NāSmṛ, 2, 8
Select a line for its word-by-word analysis.
बुयिन्ग् अन्द् सेल्लिन्ग्विक्रीय पण्यं मूल्येन क्रेतुर् यन् न प्रदीयते । (१।१)
Buying and sellingvikrīya paṇyaṃ mūlyena kretur yan na pradīyate |
लोके ऽस्मिन् द्विविधं द्रव्यं जङ्गमं स्थावरं तथा । (२।१)
loke 'smin dvividhaṃ dravyaṃ jaṅgamaṃ sthāvaraṃ tathā |
क्रयविक्रयधर्मेषु सर्वं तत् पण्यम् उच्यते ॥ (२।२)
krayavikrayadharmeṣu sarvaṃ tat paṇyam ucyate ||
षड्विधस् तस्य तु बुधैर् दानादानविधिः स्मृतः । (३।१)
ṣaḍvidhas tasya tu budhair dānādānavidhiḥ smṛtaḥ |
विक्रीय पण्यं मूल्येन क्रेतुर् यो न प्रयच्छति । (४।१)
vikrīya paṇyaṃ mūlyena kretur yo na prayacchati |
स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफलम् ॥ (४।२)
sthāvarasya kṣayaṃ dāpyo jaṅgamasya kriyāphalam ||
स्थायिनाम् एष नियमो दिग्लाभो दिग्विचारिणाम् ॥ (५।२)
sthāyinām eṣa niyamo diglābho digvicāriṇām ||
विक्रेतुर् एव सो ऽनर्थो विक्रीयासम्प्रयच्छतः ॥ (६।२)
vikretur eva so 'nartho vikrīyāsamprayacchataḥ ||
निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति । (७।१)
nirdoṣaṃ darśayitvā tu sadoṣaṃ yaḥ prayacchati |
मूल्यं तद्द्विगुणं दाप्यो विनयं तावद् एव च ॥ (७।२)
mūlyaṃ taddviguṇaṃ dāpyo vinayaṃ tāvad eva ca ||
तथान्यहस्ते विक्रीय यो ऽन्यस्मै सम्प्रयच्छति । (८।१)
tathānyahaste vikrīya yo 'nyasmai samprayacchati |
सो ऽपि तद्द्विगुणं दाप्यो विनेयस् तावद् एव च ॥ (८।२)
so 'pi taddviguṇaṃ dāpyo vineyas tāvad eva ca ||
दीयमानं न गृह्णाति क्रीतं पण्यं च यः क्रयी । (९।१)
dīyamānaṃ na gṛhṇāti krītaṃ paṇyaṃ ca yaḥ krayī |
विक्रीणानस् तद् अन्यत्र विक्रेता नापराध्नुयात् ॥ (९।२)
vikrīṇānas tad anyatra vikretā nāparādhnuyāt ||
दत्तमूल्यस्य पण्यस्य विधिर् एष प्रकीर्तितः । (१०।१)
dattamūlyasya paṇyasya vidhir eṣa prakīrtitaḥ |
अदत्ते ऽन्यत्र समयान् न विक्रेतुर् अतिक्रमः ॥ (१०।२)
adatte 'nyatra samayān na vikretur atikramaḥ ||
लाभार्थे वणिजां सर्वपण्येषु क्रयविक्रयः । (११।१)
lābhārthe vaṇijāṃ sarvapaṇyeṣu krayavikrayaḥ |
स च लाभो ऽर्घम् आसाद्य महान् भवति वा न वा ॥ (११।२)
sa ca lābho 'rgham āsādya mahān bhavati vā na vā ||
तस्माद् देशे च काले च वणिग् अर्घं पराक्रमेत् । (१२।१)
tasmād deśe ca kāle ca vaṇig arghaṃ parākramet |
न जिह्मेन प्रवर्तेत श्रेयान् एवं वणिक्पथः ॥ (१२।२)
na jihmena pravarteta śreyān evaṃ vaṇikpathaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.