NāSmṛ, 2, 5
Select a line for its word-by-word analysis.
अभ्युपेत्य तु शुश्रूषां यस् तां न प्रतिपद्यते । (१।१)
abhyupetya tu śuśrūṣāṃ yas tāṃ na pratipadyate |
शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषिभिः । (२।१)
śuśrūṣakaḥ pañcavidhaḥ śāstre dṛṣṭo manīṣibhiḥ |
चतुर्विधः कर्मकरस् तेषां दासास् त्रिपञ्चकाः ॥ (२।२)
caturvidhaḥ karmakaras teṣāṃ dāsās tripañcakāḥ ||
शिष्यान्तेवासिभृतकाश् चतुर्थस् त्व् अधिकर्मकृत् । (३।१)
śiṣyāntevāsibhṛtakāś caturthas tv adhikarmakṛt |
सामान्यम् अस्वतन्त्रत्वम् एषाम् आहुर् मनीषिणः । (४।१)
sāmānyam asvatantratvam eṣām āhur manīṣiṇaḥ |
कर्मापि द्विविधं ज्ञेयम् अशुभं शुभम् एव च । (५।१)
karmāpi dvividhaṃ jñeyam aśubhaṃ śubham eva ca |
अशुभं दासकर्मोक्तं शुभं कर्मकृतां स्मृतम् ॥ (५।२)
aśubhaṃ dāsakarmoktaṃ śubhaṃ karmakṛtāṃ smṛtam ||
गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रग्रहणोज्झनम् ॥ (६।२)
guhyāṅgasparśanocchiṣṭaviṇmūtragrahaṇojjhanam ||
इष्टतः स्वामिनश् चाङ्गैर् उपस्थानम् अथान्ततः । (७।१)
iṣṭataḥ svāminaś cāṅgair upasthānam athāntataḥ |
अशुभं कर्म विज्ञेयं शुभम् अन्यद् अतः परम् ॥ (७।२)
aśubhaṃ karma vijñeyaṃ śubham anyad ataḥ param ||
आ विद्याग्रहणाच् छिष्यः शुश्रूषेत् प्रयतो गुरुम् । (८।१)
ā vidyāgrahaṇāc chiṣyaḥ śuśrūṣet prayato gurum |
ब्रह्मचारी चरेद् भैक्षम् अधःशाय्य् अनलंकृतः । (९।१)
brahmacārī cared bhaikṣam adhaḥśāyy analaṃkṛtaḥ |
जघन्यशायी सर्वेषां पूर्वोत्थायी गुरोर् गृहे ॥ (९।२)
jaghanyaśāyī sarveṣāṃ pūrvotthāyī guror gṛhe ||
नासंदिष्टः प्रतिष्ठेत तिष्ठेद् वापि गुरुं क्वचित् । (१०।१)
nāsaṃdiṣṭaḥ pratiṣṭheta tiṣṭhed vāpi guruṃ kvacit |
संदिष्टः कर्म कुर्वीत शक्तश् चेद् अविचारयन् ॥ (१०।२)
saṃdiṣṭaḥ karma kurvīta śaktaś ced avicārayan ||
आसीनो ऽधो गुरोः कूर्चे फलके वा समाहितः ॥ (११।२)
āsīno 'dho guroḥ kūrce phalake vā samāhitaḥ ||
भृशं न ताडयेद् एनं नोत्तमाङ्गे न वक्षसि । (१३।१)
bhṛśaṃ na tāḍayed enaṃ nottamāṅge na vakṣasi |
अनुशास्याथ विश्वास्यः शास्यो राज्ञान्यथा गुरुः ॥ (१३।२)
anuśāsyātha viśvāsyaḥ śāsyo rājñānyathā guruḥ ||
प्रतीयात् स्वगृहान् एषा शिष्यवृत्तिर् उदाहृता ॥ (१४।२)
pratīyāt svagṛhān eṣā śiṣyavṛttir udāhṛtā ||
स्वशिल्पम् इच्छन्न् आहर्तुं बान्धवानाम् अनुज्ञया । (१५।१)
svaśilpam icchann āhartuṃ bāndhavānām anujñayā |
आचार्यस्य वसेद् अन्ते कालं कृत्वा सुनिश्चितम् ॥ (१५।२)
ācāryasya vased ante kālaṃ kṛtvā suniścitam ||
आचार्यः शिक्षयेद् एनं स्वगृहाद् दत्तभोजनम् । (१६।१)
ācāryaḥ śikṣayed enaṃ svagṛhād dattabhojanam |
न चान्यत् कारयेत् कर्म पुत्रवच् चैनम् आचरेत् ॥ (१६।२)
na cānyat kārayet karma putravac cainam ācaret ||
शिक्षयन्तम् अदुष्टं च यस् त्व् आचार्यं परित्यजेत् । (१७।१)
śikṣayantam aduṣṭaṃ ca yas tv ācāryaṃ parityajet |
बलाद् वासयितव्यः स्याद् वधबन्धौ च सो ऽर्हति ॥ (१७।२)
balād vāsayitavyaḥ syād vadhabandhau ca so 'rhati ||
शिक्षितो ऽपि कृतं कालम् अन्तेवासी समाप्नुयात् । (१८।१)
śikṣito 'pi kṛtaṃ kālam antevāsī samāpnuyāt |
तत्र कर्म च यत् कुर्याद् आचार्यस्यैव तत्फलम् ॥ (१८।२)
tatra karma ca yat kuryād ācāryasyaiva tatphalam ||
गृहीतशिल्पः समये कृत्वाचार्यं प्रदक्षिणम् । (१९।१)
gṛhītaśilpaḥ samaye kṛtvācāryaṃ pradakṣiṇam |
शक्तितश् चानुमान्यैनम् अन्तेवासी निवर्तयेत् ॥ (१९।२)
śaktitaś cānumānyainam antevāsī nivartayet ||
भृतकभृतकस् त्रिविधो ज्ञेय उत्तमो मध्यमो ऽधमः । (२०।१)
bhṛtakabhṛtakas trividho jñeya uttamo madhyamo 'dhamaḥ |
शक्तिभक्त्यनुरूपा स्याद् एषां कर्माश्रया भृतिः ॥ (२०।२)
śaktibhaktyanurūpā syād eṣāṃ karmāśrayā bhṛtiḥ ||
उत्तमस् त्व् आयुधीयो ऽत्र मध्यमस् तु कृषीवलः । (२१।१)
uttamas tv āyudhīyo 'tra madhyamas tu kṛṣīvalaḥ |
अधमो भारवाहः स्याद् इत्य् एवं त्रिविधो भृतः ॥ (२१।२)
adhamo bhāravāhaḥ syād ity evaṃ trividho bhṛtaḥ ||
अर्थेष्व् अधिकृतो यः स्यात् कुटुम्बस्य तथोपरि । (२२।१)
artheṣv adhikṛto yaḥ syāt kuṭumbasya tathopari |
सो ऽधिकर्मकरो ज्ञेयः स च कौटुम्बिकः स्मृतः ॥ (२२।२)
so 'dhikarmakaro jñeyaḥ sa ca kauṭumbikaḥ smṛtaḥ ||
शुभकर्मकरास् त्व् एते चत्वारः समुदाहृताः । (२३।१)
śubhakarmakarās tv ete catvāraḥ samudāhṛtāḥ |
त्य्पेस् ओड़् स्लवेस् (दास)जघन्यकर्मभाजस् तु शेषा दासास् त्रिपञ्चकाः ॥ (२३।२)
Types of slaves (dāsa)jaghanyakarmabhājas tu śeṣā dāsās tripañcakāḥ ||
गृहजातस् तथा क्रीतो लब्धो दायाद् उपागतः । (२४।१)
gṛhajātas tathā krīto labdho dāyād upāgataḥ |
अनाकालभृतस् तद्वद् आधत्तः स्वामिना च यः ॥ (२४।२)
anākālabhṛtas tadvad ādhattaḥ svāminā ca yaḥ ||
मोक्षितो महतश् चर्णात् प्राप्तो युद्धात् पणे जितः । (२५।१)
mokṣito mahataś carṇāt prāpto yuddhāt paṇe jitaḥ |
तवाहम् इत्य् उपगतः प्रव्रज्यावसितः कृतः ॥ (२५।२)
tavāham ity upagataḥ pravrajyāvasitaḥ kṛtaḥ ||
विक्रेता चात्मनः शास्त्रे दासाः पञ्चदशा स्मृताः ॥ (२६।२)
vikretā cātmanaḥ śāstre dāsāḥ pañcadaśā smṛtāḥ ||
तत्र पूर्वश् चतुर्वर्गो दासत्वान् न विमुच्यते । (२७।१)
tatra pūrvaś caturvargo dāsatvān na vimucyate |
प्रसादात् स्वामिनो ऽन्यत्र दास्यम् एषां क्रमागतम् ॥ (२७।२)
prasādāt svāmino 'nyatra dāsyam eṣāṃ kramāgatam ||
यश् चैषां स्वामिनं कश्चिन् मोक्षयेत् प्राणसंशयात् । (२८।१)
yaś caiṣāṃ svāminaṃ kaścin mokṣayet prāṇasaṃśayāt |
दासत्वात् स विमुच्येत पुत्रभागं लभेत च ॥ (२८।२)
dāsatvāt sa vimucyeta putrabhāgaṃ labheta ca ||
संभक्षितं यद् दुर्भिक्षे न तच् छुध्येत कर्मणा ॥ (२९।२)
saṃbhakṣitaṃ yad durbhikṣe na tac chudhyeta karmaṇā ||
आधत्तो ऽपि धनं दत्त्वा स्वामी यद्य् एनम् उद्धरेत् । (३०।१)
ādhatto 'pi dhanaṃ dattvā svāmī yady enam uddharet |
दत्त्वा तु सोदयम् ऋणं ऋणी दास्यात् प्रमुच्यते । (३१।१)
dattvā tu sodayam ṛṇaṃ ṛṇī dāsyāt pramucyate |
तवाहम् इत्य् उपगतो युद्धप्राप्तः पणे जितः । (३२।१)
tavāham ity upagato yuddhaprāptaḥ paṇe jitaḥ |
राज्ञ एव तु दासः स्यात् प्रव्रज्यावसितो नरः । (३३।१)
rājña eva tu dāsaḥ syāt pravrajyāvasito naraḥ |
न तस्य प्रतिमोक्षो ऽस्ति न विशुद्धिः कथंचन ॥ (३३।२)
na tasya pratimokṣo 'sti na viśuddhiḥ kathaṃcana ||
भक्तस्योपेक्षणात् सद्यो भक्तदासः प्रमुच्यते । (३४।१)
bhaktasyopekṣaṇāt sadyo bhaktadāsaḥ pramucyate |
विक्रीणीते य आत्मानं स्वतन्त्रः सन् नराधमः । (३५।१)
vikrīṇīte ya ātmānaṃ svatantraḥ san narādhamaḥ |
स जघन्यतरस् तेषां नैव दास्यात् प्रमुच्यते ॥ (३५।२)
sa jaghanyataras teṣāṃ naiva dāsyāt pramucyate ||
राज्ञा मोक्षयितव्यास् ते दासत्वं तेषु नेष्यते ॥ (३६।२)
rājñā mokṣayitavyās te dāsatvaṃ teṣu neṣyate ||
वर्णानां प्रातिलोम्येन दासत्वं न विधीयते । (३७।१)
varṇānāṃ prātilomyena dāsatvaṃ na vidhīyate |
स्वधर्मत्यागिनो ऽन्यत्र दारवद् दासता मता ॥ (३७।२)
svadharmatyāgino 'nyatra dāravad dāsatā matā ||
तवाहम् इति चात्मानं यो ऽस्वतन्त्रः प्रयच्छति । (३८।१)
tavāham iti cātmānaṃ yo 'svatantraḥ prayacchati |
न स तं प्राप्नुयात् कामं पूर्वस्वामी लभेत तम् ॥ (३८।२)
na sa taṃ prāpnuyāt kāmaṃ pūrvasvāmī labheta tam ||
अधनास् त्रय एवोक्ता भार्या दासस् तथा सुतः । (३९।१)
adhanās traya evoktā bhāryā dāsas tathā sutaḥ |
यत् ते समधिगच्छन्ति यस्य ते तस्य तद् धनम् ॥ (३९।२)
yat te samadhigacchanti yasya te tasya tad dhanam ||
स्वदासम् इच्छेद् यः कर्तुम् अदासं प्रीतमानसः । (४०।१)
svadāsam icched yaḥ kartum adāsaṃ prītamānasaḥ |
स्कन्धाद् आदाय तस्यापि भिन्द्यात् कुम्भं सहाम्भसा ॥ (४०।२)
skandhād ādāya tasyāpi bhindyāt kumbhaṃ sahāmbhasā ||
अक्षताभिः सपुष्पाभिर् मूर्धन्य् एनम् अवाकिरेत् । (४१।१)
akṣatābhiḥ sapuṣpābhir mūrdhany enam avākiret |
अदास इति चोक्त्वा त्रिः प्राङ्मुखं तम् अथोत्सृजेत् ॥ (४१।२)
adāsa iti coktvā triḥ prāṅmukhaṃ tam athotsṛjet ||
ततःप्रभृति वक्तव्यः स्वाम्यनुग्रहपालितः । (४२।१)
tataḥprabhṛti vaktavyaḥ svāmyanugrahapālitaḥ |
भोज्यान्नः प्रतिगृह्यश् च भवत्य् अभिमतश् च सः ॥ (४२।२)
bhojyānnaḥ pratigṛhyaś ca bhavaty abhimataś ca saḥ ||
Data courtesy of The Digital Corpus of Sanskrit.