AgniPur, 17
Select a line for its word-by-word analysis.
जगत्सर्गादिकान् क्रीडान् विष्णोर् वक्ष्ये ऽधुना शृणु । (१।२)
jagatsargādikān krīḍān viṣṇor vakṣye 'dhunā śṛṇu |
स्वर्गादिकृत् स सर्गादिः सृष्ट्यादिः सगुणो ऽगुणः ॥ (१।३)
svargādikṛt sa sargādiḥ sṛṣṭyādiḥ saguṇo 'guṇaḥ ||
ब्रह्माव्यक्तं सदाग्रे ऽभूत् न खं रात्रिदिनादिकं । (२।१)
brahmāvyaktaṃ sadāgre 'bhūt na khaṃ rātridinādikaṃ |
प्रकृतिं पुरुषं विष्णुः प्रविश्याक्षोभयत्ततः ॥ (२।२)
prakṛtiṃ puruṣaṃ viṣṇuḥ praviśyākṣobhayattataḥ ||
स्पर्शमात्रो ऽनिलस्तस्माद्रूपमात्रो ऽनलस्ततः ॥ (४।२)
sparśamātro 'nilastasmādrūpamātro 'nalastataḥ ||
ततः स्वयंभूर्भगवान् सिसृक्षुर्विविधाः प्रजाः ॥ (६।२)
tataḥ svayaṃbhūrbhagavān sisṛkṣurvividhāḥ prajāḥ ||
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः । (८।१)
ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ |
तस्मिन् जज्ञे स्वयं ब्रह्मा स्वयम्भूरिति नः श्रुतम् । (९।१)
tasmin jajñe svayaṃ brahmā svayambhūriti naḥ śrutam |
अप्सु पारिप्लवां पृथिवीं दिशश् च दशधा दधे । (११।१)
apsu pāriplavāṃ pṛthivīṃ diśaś ca daśadhā dadhe |
तत्र कालं मनो वाचं कामं क्रोधमथो रतिम् ॥ (११।२)
tatra kālaṃ mano vācaṃ kāmaṃ krodhamatho ratim ||
ससर्ज सृष्टिं तद्रूपां स्रष्टुमिच्छन् प्रजापतिः । (१२।१)
sasarja sṛṣṭiṃ tadrūpāṃ sraṣṭumicchan prajāpatiḥ |
विद्युतो ऽशनिमेघांश् च रोहितेन्द्रधनूंषि च ॥ (१२।२)
vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca ||
वयांसि च ससर्जादौ पर्जन्यं चाथ वक्त्रतः । (१३।१)
vayāṃsi ca sasarjādau parjanyaṃ cātha vaktrataḥ |
साध्यास्तैर् अयजन्देवान् भूतमुच्चावचं भुजात् । (१४।१)
sādhyāstair ayajandevān bhūtamuccāvacaṃ bhujāt |
सनत्कुमारं रुद्रं च ससर्ज क्रोधसम्भवम् ॥ (१४।२)
sanatkumāraṃ rudraṃ ca sasarja krodhasambhavam ||
मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम् । (१५।१)
marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum |
वसिष्ठं मानसाः सप्त ब्रह्माण इति निश्चिताः ॥ (१५।२)
vasiṣṭhaṃ mānasāḥ sapta brahmāṇa iti niścitāḥ ||
सप्तैते जनयन्ति स्म प्रजा रुद्राश् च सत्तम । (१६।१)
saptaite janayanti sma prajā rudrāś ca sattama |
द्विधा कृत्वात्मनो देहमर्धेन पुरुषो ऽभवत् ॥ (१६।२)
dvidhā kṛtvātmano dehamardhena puruṣo 'bhavat ||
अर्धेन नारी तस्यां स ब्रह्मा वै चासृजत् प्रजाः ॥ (१७।१)
ardhena nārī tasyāṃ sa brahmā vai cāsṛjat prajāḥ ||
इत्य् आदिमहापुराणे आग्नेये जगत्सर्गवर्णनं नाम सप्तदशो ऽध्यायः ॥ (१८।१)
ity ādimahāpurāṇe āgneye jagatsargavarṇanaṃ nāma saptadaśo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.