AgniPur, 8
Select a line for its word-by-word analysis.
रामः पम्पासरो गत्वा शोचन् स शर्वरीं ततः । (१।२)
rāmaḥ pampāsaro gatvā śocan sa śarvarīṃ tataḥ |
तद्रिपुं वालिनं हत्वा भ्रातरं वैरकारिणम् । (३।१)
tadripuṃ vālinaṃ hatvā bhrātaraṃ vairakāriṇam |
किष्किन्धां कपिराज्यं च रुमां तारां समर्पयत् ॥ (३।२)
kiṣkindhāṃ kapirājyaṃ ca rumāṃ tārāṃ samarpayat ||
सीतां त्वं प्राश्यसे यद्वत् तथा राम करोमि ते ॥ (४।२)
sītāṃ tvaṃ prāśyase yadvat tathā rāma karomi te ||
तच् छ्रुत्वा माल्यवत्पृष्ठे चातुर्मास्यं चकार सः । (५।१)
tac chrutvā mālyavatpṛṣṭhe cāturmāsyaṃ cakāra saḥ |
किष्किन्धायां च सुग्रीवो यदा नायाति दर्शनं ॥ (५।२)
kiṣkindhāyāṃ ca sugrīvo yadā nāyāti darśanaṃ ||
तदाब्रवीत्तं रामोक्तं लक्ष्मणो व्रज राघवम् । (६।१)
tadābravīttaṃ rāmoktaṃ lakṣmaṇo vraja rāghavam |
सुग्रीव आह संसक्तो गतं कालं न बुद्धवान् ॥ (७।२)
sugrīva āha saṃsakto gataṃ kālaṃ na buddhavān ||
त्वन्मतात् प्रेषयिष्यामि विचिन्वन्तु च जानकीम् । (९।१)
tvanmatāt preṣayiṣyāmi vicinvantu ca jānakīm |
पूर्वादौ मासमायान्तु मासादूर्ध्वं निहन्मि तान् ॥ (९।२)
pūrvādau māsamāyāntu māsādūrdhvaṃ nihanmi tān ||
इत्युक्ता वानराः पूर्वपश्चिमोत्तरमार्गगाः । (१०।१)
ityuktā vānarāḥ pūrvapaścimottaramārgagāḥ |
जग्मू रामं ससुग्रीवम् अपश्यन्तस् तु जानकीम् ॥ (१०।२)
jagmū rāmaṃ sasugrīvam apaśyantas tu jānakīm ||
रामाङ्गुलीयं संगृह्य हनूमान् वानरैः सह । (११।१)
rāmāṅgulīyaṃ saṃgṛhya hanūmān vānaraiḥ saha |
मासाद् ऊर्ध्वं च विन्यस्ता अपश्यन्तस्तु जानकीम् । (१२।१)
māsād ūrdhvaṃ ca vinyastā apaśyantastu jānakīm |
सीतार्थे यो ऽत्यजत् प्राणान् रावणेन हतो रणे । (१३।१)
sītārthe yo 'tyajat prāṇān rāvaṇena hato raṇe |
तच् छ्रुत्वा प्राह सम्पातिर् विहाय कपिभक्षणं ॥ (१३।२)
tac chrutvā prāha sampātir vihāya kapibhakṣaṇaṃ ||
भ्रातासौ मे जटायुर्वै मयोड्डीनो ऽर्कमण्डलम् । (१४।१)
bhrātāsau me jaṭāyurvai mayoḍḍīno 'rkamaṇḍalam |
अर्कतापाद्रक्षितो ऽगात् दग्धपक्षो ऽहम् अभ्रगः ॥ (१४।२)
arkatāpādrakṣito 'gāt dagdhapakṣo 'ham abhragaḥ ||
रामवार्ताश्रवात् पक्षौ जातौ भूयो ऽथ जानकीम् । (१५।१)
rāmavārtāśravāt pakṣau jātau bhūyo 'tha jānakīm |
ज्ञात्वा रामं ससुग्रीवं वानराः कथयन्तु वै ॥ (१६।२)
jñātvā rāmaṃ sasugrīvaṃ vānarāḥ kathayantu vai ||
इत्य् आदिमहापुराणे आग्नेये रामायणे किष्किन्धाकाण्डवर्णनं नाम अष्टमो ऽध्यायः । (१७।१)
ity ādimahāpurāṇe āgneye rāmāyaṇe kiṣkindhākāṇḍavarṇanaṃ nāma aṣṭamo 'dhyāyaḥ |
Data courtesy of The Digital Corpus of Sanskrit.