नारदस्मृतिNāradasmṛti

NāSmṛ, 2, 14

17 of 22 · 52 verses

Select a line for its word-by-word analysis.

1.1१.१

सहसा क्रियते कर्म यत् किंचिद् बलदर्पितैः । (१।१)

sahasā kriyate karma yat kiṃcid baladarpitaiḥ |

1.2१.२

तत् साहसम् इति प्रोक्तं सहो बलम् इहोच्यते ॥ (१।२)

tat sāhasam iti proktaṃ saho balam ihocyate ||

2.1२.१

तत् पुनस् त्रिविधं ज्ञेयं प्रथमं मध्यमं तथा । (२।१)

tat punas trividhaṃ jñeyaṃ prathamaṃ madhyamaṃ tathā |

2.2२.२

उत्तमं चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् ॥ (२।२)

uttamaṃ ceti śāstreṣu tasyoktaṃ lakṣaṇaṃ pṛthak ||

3.1३.१

फलमूलोदकादीनां क्षेत्रोपकरणस्य च । (३।१)

phalamūlodakādīnāṃ kṣetropakaraṇasya ca |

3.2३.२

भङ्गाक्षेपोपमर्दाद्यैः प्रथमं साहसं स्मृतम् ॥ (३।२)

bhaṅgākṣepopamardādyaiḥ prathamaṃ sāhasaṃ smṛtam ||

4.1४.१

वासःपश्वन्नपानानाम् गृहोपकरणस्य च । (४।१)

vāsaḥpaśvannapānānām gṛhopakaraṇasya ca |

4.2४.२

एतेनैव प्रकारेण मध्यमं साहसं स्मृतम् ॥ (४।२)

etenaiva prakāreṇa madhyamaṃ sāhasaṃ smṛtam ||

5.1५.१

व्यापादो विषशस्त्राद्यैः परदारप्रधर्षणम् । (५।१)

vyāpādo viṣaśastrādyaiḥ paradārapradharṣaṇam |

5.2५.२

प्राणोपरोधि यच् चान्यद् उक्तम् उत्तमसाहसम् ॥ (५।२)

prāṇoparodhi yac cānyad uktam uttamasāhasam ||

6.1६.१

तस्य दण्डः क्रियापेक्षः प्रथमस्य शतावरः । (६।१)

tasya daṇḍaḥ kriyāpekṣaḥ prathamasya śatāvaraḥ |

6.2६.२

मध्यमस्य तु शास्त्रज्ञैर् ज्ञेयः पञ्चशतावरः ॥ (६।२)

madhyamasya tu śāstrajñair jñeyaḥ pañcaśatāvaraḥ ||

7.1७.१

वधः सर्वस्वहरणं पुरान् निर्वासनाङ्कने । (७।१)

vadhaḥ sarvasvaharaṇaṃ purān nirvāsanāṅkane |

7.2७.२

तदङ्गच्छेद इत्य् उक्तो दण्ड उत्तमसाहसे ॥ (७।२)

tadaṅgaccheda ity ukto daṇḍa uttamasāhase ||

8.1८.१

अविशेषेण सर्वेषाम् एष दण्डविधिः स्मृतः । (८।१)

aviśeṣeṇa sarveṣām eṣa daṇḍavidhiḥ smṛtaḥ |

8.2८.२

वधाद् ऋते ब्राह्मणस्य न वधं ब्राह्मणो ऽर्हति ॥ (८।२)

vadhād ṛte brāhmaṇasya na vadhaṃ brāhmaṇo 'rhati ||

9.1९.१

शिरसो मुण्डनं दण्डस् तस्य निर्वासनं पुरात् । (९।१)

śiraso muṇḍanaṃ daṇḍas tasya nirvāsanaṃ purāt |

9.2९.२

ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन च ॥ (९।२)

lalāṭe cābhiśastāṅkaḥ prayāṇaṃ gardabhena ca ||

10.1१०.१

स्यातां संव्यवहार्यौ तौ धृतदण्डौ तु पूर्वयोः । (१०।१)

syātāṃ saṃvyavahāryau tau dhṛtadaṇḍau tu pūrvayoḥ |

10.2१०.२

धृतदण्डो ऽप्य् असंभोज्यो ज्ञेय उत्तमसाहसे ॥ (१०।२)

dhṛtadaṇḍo 'py asaṃbhojyo jñeya uttamasāhase ||

11.1११.१

तस्यैव भेदः स्तेयं स्याद् विशेषस् तत्र चोच्यते । (११।१)

tasyaiva bhedaḥ steyaṃ syād viśeṣas tatra cocyate |

11.2११.२

अतिसाहसम् आक्रम्य स्तेयम् आहुश् छलेन तु ॥ (११।२)

atisāhasam ākramya steyam āhuś chalena tu ||

12.1१२.१

तद् अपि त्रिविधं प्रोक्तं द्रव्यापेक्षं मनीषिभिः । (१२।१)

tad api trividhaṃ proktaṃ dravyāpekṣaṃ manīṣibhiḥ |

12.2१२.२

क्षुद्रमध्योत्तमानां तु द्रव्याणाम् अपकर्षणात् ॥ (१२।२)

kṣudramadhyottamānāṃ tu dravyāṇām apakarṣaṇāt ||

13.1१३.१

मृद्भाण्डासनखट्वास्थिदारुचर्मतृणादि यत् । (१३।१)

mṛdbhāṇḍāsanakhaṭvāsthidārucarmatṛṇādi yat |

13.2१३.२

शमीधान्यमुद्गादीनि क्षुद्रद्रव्यम् उदाहृतम् ॥ (१३।२)

śamīdhānyamudgādīni kṣudradravyam udāhṛtam ||

14.1१४.१

वासः कौशेयवर्जं च गोवर्जं पशवस् तथा । (१४।१)

vāsaḥ kauśeyavarjaṃ ca govarjaṃ paśavas tathā |

14.2१४.२

हिरण्यवर्जं लोहं च मध्यं व्रीहियवा अपि ॥ (१४।२)

hiraṇyavarjaṃ lohaṃ ca madhyaṃ vrīhiyavā api ||

15.1१५.१

हिरण्यरत्नकौशेयस्त्रीपुंगोगजवाजिनः । (१५।१)

hiraṇyaratnakauśeyastrīpuṃgogajavājinaḥ |

15.2१५.२

देवब्राह्मणराज्ञां च द्रव्यं विज्ञेयम् उत्तमम् ॥ (१५।२)

devabrāhmaṇarājñāṃ ca dravyaṃ vijñeyam uttamam ||

16.1१६.१

उपायैर् विविधैर् एषां छलयित्वापकर्षणम् । (१६।१)

upāyair vividhair eṣāṃ chalayitvāpakarṣaṇam |

16.2१६.२

सुप्तप्रमत्तमत्तेभ्यः स्तेयम् आहुर् मनीषिणः ॥ (१६।२)

suptapramattamattebhyaḥ steyam āhur manīṣiṇaḥ ||

17.1१७.१

सहोढग्रहणात् स्तेयं होढे ऽसत्य् उपभोगतः । (१७।१)

sahoḍhagrahaṇāt steyaṃ hoḍhe 'saty upabhogataḥ |

17.2१७.२

शङ्का त्व् असज्जनैकार्थ्याद् अनायव्ययतस् तथा ॥ (१७।२)

śaṅkā tv asajjanaikārthyād anāyavyayatas tathā ||

18.1१८.१

भक्तावकाशदातारः स्तेनानां ये प्रसर्पताम् । (१८।१)

bhaktāvakāśadātāraḥ stenānāṃ ye prasarpatām |

18.2१८.२

शक्ताश् च य उपेक्षन्ते ते ऽपि तद्दोषभागिनः ॥ (१८।२)

śaktāś ca ya upekṣante te 'pi taddoṣabhāginaḥ ||

19.1१९.१

उत्क्रोशतां जनानां च ह्रियमाणे धने ऽपि च । (१९।१)

utkrośatāṃ janānāṃ ca hriyamāṇe dhane 'pi ca |

19.2१९.२

श्रुत्वा ये नाभिधावन्ति ते ऽपि तद्दोषभागिनः ॥ (१९।२)

śrutvā ye nābhidhāvanti te 'pi taddoṣabhāginaḥ ||

20.1२०.१

साहसेषु य एवोक्तस् त्रिषु दण्डो मनीषिभिः । (२०।१)

sāhaseṣu ya evoktas triṣu daṇḍo manīṣibhiḥ |

20.2२०.२

स एव दण्डः स्तेये ऽपि द्रव्येषु त्रिष्व् अनुक्रमात् ॥ (२०।२)

sa eva daṇḍaḥ steye 'pi dravyeṣu triṣv anukramāt ||

21.1२१.१

गवादिषु प्रणष्टेषु द्रव्येष्व् अपहृतेषु वा । (२१।१)

gavādiṣu praṇaṣṭeṣu dravyeṣv apahṛteṣu vā |

21.2२१.२

पदेनान्वेषणं कुर्युर् आ मूलात् तद्विदो जनाः ॥ (२१।२)

padenānveṣaṇaṃ kuryur ā mūlāt tadvido janāḥ ||

22.1२२.१

ग्रामे व्रजे विवीते वा यत्र संनिपतेत् पदम् । (२२।१)

grāme vraje vivīte vā yatra saṃnipatet padam |

22.2२२.२

वोढव्यं तद् भवेत् तेन न चेत् सो ऽन्यत्र तन् नयेत् ॥ (२२।२)

voḍhavyaṃ tad bhavet tena na cet so 'nyatra tan nayet ||

23.1२३.१

पदे प्रमूढे भग्ने वा विषमत्वाज् जनान्तिके । (२३।१)

pade pramūḍhe bhagne vā viṣamatvāj janāntike |

23.2२३.२

यस् त्व् आसन्नतरो ग्रामो व्रजो वा तत्र पातयेत् ॥ (२३।२)

yas tv āsannataro grāmo vrajo vā tatra pātayet ||

24.1२४.१

समे ऽध्वनि द्वयोर् यत्र तेन प्रायो ऽशुचिर् जनः । (२४।१)

same 'dhvani dvayor yatra tena prāyo 'śucir janaḥ |

24.2२४.२

पूर्वापदानैर् दृष्टो वा संसृष्टो वा दुरात्मभिः ॥ (२४।२)

pūrvāpadānair dṛṣṭo vā saṃsṛṣṭo vā durātmabhiḥ ||

25.1२५.१

ग्रामेष्व् अन्वेषणं कुर्युश् चण्डालवधकादयः । (२५।१)

grāmeṣv anveṣaṇaṃ kuryuś caṇḍālavadhakādayaḥ |

25.2२५.२

रात्रिसंचारिणो ये च बहिः कुर्युर् बहिश्चराः ॥ (२५।२)

rātrisaṃcāriṇo ye ca bahiḥ kuryur bahiścarāḥ ||

26.1२६.१

स्तेनेष्व् अलभ्यमानेषु राजा दद्यात् स्वकाद् धनात् । (२६।१)

steneṣv alabhyamāneṣu rājā dadyāt svakād dhanāt |

26.2२६.२

उपेक्षमाणो ह्य् एनस्वी धर्माद् अर्थाच् च हीयते ॥ (२६।२)

upekṣamāṇo hy enasvī dharmād arthāc ca hīyate ||

Data courtesy of The Digital Corpus of Sanskrit.

NāSmṛ, 2, 14

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit