AgniPur, 11
Select a line for its word-by-word analysis.
राज्यस्थं राघवं जग्मुर् अगस्त्याद्याः सुपूजिताः । (१।२)
rājyasthaṃ rāghavaṃ jagmur agastyādyāḥ supūjitāḥ |
धन्यस्त्वं विजयी यस्माद् इन्द्रजिद्विनिपातितः ॥ (१।३)
dhanyastvaṃ vijayī yasmād indrajidvinipātitaḥ ||
ब्रह्मात्मजः पुलस्त्यो ऽभूत् विश्रवास्तस्य नैकषी । (२।१)
brahmātmajaḥ pulastyo 'bhūt viśravāstasya naikaṣī |
पुष्पोत्कटाभूत् प्रथमा तत्पुत्रो ऽभूद्धनेश्वरः ॥ (२।२)
puṣpotkaṭābhūt prathamā tatputro 'bhūddhaneśvaraḥ ||
कुम्भकर्णः सनिद्रो ऽभूद् धर्मिष्ठो ऽभूद्विभीषणः । (४।१)
kumbhakarṇaḥ sanidro 'bhūd dharmiṣṭho 'bhūdvibhīṣaṇaḥ |
इन्द्रं जित्वेन्द्रजिच्चाभूद् रावणादधिको बली । (५।१)
indraṃ jitvendrajiccābhūd rāvaṇādadhiko balī |
हतस्त्वया लक्ष्मणेन देवादेः क्षेममिच्छता ॥ (५।२)
hatastvayā lakṣmaṇena devādeḥ kṣemamicchatā ||
इत्युक्त्वा ते गता विप्रा अगस्त्याद्या नमस्कृताः । (६।१)
ityuktvā te gatā viprā agastyādyā namaskṛtāḥ |
देवप्रार्थितरामोक्तः शत्रुघ्नो लवणार्दनः ॥ (६।२)
devaprārthitarāmoktaḥ śatrughno lavaṇārdanaḥ ||
अभूत् पूर्मथुरा काचित् रामोक्तो भरतो ऽवधीत् । (७।१)
abhūt pūrmathurā kācit rāmokto bharato 'vadhīt |
कोटित्रयं च शैलूषपुत्राणां निशितैः शरैः ॥ (७।२)
koṭitrayaṃ ca śailūṣaputrāṇāṃ niśitaiḥ śaraiḥ ||
तक्षं च पुष्करं पुत्रं स्थापयित्वाथ देशयोः ॥ (८।२)
takṣaṃ ca puṣkaraṃ putraṃ sthāpayitvātha deśayoḥ ||
भरतो ऽगात् सशत्रुघ्नो राघवं पूजयन् स्थितः । (९।१)
bharato 'gāt saśatrughno rāghavaṃ pūjayan sthitaḥ |
रामो दुष्टान्निहत्याजौ शिष्टान् संपाल्य मानवः ॥ (९।२)
rāmo duṣṭānnihatyājau śiṣṭān saṃpālya mānavaḥ ||
पुत्रौ कुशलवौ जातौ वाल्मीकेराश्रमे वरौ । (१०।१)
putrau kuśalavau jātau vālmīkerāśrame varau |
लोकापवादात्त्यक्तायां ज्ञातौ सुचरितश्रवात् ॥ (१०।२)
lokāpavādāttyaktāyāṃ jñātau sucaritaśravāt ||
राज्ये ऽभिषिच्य ब्रह्माहम् अस्मीति ध्यानतत्परः । (११।१)
rājye 'bhiṣicya brahmāham asmīti dhyānatatparaḥ |
राज्यं कृत्वा क्रतून् कृत्वा स्वर्गं देवार्चितो ययौ । (१२।१)
rājyaṃ kṛtvā kratūn kṛtvā svargaṃ devārcito yayau |
वाल्मीकिर् नारदाच्छ्रुत्वा रामायणमकारयत् । (१३।२)
vālmīkir nāradācchrutvā rāmāyaṇamakārayat |
सविस्तरं यदेतच्च शृणुयात्स दिवं व्रजेत् ॥ (१३।३)
savistaraṃ yadetacca śṛṇuyātsa divaṃ vrajet ||
इत्य् आदिमहापुराणे आग्नेये रामायणे उत्तरकाण्डवर्णनं नाम एकादशो ऽध्यायः ॥ (१४।१)
ity ādimahāpurāṇe āgneye rāmāyaṇe uttarakāṇḍavarṇanaṃ nāma ekādaśo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.