṃ vācaṃ puruṣādhamaḥ |

207.2२०७.२

आत्मार्थे किं न कुर्यात् स पापो नरकनिर्भयः ॥ (२०७।२)

ātmārthe kiṃ na kuryāt sa pāpo narakanirbhayaḥ ||

208.1२०८.१

अर्था वै वाचि नियता वाङ्मूला वाग्विनिःसृताः । (२०८।१)

arthā vai vāci niyatā vāṅmūlā vāgviniḥsṛtāḥ |

208.2२०८.२

यो ह्य् एतां स्तेनयेद् वाचं स सर्वस्तेयकृन् नरः ॥ (२०८।२)

yo hy etāṃ stenayed vācaṃ sa sarvasteyakṛn naraḥ ||

209.1२०९.१

साक्षिविप्रतिपत्तौ तु प्रमाणं बहवो यतः । (२०९।१)

sākṣivipratipattau tu pramāṇaṃ bahavo yataḥ |

209.2२०९.२

तत्साम्ये शुचयो ग्राह्यास् तत्साम्ये स्मृतिमत्तराः ॥ (२०९।२)

tatsāmye śucayo grāhyās tatsāmye smṛtimattarāḥ ||

210.1२१०.१

स्मृतिमत्साक्षिसाम्यं तु विवादे यत्र दृश्यते । (२१०।१)

smṛtimatsākṣisāmyaṃ tu vivāde yatra dṛśyate |

210.2२१०.२

सूक्ष्मत्वात् साक्षिधर्मस्य साक्ष्यं व्यावर्तते पुनः ॥ (२१०।२)

sūkṣmatvāt sākṣidharmasya sākṣyaṃ vyāvartate punaḥ ||

211.1२११.१

निर्दिष्टेष्व् अर्थजातेषु साक्षी चेत् साक्ष्यम् आगतः । (२११।१)

nirdiṣṭeṣv arthajāteṣu sākṣī cet sākṣyam āgataḥ |

211.2२११.२

न ब्रूयाद् अक्षरसमं न तन् निगदितं भवेत् ॥ (२११।२)

na brūyād akṣarasamaṃ na tan nigaditaṃ bhavet ||

212.1२१२.१

देशकालवयोद्रव्यप्रमाणाकृतिजातिषु । (२१२।१)

deśakālavayodravyapramāṇākṛtijātiṣu |

212.2२१२.२

यत्र विप्रतिपत्तिः स्यात् साक्ष्यं तद् असद् उच्यते ॥ (२१२।२)

yatra vipratipattiḥ syāt sākṣyaṃ tad asad ucyate ||

213.1२१३.१

ऊनम् अभ्यधिकं चार्थं प्रब्रूयुर् यत्र साक्षिणः । (२१३।१)

ūnam abhyadhikaṃ cārthaṃ prabrūyur yatra sākṣiṇaḥ |

213.2२१३.२

तद् अप्य् अनुक्तं विज्ञेयम् एष साक्ष्यविधिः स्मृतः ॥ (२१३।२)

tad apy anuktaṃ vijñeyam eṣa sākṣyavidhiḥ smṛtaḥ ||

214.1२१४.१

प्रमादाद् धनिनो यत्र न स्याल् लेख्यं न साक्षिणः । (२१४।१)

pramādād dhanino yatra na syāl lekhyaṃ na sākṣiṇaḥ |

214.2२१४.२

अर्थं चापह्नुयाद् वादी तत्रोक्तस् त्रिविधो विधिः ॥ (२१४।२)

arthaṃ cāpahnuyād vādī tatroktas trividho vidhiḥ ||

215.1२१५.१

चोदना प्रतिकालं च युक्तिलेशस् तथैव च । (२१५।१)

codanā pratikālaṃ ca yuktileśas tathaiva ca |

215.2२१५.२

तृतीयः शपथश् चोक्तस् तैर् एवं साधयेत् क्रमात् ॥ (२१५।२)

tṛtīyaḥ śapathaś coktas tair evaṃ sādhayet kramāt ||

216.1२१६.१

अभीक्ष्णं चोद्यमानो यः प्रतिहन्यान् न तद्वचः । (२१६।१)

abhīkṣṇaṃ codyamāno yaḥ pratihanyān na tadvacaḥ |

216.2२१६.२

त्रिचतुःपञ्चकृत्वो वा परतो ऽर्थं तम् आवहेत् ॥ (२१६।२)

tricatuḥpañcakṛtvo vā parato 'rthaṃ tam āvahet ||

217.1२१७.१

चोदनाप्रतिघाते तु युक्तिलेशैस् तम् अन्वियात् । (२१७।१)

codanāpratighāte tu yuktileśais tam anviyāt |

217.2२१७.२

देशकालार्थसंबन्धपरिमाणक्रियादिभिः ॥ (२१७।२)

deśakālārthasaṃbandhaparimāṇakriyādibhiḥ ||

218.1२१८.१

युक्तिष्व् अप्य् असमर्थासु शपथैर् एनम् अर्दयेत् । (२१८।१)

yuktiṣv apy asamarthāsu śapathair enam ardayet |

218.2२१८.२

अर्थकालबलापेक्षम् अग्न्यम्बुसुकृतादिभिः ॥ (२१८।२)

arthakālabalāpekṣam agnyambusukṛtādibhiḥ ||

219.1२१९.१

दीप्ताग्निर् यं न दहति यम् अन्तर्धारयन्त्य् आपः । (२१९।१)

dīptāgnir yaṃ na dahati yam antardhārayanty āpaḥ |

219.2२१९.२

स तरत्य् अभिशापं तं किल्बिषी स्याद् विपर्यये ॥ (२१९।२)

sa taraty abhiśāpaṃ taṃ kilbiṣī syād viparyaye ||

220.1२२०.१

स्त्रीणां शीलाभियोगेषु स्तेयसाहसयोर् अपि । (२२०।१)

strīṇāṃ śīlābhiyogeṣu steyasāhasayor api |

220.2२२०.२

एष एव विधिर् दृष्टः सर्वार्थापह्नवेषु च ॥ (२२०।२)

eṣa eva vidhir dṛṣṭaḥ sarvārthāpahnaveṣu ca ||

221.1२२१.१

शपथा ह्य् अपि देवानाम् ऋषीणाम् अपि च स्मृताः । (२२१।१)

śapathā hy api devānām ṛṣīṇām api ca smṛtāḥ |

221.2२२१.२

वसिष्ठः शपथं शेपे यातुधाने तु शङ्कितः ॥ (२२१।२)

vasiṣṭhaḥ śapathaṃ śepe yātudhāne tu śaṅkitaḥ ||

222.1२२२.१

सप्तर्षयस् तथेन्द्राय पुष्करार्थे समागताः । (२२२।१)

saptarṣayas tathendrāya puṣkarārthe samāgatāḥ |

222.2२२२.२

शेपुः शपथम् अव्यग्राः परस्परविशुद्धये ॥ (२२२।२)

śepuḥ śapatham avyagrāḥ parasparaviśuddhaye ||

223.1२२३.१

अयुक्तं साहसं कृत्वा प्रत्यापत्तिं भजेत यः । (२२३।१)

ayuktaṃ sāhasaṃ kṛtvā pratyāpattiṃ bhajeta yaḥ |

223.2२२३.२

ब्रूयात् स्वयं वा सदसि तस्यार्धविनयः स्मृतः ॥ (२२३।२)

brūyāt svayaṃ vā sadasi tasyārdhavinayaḥ smṛtaḥ ||

224.1२२४.१

गूहमानस् तु दौरात्म्याद् यदि पापं स जीयते । (२२४।१)

gūhamānas tu daurātmyād yadi pāpaṃ sa jīyate |

224.2२२४.२

सभ्याश् चात्र न तुष्यन्ति तीव्रो दण्डश् च पात्यते ॥ (२२४।२)

sabhyāś cātra na tuṣyanti tīvro daṇḍaś ca pātyate ||

Data courtesy of The Digital Corpus of Sanskrit.

NāSmṛ, 2, 1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit