नारदस्मृतिNāradasmṛti

NāSmṛ, 2, 15

18 of 22 · 62 verses

Select a line for its word-by-word analysis.

1.1१.१

देशजातिकुलादीनाम् आक्रोशन्यङ्गसंहितम् । (१।१)

deśajātikulādīnām ākrośanyaṅgasaṃhitam |

1.2१.२

यद् वचः प्रतिकूलार्थं वाक्पारुष्यं तद् उच्यते ॥ (१।२)

yad vacaḥ pratikūlārthaṃ vākpāruṣyaṃ tad ucyate ||

2.1२.१

निष्ठुराश्लीलतीव्रत्वात् तद् अपि त्रिविधं स्मृतम् । (२।१)

niṣṭhurāślīlatīvratvāt tad api trividhaṃ smṛtam |

2.2२.२

गौरवानुक्रमाद् अस्य दण्डो ऽप्य् अत्र क्रमाद् गुरुः ॥ (२।२)

gauravānukramād asya daṇḍo 'py atra kramād guruḥ ||

3.1३.१

साक्षेपं निष्ठुरं ज्ञेयम् अश्लीलं न्यङ्गसंयुतम् । (३।१)

sākṣepaṃ niṣṭhuraṃ jñeyam aślīlaṃ nyaṅgasaṃyutam |

3.2३.२

पातनीयैर् उपक्रोशैस् तीव्रम् आहुर् मनीषिणः ॥ (३।२)

pātanīyair upakrośais tīvram āhur manīṣiṇaḥ ||

4.1४.१

परगात्रेष्व् अभिद्रोहो हस्तपादायुधादिभिः । (४।१)

paragātreṣv abhidroho hastapādāyudhādibhiḥ |

4.2४.२

भस्मादिभिश् चोपघातो दण्डपारुष्यम् उच्यते ॥ (४।२)

bhasmādibhiś copaghāto daṇḍapāruṣyam ucyate ||

5.1५.१

तस्यापि दृष्टं त्रैविध्यं मृदुमध्योत्तमं क्रमात् । (५।१)

tasyāpi dṛṣṭaṃ traividhyaṃ mṛdumadhyottamaṃ kramāt |

5.2५.२

अवगूरणनिःसङ्गपातनक्षतदर्शनैः ॥ (५।२)

avagūraṇaniḥsaṅgapātanakṣatadarśanaiḥ ||

6.1६.१

हीनमध्योत्तमानां तु द्रव्याणाम् समतिक्रमात् । (६।१)

hīnamadhyottamānāṃ tu dravyāṇām samatikramāt |

6.2६.२

त्रीण्य् एव साहसान्य् आहुस् तत्र कण्टकशोधनम् ॥ (६।२)

trīṇy eva sāhasāny āhus tatra kaṇṭakaśodhanam ||

7.1७.१

विधिः पञ्चविधस् तूक्त एतयोर् उभयोर् अपि । (७।१)

vidhiḥ pañcavidhas tūkta etayor ubhayor api |

7.2७.२

विशुद्धिर् दण्डभाक्त्वं च तत्र सम्बध्यते यथा ॥ (७।२)

viśuddhir daṇḍabhāktvaṃ ca tatra sambadhyate yathā ||

8.1८.१

पारुष्ये सति संरम्भाद् उत्पन्ने क्षुब्धयोर् द्वयोः । (८।१)

pāruṣye sati saṃrambhād utpanne kṣubdhayor dvayoḥ |

8.2८.२

स मन्यते यः क्षमते दण्डभाग् यो ऽतिवर्तते ॥ (८।२)

sa manyate yaḥ kṣamate daṇḍabhāg yo 'tivartate ||

9.1९.१

पारुष्यदोषावृतयोर् युगपत् सम्प्रवृत्तयोः । (९।१)

pāruṣyadoṣāvṛtayor yugapat sampravṛttayoḥ |

9.2९.२

विशेषश् चेन् न दृश्येत विनयः स्यात् समस् तयोः ॥ (९।२)

viśeṣaś cen na dṛśyeta vinayaḥ syāt samas tayoḥ ||

10.1१०.१

पूर्वम् आक्षारयेद् यस् तु नियतं स्यात् स दोषभाक् । (१०।१)

pūrvam ākṣārayed yas tu niyataṃ syāt sa doṣabhāk |

10.2१०.२

पश्चाद् यः सो ऽप्य् असत्कारी पूर्वे तु विनयो गुरुः ॥ (१०।२)

paścād yaḥ so 'py asatkārī pūrve tu vinayo guruḥ ||

11.1११.१

द्वयोर् आपन्नयोस् तुल्यम् अनुबध्नाति यः पुनः । (११।१)

dvayor āpannayos tulyam anubadhnāti yaḥ punaḥ |

11.2११.२

स तयोर् दण्डम् आप्नोति पूर्वो वा यदि वेतरः ॥ (११।२)

sa tayor daṇḍam āpnoti pūrvo vā yadi vetaraḥ ||

12.1१२.१

श्वपाकपण्डचण्डालव्यङ्गेषु वधवृत्तिषु । (१२।१)

śvapākapaṇḍacaṇḍālavyaṅgeṣu vadhavṛttiṣu |

12.2१२.२

हस्तिपव्रात्यदारेषु गुर्वाचार्याङ्गनासु च ॥ (१२।२)

hastipavrātyadāreṣu gurvācāryāṅganāsu ca ||

13.1१३.१

मर्यादातिक्रमे सद्यो घात एवानुशासनम् । (१३।१)

maryādātikrame sadyo ghāta evānuśāsanam |

13.2१३.२

न च तद्दण्डपारुष्ये दोषम् आहुर् मनीषिणः ॥ (१३।२)

na ca taddaṇḍapāruṣye doṣam āhur manīṣiṇaḥ ||

14.1१४.१

यम् एव ह्य् अतिवर्तेरन्न् एते सन्तं जनं नृषु । (१४।१)

yam eva hy ativarterann ete santaṃ janaṃ nṛṣu |

14.2१४.२

स एव विनयं कुर्यान् न तद्विनयभाङ् नृपः ॥ (१४।२)

sa eva vinayaṃ kuryān na tadvinayabhāṅ nṛpaḥ ||

15.1१५.१

मला ह्य् एते मनुष्येषु धनम् एषां मलात्मकम् । (१५।१)

malā hy ete manuṣyeṣu dhanam eṣāṃ malātmakam |

15.2१५.२

अपि तान् घातयेद् राजा नार्थदण्डेन दण्डयेत् ॥ (१५।२)

api tān ghātayed rājā nārthadaṇḍena daṇḍayet ||

16.1१६.१

शतं ब्राह्मणम् आक्रुश्य क्षत्रियो दण्डम् अर्हति । (१६।१)

śataṃ brāhmaṇam ākruśya kṣatriyo daṇḍam arhati |

16.2१६.२

वैश्यो ऽध्यर्धं शतं द्वे वा शूद्रस् तु वधम् अर्हति ॥ (१६।२)

vaiśyo 'dhyardhaṃ śataṃ dve vā śūdras tu vadham arhati ||

17.1१७.१

विप्रः पञ्चाशतं दण्ड्यः क्षत्रियस्याभिशंसने । (१७।१)

vipraḥ pañcāśataṃ daṇḍyaḥ kṣatriyasyābhiśaṃsane |

17.2१७.२

वैश्ये स्याद् अर्धपञ्चाशच्छूद्रे द्वादशको दमः ॥ (१७।२)

vaiśye syād ardhapañcāśacchūdre dvādaśako damaḥ ||

18.1१८.१

समवर्णद्विजातीनां द्वादशैव व्यतिक्रमे । (१८।१)

samavarṇadvijātīnāṃ dvādaśaiva vyatikrame |

18.2१८.२

वादेष्व् अवचनीयेषु तद् एव द्विगुणं भवेत् ॥ (१८।२)

vādeṣv avacanīyeṣu tad eva dviguṇaṃ bhavet ||

19.1१९.१

काणम् अप्य् अथवा खञ्जम् अन्यं वापि तथाविधम् । (१९।१)

kāṇam apy athavā khañjam anyaṃ vāpi tathāvidham |

19.2१९.२

तथ्येनापि ब्रुवन् दाप्यो राज्ञा कार्षापणावरम् ॥ (१९।२)

tathyenāpi bruvan dāpyo rājñā kārṣāpaṇāvaram ||

20.1२०.१

न किल्बिषेणापवदेच्छास्त्रतः कृतपावनम् । (२०।१)

na kilbiṣeṇāpavadecchāstrataḥ kṛtapāvanam |

20.2२०.२

न राज्ञा धृतदण्डं च दण्डभाक् तद्व्यतिक्रमात् ॥ (२०।२)

na rājñā dhṛtadaṇḍaṃ ca daṇḍabhāk tadvyatikramāt ||

21.1२१.१

लोके ऽस्मिन् द्वाव् अवक्तव्याव् अदण्ड्यौ च प्रकीर्तितौ । (२१।१)

loke 'smin dvāv avaktavyāv adaṇḍyau ca prakīrtitau |

21.2२१.२

ब्राह्मणश् चैव राजा च तौ हीदं बिभृतो जगत् ॥ (२१।२)

brāhmaṇaś caiva rājā ca tau hīdaṃ bibhṛto jagat ||

22.1२२.१

पतितं पतितेत्य् उक्त्वा चौरं चौरेति वा पुनः । (२२।१)

patitaṃ patitety uktvā cauraṃ caureti vā punaḥ |

22.2२२.२

वचनात् तुल्यदोषः स्यान् मिथ्या द्विर् दोषतां व्रजेत् ॥ (२२।२)

vacanāt tulyadoṣaḥ syān mithyā dvir doṣatāṃ vrajet ||

23.1२३.१

नामजातिग्रहं तेषाम् अभिद्रोहेण कुर्वतः । (२३।१)

nāmajātigrahaṃ teṣām abhidroheṇa kurvataḥ |

23.2२३.२

निखेयो ऽयोमयः शङ्कुः शूद्रस्याष्टादशाङ्गुलः ॥ (२३।२)

nikheyo 'yomayaḥ śaṅkuḥ śūdrasyāṣṭādaśāṅgulaḥ ||

24.1२४.१

धर्मापदेशं दर्पेण द्विजानाम् अस्य कुर्वतः । (२४।१)

dharmāpadeśaṃ darpeṇa dvijānām asya kurvataḥ |

24.2२४.२

तप्तम् आसेचयेत् तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥ (२४।२)

taptam āsecayet tailaṃ vaktre śrotre ca pārthivaḥ ||

25.1२५.१

येनाङ्गेनावरो वर्णो ब्राह्मणस्यापराध्नुयात् । (२५।१)

yenāṅgenāvaro varṇo brāhmaṇasyāparādhnuyāt |

25.2२५.२

तद् अङ्गं तस्य छेत्तव्यम् एवं शुद्धिम् अवाप्नुयात् ॥ (२५।२)

tad aṅgaṃ tasya chettavyam evaṃ śuddhim avāpnuyāt ||

26.1२६.१

सहासनम् अभिप्रेप्सुर् उत्कृष्टस्यावकृष्टजः । (२६।१)

sahāsanam abhiprepsur utkṛṣṭasyāvakṛṣṭajaḥ |

26.2२६.२

कट्यां कृताङ्को निर्वास्यः स्फिग्देशं वास्य कर्तयेत् ॥ (२६।२)

kaṭyāṃ kṛtāṅko nirvāsyaḥ sphigdeśaṃ vāsya kartayet ||

27.1२७.१

अवनिष्ठीवतो दर्पाद् द्वाव् ओष्ठौ छेदयेन् नृपः । (२७।१)

avaniṣṭhīvato darpād dvāv oṣṭhau chedayen nṛpaḥ |

27.2२७.२

अवमूत्रयतः शिश्नम् अवशर्धयतो गुदम् ॥ (२७।२)

avamūtrayataḥ śiśnam avaśardhayato gudam ||

28.1२८.१

केशेषु गृह्णतो हस्तौ छेदयेद् अविचारयन् । (२८।१)

keśeṣu gṛhṇato hastau chedayed avicārayan |

28.2२८.२

पादयोर् नासिकायां च ग्रीवायां वृषणेषु च ॥ (२८।२)

pādayor nāsikāyāṃ ca grīvāyāṃ vṛṣaṇeṣu ca ||

29.1२९.१

उपक्रुश्य तु राजानं वर्त्मनि स्वे व्यवस्थितम् । (२९।१)

upakruśya tu rājānaṃ vartmani sve vyavasthitam |

29.2२९.२

जिह्वाछेदाद् भवेच्छुद्धिः सर्वस्वहरणेन वा ॥ (२९।२)

jihvāchedād bhavecchuddhiḥ sarvasvaharaṇena vā ||

30.1३०.१

राजनि प्रहरेद् यस् तु कृतागस्य् अपि दुर्मतिः । (३०।१)

rājani prahared yas tu kṛtāgasy api durmatiḥ |

30.2३०.२

शूले तम् अग्नौ विपचेद् ब्रह्महत्याशताधिकम् ॥ (३०।२)

śūle tam agnau vipaced brahmahatyāśatādhikam ||

31.1३१.१

पुत्रापराधे न पिता न श्ववाञ् शुनि दण्डभाक् । (३१।१)

putrāparādhe na pitā na śvavāñ śuni daṇḍabhāk |

31.2३१.२

न मर्कटे च तत्स्वामी तैर् एव प्रहितो न चेत् ॥ (३१।२)

na markaṭe ca tatsvāmī tair eva prahito na cet ||

Data courtesy of The Digital Corpus of Sanskrit.

NāSmṛ, 2, 15

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit